इत्य् एतानि स वाक्यानि हेतुमन्त्य् अर्थवन्ति च। श्रुत्वा नाधिजगौ राजा किं चिद् अन्यद् अतः परम्। युधिष्ठिर उवाच। अव्यक्तव्यक्ततत्त्वानां निश्चयं भरतर्षभ। भीष्म उवाच। वक्तुम् अर्हसि कौरव्य देवस्याजस्य या कृतिः। अत्राप्य् उदाहरन्तीमं संवादं गुरुशिष्ययोः। आसुरिर् उवाच। कपिलस्यासुरेश् चैव सर्वदुःखविमोक्षणम्। अव्यक्तव्यक्ततत्त्वानां निश्चयं बुद्धिनिश्चयम्। भगवन्न् अमितप्रज्ञ वक्तुम् अर्हसि मे ऽर्थतः। किं व्यक्तं किम् अव्यक्तं किं व्यक्ताव्यक्ततरम् । कति तत्त्वानि। किम् आद्यं मध्यमं च तत्त्वानां किम् अध्यात्मम् अधिभूतम् अधिदैवतं च ।। किं नु स्वर्गाप्ययं कति सर्गाः किं भूतं किं भविष्यं किं भव्यम् ।। किं ज्ञानं किं ज्ञेयं को ज्ञाता किं बुद्धं किम् अप्रतिबुद्धं किं। बुध्यमानम् ।। कति पर्वाणि कति स्रोतांसि कति कर्मयोनयः । किम् एकत्वं किं। नानात्वम् । किं सहवासविवासं किं विद्याविद्यम् । इति ।। कपिल उवाच। यद् भवान् आह किं व्यक्तं किम् अव्यक्तम् इत्य् अत्र ब्रूमः । अव्यक्तम् ।। अग्राह्यम् अतर्क्यम् अपरिमेयम् अव्यक्तम् । व्यक्तम् उपलक्ष्यते ।। यथर्तवो ऽमूर्तयस् तेषु पुष्पफलैर् व्यक्तिर् उपलक्ष्यते तद्वद् अव्यक्तं गुणैर् उपलक्ष्यते। प्राग्गतं प्रत्यग्गतम् ऊर्ध्वम् अधस् तिर्यक् च । सतश् चाननुग्राह्यत्वात्। साकृतिः ।। अव्यक्तस्य तमो रजः सत्त्वं तत् प्रधानं तत्त्वं परं क्षेत्रम् ।। सलिलम् अमृतम् अभयम् अव्यक्तम् अक्षरम् अजं जीवम् इत्य् एवमादीन्य् अव्यक्तनामानि। भवन्ति । एवम् आह ।। अव्यक्तं बीजधर्माणां महाग्राहम् अचेतनम्। तस्माद् एकगुणो जज्ञे तद् व्यक्तं तत्त्वम् ईश्वरः। तद् एतद् अव्यक्तम् । प्रसवधारणादानस्वभावम् आपो धारणे प्रजनने। आदाने गुणानां प्रकृतिः सदा पराप्रमत्तं तद् एकस्मिन् कार्यकारणे ।। **************। यद् अप्य् उक्तं किं व्यक्तम् इत्य् अत्र ब्रूमः । व्यक्तं नामासुरे यत् पूर्वम्। अव्यक्ताद् उत्पन्नम् ईश्वरम् अप्रतिबुद्धगुणस्थम् एतत् पुरुषसंज्ञकं महद् इत्य् उक्तं। बुद्धिर् इति च धृतिर् इति च । सत्ता स्मृतिर् मतिर् मेधा व्यवसायः। समाधिः प्राप्तिर् इत्य् एवमादीनि व्यक्तपर्यायनामानि वदन्ति ।। एवम् आह ।। महतः सिद्धिर् आयत्ता संशयश् च महान् यतः। पुत्रसर्गस्य दीप्त्यर्थम् औत्सुक्यं च परं तथा। तद् एवोर्ध्वस्रोतोभिमुखत्वाद् अप्रतिबुद्धत्वाच् चात्मनः प्रकरोत्य् अहंकारम्। अव्यक्ताव्यक्ततरम् ।। यद् अप्य् उक्तं किं व्यक्ताव्यक्ततरम् इत्य् अत्र ब्रूमः । व्यक्ताव्यक्ततरं। नाम तृतीयं पुरुषसंज्ञकम् ।। तद् एतयोर् उभयोर् विरिञ्चिवैरिञ्चयोर् एकैकश उत्पत्तिः । विरिञ्चो ऽभिमानिन्य्। अविवेक ईर्ष्या कामः क्रोधो लोभो दर्पो मोहो ममकारश्। चेत्य् एतान्य् अहंकारपर्यायनामानि भवन्ति । एवम् आह ।। अहं कर्तेत्य् अहंकर्ता ससृजे विश्वम् ईश्वरः। तृतीयम् एतं पुरुषम् अभिमानगुणं विदुः। अहंकाराद् युगपद् उत्पादयाम् आस पञ्च महाभूतानि शब्दस्पर्शरूपरसगन्धलक्षणानि ।। तान्य् एव बुद्ध्यन्त इति । एवम् आह ।। भूतसर्गम् अहंकाराद् यो विद्वान् अवबुध्यते। सो ऽभिमानम् अतिक्रम्य महान्तं प्रतितिष्ठते। भूतेषु चाप्य् अहंकारो असरूपस् तथोच्यते। पुनर् विषयहेत्वर्थे स मनःसंज्ञकः स्मृतः। विखराद् वैखरं युगपद् इन्द्रियैः सहोत्पादयति । श्रोत्रघ्राणचक्षुर्जिह्वात्वग्। इत्य् एतानि शब्दस्पर्शरूपरसगन्धान् अवबुध्यन्त। इति पञ्च बुद्धीन्द्रियाणि वदन्ति । एवम् आहुर् आचार्याः । वाग् घस्तौ। पादपायुर् आनन्दश् चेति पञ्च कर्मेन्द्रियाणि विशेषाः । आदित्यो ऽश्विनौ। नक्षत्राणीत्य् एतानीन्द्रियाणां पर्यायनामानि वदन्ति । एवम्। आह ।। अहंकारात् तथा भूतान्य् उत्पाद्य महदात्मनोः। वैखरत्वं ततो ज्ञात्वा वैखरो विषयात्मकः। विकारस्थम् अहंकारम् अवबुध्याथ मानवः। महद् ऐश्वर्यम् आप्नोति यावद् आचन्द्रतारकम्। कपिल उवाच। यद् अप्य् उक्तं कति तत्त्वानि भवन्तीति । तद् एतानि मया पूर्वशः। पूर्वोक्तानि । एवम् आह ।। तत्त्वान्य् एतान्य् अथोक्तानि यथावद् यो ऽनुबुध्यते। न स पापेन लिप्येत निर्मुक्तः सर्वसंकरात्। यद् अप्य् उक्तं किम् आद्यं मध्यमं च तत्त्वानाम् इत्य् अत्र ब्रूमः । एतद् आद्यं। मध्यमं चोक्तं बुद्ध्यादीनि त्रयोविंशतितत्त्वानि विशेषपर्यवसानानि। ज्ञातव्यानि भवन्तीत्य् एवम् आह । केनेत्य् अत्रोच्यते ।। देवदत्तयज्ञदत्तब्राह्मणक्षत्रियवैश्यशूद्रचण्डालपुल्कसादिर् एतानि। ज्ञातव्यानि बुद्ध्यादीनि विशेषपर्यवसानानि मन्तव्यानि प्रत्येतव्यान्य्। उक्तानि । एतद् आद्यं मध्यमं च । एतस्मात् तत्त्वानाम् उत्पत्तिर्। भवति अत्र प्रलीयन्ते । के चिद् आहुर् आचार्याः । अहम् इत्य् एवम् आत्मकं। शरीरसंघातं त्रिषु लोकेषु व्यक्तम् । अव्यक्तसूक्ष्माधिष्ठितम् एतद्। देवदत्तसंज्ञकम् । देहिनां योगदर्शनम् । अबुद्धपुरुषदर्शनानां तु। पञ्चविंशतितत्त्वानां बुद्ध्यमानाप्रतिबुद्धयोर् व्यतिरिक्तम् उपेक्षकं शुचि। व्यभ्रम् इत्य् आहुर् आचार्याः । एवं चाह ।। चतुर्विंशतितत्त्वज्ञस् त्व् अव्यक्ते प्रतितिष्ठति। पञ्चविंशतितत्त्वज्ञो ऽव्यक्तम् अप्य् अतितिष्ठति। कपिल उवाच। यद् अप्य् उक्तं किम् अध्यात्मम् अधिभूतम् अधिदैवतं चेत् यत्र ब्रूमः । अध्यात्मम्। अधिभूतम् अधिदैवतं चासुरे वक्ष्यामः । पादाव् अध्यात्मं गन्तव्यम्। अधिभूतं विष्णुर् अधिदैवतम् । पायुर् अध्यात्मं विसर्गो ऽधिभूतं मित्रो ऽधिदैवतम् ।। आनन्दो ऽध्यात्मम् अनुभवो ऽधिभूतं प्रजापतिर् अधिदैवतम् ।। हस्ताव् अध्यात्मं कर्तव्यम् अधिभूतम् इन्द्रो ऽधिदैवतम् ।। वाग् अध्यात्मं वक्तव्यम् अधिभूतम् अग्निर् अधिदैवतम् । घ्राणो ऽध्यात्मं। घ्रेयम् अधिभूतं भूमिर् अधिदैवतम् । श्रोत्रम् अध्यात्मं श्रोतव्यम् अधिभूतम्। आकाशम् अधिदैवतम् । चक्षुर् अध्यात्मं द्रष्टव्यम् अधिभूतं सूर्यो ऽधिदैवतम् ।। जिह्वाध्यात्मं रसो ऽधिभूतम् आपो ऽधिदैवतम् । त्वग् अध्यात्मं। स्प्रष्टव्यम् अधिभूतं वायुर् अधिदैवतम् । मनो ऽध्यात्मं मन्तव्यम्। अधिभूतं चन्द्रमा अधिदैवतम् । अहंकारो ऽध्यात्मम् अभिमानो ऽधिभूतं। विरिञ्चो ऽधिदैवतम् । बुद्धिर् अध्यात्मं बोद्धव्यम् अधिभूतं पुरुषो ऽधिदैवतम् ।। एतावद् अध्यात्मम् अधिभूतम् अधिदैवतं च सर्वत्र प्रत्येतव्यानीत्य्। आह ।। ब्राह्मणे नृपतौ कीटे श्वपाके शुनि हस्तिनि। पुत्तिकादंशमशके विहंगे च समं भवेत्। अव्यक्तपुरुषयोर् योगाद् बुद्धिर् उत्पद्यते ऽऽत्मनि। यया सर्वम् इदं व्याप्तं त्रैलोक्यं सचराचरम्। य एतत् त्रितयं वेत्ति शुद्धं चान्यद् उपेक्षकम्। विरजो वितमस्कं च निर्मलं शिवम् अव्ययम्। संदेहसंकरान् मुक्तो निरिन्द्रियम् अनीश्वरम्। निरङ्कुरम् अबीजं च शाश्वतं तद् अवाप्नुयात्। यद् अप्य् उक्तं किं नु सर्गाप्ययम् इति अत्र ब्रूमः । तद् यथा जरायुजाण्डजस्वेदजोद्भिज्जाश्। चत्वारो भूतग्रामाः कालाग्निनाहंकृतेनानेकशतसहस्रांशुना। दह्यमानाः पृथिवीम् अनुप्रलीयन्ते । तदात्तगन्धा। कूर्मपृष्ठनिभा पृथिवी अप्सु प्रलीयते । तद् उदकं सर्वम्। अभवत् । अग्निर् अप्य् आदत्ते तोयम् । तदाग्निभूतम् अभवत् । अग्निम् अप्य् आदत्ते। वायुः । स वायुर् ऊर्ध्वम् अधस् तिर्यक् च दोधवीति । तद् वायुर् भूतम्। अभवत् । वायुम् अप्य् आदत्ते व्योम । तद् आकाशम् एव निनादम् अभवत् ।। तद् आकाशं मनसि प्रलीयते । मनो ऽहंकारे ऽहंकारो महति। महान् अव्यक्ते तद् एतत् प्रलयम् ईहते । प्रलयान्तान् महाप्रलय इत्य् उच्यते ।। प्रणष्टसर्वस्वं तम एवाप्रतिमं भवति । अग्राह्यम् अच्छेद्यम्। अभेद्यम् अप्रतर्क्यम् अनाद्य् अचिन्त्यम् अनालम्बम् अस्थानम् अव्ययम् अजं शाश्वतम्। इति । एवम् आह ।। सर्गप्रलयम् एतावत् तत्त्वतो यो ऽवबुध्यते। उत्तीर्य सो ऽशिवाद् अस्माच् छिवम् आनन्त्यम् आप्नुयात्। कपिल उवाच। इति ।। यद् अप्य् उक्तम् आसुरे कति सर्गाणि प्राकृतवैकृतानि भवन्तीति ।। अत्र ब्रूमः । नव सर्गाणि प्राकृतवैकृतानि भवन्ति । अव्यक्तान् महद्। उत्पद्यते । तं विद्यासर्गं वदन्ति । महतश् चाहंकार उत्पद्यते ।। अहंकारात् पञ्चभूतसर्गः । भूतेभ्यो विकारः । यस्मात् कृत्स्नस्य जगतस्। तेजस् तद् एतत् प्रभवाप्ययम् । एवम् आह ।। उत्पत्तिं निधनं मध्यं भूतानाम् आत्मनश् च यः। वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति। यद् अप्य् उक्तं किं भूतं किं भव्यं किं भविष्यच् चेत्य् अत्र ब्रूमः ।। भूतं भव्यं भविष्यं चासुरे त्रैलोक्यं कालः । स महात्मा संप्रत्य् अतीतानागतानाम्। उत्पादकानाम् उत्पादकश् चानुग्राहकश् च तिरोभावकश् चेत्य्। एवम् आह ।। भूतभव्यभविष्याणां स्रष्टारं कालम् ईश्वरम्। यो ऽवबुध्यति तद्गामी स दुःखात् परिमुच्यते। कतरस्माद् दुःखात् । जन्मजरामरणाज्ञानबधिरान्धकुब्जहीनातिरिक्ताङ्गवधबन्धवैरूप्यचिन्ताव्याधिप्रभृतिभिर्। कपिल उवाच। अन्यैश् चानेकैर् इति ।। यद् अप्य् उक्तं किं ज्ञानम् इति अत्र ब्रूमः । ज्ञानं नामासुरे प्रज्ञा ।। सा बुद्धिर् यया बोद्धव्यम् अनुबुध्यते । किं पुनस् तद् बोद्धव्यम् इत्य् अत्रोच्यते ।। बोद्धव्यं नाम द्विविधम् इष्टानिष्टकृतम् । तद् यथा । इदं। धर्म्यम् इदम् अधर्म्यम् । इदं वाच्यम् इदम् अवाच्यम् । इदं कार्यम् इदम् अकार्यम् ।। इदं ग्राह्यम् इदम् अग्राह्यम् । इदं गम्यम् इदम् अगम्यम् । इदं। श्राव्यम् इदम् अश्राव्यम् । इदं दृश्यम् इदम् अदृश्यम् । इदं भक्ष्यम् इदम् अभक्ष्यम् ।। इदं भोज्यम् इदम् अभोज्यम् । इदं पेयम् इदम् अपेयम् । इदं। लेह्यम् इदम् अलेह्यम् । इदं चोष्यम् इदम् अचोष्यम् ।। कुतश् चैतान्य् अवतिष्ठन्ते । क्व वा प्रलीयन्ते । कस्य वैतानि । कस्य। वा नैतानि । तत्रोच्यते । अव्यक्ताद् एतान्य् अवतिष्ठन्ते । अव्यक्तम् एव। प्रलीयन्ते । अव्यक्तस्यैतानि नैतानि पुरुषस्येत्य् अत्राह । यद्य् अव्यक्ताद्। एतान्य् अवतिष्ठन्ते ऽव्यक्तम् एवाभिप्रलीयन्ते ।। केन खल्व् इदानीं कारणेनेष्टानिष्टकृतैर् द्वंद्वैर् अवबुध्यते। क्षेत्रज्ञः । कस्माद् अभिमन्यते ममैतानि द्वंद्वानि । अहम् एतेषां मत्तश् चैतान्य्। अवतिष्ठन्ते मय्य् एवाभिप्रलीयन्त इत्य् एवम् आह ।। प्रवर्तमानान् प्रकृतेर् इमान् गुणांस्। तमोवृतो ऽयं विपरीतदर्शनः। अहं करोमीत्य् अबुधो ऽभिमन्यते। तृणस्य कुब्जीकरणे ऽप्य् अनीश्वरः। यदा त्व् अयम् अभिमन्यते । अव्यक्ताद् एतान्य् अवतिष्ठन्ते । अव्यक्तम्। एवाभिप्रलीयन्ते अव्यक्तस्यैतानि नैतानि ममेति । तदास्य। विज्ञानाभिसंबन्धाद् विवासो भवति । एवम् आह ।। सेतुर् इव भवेत् प्रकृतिर् जलम् इव गुणा मत्स्यवत् क्षेत्री। तस्मिन् स्वभावलुलिते जले प्रवृत्ते चरति मत्स्यः। एवं स्वभावयोगात् सृजति गुणान् प्रकृतिर् इत्य् अभिमतम् । न सो ऽज्ञेषु। प्रविचरति क्षेत्रज्ञो ज्ञः परः प्रकृतेर् इति ।। यद् अप्य् उक्तं किं ज्ञेयम् इति । अत्र ब्रूमः । ज्ञेयं नामासुरे पुरुषः। पञ्चविंशतितत्त्वानि भवन्ति एवम् आह ।। अव्यक्तं बुद्ध्यहंकारौ महाभूतानि पञ्च च। विशेषान् पञ्च चैवाहुर् दशैकं च प्रकाशकान्। एकादशेन्द्रियाण्य् एव एतावज् ज्ञेयसंज्ञितम्। पञ्च पञ्च हि वर्गाणि विज्ञेयान्य् एव तत्त्वतः। पञ्चविंशतितत्त्वानि विदित्वैतानि तत्त्वतः। विशुद्धः पुरुषश् चास्माद् वर्गहीनो न शोचति। पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः। त्रयस् त्रिवर्गान् यो वेद शुद्धात्मनि स लीयते। के ते त्रयस् त्रिवर्गा इत्य् अत्र ब्रूमः । सत्त्वं रजस् तम इति प्रथमः ।। उत्पादको ऽनुग्राह्यकस् तिरोभावक इति द्वितीयः । बुद्धो ऽप्रतिबुद्धो। बुध्यमान इति तृतीयः । एवम् एते त्रयस् त्रिवर्गा भवन्ति ।। एवम् आह ।। त्रयस् त्रिवर्गान् विज्ञाय याथातथ्येन मानवः। कर्मणा मनसा वाचा प्रविमुक्तो न शोचति। कार्यं कारणं कर्तृत्वम् इति त्रिवर्गगुणाः । के गुणा गुणमात्रा। गुणलक्षणं गुणावयवम् । सत्त्वं रजस् तम इति गुणाः । तत्र। तत्त्वदर्शनता भयनाशः स्वस्थभावता प्रसन्नेन्द्रियता सुखस्वप्नप्रतिबोधनम्। इति सत्त्वमात्राः । रागिता मत्सरिता साहसिकता। परितापितारिष्टस्वप्नप्रतिबोधनतेति रजोमात्राः । मूढता निद्रावेशिता। धर्मद्वेषिताकार्येष्व् अतिप्रमोदिता स्मृतिनाशश् चेति। तमोमात्राः । गुणवृत्तम् इत्य् उपास्य सर्वभूतमध्यस्थस् तमसाभिभूतः। स्वपिति । सत्त्वविशुद्धो ऽवबुध्यते । स्वप्नप्रतिबोधनान्तरं रज। कपिल उवाच। इत्य् अवयवान् । य एवं विन्दते प्राज्ञः सर्वतो विमुच्यत इति ।। यद् अप्य् उक्तं को ज्ञातेति अत्र ब्रूमः । ज्ञाता नामासुरे क्षेत्रज्ञो। द्रष्टा शुचिर् उपेक्षको ज्ञानत्रिको बुध्यमानाप्रतिबुद्धयोः। परः । तं विदित्वा निरवयवम् अनामयम् अस्माद् दुःखाद् विमुच्यत इत्य् एवम्। आह ।। पञ्चविंशतितत्त्वाद् धि निष्कलं शुचिम् अव्रणम्। न शोचति नरो ज्ञात्वा सांख्यश्रुतिनिदर्शनात्। यद् अप्य् उक्तं किम् अप्रतिबुद्धं किं बुध्यमानं चेति । अत्र। ब्रूमः । अप्रतिबुद्धं नामासुरे अव्यक्तम् । बुध्यमानं बुद्धिस्थम् ।। परम् एताभ्याम् अन्यद् उपेक्षकं शुचिज्ञं व्यभ्रम् इत्य् एवम् आह ।। बुध्यमानाप्रतिबुद्धाभ्यां बुद्धस्य च निरात्मनः। पारावर्यं विदित्वा तु ज्ञानसाफल्यम् आप्नुयात्। ये त्व् एवं नाम बुध्येरन् यथाशास्त्रनिदर्शनात्। कपिल उवाच। त्रितयं तेष्व् असाफल्यं शास्त्रस्याभवद् आसुरे। यद् अप्य् उक्तं कति पर्वाणि भवन्तीति अत्रोच्यते । पञ्च पर्वाणि। तमो मोहो महामोहस् तामिस्रो ऽन्धतामिस्र इति । तम इत्य् अज्ञानम्। एवाधिकुरुते । मोह इत्य् आलस्यम् एवाधिकुरुते । महामोह इति। कामम् एवाधिकुरुते । कस्मात् । महताम् अप्य् अत्र देवदानवमहर्षीणां। महान् मोहो भवतीति । तामिस्र इति क्रोधम् एवाधिकुरुते ।। अन्धतामिस्र इति विषादम् एवाधिकुरुते । विषादश् च मृत्युः ।। स चाप्रतिबुद्धस्य भवति । कस्मात् । यत् सत्त्वस्थो ऽहम् इति पश्यन्। मोहात् स सत्त्वविनाशे नित्यस्य क्षेत्रज्ञस्य विनाशम् अनुपश्यति । यत्रैककालम्। अन्धतामिस्रं विषादम् एवार्छति । अहं मरिष्यामि। अहम् अमृतो ऽनित्यत्वाद् अज्ञानत्वाच् च । मरणजननत्वे स्वशरीरसंस्थिते। परशरीरसंज्ञिते चाभिष्वजते । अहं तव मम त्वं माता मम मातुर्। अहं पुत्रो मम पितुर् अहम् इत्य् एवमादिषु स्नेहायतनेष्व् अभिधत्ते । सततं। दुःखानुबद्धस् तासु तासु योन्यवस्थास्व् अभिषिच्यमानो मम सुखं। मम दुःखम् इत्य् एवमादिभिः सर्वद्वंद्वैर् अभ्याहतो ऽहंकारस्पृष्टो। मात्सर्यकामक्रोधलोभमोहमानदर्पमदाविष्टस् तृष्णार्तश् च । इन्द्रियानुकूलतो। ऽतिकृच्छ्रत्वान् नियतमानसः शुभाशुभम् एव कर्म कुर्वन् स्थावरनिरयतिर्यग्योनिष्व्। एवोपपद्यते वर्षसहस्रकोटिशतान्य् अनन्तान्य् एको ऽनवबोधात् ।। एवं ह्य् आह ।। पर्वाणि पर्वाणि घोराणि यो ऽविद्वान् नावबुध्यते। स बध्यते मृत्युपाशैर् हर्षशोकसमन्वितः। बुध्यमानो ह्य् अदीनात्मा विदितार्थस् तु तत्त्वतः। विमुच्यते मृत्युपाशैर् विद्यया गतनिश्चयः। इति ।। यद् अप्य् उक्तं कति स्रोतांसि भवन्तीति । अत्र ब्रूमः ।। पञ्च स्रोतांसि भवन्ति । मुख्यस्रोतस् तिर्यक्स्रोत उर्ध्वस्रोतो ऽर्वाकस्रोतो। कपिल उवाच। ऽनुग्रहस्रोतश् चेति ।। यद् अप्य् उक्तं कति कर्मयोनयो भवन्तीति । अत्र ब्रूमः । पञ्च कर्मयोनयो। भवन्ति धृतिः श्रद्धा सुखा विविदिषाविविदिषा चेति ।। तत्र धृतिर् नाम कर्मयोनिः । धृतिं यो ऽनुरक्षति त्रिविधेन। कर्मणा वाङ्मनःकायसमुत्थेनेति । एवम् आह ।। वाचि कर्मणि संकल्पे प्रतिज्ञां यो ऽनुरक्षति। तन्निष्ठस् तत्प्रतिज्ञश् च धृतेर् एतत् स्वलक्षणम्। श्रद्धा नाम कर्मयोनिः । श्रद्धां यस् त्व् अनुतिष्ठते सो ऽनसूयादमादिभिः। विज्ञानसंयोगब्रह्मचर्यगुरुकुलनिवासगृहस्थवानप्रस्थदानाध्ययनप्रतिग्रहमन्त्रादिभिर्। नक्षत्रनियमैः श्रेयः प्राप्स्यामीत्य्। एवम् अनुष्ठानं कुरुत इति । एवम् आह ।। ब्रह्मचर्यानसूये च दानम् अध्ययनं तपः। यजनं याजनं चैव श्रद्धाया लक्षणं स्मृतम्। सुखं नाम कर्मयोनिः । यः सुखकामो भवति प्रायश्चित्तपरः। परेण यत्नेनानुतिष्ठति । तद् यथा सत्यं काममन्युविषयगोब्राह्मणकर्म ।। अनुलोमानाम् अपि प्रोक्ता सावित्रीत्य् अन्याश् च विद्या। बह्व्यो ब्रह्मलोकं प्रापयन्तीति । एवम् आह ।। कर्मविद्यातपोभिस् तु यो यत्नम् अनुतिष्ठति। प्रायश्चित्तं तपश् चैव तत् सुखायास्तु लक्षणम्। विविदिषा नाम कर्मयोनिः । सर्वं ज्ञातुकामता । आगमांश् च। कुरुते श्रुतिविशेषाकाङ्क्षी क्व संज्ञा क्व वासंज्ञेति । एवम् आह ।। सर्वम् एतत् परिज्ञाय कर्म ह्य् आरभते तु यः। सैषा विविदिषा नाम कर्मयोनिर् अनुष्ठिता। अविविदिषा नाम कर्मयोनिः । सर्वम् एवाज्ञातुकामता। सर्वकर्मभ्यो निवर्तनम् इति । एवम् आह ।। सर्वम् एतत् परिज्ञाय कर्मभ्यो यो निवर्तते। सैषाविविदिषा नाम कर्मयोनिर् अनुष्ठिता। यद् अप्य् उक्तं किम् एकत्वं किं नानात्वम् इति । अत्र ब्रूमः । एकत्वं। नामासुरे यद् अयं सत्त्वम् अभिष्वजते क्षेत्रज्ञः व्यक्तं चाव्यक्तं। चाप्रतिबुद्धत्त्वात् तद् एकत्वम् अपदिश्यते । नानात्वं नाम यद् अयं सत्त्वाद् अव्यक्ताच्। च स्मृतः समावर्तयते । एतन् नानात्वम् अपदिश्यते प्रतिबुद्धत्वात् ।। एवम् एषां भौतिकाहंकारिकमाहात्मिकाव्यक्तीनां चतुर्णां। पुरुषाणां सत्त्वेनैकत्वं भवति नानात्वं चेति । एवम् आह ।। नानात्वैकत्वम् एतावद् यो न विन्दत्य् अबुद्धिमान्। स बध्यते सर्वबन्धैर् असंबन्धाद् विमुच्यते। यद् अप्य् उक्तं किं सहवासविवासम् इति । अत्र ब्रूमः । सहवासं। नामासुरे यद् अयं सत्त्वम् अभिषजते क्षेत्रज्ञो ऽव्यक्तं चाप्रतिबुद्धत्वाद्। एतत् सहवासम् इत्य् अपदिश्यते । विवासं नाम यद् अयं सत्त्वाद् अव्यक्ताच् च। वासं प्रतिसमावर्तयते प्रतिबुद्धत्वाद् एतद् विवासम् अपदिश्यते ।। एवम् अप्रतिबुद्धानां विषयाभिषङ्गिणाम् एषां भौतिकाहंकारिकमाहात्मिकाव्यक्तिकानां। चतुर्णां पुरुषाणां सत्त्वेन सहवासविवासम्। अन्यत्वात् । एवं चाह ।। विवासं सहवासं च यो विद्वान् नावबुध्यते। स बद्धः सत्त्वसंवासैः संसारान् न प्रमुच्यते। इति ।। कपिल उवाच। यद् अप्य् उक्तं किं विद्याविद्येति । अत्र ब्रूमः । अविद्या नामासुरे। भवत्य् एषा इष्टानिष्टाव्यतिरिक्ता त्रयी पुनर्भाविकी । विद्या नामासुरे। भवतीष्टानिष्टव्यतिरिक्तान्वीक्षिक्य् अपुनर्भाविकी । सर्वभूताभयंकरी। सर्वलोकेष्व् आलोकनाय सर्वज्ञानावबोधनाभ्युद्यता। सर्वदुःखनिर्मोक्षायोपदिष्टेत्य् आचार्यम् अभिगम्य याथातथ्यदर्शनान् न। भवति । एवम् आह ।। ऊर्ध्वं चावाक् च तिर्यक् च न क्व चित् कामयेद् बुधः। न हि ज्ञानेन चाज्ञाने शर्म विन्दति मानुषः। मानुषत्वाच् च देवत्वं देवत्वाच् च मनुष्यताम्। स तु संधावते ऽजस्रम् अविद्यावशम् आगतः। यस् त्व् अविद्याम् अधः कृत्वा विद्यार्थम् अवबुध्य च। नाभिनन्दति न द्वेष्टि विद्याविद्ये स बुद्धिमान्। पारावर्ये सुखं ज्ञात्वा विदित्वा च परं बुधः। मुच्यते देहसंतानाद् देहाच् चामृतम् आप्नुयात्। आसुरिर् उवाच। इति ।। भगवन् किं कुशलाकुशलं वर्गावर्गं किं कृत्स्नक्षयं किं शुद्धाशुद्धं। किं नित्यानित्यं किं केवलाकेवलं किं परात् परं किं पश्यापश्यं। किं शाश्वताशाश्वतं किं व्यतिरिक्ताव्यतिरिक्तं किं योगायोगम् इत्य् अत्र। संदेहो मे भवत्य् अप्रत्यक्षत्वात् । प्रत्यक्षं चैतद् भगवतः ।। तद् अनुभाषितुम् अर्हति भगवान् मदनुग्रहाय धर्मेण । इति ।। कपिल उवाच। यद् उक्तम् आसुरे किं कुशलाकुशलम् इति । अत्र ब्रूमः । कुशलं। नाम सर्वेषु वेदेषु सर्वेषु शास्त्रेषु सर्वासु विद्यास्व् अधिगतयाथातथ्यत्वम् ।। अकुशलं नाम सर्वेषाम् अनधिगतयाथातथ्यत्वम् ।। तद् एतत् कुशलाकुशलं कर्म सत्त्वम् आहुः । सत्त्वमूले खल्व् एते। कुशलाकुशले सत्त्वभूते सत्त्व एव प्रलयं गच्छतः । सत्त्वं। चैवाविशेषस् त्यजति । तन्मूलं चैतत् कुशलाकुशलम् अशेषतः सत्त्वम्। इति । एवम् आह ।। कायेन त्रिविधं कर्म वाचा चैव चतुर्विधम्। मनसा त्रिविधं चैव कुशलाकुशलं स्मृतम्। यद् अप्य् उक्तं किं वर्गावर्गम् इति । अत्र ब्रूमः । वर्गं नामासुरे। पुरुषः पञ्चविंशतितत्त्वानि भवन्ति । अव्यक्तं महान् अहंकारः पञ्च। महाभूतानि पञ्च विशेषा एकादशेन्द्रियाणि । तद् वर्गम् । एतस्माद्। वर्गाद् अपवर्ग उपवृत्तः क्षेत्रज्ञः शुचिर् उपेक्षको बुध्यमानाप्रतिबुद्धयोः। परस्तात् । एवम् आह ।। पञ्चविंशात् परं व्यक्तम् अहंकारस् ततः परः। अहंकारात् परा बुद्धिर् बुद्धेर् आत्मा महान् परः। महतः परम् अव्यक्तम् अव्यक्तात् पुरुषः परः। परावरज्ञस् तत्त्वानां प्राप्नोत्य् अजम् अनुत्तमम्। इति ।। कपिल उवाच। यद् अप्य् उक्तं किं कृत्स्नक्षयम् इति । अत्र ब्रूमः । कृत्स्नक्षयं नामासुरे। पुरुषः पञ्चविंशतितत्त्वानि भवन्ति । अव्यक्तं महान् बुद्धिर् अहंकारः। पञ्च महाभूतानि पञ्च विशेषा एकादशेन्द्रियाणि पुरुषेण ज्ञातव्यानि। भवन्ति । स्वतस् तस्मात् तत्त्वानि । नाहम् एतेषां नैतानि मत्तः। सर्वतः सर्वाणीति । एवम् आह ।। सम्यग्दर्शनसंपन्नः कृत्स्नक्षयम् अवाप्नुयात्। कृत्स्नक्षयं न चाप्नोति असम्यग्दर्शने रतः। यद् अप्य् उक्तं किं शुद्धाशुद्धम् इति । अत्र ब्रूमः । शुद्धं नामासुरे। क्षेत्रज्ञो द्रष्टा साक्षिमात्रको बुध्यमानाप्रतिबुद्धयोः परो यः। पञ्चविंशतितत्त्वज्ञः । यथा मन्तव्यं तथा मन्यते यथा। बोद्धव्यं तथा बुध्यते यथा वक्तव्यं तथा ब्रवीति यथा कर्तव्यं। तथा करोत्य् अहंकाराप्रतिबुद्धत्वात् । बुधेन क्षेत्रज्ञेन सर्वं दृष्टं। सर्वागमाः सर्वद्वंद्वानि सर्वज्ञानानि तपश् चातपश् च शुद्धश् चाशुद्धश् च ।। अनेन मार्गेण क्षेत्रज्ञस्याशुद्धधर्मिणः शुद्धिम् ऋच्छति । अमार्गेण। ज्ञानदृष्टान्तागमप्रामाण्यात् सुविपुलम् अपि तपस् तप्त्वा। संसार एव मज्जत्य् अप्रतिबुद्धत्वात् । एवम् आह ।। सुशुद्धं पुरुषं दृष्ट्वाप्य् अशुद्धम् इति मन्यते। स तपो विपुलं प्राप्य संसारे प्रतितिष्ठति। कपिल उवाच। इति ।। यद् अप्य् उक्तं किं नित्यानित्यम् इति । अत्र ब्रूमः । नित्यं। नामासुरे ऽव्यक्तम् । अनित्या विकाराः । अव्यक्तम् अनित्यं प्रवदन्ति। सर्गप्रलयधर्मित्वाद् विकाराणाम् । तथैवाधिष्ठातारम् अनित्यं प्रवदन्ति। अधिष्ठानकर्तृत्वाद् विकाराणाम् । अनेनैव हेतुना एवम् एतयोर् उभयोर्। नित्यत्वान् नित्यः क्षेत्रज्ञ इत्य् एवम् आह ।। बुध्यमानाप्रतिबुद्धाभ्यां बुद्धस्य च निरात्मनः। नित्यानित्यं विदित्वा तु न जन्म पुनर् आप्नुयात्। यद् अप्य् उक्तं किं केवलाकेवलम् इति । अत्र ब्रूमः । केवलं नामासुरे। परं क्षेत्रज्ञो ऽप्रकृतिर् अविकारः । प्रकृतिविकारगुणाधिष्ठितत्वाद् अकेवलं। बुद्धिस्थं बुध्यमानं पुरुषम् आचार्याः । यदि ह्य् एष बुध्येत नाहम् एतेषां। प्रकृतिविकाराणाम् इति केवलश् च स्याद् अन्यश् च। स्यात् । यदा त्व् एष प्रकृतिविकारान् अधितिष्ठमानो ऽभिमन्यते ममैते। प्रकृतिविकारा अहम् एतेषाम् इति तदैष प्रकृतिविकाराणाम् अधिष्ठितत्वाद्। अकेवलः स्यात् । एवम् आह ।। बुध्यमानो यदा बुद्ध्या विकारान् अधितिष्ठति। तदा सह गुणैर् एष सर्गप्रलयभाग् भवेत्। यदा त्व् एष विकाराणाम् अन्यो ऽहम् इति मन्यते। तदा विकारान् उत्क्रम्य परम् अव्यक्तम् आप्नुयात्। कपिल उवाच। इति ।। यद् अप्य् उक्तं किं परात् परम् इति । अत्र ब्रूमः । परात् परं नामासुरे। कर्मेन्द्रियेभ्यः परं बुद्धीन्द्रियं बुद्धीन्द्रियेभ्यो मनो मनसो। विशेषा विशेषेभ्यो महाभूतानि महाभूतेभ्यो ऽहंकारो ऽहंकाराद्। बुद्धिर् बुद्धेर् महान् महतश् चाव्यक्तम् । तद् एतद् आसुरे परात् परं भवति ।। अपरम् एतत् । परम् एतेभ्यो ऽन्यः क्षेत्रज्ञस् त्व् असर्गप्रलयधर्मा । असर्गप्रलयधर्मिणाव्। अबुद्धबुध्यमानाव् अव्यक्तपुरुषौ । न त्व् एतावद् बुध्यमानाप्रतिबुद्धत्वाद्। बुद्धः । एवम् आह ।। बुध्यमानाप्रतिबुद्धाभ्यां बुद्धस्य च निरात्मनः। परापरं विदित्वा तु न जन्म पुनर् आप्नुयात्। एवम् एताभ्यां बुध्यमानाप्रतिबुद्धाभ्याम् अन्यं बुद्धं बुद्ध्वा न शोचतीति ।। कपिल उवाच। ++++। यद् अप्य् उक्तं किं पश्यापश्यम् इति । अत्र ब्रूमः । अनादिनिधनाद्। ग्राह्यत्वाद् आसुरे शाश्वतम् अव्यक्तम् । प्रसवधारणादानगुणस्वभावत्वाद्। अशाश्वतम् । अन्ये चाचार्यास् तथैवाधिष्ठातारम् अनेनैव। हेतुना शाश्वतं च वर्णयन्ति । शाश्वतस् तु भगवान् क्षेत्रज्ञो बीजधर्मा। प्रकृतिविकारयोर् व्यतिरिक्तः शुद्धधर्मा मुक्तधर्मा चेति । एवम् आह ।। पश्यः पश्यति पश्यन्तम् अपश्यन्तं च पश्यति। अपश्यस् ताव् अपश्यत्वात् पश्यापश्यौ न पश्यति। इति ।। यद् अप्य् उक्तं किं व्यतिरिक्तम् इति । अत्र ब्रूमः । व्यतिरिक्तं नामासुरे। पुरुषः पञ्चविंशकः क्षेत्रज्ञः । यथा पुष्करपर्णस्थो बिन्दुर् न श्लेषम्। उपगच्छन्त्य् अन्यत्वात् तथा क्षेत्रं क्षेत्रज्ञः । यथा मुञ्जाद्। इषीका निकृष्टा न पुनर् आविशति अन्यत्वात् तथा क्षेत्रं क्षेत्रज्ञः ।। यथोदके प्रवर्तमाने मत्स्यो न प्रवर्तते ऽन्यत्वात् तथा क्षेत्रं क्षेत्रज्ञः ।। यथोदुम्बरे मशको भिन्न उदुम्बरे न पुनर् अभिष्वजते ऽन्यत्वात् तथा। क्षेत्रं क्षेत्रज्ञः । यथा कूलाद् वृक्षः पतंस् तत् कूलं मुञ्चत्य् अन्यत्वात् तथा। क्षेत्रं क्षेत्रज्ञः । यथा वृक्षाद् वा शकुनिर् उत्पतन् स तं वृक्षम्। उत्सृजत्य् अन्यत्वात् तथा क्षेत्रं क्षेत्रज्ञः । कस्माद् अन्यत्वात् । सर्वेषाम् एवम्। अन्यत्वम् । कूलम् अन्यद् वृक्षो ऽन्यः । मशको ऽन्यो ऽन्यद् उदुम्बरम् ।। अन्यो मत्स्यो ऽन्यद् उदकम् । मुञ्जम् अन्यद् अन्येषीका । अन्यद् उदकम् अन्यत्। पुष्करपर्णम् । तथान्यत् क्षेत्रं क्षेत्रज्ञो ऽन्यः पुरुषः पञ्चविंशकः ।। कपिल उवाच। अन्यश् चास्मात् क्षेत्रज्ञ इति ।। यद् अप्य् उक्तं किं वियोगावियोगम् इति । अत्र ब्रूमः । अवियोगो। नामासुरे विषयविषयिणौ प्रति विश्लेषो न भवत्य् अप्रतिबुद्धत्वात् ।। वियोगो नामासुरे पुरुषः पञ्चविंशतीनां तत्त्वानाम् असंसक्तो नाहम्। एतेषाम् अन्ये चैते ममेत्य् अनभिमन्यमानो वियोगी भवति ।। पञ्चविंशतितत्त्वज्ञः परात्मा भवते ऽमृतः। कपिल उवाच। स मुक्तस् तत्त्वसंतानात् परेण समतां व्रजेत्। एवम् एतद् आसुरे परं पुरुषाद् अन्यद् व्यक्तम् अबुद्धं बुध्यमानो ऽभिमन्यते ।। नानाभावात् क्षेत्रधर्माव्यक्तम् अक्षेत्रधर्मा क्षेत्रज्ञः । बीजधर्माव्यक्तम् अबीजधर्मा। क्षेत्रज्ञः । सर्गधर्माव्यक्तम् असर्गधर्मा क्षेत्रज्ञः । प्रकृतिधर्माव्यक्तम्। अप्रकृतिधर्मा क्षेत्रज्ञः । गुणधर्माव्यक्तम् अगुणधर्मा। क्षेत्रज्ञः । अविमलधर्माव्यक्तं विमलधर्मा क्षेत्रज्ञः । अबुद्धिधर्माव्यक्तं। बुद्धिधर्मा क्षेत्रज्ञः । अशुचिधर्माव्यक्तं शुचिधर्मा क्षेत्रज्ञः ।। अमुक्तधर्माव्यक्तं मुक्तधर्मा क्षेत्रज्ञः । अविविक्तधर्माव्यक्तं विविक्तधर्मा। क्षेत्रज्ञः । अकुशलधर्माव्यक्तं कुशलधर्मा क्षेत्रज्ञः । अपश्यधर्माव्यक्तं। पश्यधर्मा क्षेत्रज्ञः । अचेतनधर्माव्यक्तं चेतनधर्मा। क्षेत्रज्ञः । अवियोगधर्माव्यक्तं वियोगधर्मा क्षेत्रज्ञः । अविमोक्षधर्माव्यक्तं। विमोक्षधर्मा क्षेत्रज्ञः । किं च भूयो द्रष्टा क्षेत्रज्ञो। द्रष्टव्यम् अव्यक्तम् । श्रोता क्षेत्रज्ञः श्रोतव्यम् अव्यक्तम् । मन्ता। क्षेत्रज्ञो मन्तव्यम् अव्यक्तम् । बोद्धा क्षेत्रज्ञो बोद्धव्यम् अव्यक्तम् ।। एवम् एवासुरे अन्यद् अव्यक्तम् अन्यः पुरुषः पञ्चविंशतितत्त्वम्। कपिल उवाच। अन्यद् अन्यो ऽस्मात् क्षेत्रज्ञ इति ।। एवम् एतद् आसुरे बुद्ध्या बुद्ध्वा निर्द्वंद्वं निर्नमस्कारम् अस्वाहाकारस्वधाकारम्। अनहंकारं क्षेत्रज्ञं शुद्धं निर्द्वंद्वेन निर्द्वितीयेन शुद्धेनालुब्धकेनाहिंसकेन। यथालब्धोपजीविनाप्य् अपगतकामक्रोधलोभमोहमानदर्पेणात्मवता। सर्वभूतदर्शनेन सम्यग्दृष्टिना यतात्मना। शान्तेन दान्तेन शून्यागारनदीपुलिनवृक्षमूलवृक्षकोटरबुसागारावसथगृहानित्येन। यात्रामात्रभोजनाच्छादनेन यत्र क्व चन। शायिना भिक्षुणा स्वकार्यम् अनुष्ठातव्यम् । प्रतिभाव्यम् उपसर्गं जित्वा। योगेन योगकार्यम् अनुष्ठेयम् । तद् द्विविधं ध्यानम् । तद् यथा प्राणायामात्मकं। चतुर्विधं सगुणप्राणायामात्मकं च मानसम् अगुणम् ।। तद् यथा श्रोत्रं श्राव्येभ्यः प्रतिसमावर्तयति घ्राणं घ्रेयेभ्यश्। चक्षू रूपेभ्यस् त्वचं स्पर्शेभ्यो जिह्वां रसेभ्यो मनो मन्तव्येभ्यो। ऽहंकारम् अभिमानेभ्यो बुद्धिं बोद्धव्येभ्यः । तद् एतद् इदम् इन्द्रियग्रामम्। अस्माद् इन्द्रियविषयात् स्वैः स्वं निरुध्य देवताः प्रतिसमावर्तयति ।। जलजानीव प्रलाययति मानसेभ्यः संकल्पेभ्यः। प्रतिसमावर्तयति मानसम् इन्द्रियाणि । मानसेभ्यश् चैवं संकल्पेभ्यः। प्रतिसमावर्तयित्वा महात्मा क्रतुम् उन्नयते । महाक्रतवो भूतादिश् च। भूतविशेषाश् च महत्य् आत्मनि महान्तम् आत्मानं क्रतूंश् च विवेचयित्वा। व्यक्तम् अनुयुङ्क्ते । तत्रातीतः क्षेमी भवति तस्माद् अयं विवृतः । यश् च। ततः क्षेत्रज्ञम् असमावृतो भवति निर्द्वंद्वो निर्द्वितीयः। शुद्धो मुक्तो नित्यः केवलो भवति । एषो ऽन्त एषो ऽपवर्ग एषा। निष्ठा एतन् नैष्कर्म्यम् ।। तद् यथा तथोपनयनेन पूर्वतरैश् चाचार्यैर् उपदिष्टम् । तद् एवम् उपदेशः ।। तत्र श्लोको भवति ।। यथास्य जाग्रतः स्वप्नो यथा स्यात् तमसा वृतः। कपिल उवाच। विभागज्ञस्य मोक्षस् तु यस् त्व् अज्ञः स पुनर् भवेत्। एतावद् एवासुरे ध्यानम् अनुवर्णितम् । परिसंख्यानम् अपि चोक्तम् ।। चतुर्विंशतितत्त्वम् एतत् कारणम् इत्य् अत्र ब्रूमः । तद् एतद् बुद्धिस्थं बुध्यमानम्। एतद् आचार्याः शुद्धम् इच्छन्त्य् अनवबोधात् । नान्यम् अगुणं पुरुषम् ।। कस् त्व् एषो ऽधिष्ठातृसंज्ञकः प्रकृतिविकाराणाम् अन्यस् त्व् अप्रतीकारः ।। +++। तद् एतत् प्रकृतिविकारसंज्ञकाद् अन्यद् अव्यक्तात् पुरुषं शुद्धं निष्कैवल्यम्। अनवयवम् अजं क्षेम्यम् एवाह ।। येनेयं ससुता बहुप्रसविनी लोकाश्रयालम्बिना। योनिस्थाः पुरुषाश् च येन विदिता बुद्ध्या सदा बुद्धवत्। द्रष्टा चैव परो गुणैर् विरहितो ज्ञानात् तुरीयो ऽक्षयस्। तद्वद् वर्तयतीह यः कृतमतिर् मुक्तः स योन्याधिकः। तद् एतद् उपसंख्यानम् अनुवर्णितं याथातथ्यदर्शनाद् अनवबुद्धानां प्रतिबोधनम्। इति ।। कपिल उवाच। साङ्गोपाङ्गेषु सेतिहासपञ्चमेष्व् आसुरे वेदेष्व् अष्टासु विद्यास्थानेष्व्। अमृतम् उद्धृत्य मयानुवर्णितं सांख्यज्ञानम् एतावद् एतज् ज्ञातव्यं। पञ्चविंशतितत्त्वानि । तद् एतन् नापुत्राय नाशिष्याय नासर्वस्वप्रदायिने। नासंवत्सरोषिताय वा वर्तयितव्यम् । परमज्ञानम् इत्यर्थम् ऋषयो। वेदप्रोक्तं वेद्यं वेत्स्यन्तीति । तद् एतद् आसुरे नावबुध्यन्त्य् अभीक्ष्णपाप्मानो। ऽन्यथैव प्रवृत्ताः स्वाहाकारस्वधाकार्ॐकारवषट्कारैर्। ऋषिकोटिसहस्राण्य् अनन्तानीष्टानिष्टकृतेन कर्मणा । तथैव देवदानवासुरपिशाचभूतराक्षसविद्याधरगन्धर्वयक्षनागकिंनरादयो ऽन्ये। ++++। भूतग्रामा अज्ञानपथम् आश्रिता अज्ञानम् एवावलीयन्ते । जायन्ते। चासकृद् असकृज् ज्ञानात् स्थावरनरकतिर्यग्योनिष्व् एवोपपद्यन्ते वर्षकोटिशतसहस्राण्य्। अनेकानि । कथं चित् कस्य चिद् धर्मबुद्धिर् अपि। स्यात् । कुत एव मोक्षबुद्धिः ।। ते ऽप्य् अपवर्गेणैव सुखकामाः प्रतिकूलदुःखनिवर्तनम् एव कुर्वन्तो। भावोत्पादकं त्रैलोक्याद् अन्यद् अपश्यन्तो निःसरणं त्रैलोक्यम् एवागाधं। प्रपतन्ति । तद्वद् आसुरे लौकिकेष्व् अपि तु दर्शनेषु परं वेदप्रामाण्यम् ।। ते चापि दुःखसंसारवर्तका एव । कुत एव ।। वेदार्थं यज्ञो यज्ञार्थं स्वर्गः स्वर्गार्थं सुखं च मोहायतनम् इष्टं। मोहप्रभवं जन्म । तच् च सुखदुःखहैतुकमोहप्रभवं जन्म । तथैव। चापि निधनम् । तच् चापि दुःखहैतुकरतम् । तस्मान् मन्त्रग्रामो। दुःखस्य परस्परं हेतुः । तस्माद् उपशमरुचयो दुःखसमुद्रौघम् उत्तितीर्षन्तो। हित्वा सर्ववेदान् उपशमशास्त्रेषु प्रयुज्यन्ते । तद् अभ्यासाच्। च शास्त्रस्य दुःखमार्गावच्छेदं कुर्वन्ति । स्वात्मन्य् एकत्वेनावतिष्ठन्ते। शीतीभूता अमृतं प्राप्ताः । एवम् आह ।। तेषां शास्त्राभ्यासाद् दुःखस्रोतो निवर्तते । अत्यन्तच्छिन्ने दुःखस्रोतसि। शान्तिर् इहान्ताय दुःखस्य । तद् एतद् आसुरे मयोत्पन्नमात्रेणैवावबुद्धं। प्राकृतज्ञानम् । यद् अन्तरोत्पन्नस् तत्र भगवान् विरिञ्चो। ऽपि विक्रोशितवान् सप्तकृत्वः । यदा न तस्य कश् चित् प्रतिवचनं। भीष्म उवाच। प्रायच्छत् ततः प्रवृत्तस् तत्र भवान् पुनः सर्गाय निवृत्त इति ।। तद् एतत् परमज्ञानम् आसुरेर् आचार्येणानुशस्तं परमर्षिणा भगवता। कपिलेन परेण बहुमानेन । भगवता चासुरिणा शास्त्रं भगवते। पञ्चशिखाय पञ्चशिखेन कात्यायनाय कात्यायनेन। गौतमाय गौतमेन गार्ग्याय गार्ग्येणावट्यायनाय आवट्यायनेनर्षिभ्य। ऋषिभ्यः । तत् एदत् परमं तत् परेण भगवता व्यासेन व्यासान्। मयावाप्तं परमज्ञानं तथा मत्तो भवता प्राप्तम् इति ।। तद् एतद् ब्राह्मणांस् तात श्रावयेत् संशितव्रतान्। क्षत्रियान् याज्ञिकांश् चैव प्रजापालनतत्परान्। वैश्यांश् च नृपशार्दूल सर्वातिथ्यकृतव्रतान्। शूद्रांश् च शुश्रूषपरान् सर्वसत्त्वहिते रतान्। यद्य् अपि स्युस् त्रयो वर्णा यज्ञे चाधिक्रियन्ति वै। मन्त्रवर्जं तु शूद्राणां क्रिया दृष्टा इति श्रुतिः। सूत्रकारवचस् त्व् एतद् वेदकारवचस् तदा। शास्त्रकारास् तथा चैतत् प्रवदन्तीति नः श्रुतम्। युधिष्ठिर उवाच। क्लिश्यमानेषु भूतेषु जातीमरणसागरे। भीष्म उवाच। यत् प्राप्य क्लेशं नाप्नोति तन् मे ब्रूहि पितामह। अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्। सनत्कुमारस्य सतः संवादं नारदस्य च। सनत्कुमारो भगवान् ब्रह्मपुत्रो महायशाः। पूर्वजाश् च त्रयस् तस्य कथ्यन्ते ब्रह्मवादिनः। सनकः सनन्दनश् चैव तृतीयश् च सनातनः। जातमात्राश् च ते सर्वे प्रतिबुद्धा इति श्रुतिः। चतुर्थश् चैव तेषां स भगवान् योगसत्तमः। सनत्कुमार इति वै कथयन्ति महर्षयः। हैरण्यगर्भश् च मुनिर् वसिष्ठः पञ्चमः स्मृतः। षष्ठः स्थाणुश् च भगवान् अमेयात्मा त्रिशूलधृक्। ततो ऽपरे समुत्पन्नाः पावकाद् वरुणक्रतौ। मानसाः स्वयंभुवो हि मरीचिप्रमुखास् तथा। भृगुर् मरीचेर् अनुजो भृगोर् अप्य् अङ्गिरास् तथा। अनुजो ऽङ्गिरसो ऽथात्रिः पुलस्त्यो ऽत्रेस् तथानुजः। पुलस्त्यस्यानुजो विद्वान् पुलहो ऽनुपमद्युतिः। पठ्यन्ते ब्रह्मजा ह्य् एते विद्वद्भिर् अमितौजसः। सर्गम् एतन् महाराज कुर्वन्न् आदिगुरुर् महान्। प्रभुर् विभुर् अनन्तश्रीर् ब्रह्मा लोकपितामहः। मूर्तिमन्तो ऽमृतीभूतास् तेजसातितपोन्विताः। सनकप्रभृतयस् तत्र त्रयः प्राप्ताः परं पदम्। कृत्स्नक्षयम् अनुप्राप्य विमुक्ता मूर्तिबन्धनात्। सनत्कुमारस् तु विभुर् योगम् आस्थाय योगवित्। विचचार त्रयो लोकान् ऐश्वर्येण परेण ह। रुद्रश् चाप्य् अष्टगुणितं योगं प्राप्तो महायशाः। सूक्ष्मम् अष्टगुणं राजन् नेतरे नृपसत्तम। मरीचिप्रमुखास् तात सर्वे सृष्ट्यर्थम् एव ते। नियुक्ता राजशार्दूल तेषां सृष्टिं शृणुष्व मे। सप्त ब्रह्माण इत्य् एष पुराणे निश्चयो गतः। सर्ववेदेषु चैवोक्ताः खिलेषु च न संशयः। इतिहासे पुराणे च श्रुतिर् एषा पुरातना। वरदे कथ्यत इति प्राहुर् वेदान्तपारगाः। एतेषां पितरस् तात पुत्रा इत्य् अनुचक्षते। गणाः सप्त महाराज मूर्तयो ऽमूर्तयस् तथा। पितॄणां चैव राजेन्द्र पुत्रा देवा इति श्रुतिः। देवैर् व्याप्ता इमे लोका इत्य् एवम् अनुशुश्रुम। कृष्णद्वैपायनाच् चैव देवस्थानात् तथैव च। देवलाच् च नरश्रेष्ठ काश्यपाच् च मया श्रुतः। गौतमाद् अथ कौण्डिन्याद् भारद्वाजात् तथैव च। मार्कण्डेयात् तथैवैतद् ऋषेर् देवतमात् तथा। पित्रा च मम राजेन्द्र श्राद्धकाले प्रभाषितम्। परं रहस्यं राजेन्द्र ब्रह्मणः परमात्मनः। अतः परं प्रवक्ष्यामि यन् मा पृच्छसि भारत। तद् इहैकमनाः श्रद्धी शृणुष्वावहितो मम। स्वायंभुवस्य संवादं नारदस्य च धीमतः। सनत्कुमारो भगवान् दीपं जज्वाल्य तेजसा। अङ्गुष्ठमात्रो भूत्वा वै विचचार महामुनिः। स कदा चिन् महाराज मेरुपृष्ठे समेयिवान्। नारदेन नरश्रेष्ठ मुनिना ब्रह्मवादिना। जिज्ञासमानाव् अन्योन्यं सकाशाद् ब्रह्मणस् तदा। ब्रह्मभागगतौ तात परमार्थार्थचिन्तकौ। मतिमान् मतिमच्छ्रेष्ठं बुद्धिमान् बुद्धिमत्तरम्। श्रुतिमाञ् श्रुतिमच्छ्रेष्ठं स्मृतिमान् स्मृतिमत्तरम्। क्षेत्रवित् क्षेत्रविच्छ्रेष्ठं ज्ञानविज् ज्ञानवित्तमम्। लोकविल् लोकविच्छ्रेष्ठम् आत्मविच् चात्मवित्तमम्। सनत्कुमारं तत्त्वज्ञं भगवन्तम् अरिंदम। सर्ववेदार्थकुशलः सर्वशास्त्रविशारदः। सांख्ययोगं च यो वेद पाणाव् आमलकं यथा। नारदो ऽथ नरश्रेष्ठ तं पप्रच्छ महामतिम्। त्रयोविंशतितत्त्वस्य अव्यक्तस्य महामुने। प्रभवं चाप्ययं चैव श्रोतुम् इच्छामि तत्त्वतः। अध्यात्मम् अधिभूतं च अधिदैवं तथैव च। सनत्कुमार उवाच। कालसंख्याश् च सर्गांश् च तद् भवान् वक्तुम् अर्हति। श्रूयताम् आनुपूर्व्येण नव सर्गाः प्रयत्नतः। तथा कालपरीमाणं तत्त्वानाम् ऋषिसत्तम। अध्यात्मम् अधिभूतं च अधिदैवं तथैव च। कालसंख्या च सर्गं च सर्वम् एव महामुने। तमसः कुर्वतः सर्गस् तामसेत्य् अभिधीयते। ब्रह्मविद्भिर् द्विजैर् नित्यं नित्यम् अध्यात्मचिन्तकैः। पर्यायनामान्य् एतस्य कथयन्ति मनीषिणः। तानि ते संप्रवक्ष्यामि तद् इहैकमनाः शृणु। महार्णवो ऽर्णवश् चैव सलिलं च गुणास् तथा। वेदास् तपश् च यज्ञाश् च धर्मश् च भगवान् विभुः। प्राणः संवर्तको ऽग्निश् च व्योम कालस् तथैव च। नामान्य् एतानि ब्रह्मर्षे शरीरस्येश्वरस्य वै। कीर्तितानि द्विजश्रेष्ठ मया शास्त्रानुमानतः। चतुर्युगसहस्रं तु चतुर्युगम् अरिंदम। प्राहुः कल्पसहस्रं वै ब्राह्मणास् तत्त्वदर्शिनः। दशकल्पसहस्राणि अव्यक्तस्य महानिशा। तथैव दिवसं प्राहुर् योगाः सांख्याश् च तत्त्वतः। निशां सुप्त्वाथ भगवान् क्षपान्ते प्रत्यबुध्यत। अहः कृत्वा सुखं तात ससर्ज प्रभुर् ईश्वरः। हिरण्यगर्भं विश्वात्मा ह्य् अण्डजं जलजं मुनिम्। भूतभव्यभविष्यस्य कर्तारम् अनघं विभुम्। मूर्तिमन्तं महात्मानं विश्वं शंभुं स्वयंभुवम्। अणिमालघिमाप्राप्तिम् ईशानं ज्योतिषां परम्। तस्य चापि निशाम् आहुर् वेदवेदाङ्गपारगाः। पञ्चकल्पसहस्राणि अहर् एतावद् एव च। न सर्गं कुरुते ब्रह्मा तामसस्यानुपूर्वशः। सृजते स त्व् अहंकारं परमेष्ठिनम् अव्ययम्। अहंकारेण वै लोका व्याप्तास् त्व् आहंकृतेन च। येनाविष्टानि भूतानि मज्जन्त्य् अव्यक्तसागरे। देवर्षिदानवनरा यक्षगन्धर्वकिंनराः। उन्मज्जन्ति निमज्जन्ति ऊर्ध्वाधस् तिर्यग् एव च। एतस्यापि निशाम् आहुस् तृतीयम् अथ कुर्वतः। त्रीणि कल्पसहस्राणि अहर् एतावद् एव च। अहंकारश् च सृजति महाभूतानि पञ्च वै। पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम्। एतेषां गुणतत्त्वानि पञ्च प्राहुर् द्विजातयः। शब्दे स्पर्शे च रूपे च रसे गन्धे तथैव च। गुणेष्व् एतेष्व् अभिरताः पङ्कलग्ना इव द्विपाः। नोत्तिष्ठन्त्य् अवशीभूताः सक्ता अव्यक्तसागरे। एतेषाम् इह वै सर्गं चतुर्थम् इह कुर्वताम्। द्वे तु कल्पसहस्रे वै अहो रात्रिस् तथैव च। अनन्त इति विख्यातः पञ्चमः सर्ग उच्यते। इन्द्रियाणि दशैकं च यथाश्रुतिनिदर्शनात्। मनः सर्गगतं तात विशत् सर्वम् इदं जगत्। न तथान्यानि भूतानि बलवन्ति यथा मनः। एतस्यापि तु वै सर्गं षष्ठम् आहुर् द्विजातयः। अहः कल्पसहस्रं वै रात्रिर् एतावती तथा। उर्ध्वस्रोतस् तु वै सर्गं सप्तमं ब्राह्मणा विदुः। अष्टमश् चाप्य् अधःस्रोतस् तिर्यक् तु नवमः स्मृतः। एतानि नव सर्गाणि तत्त्वानि च महामुने। चतुर्विंशतिर् उक्तानि कालसंख्याश् च ते ऽनघ। अप्ययं प्रभवं चैव अव्यक्तस्य महामुने। प्रवक्ष्याम्य् अपरं तत्त्वं यस्य यस्येश्वरश् च यः। अध्यात्मम् अधिभूतं च अधिदैवं तथैव च। सनत्कुमार उवाच। यथाश्रुतं यथादृष्टं तत् तथा वै निबोध मे। अधःस्रोतसि सर्गे च तिर्यक्स्रोतसि चैव ह। एताभ्याम् ईश्वरं विद्याद् ऊर्ध्वस्रोतस् तथैव च। कर्मेन्द्रियाणां पञ्चानाम् ईश्वरो बुद्धिगोचरः। बुद्धीन्द्रियाणाम् अथ तु मन ईश्वरम् उच्यते। मनसः पञ्च भूतानि सगुणान्य् आहुर् ईश्वरम्। भूतानाम् ईश्वरं विद्याद् ब्रह्माणं परमेष्ठिनम्। भवान् हि कुशलश् चैव धर्मेष्व् एव परेषु वै। कालाग्निर् अप्य् अहः स्वं ते जगद् दहति चांशुभिः। ततः सर्वाणि भूतानि स्थावराणि चराणि च। हाहाभूतानि दग्धानि स्वयोनिं गमितानि वै। कूर्मपृष्ठनिभा भूमिर् निर्दग्धकुशकण्टका। निर्वृक्षा निस्तृणा चैव दग्धा कालाग्निना तदा। जगत् प्रलीनं जगति जगत्य् अप्सु प्रलीयते। नष्टगन्धा तदा सूक्ष्मा जलम् एवाभवत् तदा। ततो मयूखजालेन सूर्यस्यापीयते जलम्। जलात्मा प्रलीयत्य् अर्के तदा ब्राह्मणसत्तम। अन्तरिक्षगतान् भूतान् प्रदहत्य् अनलस् तदा। अग्निभूतं तदा व्योम भवतीत्य् अभिचक्षते। तं तथा विस्फुरन्तं हि वायुर् ध्वंसयते महान्। महता बलवेगेन आदत्ते तं हि भानुमान्। वायोर् अपि गुणं स्पर्शम् आकाशं ग्रसते यदा। प्रणश्यति तदा वायुः खं तु तिष्ठति नानदत्। तस्य तं निनदं शब्दम् आदत्ते वै मनस् तदा। स शब्दगुणहीनात्मा तिष्ठते ऽमूर्तिमांस् तु वै। भुङ्क्ते तु स तदा व्योम मनस् तात दिगात्मकम्। व्योमात्मनि विनष्टे तु संकल्पात्मा विवर्धते। संकल्पात्मानम् आदत्ते चित्तं वै स्वेन तेजसा। चित्तं ग्रसत्य् अहंकारस् तदा वै मुनिसत्तम। विनष्टे च तदा चित्ते अहंकारो भवेन् महान्। अहंकारं तदादत्ते महान् ब्रह्मा प्रजापतिः। अभिमाने विनष्टे तु महान् ब्रह्मा विराजते। तं तदा त्रिषु लोकेषु मूर्तिष्व् एवाग्रमूर्तिजम्। येन विश्वम् इदं कृत्स्नं निर्मितं वै गुणार्थिना। मूर्तिं जलेश्वरम् अपि व्यवसायगुणात्मकम्। ग्रसिष्णुर् भगवान् ब्रह्मा व्यक्तो ऽव्यक्तम् असंशयम्। एषो ऽप्ययश् च प्रलयो मया ते परिभाषितः। अध्यात्मम् अधिभूतं च अधिदैवं च श्रूयताम्। आकाशं प्रथमं भूतं श्रोत्रम् अध्यात्मं शब्दो ऽधिभूतं दिशो ऽधिदैवतम् ।। वायुर् द्वितीयं भूतं त्वग् अध्यात्मं स्पर्शो ऽधिभूतं विद्युद् अधिदैवतं। स्यात् । ज्योतिस् तृतीयं भूतं चक्षुर् अध्यात्मं रूपम् अधिभूतं। सूर्यो ऽधिदैवतं स्यात् । आपश् चतुर्थं भूतं जिह्वाध्यात्मं। रसो ऽधिभूतं सोमो ऽधिदैवतं स्यात् । पृथिवी पञ्चमं भूतं घ्राणम् अध्यात्मं। गन्धो ऽधिभूतं वायुर् अधिदैवतं स्यात् । पाञ्चभौतिकम् एतच्। चतुष्टयम् अनुवर्णितम् ।। अत ऊर्ध्वं त्रिविधम् इन्द्रियविधिम् अनुवर्णयिष्यामः । पादाव् अध्यात्मं। गन्तव्यम् अधिभूतं विष्णुर् अधिदैवतं स्यात् । हस्ताव् अध्यात्मं। कर्तव्यम् अधिभूतं इन्द्रो ऽधिदैवतं स्यात् । पायुर् अध्यात्मं विसर्गो ऽधिभूतं। मित्रो ऽधिदैवतं स्यात् । उपस्थम् अध्यात्मम् आनन्दो ऽधिभूतं। प्रजापतिर् अधिदैवतं स्यात् । वाग् अध्यात्मं वक्तव्यम् अधिभूतं अग्निर् अधिदैवतं। स्यात् । मनो ऽध्यात्मं मन्तव्यम् अधिभूतं चन्द्रमा अधिदैवतं। स्यात् । अहंकारो ऽध्यात्मम् अभिमानो ऽधिभूतं विरिञ्चो ऽधिदैवतं। स्यात् । बुद्धिर् अध्यात्मं व्यवसायो ऽधिभूतं ब्रह्माधिदैवतं। स्यात् । एवम् अव्यक्तो भगवान् असकृद् असकृत् सर्गान् कुरुते संहरते च ।। कस्मात् क्रीडार्थम् । यथादित्यो ऽंशुजालं क्षिपति संहरते च यथा। चान्तरिक्षाद् अभ्रकोश उत्तिष्ठति ।। स्तनितं गर्जितोन्मिश्रं तच् च तत्रैव प्राणशत् ।। एवम् अव्यक्तो गुणान् सृजति संहरते च । यथा चार्णवाद् ऊर्मिजालं। नीचोच्चं प्रादुर्भवति तच् च तत्रैव प्राणशद् एवम् अव्यक्तो लोकान् सृजति। संहरते च । यथा च कूर्मो ऽङ्गानि कामात् प्रसारयते पुनश् च प्रवेशयत्य्। एवम् अव्यक्तो लोकान् प्रसारयति गिरति च । चेतनश् च भगवान् पञ्चविंशकः। शुचिः । तेनाधिष्ठिता प्रकृतिश् चेतयति । नित्यं। सहधर्मा च भगवतो ऽव्यक्तस्य क्रियावतो ऽक्रियावान् भगवान् परमप्रकृतिर्। नारद उवाच। अणुः क्षेत्रज्ञः क्षेम्य इति ।। यद्य् अचेतना प्रकृतिश् चेतनाधिष्ठिता चेतयति कस्मान् न मोक्षो ऽस्ति ।। भवद्विधानां चेतस्काङ्क्षिणां चेतो हि पञ्चविंशकम् उपदिशन्ति। योगाः सांख्याश् च । तच् चायुक्तम् उपदिशन्ति । तद् वञ्चनाच् चायुतप्रकृतिसहधर्मा। प्रकृतिं वर्तमानाम् अनुवर्तते इति । अनुवर्तमानाच्। च मन्यामहे अधिष्ठातृत्वाद् अणुत्वाच् चेत इति । अतश् च भवत्य् एव। दोष इति । यथा हि कश् चिद् दीर्घम् अध्वानं गच्छति सङ्गवान् । असङ्गस्यागमवतो। गमने न प्रयोजनं भवति । अथ गच्छति सो ऽपि सङ्गी। भवति । मत्स्यश् चोदकं सहधर्मिणाव् एव । एवं भगवद्वचनात्। प्रकृतिपुरुषौ । यद्य् उदकं प्रवर्तमानं मत्स्यो ऽनुप्रवर्तते ननु सङ्गवान्। सनत्कुमार उवाच। भवति असङ्गी मत्स्यस् तस्य किं सङ्गवृत्त्यानुवर्तनेन ।। देवर्षे तत्रासङ्गं वर्णयन्ति पुरुषस्य । न भगवता व्यक्तेन। सङ्गो ऽस्ति निर्गुणस्य गुणिना । तत्र श्लोकान् उदाहरन्ति बुधाः ।। तान् उपधारयस्वैकार्थे पर्यायवचनं कृत्वा ।। अधिष्ठा पुरुषो नित्यं प्रकृत्या न च आत्मनः। तस्याभिमानो भवति तस्माद् आसङ्ग उच्यते। चेतना पुरुषो नित्यं कालस्य न च आत्मनः। तस्याभिमानो भवति तस्माद् आसङ्ग उच्यते। द्रष्टा हि पुरुषो नित्यं मनसो न च आत्मनः। तस्याभिमानो भवति तस्माद् आसङ्ग उच्यते। बोद्धा हि पुरुषो नित्यं वेदस्य न च आत्मनः। तस्याभिमानो भवति तस्माद् आसङ्ग उच्यते। ज्ञाता हि पुरुषो नित्यं क्षेत्रस्य न च आत्मनः। तस्याभिमानो भवति तस्माद् आसङ्ग उच्यते। कर्ता हि पुरुषो नित्यं परस्य न च आत्मनः। तस्याभिमानो भवति तस्माद् आसङ्ग उच्यते। देवर्षे तत्रासङ्गम् अनुवर्णयन्ति पुरुषस्य । शुचिर् हि भगवान्। क्षेत्रज्ञो ऽशुचिनीं प्रकृतिम् उदाहरन्ति । सङ्गी हि सङ्गवान् सङ्गी। चासङ्ग इति यो ऽसङ्गो ह्य् आत्मानं सङ्गिनम् अनुपश्यति स। खल्व् अज्ञानीत्य् उच्यते बुधैर् इह ।। एतस्याविद्याग्रस्तस्य उद्भवाक्षेपशतसहस्रकोटिशो ऽप्ययमानस्याव्यक्तसागरे। सुमहान् दुःखयोगो भवति । यथा च समुद्रं प्रयातस्य। कृतप्रायश्चित्तस्य अर्थतर्षिणो वणिक्संघस्य यानपात्रार्णवोदरगतश्। चण्डवायुना भिद्यमान इतस् ततश् च विमलाभिर् ऊर्मिभिर्। भिद्यमानो हाहाभूतो जनो व्यापद्येत् । शतशश् चाप्राप्तमनोरथाः। प्लवान् गृहीत्वा । प्लवाश् चोन्मज्जन्ति निमज्जन्ति चान्योन्यम्। अवलम्बमानाः । एवम् अज्ञानी पुरुष उन्मज्जति निमज्जति च । यथा। तत्रोन्मज्जंश् च निमज्जंश् च कश् चित् पारम् आसादयति स मुक्तस् ततस् तस्यापदो। मृत्युमुखात् ।। नारद उवाच। भगवन्न् अच्छेद्याभेद्यादाह्यातर्क्यानन्त्याकल्प्यानादिमध्या यदा। प्रकृतिस् तद्वत् पुरुषो ऽप्य् एभिर् एव गुणैर् युतः । तत् कथम् अनित्यां प्रकृतिम्। उदाहरन्ति नित्यं पुरुषम् इति ।। सनत्कुमार उवाच। देवर्षे सम्यग् अभिहितं भवता । अच्छेद्याभेद्यादाह्यातर्क्यानन्त्याकल्प्यानादिमध्या। प्रकृतिर् हि पुरुषश् च । कर्तृत्वाद् गुणानाम्। अनित्यां प्रकृतिम् उदाहरन्ति अकर्तृत्वान् नित्यः पुरुषः । यदि प्रकृतिर्। गुणान् कुर्याद् वेद चात्मानं पुरुषश् च । नित्यानित्यभावे वीतरागत्वे। चास्य निर्द्वंद्वता च । यदा त्व् अयम् एव स्यान् नान्यद् अस्ति मम परम् इत्य् अभिमन्यमानो। नित्यत्वताम् एति । तत्र श्लोकान् उदाहरन्ति ।। उभाव् अमूर्ती ह्य् अजराव् उभाव् एव महात्मभिः। विदितौ विषयी चैव विषयश् च महामुने। पुरुषो विषयी नित्यं प्रकृतिर् विषयः स्मृतः। व्याख्यातौ शास्त्रविद्भिर् हि मशकोदुम्बरौ यथा। प्रकृतिर् न विजानाति भुज्यमानम् अचेतनम्। पुरुषश् चापि जानाति भुङ्क्ते यश् च स भुज्यते। महदादयो गुणा भोज्यं भोक्ता तु प्रकृतिर् द्विज। मन्यन्त्य् एवं विभागज्ञा भोक्तारं तस्य चेश्वरम्। ऐश्वर्यं भवतीशत्वात् प्रकृत्या द्विजसत्तम। अनीशत्वाद् अनैश्वर्यं पुरुषस्यानुचक्षते। विभूतित्वाद् विभुत्वं हि पुरुषस्य महामुने। द्वंद्वभावाद् अनित्यं हि त्रिगुणा प्रकृतिस् तथा। निर्द्वंद्वो निर्गुणो नित्यः पुरुषो ऽत्रानुचक्षते। क्रियाकरणयोगित्वाद् अनित्या प्रकृतिर् द्विज। क्रियाकरणहीनो हि नित्यः पुरुष उच्यते। एवम् अनुमन्यन्ते यतयः स्तुन्वानाः पुरुषम् । सत्त्वं। क्षेत्रं परं गुहाक्षयकरं चलव्रणकरं निशिचरं निधिर् मतिः स्मृतिर् धृतिर्। इति चैतानि प्रकृतिपर्यायनामानि । अथापराणि भूतं भव्यं भविष्यम्। इति । सत्त्वं रजस् तम इति त्रिगुणम् एतत् प्रकृतिर् इत्य् अनुपश्यति ।। अथ तद् अव्यक्तात् परम् अव्ययं शिवं क्षेममयं शुचि व्यभ्रम् इति विमलम्। अमलम् अचलम् अजरम् अकरम् अतरम् अभवम् इति । अभवनम् अनयनम्। अगमनं पृथग् इति चैतानि पुरुषपर्यायनामानि । अत्र पश्यन्तु। भवन्तः क्षेत्रज्ञं विमोक्षं विशोकं विमोहम् । विदम्भाद् विलोभाद् विकाराद्। विरुद्धाद् आनृशंस्याद् अलौल्यम् अशरणम् अभयम् अनवयवं पश्यन्ते ।। तद् यथा मशकोदुम्बरयोर् विवाससहवासो ऽन्य एव स्वभाव एवम् एव। ज्ञानाज्ञानयोर् विवाससहवासः । अन्यद् एव ज्ञानम् अज्ञानम् ।। क्षेत्रज्ञस् त्यक्ष्यति प्रकृतिं न च प्रकृतिः क्षेत्रज्ञं त्यक्ष्यति । मन्यते। प्रकृतिं क्षेत्रज्ञो न च प्रकृतिः क्षेत्रज्ञं मन्यते । बुध्यते प्रकृतिं। क्षेत्रज्ञो न च प्रकृतिः क्षेत्रज्ञं बुध्यते । पश्यति प्रकृतिं क्षेत्रज्ञो। न च प्रकृतिः क्षेत्रज्ञं पश्यति । एतद् विवाससहवासम् इत्य् एतन् नानात्वदर्शनं। पश्यन्ति देवर्षे । ज्ञातारं तद् असङ्गम् अनुपश्यतु। भवान् पुरुषे । अत्र श्लोकम् उदाहरन्ति ।। योगाश् च सांख्याश् च वदन्ति सम्यङ्। न पञ्चविंशात् परम् अस्ति किं चित्। अथान्यथा पश्यति तत्त्वम् एतद्। द्वयं तु पश्याम गुरोर् नियोगात्। इत्य् एतद् योगदर्शनम् । अत्र सांख्यैर् गीतम् । श्लोको भवति ।। पश्यः पश्यति पश्यन्तम् अपश्यन्तं च पश्यति। अपश्यस् ताव् अपश्यत्वात् पश्यापश्यौ न पश्यति। प्रकृतिः क्षेत्रं क्षेत्रज्ञश् चापरः । क्षेत्रज्ञः षड्विंशको ऽनुपश्यति ।। न तत् पञ्चविंशः क्षेत्रज्ञः प्रकृतिर् वा परं क्षेत्रज्ञं पश्यति ।। देवर्षे यन् मया बहुभिर् जन्मभिर् अवाप्तम् इदानीम् । ये ह्य् एवं पश्यन्ति। शिवं हि तेषाम् इहैव चामुत्र संशयो नास्ति । सुखं परं जन्म चाहं। ब्रवीमि । न त्व् इतरं मृत्युं विवेदाहम् ।। प्रतिविरम स बुद्धिविग्रहात् परमशुचिस् त्वम् उपास निर्ममः। बहुभिर् अरिभिर् एतद् आवृतं प्रकृतिमयं हि शरीरम् अध्रुवम्। यदि जयसि शरीरम् एकतो ननु विजितास् तव सर्वशत्रवः। मुनिभिर् ऋषिभिर् ईरितं परं परमशुचिं तम् उपास्य ते गताः। एतन् मयोपसन्नेषूपदिष्टं देवर्षे हिरण्यनाभस्य महासुरस्य। शिवस्य चैतन् नमुचेर् नारदस्य प्रह्रादस्य वृत्रस्य विरोचनस्य। बलेर् मरीचेः पुलस्त्यपुलहयोः । तथैव भृग्वङ्गिरसोर् अत्रिवसिष्ठकाश्यपानां। शुक्रस्य चेन्द्रस्य बृहस्पतेश् चाङ्गिरसोत्तमाय ।। तथैव विश्वावसवे मयोक्तं गन्धर्वाप्सरोभिश् च । एतद् ब्रह्म सर्वत्र। समं द्रष्टव्यम् । ब्रह्मणि चेन्द्रे शुनि कीटे पतंगदंशमशकेषु सम्यग्। अनुदर्शनाच् च पश्यामः । सर्वस्य मोक्षधर्मो विद्यते । एतत् पदम्। अनुद्विग्नं जन्ममृत्युतमोनुदम् उपशान्तं समुत्तीर्णम् अवस्थितम्। भीष्म उवाच। अपज्वरम् ।। एतच् छ्रुत्वा मुनिश्रेष्ठो नारदः स महामुनिः। परया च मुदा युक्तः प्रणम्य शिरसा गुरुम्। प्रदक्षिणं च तं कृत्वा जगाम भवनं स्वकम्। भगवान् अपि तत्रैव सद्यस् त्व् अन्तरधीयत। भीष्म उवाच। संयमनः काशिपतिर् अविमुक्तगतं मुनिं पप्रच्छ ज्ञानविज्ञानं। संयमन उवाच। कपिलाद् आगतागमम् ।। को विश्वं सृजते सर्वम् इदं संहरते च कः। कश् च विश्वम् अधिष्ठाय तिष्ठत्य् अग्निवद् दारुषु। कश् च विश्वम् अविश्वं च नित्यम् एवानुपश्यति। कौ च तौ मुनिशार्दूल नमस्ये ताव् उभाव् अपि। कति तत्त्वानि विश्वात्मा भगवान् हव्यकव्यभुक्। किं च हव्यं च कव्यं च पठ्यते शास्त्रदर्शनात्। कश् च सत्त्वात् समुत्पन्नस् तस्मात् तत्त्वाद् विशारदः। कश् च तत्त्वादिर् इत्य् उक्तस् तथा प्राणादिर् एव च। भूतादिश् च मुनिश्रेष्ठ विकारादिस् तथैव च। कस्माद् आददते चैव विसृज्य च पुनः पुनः। अध्यात्मम् अधिभूतं च अधिदैवं तथैव च। विमोक्षश् चास्य भगवन् यो ऽयं देहेषु वर्तते। सविज्ञानं सदशकं तथोपनिषदं मुने। वर्तते त्वयि कार्त्स्न्येन योगशास्त्रं तथैव च। पुराणं च मुनिश्रेष्ठ यथाबुद्धि सनातनम्। साङ्गोपाङ्गाश् च चत्वारो वेदास् तिष्ठन्ति वेदवित्। सर्वस्य चास्य ज्ञानस्य ग्रन्थतश् चार्थतश् च ते। विदितं वेदितव्यं हि पाणाव् आमलकं यथा। परावरज्ञो भगवान् इत्य् एवम् अनुशुश्रुम। तेन त्वाम् अनुपृच्छामि सर्वभूतहिते रतम्। परोक्षम् एतद् अस्माकं तव प्रत्यक्षम् एव च। मन्याम मनसा देव यतीनां यतिसत्तम। तद् अनुग्रहधर्मेण अक्षयेणाव्ययेन च। शाश्वतेनाप्रमेयेन अचलेनामृतेन च। जन्ममृत्युविमुक्तेन योक्तुम् अर्हसि मानघ। सर्वथा तेन देहेन असद्ग्रन्थेन मे मुने। बध्यामि भगवन् नित्यम् इत्यर्थम् अहम् आगतः। काशिराज्यं परित्यज्य भगवन्तम् अरिंदम। तद् एतच् छ्रोतुम् इच्छामि याथातथ्येन तत्त्वतः। ममानतस्य भगवञ् शिष्यस्यामितबुद्धिमान्। वक्तुम् अर्हसि शान्त्यर्थम् एतम् अर्थं महामुने। ममोद्वहत्य् एव मनः तत्त्वं श्रोतुं परायणम्। पञ्चशिख उवाच। पापघ्नम् अमृतं श्रेष्ठं पवित्राणां परायणम्। श्रूयतां नृपशार्दूल सर्वम् एतद् असंशयम्। सर्वस्य चास्य ज्ञानस्य कृत्स्नकारी भवान् अपि। विशनाद् विश्वम् इत्य् आहुर् लोकानां काशिसत्तम। लोकांश् च विश्वम् एवेति प्रवदन्ति नराधिप। लोकानाम् अप्य् अविशनाद् अविश्वम् इति तं विदुः। ईदृग्भूतीयम् एवाहुर् अपरं शास्त्रदर्शनात्। विश्वाविश्वे नरश्रेष्ठ तत्त्वबुद्धिपरायणाः। नराणां नरशार्दूल तत्त्वम् एतद् असंशयम्। अमृताश् च त्रयो ऽप्य् एते नित्याश् चेति वदन्ति वै। विभागिनश् च वै नित्यं विमलाश् चेति नः श्रुतिः। अजाश् चामूर्तयश् चैव अप्रकम्प्याव्ययाश् च ह। अग्राह्याश् चाप्रतर्क्याश् च तथामर्त्याश् च पार्थिव। अनादिनिधनाश् चैव तथामूर्त्याश् च ते ऽनघ। अच्छेद्याश् चामराश् चैव अप्रदह्यतमाश् च वै। निर्गुणाश् चेतनाश् चैव पश्याश् चेति नराधिप। यथैतद् उक्तम् आचार्यैर् एवम् एतद् असंशयम्। सन्ति सर्वे गुणा ह्य् एषां त्रयाणां नृपसत्तम। अहं तत्त्वं प्रवक्ष्यामि यथा चाचार्यदर्शनम्। एको ऽत्र गुणवांश् चैव तथैवाचेतनश् च ह। अपश्यश् च महाराज प्रधान इति पठ्यते। प्रत्ययं चोपसर्गे वै विधानं मन इष्यते। प्रधान इति नामास्य एतयोर् धर्म उच्यते। संधावतीति राजेन्द्र इत्य् एवम् अनुशुश्रुम। तस्य तत् संप्रवक्ष्यामि नव तांश् च निबोध मे। प्राकृतान्य् अस्य चत्वारि वैकृतानि तु पञ्च वै। पूर्वम् उत्पद्यते ऽव्यक्ताद् व्यक्तो व्यक्तादिर् उच्यते। प्राणानाम् आदिम् एवैतम् आहुर् अध्यात्मचिन्तकाः। महान् इति च नामास्य प्राहुर् वेदविपश्चितः। बुद्धिर् इत्य् अपरे राजन् विरिञ्चेति तथापरे। एतस्मात् खलु वैरिञ्चम् उत्पद्यति नराधिप। विरिञ्चाद् राजशार्दूल वैरिञ्चः सर्ग उच्यते। एकैकशो विरिञ्चो वै वैरिञ्चाद् उत्पत्तितः स्मृतः। एते सर्गा महाराज विद्याविद्येति नः श्रुतिः। वैरिञ्चात् पञ्च भूतानि वैरिञ्चानि नराधिप। उत्पद्यन्ते महाराज अहंकाराद् असंशयम्। पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम्। पञ्च भूतविशेषाश् च युगपत् काशिनन्दन। वैरिञ्चो विषयार्थी तु जज्ञे भूतेषु पञ्चसु। मन इत्य् अभिदिश्येत विखराद् वैखरस् तथा। बुद्धीन्द्रियाणि राजेन्द्र तथा कर्मेन्द्रियाण्य् अपि। चतुरः प्राकृतान् सर्गान् युगपत् तात बुद्धिमान्। वैकृतान् पञ्च चैवाहुर् अध्यात्मकृतनिश्चयाः। त्वं चैवान्ये च राजेन्द्र तत्त्वबुद्धिविशारदाः। तिर्यक् सर्गं तथा मुख्य ऊर्ध्वो ऽर्वाक्स्रोत एव च। पञ्चमो ऽनुग्रहश् चैव नवैतान् विद्धि पार्थिव। एतद् धि सर्गनवकं सांख्ययोगनिदर्शनम्। मयेयम् आनुपूर्व्येण तत्त्वसंख्या च ते ऽनघ। यश् च यस्मात् समुत्पन्नस् ततश् चैवानुवर्णितः। विकारादि मनः प्राहुस् त्रयाणां पञ्चकानि वै। भूतादीनां तु पञ्चानाम् आहुर् विखरम् एव तु। प्राणापानसमानानाम् उदानव्यानयोश् च ह। विरिञ्चम् आहुः प्राणादिं ब्राह्मणास् तत्त्वदर्शिनः। त्रयोविंशतितत्त्वानां व्यक्तानां नृपसत्तम। आदिम् अव्यक्तम् इत्य् आहुर् यथाश्रुतिनिदर्शनम्। पञ्चशिख उवाच। इति ।। एतद् धि मूर्तिसंघातं त्रैलोक्ये सर्वदेहिषु। आव्यक्तिकस्य सादृश्यं विरिञ्चस्य प्रजापतेः। व्यक्तस्याव्यक्तम् इत्य् आहुर् विश्वरूपस्य नः श्रुतिः। वेदितव्यो महाराज विश्वरूपः सनातनः। अध्यात्मम् अधिभूतं च अधिदैवं तथैव च। प्रवक्ष्यामि यथातत्त्वं तन् निबोध जनेश्वर। श्रोत्रम् अध्यात्मं शब्दो ऽधिभूतम् आकाशम् अधिदैवतम् । त्वग् अध्यात्मं। स्पर्शो ऽधिभूतं वायुर् अधिदैवतम् । वाग् अध्यात्मं वक्तव्यम् अधिभूतम् अग्निर्। अधिदैवतम् । घ्राणम् अध्यात्मं गन्धो ऽधिभूतं पृथिव्य् अधिदैवतम् ।। पादाव् अध्यात्मं गन्तव्यम् अधिभूतं विष्णुर् अधिदैवतम् । हस्ताव्। अध्यात्मं कर्तव्यम् अधिभूतम् इन्द्रो ऽधिदैवतम् । पायुर् अध्यात्मं विसर्गो। ऽधिभूतं मित्रो ऽधिदैवतम् । उपस्थो ऽध्यात्मम् आनन्दो ऽधिभूतं। प्रजापतिर् अधिदैवतम् । मनो ऽध्यात्मं मन्तव्यम् अधिभूतं चन्द्रमा। अधिदैवतम् । अहंकारो ऽध्यात्मम् अभिमानो ऽधिभूतं विरिञ्चो ऽधिदैवतम् ।। बुद्धिर् अध्यात्मं बोद्धव्यम् अधिभूतं पुरुषो ऽधिदैवतम् ।। एतद् अध्यात्मम् अधिभूतम् अधिदैवतं च सर्वं विज्ञातव्यम् ।। अनभिद्रोहेण ब्राह्मणेन्द्रे शुनि कीटे पतंगपुत्तिकादंशमशकेष्व्। इत्य् एवं प्रयोक्तव्यं स्यात् ।। आत्मन्य् एवात्मलिङ्गे चैतस्याव्यक्तिकस्य महात्मिकस्याहंकारिकभौतिकवैकारिकेभ्यश्। च कालज्ञानं पुरुषेभ्यो व्याख्यास्यामः ।। तद् एतत् पर्यायशतसहस्रशः पञ्चशतं पञ्चाहोरात्रम् अपदिश्यते। पञ्चानां पुरुषाणाम् । तत्रैकस्य प्रतिषिद्धम् अव्यक्तस्य चतुर्णां। वक्ष्यन्त्य् आचार्याः । महदादीनां पर्यायशतसहस्राण्य् अशीतिम् अहोरात्रम्। अपदिश्यते । प्राधानिकस्य महतश् चत्वारिंशत् पर्यायशतसहस्राण्य् अहोरात्रम्। अपदिश्यते ।। आहंकारिकस्य भौतिकस्य पुरुषस्य पर्यायदशसहस्राण्य् अहोरात्रम्। अपदिश्यते । वैकारिकस्य पुरुषस्य मनसः पर्यायम् अपि चतुर्युगम् ।। तद् एतत् पर्यायशतसहस्राणि पञ्चाशतम् अव्यक्तस्याहोरात्रस्याकेवलस्य ।। एभ्यः पश्येन् नित्यं कालज्ञानम् । कालज्ञाने ऽस्याव्यक्तस्याचेतनस्य। ज्ञानविज्ञानम् इति पश्यन्त्या बीजधर्मिणं। बीजधर्मिणाम् अप्रसवधर्मिणाम् अप्रकृतिधर्मिणाम् अप्रलयधर्मिणां प्रलयधर्मिणाम्। इति ।। संयमन उवाच। भगवन् यदा खल्व् अग्निर् दारुशतसहस्रकोटिष्व् अवतिष्ठमानस् तत्स्थत्वान्। नित्यं सहधर्मा स्याद् एवं खल्व् अयं क्षेत्रसहस्रकोटिष्व् अवतिष्ठमानस् तत्स्थत्वान्। नित्यं सहधर्मः स्यात् । यदि खल्व् अस्यानिष्टं। क्षेत्रं सहधर्मित्वं स्यान् नायम् इष्टानिष्टे प्रवर्तमानः प्रकृतिम् अनुवर्तेत। गुणसर्गाय गुणसर्गम् । यच् चानुवर्तमानस्य प्रकृतिसहधर्मित्वं। स्याद् भवतु । न ह्य् अनिष्टगुणेनानुगम्यमानाम् अभिष्वजत इत्यर्थम्। अस्येष्टा प्रकृतिर् गुणांश् च तान् अनुवर्तते च । तद् अभिष्वजनाद् अनुगमनाच् च। तत्स्थत्वाच् च नित्यस्यानित्यम् अनुपश्यामः । तद् धेतुमात्रं। वक्ष्यामः । कश् चिद् गुण्यगुणिना सार्धं समीयाय । समेत्य च कार्यकारणं। स कुर्वीत । तं च तथेष्टानिष्टे प्रवर्तमानं गुणिनम् अथागुणो ऽनुवर्तते। तत्स्थत्वात् । ननु सो ऽपीष्टानिष्टवद् भवति तत्स्थत्वात् ।। यदि ह्य् अयम् इष्टानिष्टव्यतिरिक्तः सद्भावो नायम् इष्टानिष्टवत्त्वम् इत्यर्थम्। अस्येष्टानिष्टत्वभावम् इष्टं येनायम् अनुवर्तते चाभिष्वजते। चेति । तद् अनुष्वजनाद् अनुगमनाच् च कार्याकार्यकर्तृत्वम् अस्यानुपश्यामः ।। कार्याकार्यकर्तृत्वाच् चायम् इष्टानिष्टवान् भवति ।। यद् उक्तम् इष्टानिष्टे नायम् इति तन् मिथ्या । गुणवान् अयं क्षेत्रज्ञो। नागुणवान् । यद्य् अयम् अगुणवान् स्यान् नायम् इष्टानिष्टे प्रवर्तमानां प्रकृतिम्। अनुवर्तेत धर्मिणीम् । तद् अनुवर्णितानि द्वंद्वस्य द्वंद्वधर्मित्वात्। पश्यामः । तद् अनुपपन्नं स्याद् व्यतिरिक्तस्यातिरिक्तत्वम् अनिर्द्वंद्वस्य। सद्वंद्वत्वं च पश्यस्व । आचार्य पश्य त्वं केवलस्याकेवलत्वं। पञ्चशिख उवाच। नित्यस्य चानित्यत्वं केवलस्याकेवलत्वं स्वातन्त्र्यं चास्य ।। भोः संयमन यद् एतद् उक्तं भवता न वयम् अस्यैतद् एवं गृह्णीमः । एकत्वम्। एवैतद् उपदिष्टं भवता तत्र यन् नेष्टम् । संयोगं नित्यं जानीते। सृज्यमानम् असकृत् संहरमाणं च । गुणांस् तु गुणसंहरणम् अनुव्याख्यास्यामः ।। तद् यथा चत्वारो भूतग्रामा जरायुजाण्डजोद्भिदस्वेदजाः। कालाग्निनाहंकारेणाप्रमेयप्रभावानुभावेन शतसहस्रांशुना दह्यमाना। विघूर्णन्तो ऽवशा भूमौ पतन्ति । ततस् तैर् भूतैर् हीना भूर् विवसना। शुद्धा स्थण्डिला कूर्मपृष्ठनिभा बभूव । तां तथाभूतां। जगज्जननीं जगतीम् आपो भुञ्जते । प्रणष्टा भूर् जलम् एव स्यात् । जलम्। आदित्यो रश्मिभिर् आदत्ते । समन्ताद् अपां विनाशाद् अग्निर् जाज्वल्यमानो ऽन्तरिक्षचरान्। भूतान् उपयुज्याग्निर् जलम् आदत्ते । अग्निं च वायुः । विनष्टे। ऽग्नौ वायुर् एवाग्निः स्यात् । स तदा सर्वप्राणभृतां प्राणान् उपयुज्य। वायुर् आकाशं स्यात् । आकाशं मनो मनो ऽहंकारो ऽहंकारं। महान् सूर्यः सूयनात् । कृत्स्नस्य जगतः सर्वसूर्याणाम् एकीकृत्य लोकांस्। त्रीन् नाशाय स्यान् महतस् तमसो मध्ये तिष्ठत्य् एकस् तम् अप्य् आददद् अव्यक्तम् ।। तद् एतत् पञ्चाहोरात्रिकं प्रलयं महाप्रलय इत्य् उच्यते । प्रलयान् महतस् तद्। एकत्वं प्रणष्टसर्वस्वं सर्वमूर्तिजालेश्वरविनाश्योदकं मूर्त्येकं स्यात् ।। तद् एतद् धव्यं कव्यं च प्रकरणाद् गुणतां कव्यम् इत्य् उच्यते स। हरणाद् धव्यम् इति । तद् एतद् गुणवन् निर्गुणं गुणोपयोगाद् गुणकर्तृत्वाद् गुणीत्य्। उच्यते बुधैः । क्रीडार्थम् एवासकृत् सृजते च गुणान् । अनवबोधात् तद् अपरस्। त्व् अहम् एवैकः स्यान् नान्यः स्याद् इति । यदि ह्य् एषावबुध्येतान्यो ऽस्ति। मम वर इति न सृजेद् उदासीनत्वाच् च सर्गसंहारयोर् उत्पत्तिर् न भवेत् ।। यद् उक्तं भोः संयमन को विश्वं सृजते कृत्स्नम् इदं संहरते। चेति । यद् अप्य् उक्तं कश् च विश्वम् अधिष्ठाय तिष्ठत्य् अग्निवद् दारुष्व् इति ।। पञ्चविंशको ऽन्यो ऽन्यस्याव्यक्तस्य त्रयोविंशतितत्त्वस्य चतुर्विंशकस्य। द्रष्टा द्रष्टव्यस्य श्रोता श्रोतव्यस्य मन्ता मन्तव्यस्य बोद्धा बोद्धव्यस्याधिष्ठाता। वा । अनेनाधिष्ठिता प्रकृतिर् गुणान् संहरते च नर्तते ।। न चेतनेनाचेतना निर्गुणेन गुणिनीति पश्येनापश्येति। शुद्धेनाशुद्धा नित्येनानित्या केवलेनाकेवला सर्गधर्मिण्य् असर्गधर्मिणादर्शनधर्मिणा। दर्शनधर्मिणी क्षेत्रधर्मिणाक्षेत्रदर्शनात् । कस्मात् ।। पृथक्त्वात् । पृथग्भावम् अस्य प्रपद्यतो ऽनेकत्वं नेष्टं भवतः ।। प्रकृतिक्षेत्रज्ञयोर् एकत्वम् अनवबोधदर्शनम् एतद् अबुधानां दर्शनम् । न। बुधा ह्य् एवम् एतद् अनुपश्यन्ति पश्यापश्ययोर् एकत्वम् । पश्यं। पश्यन्तं दैवाद् अन्य एव पश्यः । कस्मात् । शास्त्रदर्शनात् । शास्त्रदर्शनस्य। चानवबोधाद् अबुध इत्य् उच्यते बुधैः । बुधश् चायं क्षेत्रज्ञो। बुद्ध्यादीन् गुणान् अभिवर्तमानान् अनुबुध्यते प्रकृतितः । तच् च बोद्धव्यम् ।। न त्व् एवं प्रकृतिर् गुणान् क्षेत्रज्ञं वा । अनवबोधात् । यदि ह्य् एवं बुध्येरन्। प्रकृतिर् वा गुणा वा बुद्धं बुद्धसहधर्मिणी स्यात् । भवेयुस्। ते च । बुद्धो ऽनुबुध्यति तम् अनुबुद्धत्वात् प्रकृतिर् अभिमन्यते । अहम् एवास्य। नान्यः स्याद् इति । इष्टान्य् अभिष्वजते ऽऽत्मजानां यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहं। भक्ष्याभक्ष्यं पेयापेयं वाच्यावाच्यम्। इति । गमनं संकोचनं प्रसारणं प्रियाप्रियं गम्यागम्यं। शुभाशुभं शब्दस्पर्शरूपरसगन्धादीनां चावाप्तिर् इत्य् एवमादीन्। गुणान् उत्पादयत्य् अनवबोधात् । प्रकृतिर् अनुभूयते द्वंद्वत्वात् ।। तद् अनेकत्वम् अस्य क्षेत्रज्ञस्य प्रपद्यते । निर्द्वंद्वस्य चास्य प्रवर्तमानस्य। पश्यत उत्पद्यते ऽहंकारकृतो दोषः स्यात् । अहम् एनां प्रत्याचक्षे ऽहम्। एनां बुध्यामीति । न चैषा पश्यत्य् आचक्षते मन्यते बुध्यते। चाहंकारात् । यदि ह्य् अभिमन्येद् वाभिष्वजेद् वा । एवम् अनुबुद्धः। स्यात् । अनुबन्धाच् च शक्तित्वं स्यात् । शक्तित्वाच् चास्य व्यतिरेकत्वं। स्यात् । यदि ह्य् अयम् इष्टानिष्टाभ्यां मध्यस्थः कथम् अस्येष्टानिष्टकृतो। दोषः स्यात् । भवति निर्द्वंद्वत्वाच् चास्यालेपकत्वाच् चास्य। व्यतिरेकत्वं स्यात् । भवतश् चात्र श्लोकौ यथा ।। पङ्कस्यापि हि दोषेण नोपलिप्यति पङ्कजम्। तथाव्यक्तस्य दोषेण नोपलिप्यति केवलः। केवलत्वं पृथग्भावात् पङ्कपङ्कजयोर् यथा। तथास्य सहभावत्वाद् विनाभाव इति स्मृतः। एवम् अस्य भो संयमन व्यतिरिक्तस्य व्यतिरिक्तत्वं भवति ।। असहभावम् असहभावत्वाच् च । अन्यत्वम् अन्यत्वान् निस्तत्त्वम्। इति । अत्र श्लोका भवन्ति ।। घोराद् अगाधाद् अव्यक्ताद् अस्तम् अस्ततरं जनाः। प्रतीपभूतम् अन्यस्या मन्यन्ते तत्त्वबुद्धयः। ये त्व् अबुद्धास् तपोयोगाद् एकत्वं नानुपश्यति (सिच्)। ते व्यक्तनिष्ठाद् एकत्वाज् जायन्ते च म्रियन्ति च। निर्द्वंद्वधर्मिणो नित्यम् अत्यन्तं द्वंद्वधर्मिणा। अनित्याच् च महाराज द्वंद्वनिष्ठा भवन्ति ते। अश्रद्दधानाः शास्त्रस्य द्वैधीभावाच् च पार्थिव। कालस्यास्ये निमज्जन्ति उन्मज्जन्ति भवे नराः। अद्वैधात् तु भवेन् मोक्षो ह्य् अव्यक्तग्राहधर्मिणाम्। पञ्चशिख उवाच। विमुच्यैतद् विमोक्षः स्याद् अविमोक्षात् पुनर्भवः। भोः संयमन एवम् अन्यो ऽव्यक्तधर्मिणो ऽप्य् अगुणो गुणधर्मिणो ऽप्य्। अचलश् चलधर्मिणो ऽप्रकृतिः प्रकृतिधर्मिणः क्षेत्रज्ञः क्षेत्रधर्मिणो। विमुक्तश् चाविमुक्ताद् विमलश् चाविमलाच् छुद्धो ऽशुद्धाद् योगश् चावियोगान्। मोक्षश् चाविमोक्षात् । एवं पुष्करपर्णस्थ इवाब्बिन्दुर्। नित्यम् असक्तस् तत्स्थत्वान् मशकोदुम्बरयोर् मत्स्योदकयोश् च यथाव्यक्तं। भवति सहभावाद् एवम् अस्य क्षेत्रज्ञस्यान्यत्वं भवति । तद् उष्यमाणस्य। पश्येनापश्यस्य पश्यतश् चापश्यबुद्ध्याबुद्धस्य चेतनाचेतनस्य। केवलाकेवलस्य नित्यानित्यस्य ज्ञानाज्ञानस्य । एवम् अस्य भोः। अज्ञातस्याव्यक्तस्योपकरणं शोकाद् अशोकं, मोहाद् अमोहं,। स्थिरात् स्थिरं, अभ्राद् अनभ्रं व्रणाद् अव्रणं काजाद् अकाजं सीमाद् असीमं। पुराद् अपुरं पुरस्य चाप्य् अवदारणं पुरत्वम् उपदिश्यते । लोकाद् अलोकं। कालाद् अकालं भयाद् अभयं शिवाद् अशिवं विभुत्वाच् चाविभुत्वम् ।। एवम् अस्यानुपश्यतः खल्व् अव्यक्तम् अविजनम् अस्यैकत्वं परम् अनुपश्यतो। नानात्वात् क्षेम्याद् अक्षेम्यः स्याद् अक्षेम्याद् अव्यक्तात् । भवन्ति। चात्र श्लोकाः ।। क्षेम्याक्षेम्यं नानुपश्येत नित्यं। क्षेम्यस् त्व् अन्यस् तं तु नैवानुपश्येत्। षड्विंशो वा पञ्चविंशो नु राजन्न्। अव्यक्तश् च प्राहुर् एवं विधिज्ञाः। यो ऽयं बोद्धा पञ्चविंशः परस्य। स मन्यते ईदृशो ऽस्मीति राजन्। बुद्धस्य वै बोधनात् तेन सम्यग्। गच्छत्य् अयं न चलो नाचलस् त्वम्। एवं बोद्धा केवलात् केवलः सन्। स स्याद् व्यक्तः किं च संज्ञानसंज्ञः। निर्द्वंद्वस्य द्वंद्वभावात्मकस्य। भावान् न स्यान् न प्रभावः शुचिः स्यात्। शुचिप्रबोधाद् अशुचित्वं तदा स्यात्। त्रिलोकसद्भावगुणप्रवर्तकम्। भवत्य् अयं केवल एव केवलः। समेत्य नित्याम् अमलाम् अलं शुचिम्। शुचिप्रबोधनस्य भोः संयमन बुध्यमानस्य पञ्चविंशस्य। बुद्धात् षड्विंशबोधनत्वम् उपदिशन्ति । बोद्धारं बुध्यमानस्य व्यतिरिक्तस्य। व्यतिरिक्तत्वम् उपपद्यते । केवलं नाहम् अस्याः। कश् चिन् नेयं मम का चन षड्विंशस्याहम् अनेन मम सह चैकत्वम् इति ।। तत्र श्लोकः ।। साम्यः साम्यं शुचिं दृष्ट्वा शुचिम् आहुर् मनीषिणः। बहिः कृत्वा तमिस्रालम् अव्यक्ताच् चेतनं परम्। इति ।। तद् एतद् भगवता बुद्धम् अवाप्य महत् तत्त्वं परमर्षिणा परमगुरुणा। मम कपिलेन गुरुणा च ममासुरिणा जातिशतैर् बहुभिर् अवाप्तं। कृत्स्नक्षयं कपिलात् । ममाप्य् एवम् एव शिष्यदशकत्वम् उपगम्य। जातिशतैर् बहुभिर् अवाप्तं भगवत आसुरेः सकाशात् । मत्तश् च कात्यायनेनाप्तम् ।। गौतमेन कात्यायनाद् अवाप्तम् । गौतमाच् च। गार्ग्येणावाप्तम् । तद् एतत् परंपरया बहुभिर् आचार्यैर् अवाप्तं कृत्स्नक्षयम् अमृतार्थतत्त्वं। विमलम् अमलज्ञानम् । अत्यगाधम् अचेतनम् अकेवलम् अव्यक्तम्। अपास्य नित्यं चेतनं केवलं ज्ञानं प्रतिबुद्धं बुध्यमानेन पञ्चविंशकेन। षड्विंशकम् । अत्र श्लोका भवन्ति ।। सुतस्यैतद् वर्णितं मन्नियोगाद्। वाराणस्यां क्रीडमानेन राज्ञा। तत्त्वज्ञानं पृच्छतः प्राञ्जलिः स्यात्। पृच्छंस् तस्य ग्रन्थतश् चार्थतश् च। प्रोक्तं ह्य् एतत् षोडशप्रश्नम् उग्रं। निस्तत्त्वाख्यं विंशत् षट् चैव राजन्। यं वै बुद्ध्वा बालकाय प्रणम्य। मूर्ध्नाभ्यर्णं पादयोर् हृष्यमाणः। पद्भ्यां गतस् तत्त्वम् अवाप्य कृत्स्नं। सनत्कुमाराद् अमृतं परं वै। सनत्कुमारेण ममोपदिष्टम्। एतन् महद् ब्रह्म यथावद् अद्य। तत् ते श्रुतं तद् भव वीतशोक। एतं महाप्रश्नम् अवाप्य चार्थम्। तुल्यं भवान् पश्यतु ब्रह्मणश् चेद्। इन्द्रस्य स्थाणोर् मशकस्य चैव। पतंगकीटे शुनि च श्वपाके। सर्वं हि सर्वत्र नरेन्द्रसिंह। यस् त्व् अन्यथा पश्यति ह्य् अल्पबुद्धिर्। अव्यक्तनिष्ठः स भवेत राजन्। सत्त्वस्य सर्वस्य ह्य् अपश्यमानो। अबुद्धिमान् दुःखम् उपैति नित्यम्। न चास्य दुःखं स तु दुःखम् एति। वैषम्यबुद्धित्वम् अवाप्य मोहात्। तद् गच्छ राजन् स्वपुरीं विशालां। वाराणसीम् अश्वरथेन शीघ्रम्। एतावद् एतत् परमं रहस्यम्। उक्तं मया ते ऽतिविधाय सर्वम्। ज्ञानी भवान् न त्वम् अबुद्धबुद्धिर्। बुद्धिर् हि ते ज्यायसी राजसिंह। बुद्धं त्वयाग्र्यं परमं पवित्रं। षड्विंशकं पञ्चविंशात् परं यत्। न पञ्चविंशकात् पुनः प्रजायते नरोत्तमः। स यत्र तत्र संवसंस् त्रिवर्गविच् छुचिर् भवेत्। शुचिर् हि पञ्चविंशकस् तथैव षड्विंशक-। त्वम् अवबुध्यति यदा तदा शुचिर् भवेद् इति। वैशंपायन उवाच। पुरा युधिष्ठिरो राजा प्रयतेनान्तरात्मना। द्वैपायनम् ऋषिश्रेष्ठं पप्रच्छाथ कृताञ्जलिः। सहितो भ्रातृभिः सर्वैर् उदारमतिभिः शुभैः। पृथिव्याम् उपविष्टैस् तु विनीतैर् उत्तमौजसैः। भगवान् सर्वभूतानां सर्वज्ञः सर्वदर्शिवान्। विश्रुतस् त्रिषु लोकेषु धर्मेण च दमेन च। तद् इच्छाम उपश्रोतुं मङ्गल्यम् ऋषिसत्तम। कथां भगवता प्रोक्तां सर्वपापप्रणाशिनीम्। वयं च यद्य् अनुग्राह्याः सर्वे भगवतो मताः। ब्रूहि सत्यवतां श्रेष्ठ शृणुमोपहिता वयम्। एवं संप्रश्रयाद् उक्तः सत्यात्मा सत्यवादिना। युधिष्ठिरेण सत्कृत्य कृष्णद्वैपायनो ऽब्रवीत्। युधिष्ठिर महाप्राज्ञ कुरूणां वंशवर्धन। श्रोतुम् इच्छसि कौन्तेय भ्रातृभिः सहितः शुभाम्। इमां कथाम् उपश्रुत्य नराणाम् अर्थसिद्धये। विजयश् च नरेन्द्राणाम् इह पार्थ न दुर्लभः। शान्तिकी पौष्टिकी रक्षा सर्वदुःस्वप्ननाशिनी। कथेयम् अमराकारा दैवतैर् अपि कथ्यते। अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्। बाल्ये ऽवाप्तं तु यद् वीर अगस्त्येन महात्मना। पुरा कृतयुगे राजन् महर्षिः कुम्भसंभवः। मित्रावरुणयोः पुत्रः श्रीमान् अतितपाः प्रभुः। स चाश्रमपदे पुण्ये पुण्यकर्मा महातपाः। समा द्वादशको राजन् वयसा भरतर्षभ। स्व आवसथ एकाकी ह्य् अभ्राकाशकृतव्रतः। मित्रावरुणयोः स्वर्गं गतयोः सुकृतात्मनोः। पुष्करस्योत्तरे तीरे सर्वदेवनमस्कृतः। पर्वतो भास्करो नाम भास्कराभः स्वतेजसा। अतः प्रभवते राजन् पुण्यस्रोता महानदी। वरदा वितमा नाम सिद्धचारणसेविता। तस्मिन् गिरिवरे तस्यागस्तेः पैतृक आश्रमः। पुण्यपुष्पफलोपेतैः पादपैर् उपशोभितः। तप्यते शिशुर् एकाकी तपो द्वादशवार्षिकम्। यन् न तप्तं पुरा वत्स दिव्यैर् अन्यैस् तपोधनैः। नेश्वरेण न चेन्द्रेण यमेन वरुणेन वा। नित्योर्ध्वबाहुर् आदित्यं भास्करे तस्थिवान् मुनिः। ऊर्ध्वमुखो निरालम्बो जितात्मा पवनोपमः। निरावृतो निरालम्बो नियतात्मा जितेन्द्रियः। निर्द्वंद्वो निरहंकारो निराशो निःस्पृहः क्व चित्। काष्ठभूतस् तपस् तेपे सर्वभूतहिते रतः। निर्वृतो निस्तमा धीरो निवृत्तः सर्वतः समः। तम् एवम् उपसंपन्नम् उदारमनसं शुचिम्। भास्करे वर्तते नित्यं तप्यमानम् अतीव च। अवर्धत महापुण्ये स हि धर्मेण भारत। अथ कौन्तेय कालेन केन चिद् भरतर्षभ। अष्टाशीतिसहस्राणि यतीनां पुण्यकर्मणाम्। आनुपूर्व्येण यातानि महीं कृत्वा प्रदक्षिणम्। सपर्वतवनोद्देशां सनदीनदसागराम्। द्वैपायन उवाच। तत्र तत्र महापुण्याः पुण्यतीर्थाभिलाषिणः। एतस्मिन्न् अन्तरे पार्थ ऋषिसंघः स वै महान्। प्रदक्षिणं महीं कृत्वा भास्करं गिरिम् अभ्ययात्। ते तं गिरिवरं पुण्यम् अथ कृत्वा प्रदक्षिणम्। ततो गिरिनदीं पुण्यां तीर्थहेतोर् उपागमन्। अष्टाशीतिसहस्राणि तत्र नद्यां युधिष्ठिर। विगाह्य तज् जलं राजन् प्रहृष्टा मुनयो ऽभवन्। के चित् सस्नुर् यथाकामं के चिद् अत्र उपस्पृशन्। के चित् पुण्येन तोयेन पितॄन् देवान् अतर्पयन्। के चित् प्रक्रीडितास् तत्र जपन्त्य् अन्ये तपोधनाः। अध्यात्मं चिन्तयन्त्य् अन्ये के चिद् वेदान् अधीयिरे। कथाः शुश्रुवुर् अन्ये च प्रोक्ता अन्यैस् तपोधनैः। ध्यानम् अन्ये ह्य् उपासन्त निषेदुश् च तथा परे। एवं तैर् ऋषिभिः सिद्धैर् वितमा पुण्यवर्धनी। नदी सा पुरुषव्याघ्र द्योतते तैस् तपोधनैः। एतस्मिन्न् अन्तरे पार्थ देवराजः पुरंदरः। पितामहं पुरस्कृत्य सह देवैः समेयिवान्। वितमायां तद् एकान्ते तस्यां नद्यां युधिष्ठिर। अथाब्रवीत् पुष्करजः सुरेश्वरम् अरिंदमम्। विज्ञाय मुनिसंघस्य धर्मे रागम् उपस्थितम्। पुरंदर महाबाहो सर्वथा श्रोतुम् अर्हसि। ऋषीणाम् अमरश्रेष्ठ धर्मे रागम् उपस्थितम्। इमं मुहूर्तम् एतेषाम् अहंकारः सुरेश्वर। प्रभविष्यति सर्वेषाम् अस्वर्गीयो न संशयः। स भवान् देशम् उत्सृज्य इमं सुरवरेश्वर। गन्तुम् अर्हसि धर्मात्मन् द्रष्टुम् एतन् न ते क्षमम्। स ततस् तद् वचः श्रुत्वा देवराजः पितामहात्। जगाम भरतश्रेष्ठ सह देवैर् अरिंदम। गते देवेश्वरे शक्रे पितामहपुरोगमे। अष्टाशीतिसहस्राणि परमं हर्षम् अभ्ययुः। ते प्रनृत्ताः प्रगीताश् च तथा प्रहसिता अपि। वितमाया जले पुण्ये तस्मिन् प्रक्रीडिताः परे। एकान्ते च महाप्राज्ञो नारदः कलहप्रियः। तन्त्रीयुक्तकम् आदाय मुनिर् वेदान् अधीतवान्। संवर्तो ऽप्य् अथ कौन्तेय जलाद् उत्थाय भारत। उवाच तान् ऋषीन् सर्वान् हर्षेण महता युतः। श्रूयताम् ऋषिभिः सर्वैर् इदं मम वचो द्विजाः। रोचते यदि सर्वेषां क्रियतां मुनिसत्तमाः। अहम् उग्रतपा विप्रा भवन्तो ऽपि तथैव च। न तुल्यो ऽस्मत्प्रभावेण धर्मेण च तथा परः। दीर्घकालप्रचीर्णस्य यमस्य नियमस्य च। तपोबलं न पश्यामि किम् अप्य् एतत् कथं चन। संवर्तवचनं श्रुत्वा सर्वं तद् ऋषिमण्डलम्। अहंकारवशं प्राप्तं तद् वाक्यम् अभिनन्दति। अहंकृत्वा ततः सर्वे ऋषयः कुन्तिनन्दन। परस्परम् अवज्ञाय तत्र ते ऽथामितौजसः। भृगुस् ततो महाराज सर्वर्षिगणपूजितः। संवर्तवचनं तत्र स सत्कृत्येदम् अब्रवीत्। एवम् एतन् न संदेहो यत् त्वयोक्तं धृतव्रत। तस्मात् प्रभावं तपसो द्रष्टुम् अर्हाम सर्वशः। ऋषयः श्रूयतां तावन् मम वाक्यं धृतव्रताः। अहं शुचिर् अहं श्रेष्ठः अहम् उग्रतपोधनः। अहं प्रधान इत्य् एवं यज् जल्पथ तपोधनाः। किम् एतत् कथयित्वा वो ह्य् अहंकारात् पुनः पुनः। प्रत्यक्षं द्रष्टुम् इच्छाम इह धर्मस्य नः फलम्। न तपो विद्यते यत्र सर्वभूतेष्व् असंशयम्। उपस्पृश्य ततस् तोयं पुनर् अभ्युपगम्यताम्। दृश्यतां सुप्रतप्तस्य धर्मस्य महतः फलम्। यत्र येन तपस् तप्तं तथा दशदशात्मकम्। तद् दर्शयध्वं संगम्य तपो यस्य यथा कृतम्। ततो भृगुवचः श्रुत्वा सर्वं तद् ऋषिमण्डलम्। भृगोर् वचः पुरस्कृत्य तथेत्य् ऊचुर् महर्षयः। ते तु क्रोधाद् अहंकारं प्राप्य सर्वे महर्षयः। नदीं तां वितमां पुण्याम् उपस्प्रष्टुं विचक्रमुः। ते तत्र भ्रष्टतपसो वितमायां जलं शुभम्। उपस्पृश्य महाराज जप्यम् आवर्तयंस् तदा। ततस् तद् गगनं रुद्धं सर्वैस् तैर् ऋषिसत्तमैः। तपोबलं नरश्रेष्ठ दर्शयद्भिर् असंशयम्। कश् चिद् आकाशम् आविश्य ज्वलद् धर्मेण केवलम्। अप्सरोभिस् तथा चान्ये पूताः स्वर्गगता द्विजाः। पुष्पवर्षैस् तथा चान्यैः पूज्यन्ते गुह्यकैर् अपि। के चिद् आकाशम् आविश्य दिव्यां चेष्टाम् अकुर्वत। तथासीत् सुमहान् नादो हर्षात् तेषाम् अरिंदम। अन्योन्यं पश्यतां तत्र हसतां च युधिष्ठिर। ते दृष्ट्वा बलम् अन्योन्यं धर्मस्य भरतर्षभ। तद् एवं कथयन्तस् ते तीरे नद्यास् तथा विभो। तं तु दृष्ट्वा विदित्वा च धर्मलोपं महात्मनाम्। नारदः कुरुशार्दूल घट्टयंस् तन्त्रियुक्तकम्। अथ ते ऋषयः सर्वे गन्तुकामा नभस्तलम्। यथापूर्वम् अमित्रघ्न अशक्ता गमनाय हि। अष्टाशीतिसहस्राणि मुनीनां भावितात्मनाम्। अशक्ता गमने राजंस् ततो ऽन्योन्यम् अपश्यत। ते निरस्ता निरुत्साहा निराशा गमनं प्रति। तत्रैवासन् महाभाग भ्रष्टपक्षाः खगा इव। परस्परम् उदैक्षन्त एवम् उक्त्वा महर्षयः। किम् इदं किं न्व् इदम् इति धिक् कष्टम् इति चापरे। ते वीक्षमाणाः कृपणाः स्वर्गे विगतचेतसः। अहंकारेण महता वसुधायां निपातिताः। मोहस्य वशम् आगम्य सर्व एव विचेतसः। न किं चिद् अभिजानन्ति धर्मस्य गमनस्य वा। यदा विमनसः सर्वे खगाः खात् पतिता इव। अथैतान् नारदोवाच हर्षाद् इदम् अथो वचः। किम् उदीक्षथ मोहस्था नाकपृष्ठं यियासवः। दुर्लभो ऽयं गुणो भूयो भवतां नष्टधर्मिणाम्। अहंकारेण महता नष्टो धर्मः सनातनः। एवं गते न पश्यामि स्वर्गं गन्तुं यथा पुरा। एते स्थ ऋषयः सर्वे पक्षहीनाः खगा इव। तेन धर्मातिलोपेन चिन्तितेन दुरात्मना। एते स्थ सर्वे संवृत्ता निराशा गमनं प्रति। द्वैपायन उवाच। नद्यास् तीरे शुभे पुण्ये धर्मं कुरुत यत्नतः। तस्य तद् वचनं श्रुत्वा ऋषयो दीनचेतसः। तं नारदम् ऋषिश्रेष्ठं प्रह्वा भूत्वाथ ते ऽब्रुवन्। पुनर् अस्मद्विधैर् भूयो नाकपृष्ठं तपोधन। अधिष्ठातुं कथं वापि न भवेद् धर्मसंकरः। तेषां तु वचनं श्रुत्वा नारदः पुनर् अब्रवीत्। मुहूर्तं ध्यानम् आस्थाय योगम् आगम्य वै शुभम्। अहंकारस्य जानीध्वम् ऋषयो दारुणं बलम्। किम् आशास्य तु पापस्य कर्मणश् चरितस्य वै। अहो फलम् अनार्यस्य दुष्कृतस्य महत् त्व् इदम्। यद् एवं प्राप्यते दोषस् त्व् अहंकारो महर्षिभिः। क्व तद् वर्षसहस्राणि तप्तस्य तपसः फलम्। क्व तन् नष्टं पुरा त्व् इष्टं नियमः क्व च वै दमः। यद् ऊर्ध्वबाहुभिः शान्तैः क्व नु तस्य फलं गतम्। यदर्थं चार्चिता देवाः पितरश् च तपोधनाः। क्व नु तस्य फलं विप्राः तपसो ऽग्र्यस्य वै गतम्। एते कर्तव्यधर्माः स्थ पुनर् एव यथा पुरा। एवं गते न पश्यामि गमनं वस् त्रिविष्टपम्। अहंकारप्रभावेण तेन संशयिता गतिः। अहम् अप्य् अनुगन्ता वै केवलेन तु कर्मणा। अनेन कारणेनाप्तम् एवं संशयम् आत्मनि। तद् इयं प्रवरस्रोता नदी पुण्यजला शुभा। कर्तव्यो धर्म इह तु यदि नास्ति नभोगतिः। वायुभक्षा निराहारा नियता विजितेन्द्रियाः। इह धर्मं सुनिभृता भवन्तः कर्तुम् अर्हथ। इह देवेश्वरेणापि वासवेन महात्मना। धर्म उग्रः सुचरितो वितमायाः पुरोपरि। इह देवेन देव्या च रुद्रेण सुमहत् तपः। तप्तं वर्षसहस्राणि दिव्येन विधिना पुरा। इमां सरिद्वरां प्राप्य विष्णुनापि महात्मना। शुभं जलम् उपस्पृश्य प्राप्तो दुस्तरसंक्षयः। एष प्रभावो धर्मज्ञा नद्या अस्या न संशयः। चरित्वेह ततः पुण्यं गमिष्यथ शुभां गतिम्। यदा विमनसः सर्वे परं दैन्यम् उपागताः। सर्व एव महात्मानः ततस् तान् नारदो ऽब्रवीत्। दैन्यम् एतत् परित्यज्य सर्वकार्यावसादकम्। श्रोतुम् अर्हथ वै सर्वे प्रयतेनान्तरात्मना। यच् च वक्ष्यामि तत् कार्यं भवद्भिः कार्यसाधनम्। सर्वथा मानम् उत्सृज्य विनयेन दमेन च। यद् इदं वचनं मे ऽद्य करिष्यथ तपोधनाः। इदं मुहूर्तम् आकाशं यथापूर्वं गमिष्यथ। यदि मद्वचनं सर्वे यथोक्तम् अनुतिष्ठथ। अस्मिन् मुहूर्ते सर्वेषां कल्मषं नाशम् एष्यति। अनृतं नोक्तपूर्वं मे मुनिर् अस्मि धृतव्रताः। मद्वचः श्रूयतां साधु नारदो ऽस्मि तपोधनाः। धर्मो वस् त्यक्तमानानां स्वर्गश् चैव भविष्यति। इदं मुहूर्तं सर्वेषां मद्वाक्यं परिगृह्य तु। भावज्ञेयानि धर्म्याणि वाक्यानि सुहृदां सदा। क्रियताम् अविचारेण ममेदं वचनं हितम्। संवर्तस्य हितार्थाय यथावद् इह लप्स्यथ। कथयिष्यामि वः सम्यक् सर्वेषाम् एव साधुषु। श्रुत्वा क्षमाक्षमं ज्ञात्वा यद् धितं तत् करिष्यथ। द्वैपायन उवाच। शाश्वतं च ध्रुवं चैव यथास्थानं गमिष्यथ। ते तस्य वचनं श्रुत्वा तदा ऋषिवरा नृप। हर्षेणोत्फुल्लनयनाः सर्व एव तदाभवन्। तं भृगुः प्रयतो भूत्वा देवर्षिं नारदं तदा। उवाच पुरुषश्रेष्ठ विस्मयाद् रुचिरं वचः। किं नु तद् दैवतं ब्रह्मन् व्रतं वा नियमो ऽपि वा। यत् कृत्वा खेचरश्रेष्ठ नाकपृष्ठं लभेमहि। सर्वथा नैतद् आश्चर्यं देवर्षे तव यन् मतम्। अस्माकम् अनुकम्पार्थं यत् त्वं वदसि धार्मिक। ततो वद हितं वाक्यं पापम् एतत् प्रमार्जितम्। को वा स नियमो विप्र समाधेयो हि नः पुनः। तद् एते वै वयं सर्वे ऋषयो मुनिसत्तम। बद्धाञ्जलिपुटाः प्रह्वास् तव साधो प्रसादने। तत् तु धर्मात्मनः श्रुत्वा भृगोर् वाक्यं महायशाः। कृताञ्जलिपुटांस् तांश् च ऋषीन् दृष्ट्वा महामुनिः। ततः प्रहस्य तद् वाक्यं नारदो मुनिसत्तमः। सर्वान् एव समासीनान् इदं वचनम् अब्रवीत्। हन्त वः कथयिष्यामि सर्व एव निबोधत। क्षमं चाप्य् अनुकूलं च स्वर्गाय च हिताय च। एष शैलवरे बालो मित्रावरुणसंभवः। अगस्त्यो नाम धर्मात्मा भास्करे तप आस्थितः। धैर्येण तपसा चैव धर्मेण च दमेन च। न तुल्यो विद्यते यस्य सर्वेषां भवताम् अपि। तं बालम् उग्रतपसं धर्मात्मानम् अनिन्दितम्। अभिगच्छत संहृत्य ऋषयो मानम् आत्मनः। यदि मानं च मोहं च त्यक्त्वा दर्पं च केवलम्। अभिगच्छत तं बालं गमिष्यथ यथा पुरा। स ह्य् अर्क इव तेजस्वी भास्करे पर्वतोत्तमे। तपश् चरति लोकस्य स्वस्तिहेतोर् धृतव्रतः। न तुल्यस् तेजसा तस्य धर्मेण च दमेन च। उपतिष्ठत तं सर्वे वरदं मुनिपुंगवम्। ततस् तस्य वचः श्रुत्वा नारदस्य महात्मनः। हृष्टेन मनसा सर्वे तस्य वाक्यम् अधिष्ठिताः। नारदं ते तथेत्य् उक्त्वा सर्वे कृत्वा प्रदक्षिणम्। प्रसन्नमनसो वीर जग्मुस् ते भास्करं गिरिम्। ते तं गिरिवरं पुण्यं सर्वकालफलद्रुमम्। अधिरुह्य यतात्मानः सर्वतः प्रत्यलोकयन्। स तु पर्वतराजस्य भास्करस्यांशुमान् इव। उपर्य् उपरि धर्मात्मा चरत्य् उग्रं तपः शुचिः। तं दृष्ट्वा विस्मिताः सर्वे ऋषयः शत्रुसूदन। तस्मान् नातर्कयंस् ते तद् यद् उक्तं नारदेन वै। ततस् त्व् अभिगताः सर्वे तं बालम् ऋषिसत्तमाः। अष्टाशीतिसहस्राणि प्रयतानि यतानि च। सर्वेषां वचनात् तेषां भृगुस् तत्र यतव्रतः। अब्रवीत् तं महात्मानं दीप्यमानः स्वतेजसा। अगस्त्य श्रेष्ठ साधूनां नित्यं सुचरितव्रत। श्रोतुम् अर्हसि धर्मज्ञ वचो मुनिवरात्मज। वयं दैवतसृष्टेन अहंकारेण मोहिताः। दमम् उत्सृज्य धर्मेण रागस्पृष्टा विमोहिताः। भवत्प्रसादाद् इच्छामो गन्तुम् इष्टां शुभां गतिम्। अहंकारादिदग्धानां सर्वेषां शरणं भव। अष्टाशीतिसहस्राणि मोक्षयित्वा भवान् इमान्। कल्मषाद् अतिधर्मेण शश्वल् लोकान् अवाप्स्यसि। दानेनानेन धर्मस्य महर्षे मुनिसत्तम। आत्मानं च पितॄंश् चैव जीवलोकं च तारय। वयं त्वा प्रयताः सर्वे स्वर्गहेतोर् उपस्थिताः। अष्टाशीतिसहस्राणि तारयेमानि तेजसा। वयं त्व् अभिगताः सर्वे भवतः स्वर्गकाङ्क्षिणः। आशया त्वत्सकाशाच् च काङ्क्षमाणाः शिवं पदम्। यथार्थं कुरु धर्मज्ञ ऋषीणाम् इह चागमम्। द्वैपायन उवाच। अर्हसे तेजसा स्वेन रक्षितुं शरणागतान्। स तान् ऋषिगणान् दृष्ट्वा अगस्त्यः शरणागतान्। बद्धाञ्जलिपुटान् सर्वान् प्रहृष्टवदनो ऽभवत्। प्रत्यर्चयित्वा सर्वान् वै विनयेनोपगम्य च। कृताञ्जलिर् उवाचेदं सर्वान् स ऋषिसत्तमान्। सुस्वागतं वो भवतु साधूनां सर्वशस् त्व् इह। स्वम् आश्रमपदं तावद् ऋषीणां भवताम् इदम्। ततस् तेष्व् अर्हतः कृत्वा स चातिथिविधिं द्विजः। उपविश्य यथान्यायं प्रश्रयावनतः स्थितः। अगस्त्यस् तांस् ततः सर्वान् कृताञ्जलिर् अभाषत। नमो भगवताम् अस्तु सर्वेषाम् एव वः समम्। पुत्रो ऽहं भवतां साधु शिष्यो वा प्रणतो ऽब्रुवम्। का शक्तिर् मम बालस्य मुनेर् अकृतकर्मणः। भवताम् अभयं दातुं स्वर्गं प्रापयितुं तथा। मुनेः कर्तव्यधर्मो ऽयं केवलं किं चिद् एव हि। नाम धर्म इति श्रुत्वा किं चिन् नियमवान् अहम्। कुतो धर्मः कुतः पुण्यं कुतो दानं कुतो दमः। येन दद्याम् अहं धर्मं भवतां स्वर्गकाङ्क्षिणाम्। प्रसीदत न मे रोषं यूयं वै कर्तुम् अर्हथ। संभावयामि नात्मानं येन दद्याम् अहो ऽभयम्। तद् एतद् वचनं श्रुत्वा मुनेस् तस्य महात्मनः। चक्रुस् ते गमने बुद्धिं ताम् एव वितमां तदा। ततस् त्व् अगस्त्यः सहसा तान् उवाच धृतव्रतः। अष्टाशीतिसहस्राणि ऋषीणां भावितात्मनाम्। शिरस्य् अञ्जलिना बालः प्रणम्य शिरसा ह्य् अपि। इदं वचनम् इष्टात्मा सर्वान् एव तदाब्रवीत्। न गन्तव्यम् अलं तावत् सर्वैर् ऋषिगणैर् इतः। दास्यामि यदि शक्ष्यामि स्वर्गीयं भवतां वचः। गमिष्यथ यथापूर्वं यदि धर्मो भविष्यति। मुहूर्तं स्थीयतां तावद् यावत् तावद् उपस्पृशे। स गत्वा वितमां पुण्याम् ऋषिस् त्वरितम् आत्मवान्। यथाविधि उपस्पृश्य ततस् त्व् अभ्याजगाम ह। ततः पूर्वां दिशं धीमान् अधिष्ठाय कृताञ्जलिः। हृष्टेन मनसोवाच स्थितो ह्य् ऊर्ध्वम् उदङ्मुखः। यद्य् अस्ति सुकृतं किं चिद् देवता वा सुपूजिताः। अष्टाशीतिसहस्राणि यान्त्व् एतानि यथा पुरा। ध्रुवाय चास्तु सर्वेषां स्वर्गं स्थानं महात्मनाम्। मम सत्येन तपसा नियमेन दमेन च। एतस्य वचनस्यान्ते ततस् तु भरतर्षभ। अष्टाशीतिसहस्राणि मुनीनां पुण्यकर्मणाम्। स्वर्गम् आरुरुहुस् तानि मुदितानि यथा पुरा। वचनं श्रूयते तत्र साधु साध्व् इत्य् अनन्तरम्। साधु पुत्र सुपुत्रस् त्वं मित्रस्य सुधृतव्रत। साधु सत्त्ववतां श्रेष्ठ साधु सत्यवतां वर। साधु दानम् इदं पुण्यं साधु ब्रह्मण्यता च ते। त्वत्प्रसादाद् वयं सर्वे नाकपृष्ठम् इदं क्षणात्। प्राप्तवन्तो यथापूर्वम् अहो दानं तवाक्षयम्। नेदुर् दुन्दुभयः स्वर्गे अहो दानफलस्य वै। घुष्यते चाप्य् अहो दानं त्रिभिर् लोकैर् महामुने। देवा महोरगा यक्षा गन्धर्वाः सिद्धचारणाः। अगस्त्यं पुरुषश्रेष्ठं पुष्पवर्षैर् अवाकिरन्। गन्धर्वा गीतघोषेण विचित्रैर् वादितैस् तथा। अहो दानं घोषयन्तो अगस्त्यं पूजयन्ति वै। ऊर्वशी मेनका रम्भा श्यामा काली तथैव च। रामा योजनगन्धा च गन्धकाली तथैव च। वराप्सरा ह्य् अनृत्यन्त अगस्त्यं भरतर्षभ। अहो दानं घोषयन्ति शतशश् चैव मानद। मनोरमं सुसंहृष्टा देवगन्धर्वपन्नगाः। घोषयन्तो महानादम् अगस्तेर् मुदितास् तदा। तिष्ठन्त्य् अभिमुखाः स्वर्गं साधु साध्व् इत्य् अथो ऽब्रुवन्। ध्रुवं ते चाप्य् अहो दानं तस्य लोकास् त्रयस् तदा। दिव्यपुष्पधरा मेघाः सर्वतः समुपस्थिताः। ववृषुः पुष्पवर्षाणि अगस्त्यस्याश्रमं प्रति। एवं तदा महाराज अगस्तेः साधुवादिनः। द्वैपायन उवाच। घुष्यते चाप्य् अहो दानं सर्वतो भरतर्षभ। अहो दाने घुष्यमाणे ब्रह्मर्षेस् तस्य वै तदा। नारदः परमाश्चर्यम् अद्भुतं प्रतिवीक्ष्य तत्। स तस्माद् वितमातीराद् उत्थाय मुनिपुंगवः। हर्षेण महता युक्तो भास्करं गिरिम् आरुहत्। सो ऽधिरुह्य महाप्राज्ञ पश्यते बालकं मुनिम्। निर्विकारं तदासीनं धैर्येण महतान्वितम्। तं दृष्ट्वा नारदो बालम् अगस्त्यं मुनिसत्तमम्। देवर्षिर् वर्धयाम् आस हर्षाद् अमरसंनिभम्। दिष्ट्या वर्धसि धर्मज्ञ ध्रुवाय मुनिसत्तम। भवता विजिता लोका हितकाम महामुने। अष्टाशीतिसहस्राणि प्रापयित्वा नभस्तलम्। तद् एतद् भवतावाप्तं महादानं महोदयम्। नैतद् इन्द्रादिभिर् देवैर् अवाप्तम् ऋषिभिर् न च। यत् त्वयाद्य महाप्राज्ञ प्राप्तं बालेन केवलम्। स्वर्गीयम् एतद् धर्मज्ञ ध्रुवाय मुनिसत्तम। भवता विजिता लोकाः सर्वलोकहितैषिणा। कर्तव्यो बहुलश् चैव त्वया धर्मो ह्य् असंशयम्। भवान् अस्मिन् युगे पूर्वे ऋषिर् एको गुणैः स्मृतः। भविष्यसि महाप्राज्ञ ध्रुवः शाश्वत अव्ययः। तस्य तद् वचनं श्रुत्वा नारदस्य महात्मनः। अभिवाद्य यथान्यायम् इदं वचनम् अब्रवीत्। भगवन् केवलं बाल्याद् अवाप्तं तपसा विभो। मयाद्य कथम् अप्य् उक्तं कृते तेषां महात्मनाम्। ते गताः सहसा सर्वे वचनान् मम नारद। नाकपृष्ठं महात्मानः स हि धर्मः समार्जितः। अगस्त्यवचनं श्रुत्वा नारदो भरतर्षभ। उवाच परमप्रीतस् तद् वाक्यम् अभिपूजयन्। किं नाम बुध्यसे ऽऽत्मानम् अगस्ते पूर्वनिर्जितान्। लोकांस् त्वया महाप्राज्ञ धर्मेण महता चिरम्। भवान् एको मुनिः पूर्वं वृषभो नाम नामतः। यदा च वर्षकोटी वै युगम् आसीन् महाव्रत। दिव्यसंकल्पकं नाम पूर्वकल्पे कृते युगे। यदा द्वीपान् समुद्रांश् च पर्वतांश् च वनानि च। विष्णुः संकल्पयाम् आस सहितः पद्मयोनिना। तदापि हि भवाञ् जातः सलिलाद् धि स्वयं प्रभो। पुष्कराच् च यथा ब्रह्मा यथा तोयाच् च पावकः। तथा त्वम् अपि धर्मज्ञ स्वयंभूः सलिलोद्भवः। एवं हि कथयाम् आस वरदः पद्मसंभवः। तव सर्वं महाप्राज्ञ पूर्वजन्म तपोमयम्। अगस्त्य उवाच। तन् न ते ज्ञानसंज्ञेयस् तव जन्म प्रबुध्यताम्। यथा तथास्तु भगवन् दिष्ट्या ते ऋषयो गताः। दिष्ट्या ते न वृथा सत्या भगवन् वाग् उदाहृता। अहंकारकृतं मन्ये न च सत्यं ममान्यथा। व्यास उवाच। न स्मराम्य् अनृतं तात कदा चिद् अपि भाषितम्। युधिष्ठिर महाप्राज्ञ श्रूयतां परमाद्भुतम्। यच् छ्रुत्वा मनुजश्रेष्ठ कल्मषं नाशम् एष्यति। भविष्यति न दुःस्वप्नः पापं न प्रभविष्यति। नित्यं स्वस्तिकरं धन्यं पुत्रपौत्रे भविष्यति। भविष्यति महाराज जीवलोके ऽप्य् अनामयम्। तद् इदं कथयिष्यामि कुन्तीपुत्र निबोध मे। पुरा द्वादशवर्षेण यद् अवाप्तम् अगस्तिना। स कदा चिन् महाराज महात्मा कुम्भसंभवः। उपवासस्य महतः समाप्तौ नियतव्रतः। उपविष्टः शुचिः स्नातः समाप्तौ सुधृतव्रतः। ततस् तु सहसा ह्य् एव उत्पपात महातपाः। स जगाम तदाकाशं वायुनेव समुद्धतः। देवगन्धर्वचरितां गतिं सिद्धनिषेविताम्। स सिद्धचारणाकीर्णां विद्याधरनिषेविताम्। प्राप्यान्तरिक्षं भगवान् किं स्वित् किम् इति चाब्रवीत्। स सप्तमपथं गत्वा पवनस्य महातपाः। स जगाम तदाकाशं वायुनेव समुद्धतः। देवगन्धर्वचरितां गतिं सिद्धनिषेविताम्। पश्यते विमलाः सर्वा दिशो दश नृपोत्तम। विमानानि च देवानां पर्वतांश् च वनानि च। महानुभावान् यक्षांश् च सर्वतः प्रविलोकयन्। देवतानां निकेतानि दिव्यानि भवनानि च। गन्धर्वनगरं चैव तत्र तत्रान्ववैक्षत। सप्तद्वीपवतीं रम्यां बहुपर्वतशोभिताम्। पट्टणागारकीर्णां च चतुःसागरमण्डिताम्। सो ऽपश्यत महीं रम्याम् अगस्त्यो भरतर्षभ। दिव्येन चक्षुषा राजन् दैवतानि च भारत। ततस् त्व् आकाशम् आविश्य सप्तवायुपथां गतिम्। अगस्त्यो नीयते राजन् धर्मेण भरतर्षभ। स पश्यति नभो दीप्तं ज्वालार्चिर्भिर् निरन्तरम्। धूमान्धकारसंछन्नं प्रदीप्तवनसंनिभम्। तं दृष्ट्वा व्यथितस् त्व् आसीत् स तदा कुम्भसंभवः। किम् एतद् इति चाविग्नश् चक्रे संस्थाम् अवस्थिताम्। ततस् तु सहसागत्य दैवतं पुरुषाकृति। तस्थौ वै पार्श्वतस् तस्य अगस्त्यस्य कृताञ्जलिः। स तु तं प्रश्रयाद् एव उपसंगम्य चाब्रवीत्। अगस्त्यः प्रयतो नित्यं शुचिना चैव चेतसा। ब्राह्मणो ऽस्मि महाभाग कथम् अभ्यागतो नभः। ततः प्रदीप्तम् आलोक्य शङ्कितः साधु कथ्यताम्। सशरीरतया नेदं विदितं मे यथाविधम्। ततो ऽस्मि व्यथितो देव तत् प्रसीद वदस्व मे। एवं पृष्टं तदा राजन् मुनिना दैवतं तु तत्। सत्कृत्य वचनं तस्य ततो वचनम् अब्रवीत्। अवगच्छाम्य् अगस्त्य त्वाम् ऋषिं परमधार्मिकम्। सशरीरम् अनुप्राप्तम् अतो ऽहं समुपस्थितः। इदं खलु नभः सर्वम् अग्निर् एव धृतव्रत। ततो ज्योतिषम् इत्य् उक्तं कारणेन न संशयः। ज्योतींष्य् एतास् तारका वै नक्षत्राणि ग्रहांस् तथा। नित्यं तापयते चापि सहस्रार्चिर् दिवाकरः। इदं तु दहनाकारं यत् पश्यसि धृतव्रत। स्वर्गस् तत्र महातेजा दाहनं पावकस्य च। तत्रार्चिष्मान् हुतवहो लोकत्रयचरो महान्। स्वयम् अग्निः स्थितो विप्र अतो दीप्तम् इदं नभः। अत्रस्थम् अभिगच्छन्ति देवाः सर्षिगणास् तदा। हुताशनं महाभागं वरदं च स्वयंप्रभम्। अत्रस्थं वरदं देवं सर्वदेवनमस्कृतः। अधिगच्छति देवानां शान्त्यर्थं मधुसूदनः। अत्रस्थं दैवतैर् ब्रह्म देवलोकश् च निर्मितः। पर्वताश् च समुद्राश् च द्वीपाश् च सरितस् तथा। एतत् तत् प्रथमं स्थानम् अग्नेस् त्रैलोक्यपूजितम्। प्रदीप्तं यत् त्वम् आलोक्य शङ्कितो ऽभूर् द्विजोत्तम। तद् एतन् निर्विशङ्कस् त्वं मुने प्रविश मा व्यथाः। नेदं धर्मात्मना दीप्तं नभः पवनशीतलम्। तस्य तद् वचनं श्रुत्वा दैवतस्य धृतव्रतः। सत्कृत्य तद् असंमोहाद् विवेश स मुनिर् नभः। स पश्यमानस् तत्रस्थान् देवान् ऋषिगणांस् तथा। जगाम दृश्यमानश् च पूज्यमानश् च तैर् अपि। स तन् नभो महातेजा विवेश हिमशीतलम्। महर्षिर् दैवताकीर्णं पद्मैर् इव जलाशयम्। तत्रस्थानि विमानानि दैवतानां ददर्श च। सध्वजानि पताकाश् च सविमानांश् च तोरणान्। गन्धर्वांश् चैव धर्मात्मा प्रनृत्तांश् चाप्सरोगणान्। सो ऽपश्यत महातेजास् तस्मिन् हौताशने ह खे।
ity etāni sa vākyāni hetumanty arthavanti ca. śrutvā nādhijagau rājā kiṃ cid anyad ataḥ param. yudhiṣṭhira uvāca. avyaktavyaktatattvānāṃ niścayaṃ bharatarṣabha. bhīṣma uvāca. vaktum arhasi kauravya devasyājasya yā kṛtiḥ. atrāpy udāharantīmaṃ saṃvādaṃ guruśiṣyayoḥ. āsurir uvāca. kapilasyāsureś caiva sarvaduḥkhavimokṣaṇam. avyaktavyaktatattvānāṃ niścayaṃ buddhiniścayam. bhagavann amitaprajña vaktum arhasi me 'rthataḥ. kiṃ vyaktaṃ kim avyaktaṃ kiṃ vyaktāvyaktataram | kati tattvāni. kim ādyaṃ madhyamaṃ ca tattvānāṃ kim adhyātmam adhibhūtam adhidaivataṃ ca |. kiṃ nu svargāpyayaṃ kati sargāḥ kiṃ bhūtaṃ kiṃ bhaviṣyaṃ kiṃ bhavyam |. kiṃ jñānaṃ kiṃ jñeyaṃ ko jñātā kiṃ buddhaṃ kim apratibuddhaṃ kiṃ. budhyamānam |. kati parvāṇi kati srotāṃsi kati karmayonayaḥ | kim ekatvaṃ kiṃ. nānātvam | kiṃ sahavāsavivāsaṃ kiṃ vidyāvidyam | iti |. kapila uvāca. yad bhavān āha kiṃ vyaktaṃ kim avyaktam ity atra brūmaḥ | avyaktam |. agrāhyam atarkyam aparimeyam avyaktam | vyaktam upalakṣyate |. yathartavo 'mūrtayas teṣu puṣpaphalair vyaktir upalakṣyate tadvad avyaktaṃ guṇair upalakṣyate. prāggataṃ pratyaggatam ūrdhvam adhas tiryak ca | sataś cānanugrāhyatvāt. sākṛtiḥ |. avyaktasya tamo rajaḥ sattvaṃ tat pradhānaṃ tattvaṃ paraṃ kṣetram |. salilam amṛtam abhayam avyaktam akṣaram ajaṃ jīvam ity evamādīny avyaktanāmāni. bhavanti | evam āha |. avyaktaṃ bījadharmāṇāṃ mahāgrāham acetanam. tasmād ekaguṇo jajñe tad vyaktaṃ tattvam īśvaraḥ. tad etad avyaktam | prasavadhāraṇādānasvabhāvam āpo dhāraṇe prajanane. ādāne guṇānāṃ prakṛtiḥ sadā parāpramattaṃ tad ekasmin kāryakāraṇe |. **************. yad apy uktaṃ kiṃ vyaktam ity atra brūmaḥ | vyaktaṃ nāmāsure yat pūrvam. avyaktād utpannam īśvaram apratibuddhaguṇastham etat puruṣasaṃjñakaṃ mahad ity uktaṃ. buddhir iti ca dhṛtir iti ca | sattā smṛtir matir medhā vyavasāyaḥ. samādhiḥ prāptir ity evamādīni vyaktaparyāyanāmāni vadanti |. evam āha |. mahataḥ siddhir āyattā saṃśayaś ca mahān yataḥ. putrasargasya dīptyartham autsukyaṃ ca paraṃ tathā. tad evordhvasrotobhimukhatvād apratibuddhatvāc cātmanaḥ prakaroty ahaṃkāram. avyaktāvyaktataram |. yad apy uktaṃ kiṃ vyaktāvyaktataram ity atra brūmaḥ | vyaktāvyaktataraṃ. nāma tṛtīyaṃ puruṣasaṃjñakam |. tad etayor ubhayor viriñcivairiñcayor ekaikaśa utpattiḥ | viriñco 'bhimāniny. aviveka īrṣyā kāmaḥ krodho lobho darpo moho mamakāraś. cety etāny ahaṃkāraparyāyanāmāni bhavanti | evam āha |. ahaṃ kartety ahaṃkartā sasṛje viśvam īśvaraḥ. tṛtīyam etaṃ puruṣam abhimānaguṇaṃ viduḥ. ahaṃkārād yugapad utpādayām āsa pañca mahābhūtāni śabdasparśarūparasagandhalakṣaṇāni |. tāny eva buddhyanta iti | evam āha |. bhūtasargam ahaṃkārād yo vidvān avabudhyate. so 'bhimānam atikramya mahāntaṃ pratitiṣṭhate. bhūteṣu cāpy ahaṃkāro asarūpas tathocyate. punar viṣayahetvarthe sa manaḥsaṃjñakaḥ smṛtaḥ. vikharād vaikharaṃ yugapad indriyaiḥ sahotpādayati | śrotraghrāṇacakṣurjihvātvag. ity etāni śabdasparśarūparasagandhān avabudhyanta. iti pañca buddhīndriyāṇi vadanti | evam āhur ācāryāḥ | vāg ghastau. pādapāyur ānandaś ceti pañca karmendriyāṇi viśeṣāḥ | ādityo 'śvinau. nakṣatrāṇīty etānīndriyāṇāṃ paryāyanāmāni vadanti | evam. āha |. ahaṃkārāt tathā bhūtāny utpādya mahadātmanoḥ. vaikharatvaṃ tato jñātvā vaikharo viṣayātmakaḥ. vikārastham ahaṃkāram avabudhyātha mānavaḥ. mahad aiśvaryam āpnoti yāvad ācandratārakam. kapila uvāca. yad apy uktaṃ kati tattvāni bhavantīti | tad etāni mayā pūrvaśaḥ. pūrvoktāni | evam āha |. tattvāny etāny athoktāni yathāvad yo 'nubudhyate. na sa pāpena lipyeta nirmuktaḥ sarvasaṃkarāt. yad apy uktaṃ kim ādyaṃ madhyamaṃ ca tattvānām ity atra brūmaḥ | etad ādyaṃ. madhyamaṃ coktaṃ buddhyādīni trayoviṃśatitattvāni viśeṣaparyavasānāni. jñātavyāni bhavantīty evam āha | kenety atrocyate |. devadattayajñadattabrāhmaṇakṣatriyavaiśyaśūdracaṇḍālapulkasādir etāni. jñātavyāni buddhyādīni viśeṣaparyavasānāni mantavyāni pratyetavyāny. uktāni | etad ādyaṃ madhyamaṃ ca | etasmāt tattvānām utpattir. bhavati atra pralīyante | ke cid āhur ācāryāḥ | aham ity evam ātmakaṃ. śarīrasaṃghātaṃ triṣu lokeṣu vyaktam | avyaktasūkṣmādhiṣṭhitam etad. devadattasaṃjñakam | dehināṃ yogadarśanam | abuddhapuruṣadarśanānāṃ tu. pañcaviṃśatitattvānāṃ buddhyamānāpratibuddhayor vyatiriktam upekṣakaṃ śuci. vyabhram ity āhur ācāryāḥ | evaṃ cāha |. caturviṃśatitattvajñas tv avyakte pratitiṣṭhati. pañcaviṃśatitattvajño 'vyaktam apy atitiṣṭhati. kapila uvāca. yad apy uktaṃ kim adhyātmam adhibhūtam adhidaivataṃ cet yatra brūmaḥ | adhyātmam. adhibhūtam adhidaivataṃ cāsure vakṣyāmaḥ | pādāv adhyātmaṃ gantavyam. adhibhūtaṃ viṣṇur adhidaivatam | pāyur adhyātmaṃ visargo 'dhibhūtaṃ mitro 'dhidaivatam |. ānando 'dhyātmam anubhavo 'dhibhūtaṃ prajāpatir adhidaivatam |. hastāv adhyātmaṃ kartavyam adhibhūtam indro 'dhidaivatam |. vāg adhyātmaṃ vaktavyam adhibhūtam agnir adhidaivatam | ghrāṇo 'dhyātmaṃ. ghreyam adhibhūtaṃ bhūmir adhidaivatam | śrotram adhyātmaṃ śrotavyam adhibhūtam. ākāśam adhidaivatam | cakṣur adhyātmaṃ draṣṭavyam adhibhūtaṃ sūryo 'dhidaivatam |. jihvādhyātmaṃ raso 'dhibhūtam āpo 'dhidaivatam | tvag adhyātmaṃ. spraṣṭavyam adhibhūtaṃ vāyur adhidaivatam | mano 'dhyātmaṃ mantavyam. adhibhūtaṃ candramā adhidaivatam | ahaṃkāro 'dhyātmam abhimāno 'dhibhūtaṃ. viriñco 'dhidaivatam | buddhir adhyātmaṃ boddhavyam adhibhūtaṃ puruṣo 'dhidaivatam |. etāvad adhyātmam adhibhūtam adhidaivataṃ ca sarvatra pratyetavyānīty. āha |. brāhmaṇe nṛpatau kīṭe śvapāke śuni hastini. puttikādaṃśamaśake vihaṃge ca samaṃ bhavet. avyaktapuruṣayor yogād buddhir utpadyate ''tmani. yayā sarvam idaṃ vyāptaṃ trailokyaṃ sacarācaram. ya etat tritayaṃ vetti śuddhaṃ cānyad upekṣakam. virajo vitamaskaṃ ca nirmalaṃ śivam avyayam. saṃdehasaṃkarān mukto nirindriyam anīśvaram. niraṅkuram abījaṃ ca śāśvataṃ tad avāpnuyāt. yad apy uktaṃ kiṃ nu sargāpyayam iti atra brūmaḥ | tad yathā jarāyujāṇḍajasvedajodbhijjāś. catvāro bhūtagrāmāḥ kālāgnināhaṃkṛtenānekaśatasahasrāṃśunā. dahyamānāḥ pṛthivīm anupralīyante | tadāttagandhā. kūrmapṛṣṭhanibhā pṛthivī apsu pralīyate | tad udakaṃ sarvam. abhavat | agnir apy ādatte toyam | tadāgnibhūtam abhavat | agnim apy ādatte. vāyuḥ | sa vāyur ūrdhvam adhas tiryak ca dodhavīti | tad vāyur bhūtam. abhavat | vāyum apy ādatte vyoma | tad ākāśam eva ninādam abhavat |. tad ākāśaṃ manasi pralīyate | mano 'haṃkāre 'haṃkāro mahati. mahān avyakte tad etat pralayam īhate | pralayāntān mahāpralaya ity ucyate |. praṇaṣṭasarvasvaṃ tama evāpratimaṃ bhavati | agrāhyam acchedyam. abhedyam apratarkyam anādy acintyam anālambam asthānam avyayam ajaṃ śāśvatam. iti | evam āha |. sargapralayam etāvat tattvato yo 'vabudhyate. uttīrya so 'śivād asmāc chivam ānantyam āpnuyāt. kapila uvāca. iti |. yad apy uktam āsure kati sargāṇi prākṛtavaikṛtāni bhavantīti |. atra brūmaḥ | nava sargāṇi prākṛtavaikṛtāni bhavanti | avyaktān mahad. utpadyate | taṃ vidyāsargaṃ vadanti | mahataś cāhaṃkāra utpadyate |. ahaṃkārāt pañcabhūtasargaḥ | bhūtebhyo vikāraḥ | yasmāt kṛtsnasya jagatas. tejas tad etat prabhavāpyayam | evam āha |. utpattiṃ nidhanaṃ madhyaṃ bhūtānām ātmanaś ca yaḥ. vetti vidyām avidyāṃ ca sa vācyo bhagavān iti. yad apy uktaṃ kiṃ bhūtaṃ kiṃ bhavyaṃ kiṃ bhaviṣyac cety atra brūmaḥ |. bhūtaṃ bhavyaṃ bhaviṣyaṃ cāsure trailokyaṃ kālaḥ | sa mahātmā saṃpraty atītānāgatānām. utpādakānām utpādakaś cānugrāhakaś ca tirobhāvakaś cety. evam āha |. bhūtabhavyabhaviṣyāṇāṃ sraṣṭāraṃ kālam īśvaram. yo 'vabudhyati tadgāmī sa duḥkhāt parimucyate. katarasmād duḥkhāt | janmajarāmaraṇājñānabadhirāndhakubjahīnātiriktāṅgavadhabandhavairūpyacintāvyādhiprabhṛtibhir. kapila uvāca. anyaiś cānekair iti |. yad apy uktaṃ kiṃ jñānam iti atra brūmaḥ | jñānaṃ nāmāsure prajñā |. sā buddhir yayā boddhavyam anubudhyate | kiṃ punas tad boddhavyam ity atrocyate |. boddhavyaṃ nāma dvividham iṣṭāniṣṭakṛtam | tad yathā | idaṃ. dharmyam idam adharmyam | idaṃ vācyam idam avācyam | idaṃ kāryam idam akāryam |. idaṃ grāhyam idam agrāhyam | idaṃ gamyam idam agamyam | idaṃ. śrāvyam idam aśrāvyam | idaṃ dṛśyam idam adṛśyam | idaṃ bhakṣyam idam abhakṣyam |. idaṃ bhojyam idam abhojyam | idaṃ peyam idam apeyam | idaṃ. lehyam idam alehyam | idaṃ coṣyam idam acoṣyam |. kutaś caitāny avatiṣṭhante | kva vā pralīyante | kasya vaitāni | kasya. vā naitāni | tatrocyate | avyaktād etāny avatiṣṭhante | avyaktam eva. pralīyante | avyaktasyaitāni naitāni puruṣasyety atrāha | yady avyaktād. etāny avatiṣṭhante 'vyaktam evābhipralīyante |. kena khalv idānīṃ kāraṇeneṣṭāniṣṭakṛtair dvaṃdvair avabudhyate. kṣetrajñaḥ | kasmād abhimanyate mamaitāni dvaṃdvāni | aham eteṣāṃ mattaś caitāny. avatiṣṭhante mayy evābhipralīyanta ity evam āha |. pravartamānān prakṛter imān guṇāṃs. tamovṛto 'yaṃ viparītadarśanaḥ. ahaṃ karomīty abudho 'bhimanyate. tṛṇasya kubjīkaraṇe 'py anīśvaraḥ. yadā tv ayam abhimanyate | avyaktād etāny avatiṣṭhante | avyaktam. evābhipralīyante avyaktasyaitāni naitāni mameti | tadāsya. vijñānābhisaṃbandhād vivāso bhavati | evam āha |. setur iva bhavet prakṛtir jalam iva guṇā matsyavat kṣetrī. tasmin svabhāvalulite jale pravṛtte carati matsyaḥ. evaṃ svabhāvayogāt sṛjati guṇān prakṛtir ity abhimatam | na so 'jñeṣu. pravicarati kṣetrajño jñaḥ paraḥ prakṛter iti |. yad apy uktaṃ kiṃ jñeyam iti | atra brūmaḥ | jñeyaṃ nāmāsure puruṣaḥ. pañcaviṃśatitattvāni bhavanti evam āha |. avyaktaṃ buddhyahaṃkārau mahābhūtāni pañca ca. viśeṣān pañca caivāhur daśaikaṃ ca prakāśakān. ekādaśendriyāṇy eva etāvaj jñeyasaṃjñitam. pañca pañca hi vargāṇi vijñeyāny eva tattvataḥ. pañcaviṃśatitattvāni viditvaitāni tattvataḥ. viśuddhaḥ puruṣaś cāsmād vargahīno na śocati. pañcaviṃśatitattvajño yatra tatrāśrame rataḥ. trayas trivargān yo veda śuddhātmani sa līyate. ke te trayas trivargā ity atra brūmaḥ | sattvaṃ rajas tama iti prathamaḥ |. utpādako 'nugrāhyakas tirobhāvaka iti dvitīyaḥ | buddho 'pratibuddho. budhyamāna iti tṛtīyaḥ | evam ete trayas trivargā bhavanti |. evam āha |. trayas trivargān vijñāya yāthātathyena mānavaḥ. karmaṇā manasā vācā pravimukto na śocati. kāryaṃ kāraṇaṃ kartṛtvam iti trivargaguṇāḥ | ke guṇā guṇamātrā. guṇalakṣaṇaṃ guṇāvayavam | sattvaṃ rajas tama iti guṇāḥ | tatra. tattvadarśanatā bhayanāśaḥ svasthabhāvatā prasannendriyatā sukhasvapnapratibodhanam. iti sattvamātrāḥ | rāgitā matsaritā sāhasikatā. paritāpitāriṣṭasvapnapratibodhanateti rajomātrāḥ | mūḍhatā nidrāveśitā. dharmadveṣitākāryeṣv atipramoditā smṛtināśaś ceti. tamomātrāḥ | guṇavṛttam ity upāsya sarvabhūtamadhyasthas tamasābhibhūtaḥ. svapiti | sattvaviśuddho 'vabudhyate | svapnapratibodhanāntaraṃ raja. kapila uvāca. ity avayavān | ya evaṃ vindate prājñaḥ sarvato vimucyata iti |. yad apy uktaṃ ko jñāteti atra brūmaḥ | jñātā nāmāsure kṣetrajño. draṣṭā śucir upekṣako jñānatriko budhyamānāpratibuddhayoḥ. paraḥ | taṃ viditvā niravayavam anāmayam asmād duḥkhād vimucyata ity evam. āha |. pañcaviṃśatitattvād dhi niṣkalaṃ śucim avraṇam. na śocati naro jñātvā sāṃkhyaśrutinidarśanāt. yad apy uktaṃ kim apratibuddhaṃ kiṃ budhyamānaṃ ceti | atra. brūmaḥ | apratibuddhaṃ nāmāsure avyaktam | budhyamānaṃ buddhistham |. param etābhyām anyad upekṣakaṃ śucijñaṃ vyabhram ity evam āha |. budhyamānāpratibuddhābhyāṃ buddhasya ca nirātmanaḥ. pārāvaryaṃ viditvā tu jñānasāphalyam āpnuyāt. ye tv evaṃ nāma budhyeran yathāśāstranidarśanāt. kapila uvāca. tritayaṃ teṣv asāphalyaṃ śāstrasyābhavad āsure. yad apy uktaṃ kati parvāṇi bhavantīti atrocyate | pañca parvāṇi. tamo moho mahāmohas tāmisro 'ndhatāmisra iti | tama ity ajñānam. evādhikurute | moha ity ālasyam evādhikurute | mahāmoha iti. kāmam evādhikurute | kasmāt | mahatām apy atra devadānavamaharṣīṇāṃ. mahān moho bhavatīti | tāmisra iti krodham evādhikurute |. andhatāmisra iti viṣādam evādhikurute | viṣādaś ca mṛtyuḥ |. sa cāpratibuddhasya bhavati | kasmāt | yat sattvastho 'ham iti paśyan. mohāt sa sattvavināśe nityasya kṣetrajñasya vināśam anupaśyati | yatraikakālam. andhatāmisraṃ viṣādam evārchati | ahaṃ mariṣyāmi. aham amṛto 'nityatvād ajñānatvāc ca | maraṇajananatve svaśarīrasaṃsthite. paraśarīrasaṃjñite cābhiṣvajate | ahaṃ tava mama tvaṃ mātā mama mātur. ahaṃ putro mama pitur aham ity evamādiṣu snehāyataneṣv abhidhatte | satataṃ. duḥkhānubaddhas tāsu tāsu yonyavasthāsv abhiṣicyamāno mama sukhaṃ. mama duḥkham ity evamādibhiḥ sarvadvaṃdvair abhyāhato 'haṃkāraspṛṣṭo. mātsaryakāmakrodhalobhamohamānadarpamadāviṣṭas tṛṣṇārtaś ca | indriyānukūlato. 'tikṛcchratvān niyatamānasaḥ śubhāśubham eva karma kurvan sthāvaranirayatiryagyoniṣv. evopapadyate varṣasahasrakoṭiśatāny anantāny eko 'navabodhāt |. evaṃ hy āha |. parvāṇi parvāṇi ghorāṇi yo 'vidvān nāvabudhyate. sa badhyate mṛtyupāśair harṣaśokasamanvitaḥ. budhyamāno hy adīnātmā viditārthas tu tattvataḥ. vimucyate mṛtyupāśair vidyayā gataniścayaḥ. iti |. yad apy uktaṃ kati srotāṃsi bhavantīti | atra brūmaḥ |. pañca srotāṃsi bhavanti | mukhyasrotas tiryaksrota urdhvasroto 'rvākasroto. kapila uvāca. 'nugrahasrotaś ceti |. yad apy uktaṃ kati karmayonayo bhavantīti | atra brūmaḥ | pañca karmayonayo. bhavanti dhṛtiḥ śraddhā sukhā vividiṣāvividiṣā ceti |. tatra dhṛtir nāma karmayoniḥ | dhṛtiṃ yo 'nurakṣati trividhena. karmaṇā vāṅmanaḥkāyasamuttheneti | evam āha |. vāci karmaṇi saṃkalpe pratijñāṃ yo 'nurakṣati. tanniṣṭhas tatpratijñaś ca dhṛter etat svalakṣaṇam. śraddhā nāma karmayoniḥ | śraddhāṃ yas tv anutiṣṭhate so 'nasūyādamādibhiḥ. vijñānasaṃyogabrahmacaryagurukulanivāsagṛhasthavānaprasthadānādhyayanapratigrahamantrādibhir. nakṣatraniyamaiḥ śreyaḥ prāpsyāmīty. evam anuṣṭhānaṃ kuruta iti | evam āha |. brahmacaryānasūye ca dānam adhyayanaṃ tapaḥ. yajanaṃ yājanaṃ caiva śraddhāyā lakṣaṇaṃ smṛtam. sukhaṃ nāma karmayoniḥ | yaḥ sukhakāmo bhavati prāyaścittaparaḥ. pareṇa yatnenānutiṣṭhati | tad yathā satyaṃ kāmamanyuviṣayagobrāhmaṇakarma |. anulomānām api proktā sāvitrīty anyāś ca vidyā. bahvyo brahmalokaṃ prāpayantīti | evam āha |. karmavidyātapobhis tu yo yatnam anutiṣṭhati. prāyaścittaṃ tapaś caiva tat sukhāyāstu lakṣaṇam. vividiṣā nāma karmayoniḥ | sarvaṃ jñātukāmatā | āgamāṃś ca. kurute śrutiviśeṣākāṅkṣī kva saṃjñā kva vāsaṃjñeti | evam āha |. sarvam etat parijñāya karma hy ārabhate tu yaḥ. saiṣā vividiṣā nāma karmayonir anuṣṭhitā. avividiṣā nāma karmayoniḥ | sarvam evājñātukāmatā. sarvakarmabhyo nivartanam iti | evam āha |. sarvam etat parijñāya karmabhyo yo nivartate. saiṣāvividiṣā nāma karmayonir anuṣṭhitā. yad apy uktaṃ kim ekatvaṃ kiṃ nānātvam iti | atra brūmaḥ | ekatvaṃ. nāmāsure yad ayaṃ sattvam abhiṣvajate kṣetrajñaḥ vyaktaṃ cāvyaktaṃ. cāpratibuddhattvāt tad ekatvam apadiśyate | nānātvaṃ nāma yad ayaṃ sattvād avyaktāc. ca smṛtaḥ samāvartayate | etan nānātvam apadiśyate pratibuddhatvāt |. evam eṣāṃ bhautikāhaṃkārikamāhātmikāvyaktīnāṃ caturṇāṃ. puruṣāṇāṃ sattvenaikatvaṃ bhavati nānātvaṃ ceti | evam āha |. nānātvaikatvam etāvad yo na vindaty abuddhimān. sa badhyate sarvabandhair asaṃbandhād vimucyate. yad apy uktaṃ kiṃ sahavāsavivāsam iti | atra brūmaḥ | sahavāsaṃ. nāmāsure yad ayaṃ sattvam abhiṣajate kṣetrajño 'vyaktaṃ cāpratibuddhatvād. etat sahavāsam ity apadiśyate | vivāsaṃ nāma yad ayaṃ sattvād avyaktāc ca. vāsaṃ pratisamāvartayate pratibuddhatvād etad vivāsam apadiśyate |. evam apratibuddhānāṃ viṣayābhiṣaṅgiṇām eṣāṃ bhautikāhaṃkārikamāhātmikāvyaktikānāṃ. caturṇāṃ puruṣāṇāṃ sattvena sahavāsavivāsam. anyatvāt | evaṃ cāha |. vivāsaṃ sahavāsaṃ ca yo vidvān nāvabudhyate. sa baddhaḥ sattvasaṃvāsaiḥ saṃsārān na pramucyate. iti |. kapila uvāca. yad apy uktaṃ kiṃ vidyāvidyeti | atra brūmaḥ | avidyā nāmāsure. bhavaty eṣā iṣṭāniṣṭāvyatiriktā trayī punarbhāvikī | vidyā nāmāsure. bhavatīṣṭāniṣṭavyatiriktānvīkṣiky apunarbhāvikī | sarvabhūtābhayaṃkarī. sarvalokeṣv ālokanāya sarvajñānāvabodhanābhyudyatā. sarvaduḥkhanirmokṣāyopadiṣṭety ācāryam abhigamya yāthātathyadarśanān na. bhavati | evam āha |. ūrdhvaṃ cāvāk ca tiryak ca na kva cit kāmayed budhaḥ. na hi jñānena cājñāne śarma vindati mānuṣaḥ. mānuṣatvāc ca devatvaṃ devatvāc ca manuṣyatām. sa tu saṃdhāvate 'jasram avidyāvaśam āgataḥ. yas tv avidyām adhaḥ kṛtvā vidyārtham avabudhya ca. nābhinandati na dveṣṭi vidyāvidye sa buddhimān. pārāvarye sukhaṃ jñātvā viditvā ca paraṃ budhaḥ. mucyate dehasaṃtānād dehāc cāmṛtam āpnuyāt. āsurir uvāca. iti |. bhagavan kiṃ kuśalākuśalaṃ vargāvargaṃ kiṃ kṛtsnakṣayaṃ kiṃ śuddhāśuddhaṃ. kiṃ nityānityaṃ kiṃ kevalākevalaṃ kiṃ parāt paraṃ kiṃ paśyāpaśyaṃ. kiṃ śāśvatāśāśvataṃ kiṃ vyatiriktāvyatiriktaṃ kiṃ yogāyogam ity atra. saṃdeho me bhavaty apratyakṣatvāt | pratyakṣaṃ caitad bhagavataḥ |. tad anubhāṣitum arhati bhagavān madanugrahāya dharmeṇa | iti |. kapila uvāca. yad uktam āsure kiṃ kuśalākuśalam iti | atra brūmaḥ | kuśalaṃ. nāma sarveṣu vedeṣu sarveṣu śāstreṣu sarvāsu vidyāsv adhigatayāthātathyatvam |. akuśalaṃ nāma sarveṣām anadhigatayāthātathyatvam |. tad etat kuśalākuśalaṃ karma sattvam āhuḥ | sattvamūle khalv ete. kuśalākuśale sattvabhūte sattva eva pralayaṃ gacchataḥ | sattvaṃ. caivāviśeṣas tyajati | tanmūlaṃ caitat kuśalākuśalam aśeṣataḥ sattvam. iti | evam āha |. kāyena trividhaṃ karma vācā caiva caturvidham. manasā trividhaṃ caiva kuśalākuśalaṃ smṛtam. yad apy uktaṃ kiṃ vargāvargam iti | atra brūmaḥ | vargaṃ nāmāsure. puruṣaḥ pañcaviṃśatitattvāni bhavanti | avyaktaṃ mahān ahaṃkāraḥ pañca. mahābhūtāni pañca viśeṣā ekādaśendriyāṇi | tad vargam | etasmād. vargād apavarga upavṛttaḥ kṣetrajñaḥ śucir upekṣako budhyamānāpratibuddhayoḥ. parastāt | evam āha |. pañcaviṃśāt paraṃ vyaktam ahaṃkāras tataḥ paraḥ. ahaṃkārāt parā buddhir buddher ātmā mahān paraḥ. mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ. parāvarajñas tattvānāṃ prāpnoty ajam anuttamam. iti |. kapila uvāca. yad apy uktaṃ kiṃ kṛtsnakṣayam iti | atra brūmaḥ | kṛtsnakṣayaṃ nāmāsure. puruṣaḥ pañcaviṃśatitattvāni bhavanti | avyaktaṃ mahān buddhir ahaṃkāraḥ. pañca mahābhūtāni pañca viśeṣā ekādaśendriyāṇi puruṣeṇa jñātavyāni. bhavanti | svatas tasmāt tattvāni | nāham eteṣāṃ naitāni mattaḥ. sarvataḥ sarvāṇīti | evam āha |. samyagdarśanasaṃpannaḥ kṛtsnakṣayam avāpnuyāt. kṛtsnakṣayaṃ na cāpnoti asamyagdarśane rataḥ. yad apy uktaṃ kiṃ śuddhāśuddham iti | atra brūmaḥ | śuddhaṃ nāmāsure. kṣetrajño draṣṭā sākṣimātrako budhyamānāpratibuddhayoḥ paro yaḥ. pañcaviṃśatitattvajñaḥ | yathā mantavyaṃ tathā manyate yathā. boddhavyaṃ tathā budhyate yathā vaktavyaṃ tathā bravīti yathā kartavyaṃ. tathā karoty ahaṃkārāpratibuddhatvāt | budhena kṣetrajñena sarvaṃ dṛṣṭaṃ. sarvāgamāḥ sarvadvaṃdvāni sarvajñānāni tapaś cātapaś ca śuddhaś cāśuddhaś ca |. anena mārgeṇa kṣetrajñasyāśuddhadharmiṇaḥ śuddhim ṛcchati | amārgeṇa. jñānadṛṣṭāntāgamaprāmāṇyāt suvipulam api tapas taptvā. saṃsāra eva majjaty apratibuddhatvāt | evam āha |. suśuddhaṃ puruṣaṃ dṛṣṭvāpy aśuddham iti manyate. sa tapo vipulaṃ prāpya saṃsāre pratitiṣṭhati. kapila uvāca. iti |. yad apy uktaṃ kiṃ nityānityam iti | atra brūmaḥ | nityaṃ. nāmāsure 'vyaktam | anityā vikārāḥ | avyaktam anityaṃ pravadanti. sargapralayadharmitvād vikārāṇām | tathaivādhiṣṭhātāram anityaṃ pravadanti. adhiṣṭhānakartṛtvād vikārāṇām | anenaiva hetunā evam etayor ubhayor. nityatvān nityaḥ kṣetrajña ity evam āha |. budhyamānāpratibuddhābhyāṃ buddhasya ca nirātmanaḥ. nityānityaṃ viditvā tu na janma punar āpnuyāt. yad apy uktaṃ kiṃ kevalākevalam iti | atra brūmaḥ | kevalaṃ nāmāsure. paraṃ kṣetrajño 'prakṛtir avikāraḥ | prakṛtivikāraguṇādhiṣṭhitatvād akevalaṃ. buddhisthaṃ budhyamānaṃ puruṣam ācāryāḥ | yadi hy eṣa budhyeta nāham eteṣāṃ. prakṛtivikārāṇām iti kevalaś ca syād anyaś ca. syāt | yadā tv eṣa prakṛtivikārān adhitiṣṭhamāno 'bhimanyate mamaite. prakṛtivikārā aham eteṣām iti tadaiṣa prakṛtivikārāṇām adhiṣṭhitatvād. akevalaḥ syāt | evam āha |. budhyamāno yadā buddhyā vikārān adhitiṣṭhati. tadā saha guṇair eṣa sargapralayabhāg bhavet. yadā tv eṣa vikārāṇām anyo 'ham iti manyate. tadā vikārān utkramya param avyaktam āpnuyāt. kapila uvāca. iti |. yad apy uktaṃ kiṃ parāt param iti | atra brūmaḥ | parāt paraṃ nāmāsure. karmendriyebhyaḥ paraṃ buddhīndriyaṃ buddhīndriyebhyo mano manaso. viśeṣā viśeṣebhyo mahābhūtāni mahābhūtebhyo 'haṃkāro 'haṃkārād. buddhir buddher mahān mahataś cāvyaktam | tad etad āsure parāt paraṃ bhavati |. aparam etat | param etebhyo 'nyaḥ kṣetrajñas tv asargapralayadharmā | asargapralayadharmiṇāv. abuddhabudhyamānāv avyaktapuruṣau | na tv etāvad budhyamānāpratibuddhatvād. buddhaḥ | evam āha |. budhyamānāpratibuddhābhyāṃ buddhasya ca nirātmanaḥ. parāparaṃ viditvā tu na janma punar āpnuyāt. evam etābhyāṃ budhyamānāpratibuddhābhyām anyaṃ buddhaṃ buddhvā na śocatīti |. kapila uvāca. ++++. yad apy uktaṃ kiṃ paśyāpaśyam iti | atra brūmaḥ | anādinidhanād. grāhyatvād āsure śāśvatam avyaktam | prasavadhāraṇādānaguṇasvabhāvatvād. aśāśvatam | anye cācāryās tathaivādhiṣṭhātāram anenaiva. hetunā śāśvataṃ ca varṇayanti | śāśvatas tu bhagavān kṣetrajño bījadharmā. prakṛtivikārayor vyatiriktaḥ śuddhadharmā muktadharmā ceti | evam āha |. paśyaḥ paśyati paśyantam apaśyantaṃ ca paśyati. apaśyas tāv apaśyatvāt paśyāpaśyau na paśyati. iti |. yad apy uktaṃ kiṃ vyatiriktam iti | atra brūmaḥ | vyatiriktaṃ nāmāsure. puruṣaḥ pañcaviṃśakaḥ kṣetrajñaḥ | yathā puṣkaraparṇastho bindur na śleṣam. upagacchanty anyatvāt tathā kṣetraṃ kṣetrajñaḥ | yathā muñjād. iṣīkā nikṛṣṭā na punar āviśati anyatvāt tathā kṣetraṃ kṣetrajñaḥ |. yathodake pravartamāne matsyo na pravartate 'nyatvāt tathā kṣetraṃ kṣetrajñaḥ |. yathodumbare maśako bhinna udumbare na punar abhiṣvajate 'nyatvāt tathā. kṣetraṃ kṣetrajñaḥ | yathā kūlād vṛkṣaḥ pataṃs tat kūlaṃ muñcaty anyatvāt tathā. kṣetraṃ kṣetrajñaḥ | yathā vṛkṣād vā śakunir utpatan sa taṃ vṛkṣam. utsṛjaty anyatvāt tathā kṣetraṃ kṣetrajñaḥ | kasmād anyatvāt | sarveṣām evam. anyatvam | kūlam anyad vṛkṣo 'nyaḥ | maśako 'nyo 'nyad udumbaram |. anyo matsyo 'nyad udakam | muñjam anyad anyeṣīkā | anyad udakam anyat. puṣkaraparṇam | tathānyat kṣetraṃ kṣetrajño 'nyaḥ puruṣaḥ pañcaviṃśakaḥ |. kapila uvāca. anyaś cāsmāt kṣetrajña iti |. yad apy uktaṃ kiṃ viyogāviyogam iti | atra brūmaḥ | aviyogo. nāmāsure viṣayaviṣayiṇau prati viśleṣo na bhavaty apratibuddhatvāt |. viyogo nāmāsure puruṣaḥ pañcaviṃśatīnāṃ tattvānām asaṃsakto nāham. eteṣām anye caite mamety anabhimanyamāno viyogī bhavati |. pañcaviṃśatitattvajñaḥ parātmā bhavate 'mṛtaḥ. kapila uvāca. sa muktas tattvasaṃtānāt pareṇa samatāṃ vrajet. evam etad āsure paraṃ puruṣād anyad vyaktam abuddhaṃ budhyamāno 'bhimanyate |. nānābhāvāt kṣetradharmāvyaktam akṣetradharmā kṣetrajñaḥ | bījadharmāvyaktam abījadharmā. kṣetrajñaḥ | sargadharmāvyaktam asargadharmā kṣetrajñaḥ | prakṛtidharmāvyaktam. aprakṛtidharmā kṣetrajñaḥ | guṇadharmāvyaktam aguṇadharmā. kṣetrajñaḥ | avimaladharmāvyaktaṃ vimaladharmā kṣetrajñaḥ | abuddhidharmāvyaktaṃ. buddhidharmā kṣetrajñaḥ | aśucidharmāvyaktaṃ śucidharmā kṣetrajñaḥ |. amuktadharmāvyaktaṃ muktadharmā kṣetrajñaḥ | aviviktadharmāvyaktaṃ viviktadharmā. kṣetrajñaḥ | akuśaladharmāvyaktaṃ kuśaladharmā kṣetrajñaḥ | apaśyadharmāvyaktaṃ. paśyadharmā kṣetrajñaḥ | acetanadharmāvyaktaṃ cetanadharmā. kṣetrajñaḥ | aviyogadharmāvyaktaṃ viyogadharmā kṣetrajñaḥ | avimokṣadharmāvyaktaṃ. vimokṣadharmā kṣetrajñaḥ | kiṃ ca bhūyo draṣṭā kṣetrajño. draṣṭavyam avyaktam | śrotā kṣetrajñaḥ śrotavyam avyaktam | mantā. kṣetrajño mantavyam avyaktam | boddhā kṣetrajño boddhavyam avyaktam |. evam evāsure anyad avyaktam anyaḥ puruṣaḥ pañcaviṃśatitattvam. kapila uvāca. anyad anyo 'smāt kṣetrajña iti |. evam etad āsure buddhyā buddhvā nirdvaṃdvaṃ nirnamaskāram asvāhākārasvadhākāram. anahaṃkāraṃ kṣetrajñaṃ śuddhaṃ nirdvaṃdvena nirdvitīyena śuddhenālubdhakenāhiṃsakena. yathālabdhopajīvināpy apagatakāmakrodhalobhamohamānadarpeṇātmavatā. sarvabhūtadarśanena samyagdṛṣṭinā yatātmanā. śāntena dāntena śūnyāgāranadīpulinavṛkṣamūlavṛkṣakoṭarabusāgārāvasathagṛhānityena. yātrāmātrabhojanācchādanena yatra kva cana. śāyinā bhikṣuṇā svakāryam anuṣṭhātavyam | pratibhāvyam upasargaṃ jitvā. yogena yogakāryam anuṣṭheyam | tad dvividhaṃ dhyānam | tad yathā prāṇāyāmātmakaṃ. caturvidhaṃ saguṇaprāṇāyāmātmakaṃ ca mānasam aguṇam |. tad yathā śrotraṃ śrāvyebhyaḥ pratisamāvartayati ghrāṇaṃ ghreyebhyaś. cakṣū rūpebhyas tvacaṃ sparśebhyo jihvāṃ rasebhyo mano mantavyebhyo. 'haṃkāram abhimānebhyo buddhiṃ boddhavyebhyaḥ | tad etad idam indriyagrāmam. asmād indriyaviṣayāt svaiḥ svaṃ nirudhya devatāḥ pratisamāvartayati |. jalajānīva pralāyayati mānasebhyaḥ saṃkalpebhyaḥ. pratisamāvartayati mānasam indriyāṇi | mānasebhyaś caivaṃ saṃkalpebhyaḥ. pratisamāvartayitvā mahātmā kratum unnayate | mahākratavo bhūtādiś ca. bhūtaviśeṣāś ca mahaty ātmani mahāntam ātmānaṃ kratūṃś ca vivecayitvā. vyaktam anuyuṅkte | tatrātītaḥ kṣemī bhavati tasmād ayaṃ vivṛtaḥ | yaś ca. tataḥ kṣetrajñam asamāvṛto bhavati nirdvaṃdvo nirdvitīyaḥ. śuddho mukto nityaḥ kevalo bhavati | eṣo 'nta eṣo 'pavarga eṣā. niṣṭhā etan naiṣkarmyam |. tad yathā tathopanayanena pūrvataraiś cācāryair upadiṣṭam | tad evam upadeśaḥ |. tatra śloko bhavati |. yathāsya jāgrataḥ svapno yathā syāt tamasā vṛtaḥ. kapila uvāca. vibhāgajñasya mokṣas tu yas tv ajñaḥ sa punar bhavet. etāvad evāsure dhyānam anuvarṇitam | parisaṃkhyānam api coktam |. caturviṃśatitattvam etat kāraṇam ity atra brūmaḥ | tad etad buddhisthaṃ budhyamānam. etad ācāryāḥ śuddham icchanty anavabodhāt | nānyam aguṇaṃ puruṣam |. kas tv eṣo 'dhiṣṭhātṛsaṃjñakaḥ prakṛtivikārāṇām anyas tv apratīkāraḥ |. +++. tad etat prakṛtivikārasaṃjñakād anyad avyaktāt puruṣaṃ śuddhaṃ niṣkaivalyam. anavayavam ajaṃ kṣemyam evāha |. yeneyaṃ sasutā bahuprasavinī lokāśrayālambinā. yonisthāḥ puruṣāś ca yena viditā buddhyā sadā buddhavat. draṣṭā caiva paro guṇair virahito jñānāt turīyo 'kṣayas. tadvad vartayatīha yaḥ kṛtamatir muktaḥ sa yonyādhikaḥ. tad etad upasaṃkhyānam anuvarṇitaṃ yāthātathyadarśanād anavabuddhānāṃ pratibodhanam. iti |. kapila uvāca. sāṅgopāṅgeṣu setihāsapañcameṣv āsure vedeṣv aṣṭāsu vidyāsthāneṣv. amṛtam uddhṛtya mayānuvarṇitaṃ sāṃkhyajñānam etāvad etaj jñātavyaṃ. pañcaviṃśatitattvāni | tad etan nāputrāya nāśiṣyāya nāsarvasvapradāyine. nāsaṃvatsaroṣitāya vā vartayitavyam | paramajñānam ityartham ṛṣayo. vedaproktaṃ vedyaṃ vetsyantīti | tad etad āsure nāvabudhyanty abhīkṣṇapāpmāno. 'nyathaiva pravṛttāḥ svāhākārasvadhākāroṃkāravaṣaṭkārair. ṛṣikoṭisahasrāṇy anantānīṣṭāniṣṭakṛtena karmaṇā | tathaiva devadānavāsurapiśācabhūtarākṣasavidyādharagandharvayakṣanāgakiṃnarādayo 'nye. ++++. bhūtagrāmā ajñānapatham āśritā ajñānam evāvalīyante | jāyante. cāsakṛd asakṛj jñānāt sthāvaranarakatiryagyoniṣv evopapadyante varṣakoṭiśatasahasrāṇy. anekāni | kathaṃ cit kasya cid dharmabuddhir api. syāt | kuta eva mokṣabuddhiḥ |. te 'py apavargeṇaiva sukhakāmāḥ pratikūladuḥkhanivartanam eva kurvanto. bhāvotpādakaṃ trailokyād anyad apaśyanto niḥsaraṇaṃ trailokyam evāgādhaṃ. prapatanti | tadvad āsure laukikeṣv api tu darśaneṣu paraṃ vedaprāmāṇyam |. te cāpi duḥkhasaṃsāravartakā eva | kuta eva |. vedārthaṃ yajño yajñārthaṃ svargaḥ svargārthaṃ sukhaṃ ca mohāyatanam iṣṭaṃ. mohaprabhavaṃ janma | tac ca sukhaduḥkhahaitukamohaprabhavaṃ janma | tathaiva. cāpi nidhanam | tac cāpi duḥkhahaitukaratam | tasmān mantragrāmo. duḥkhasya parasparaṃ hetuḥ | tasmād upaśamarucayo duḥkhasamudraugham uttitīrṣanto. hitvā sarvavedān upaśamaśāstreṣu prayujyante | tad abhyāsāc. ca śāstrasya duḥkhamārgāvacchedaṃ kurvanti | svātmany ekatvenāvatiṣṭhante. śītībhūtā amṛtaṃ prāptāḥ | evam āha |. teṣāṃ śāstrābhyāsād duḥkhasroto nivartate | atyantacchinne duḥkhasrotasi. śāntir ihāntāya duḥkhasya | tad etad āsure mayotpannamātreṇaivāvabuddhaṃ. prākṛtajñānam | yad antarotpannas tatra bhagavān viriñco. 'pi vikrośitavān saptakṛtvaḥ | yadā na tasya kaś cit prativacanaṃ. bhīṣma uvāca. prāyacchat tataḥ pravṛttas tatra bhavān punaḥ sargāya nivṛtta iti |. tad etat paramajñānam āsurer ācāryeṇānuśastaṃ paramarṣiṇā bhagavatā. kapilena pareṇa bahumānena | bhagavatā cāsuriṇā śāstraṃ bhagavate. pañcaśikhāya pañcaśikhena kātyāyanāya kātyāyanena. gautamāya gautamena gārgyāya gārgyeṇāvaṭyāyanāya āvaṭyāyanenarṣibhya. ṛṣibhyaḥ | tat edat paramaṃ tat pareṇa bhagavatā vyāsena vyāsān. mayāvāptaṃ paramajñānaṃ tathā matto bhavatā prāptam iti |. tad etad brāhmaṇāṃs tāta śrāvayet saṃśitavratān. kṣatriyān yājñikāṃś caiva prajāpālanatatparān. vaiśyāṃś ca nṛpaśārdūla sarvātithyakṛtavratān. śūdrāṃś ca śuśrūṣaparān sarvasattvahite ratān. yady api syus trayo varṇā yajñe cādhikriyanti vai. mantravarjaṃ tu śūdrāṇāṃ kriyā dṛṣṭā iti śrutiḥ. sūtrakāravacas tv etad vedakāravacas tadā. śāstrakārās tathā caitat pravadantīti naḥ śrutam. yudhiṣṭhira uvāca. kliśyamāneṣu bhūteṣu jātīmaraṇasāgare. bhīṣma uvāca. yat prāpya kleśaṃ nāpnoti tan me brūhi pitāmaha. atrāpy udāharantīmam itihāsaṃ purātanam. sanatkumārasya sataḥ saṃvādaṃ nāradasya ca. sanatkumāro bhagavān brahmaputro mahāyaśāḥ. pūrvajāś ca trayas tasya kathyante brahmavādinaḥ. sanakaḥ sanandanaś caiva tṛtīyaś ca sanātanaḥ. jātamātrāś ca te sarve pratibuddhā iti śrutiḥ. caturthaś caiva teṣāṃ sa bhagavān yogasattamaḥ. sanatkumāra iti vai kathayanti maharṣayaḥ. hairaṇyagarbhaś ca munir vasiṣṭhaḥ pañcamaḥ smṛtaḥ. ṣaṣṭhaḥ sthāṇuś ca bhagavān ameyātmā triśūladhṛk. tato 'pare samutpannāḥ pāvakād varuṇakratau. mānasāḥ svayaṃbhuvo hi marīcipramukhās tathā. bhṛgur marīcer anujo bhṛgor apy aṅgirās tathā. anujo 'ṅgiraso 'thātriḥ pulastyo 'tres tathānujaḥ. pulastyasyānujo vidvān pulaho 'nupamadyutiḥ. paṭhyante brahmajā hy ete vidvadbhir amitaujasaḥ. sargam etan mahārāja kurvann ādigurur mahān. prabhur vibhur anantaśrīr brahmā lokapitāmahaḥ. mūrtimanto 'mṛtībhūtās tejasātitaponvitāḥ. sanakaprabhṛtayas tatra trayaḥ prāptāḥ paraṃ padam. kṛtsnakṣayam anuprāpya vimuktā mūrtibandhanāt. sanatkumāras tu vibhur yogam āsthāya yogavit. vicacāra trayo lokān aiśvaryeṇa pareṇa ha. rudraś cāpy aṣṭaguṇitaṃ yogaṃ prāpto mahāyaśāḥ. sūkṣmam aṣṭaguṇaṃ rājan netare nṛpasattama. marīcipramukhās tāta sarve sṛṣṭyartham eva te. niyuktā rājaśārdūla teṣāṃ sṛṣṭiṃ śṛṇuṣva me. sapta brahmāṇa ity eṣa purāṇe niścayo gataḥ. sarvavedeṣu caivoktāḥ khileṣu ca na saṃśayaḥ. itihāse purāṇe ca śrutir eṣā purātanā. varade kathyata iti prāhur vedāntapāragāḥ. eteṣāṃ pitaras tāta putrā ity anucakṣate. gaṇāḥ sapta mahārāja mūrtayo 'mūrtayas tathā. pitṝṇāṃ caiva rājendra putrā devā iti śrutiḥ. devair vyāptā ime lokā ity evam anuśuśruma. kṛṣṇadvaipāyanāc caiva devasthānāt tathaiva ca. devalāc ca naraśreṣṭha kāśyapāc ca mayā śrutaḥ. gautamād atha kauṇḍinyād bhāradvājāt tathaiva ca. mārkaṇḍeyāt tathaivaitad ṛṣer devatamāt tathā. pitrā ca mama rājendra śrāddhakāle prabhāṣitam. paraṃ rahasyaṃ rājendra brahmaṇaḥ paramātmanaḥ. ataḥ paraṃ pravakṣyāmi yan mā pṛcchasi bhārata. tad ihaikamanāḥ śraddhī śṛṇuṣvāvahito mama. svāyaṃbhuvasya saṃvādaṃ nāradasya ca dhīmataḥ. sanatkumāro bhagavān dīpaṃ jajvālya tejasā. aṅguṣṭhamātro bhūtvā vai vicacāra mahāmuniḥ. sa kadā cin mahārāja merupṛṣṭhe sameyivān. nāradena naraśreṣṭha muninā brahmavādinā. jijñāsamānāv anyonyaṃ sakāśād brahmaṇas tadā. brahmabhāgagatau tāta paramārthārthacintakau. matimān matimacchreṣṭhaṃ buddhimān buddhimattaram. śrutimāñ śrutimacchreṣṭhaṃ smṛtimān smṛtimattaram. kṣetravit kṣetravicchreṣṭhaṃ jñānavij jñānavittamam. lokavil lokavicchreṣṭham ātmavic cātmavittamam. sanatkumāraṃ tattvajñaṃ bhagavantam ariṃdama. sarvavedārthakuśalaḥ sarvaśāstraviśāradaḥ. sāṃkhyayogaṃ ca yo veda pāṇāv āmalakaṃ yathā. nārado 'tha naraśreṣṭha taṃ papraccha mahāmatim. trayoviṃśatitattvasya avyaktasya mahāmune. prabhavaṃ cāpyayaṃ caiva śrotum icchāmi tattvataḥ. adhyātmam adhibhūtaṃ ca adhidaivaṃ tathaiva ca. sanatkumāra uvāca. kālasaṃkhyāś ca sargāṃś ca tad bhavān vaktum arhati. śrūyatām ānupūrvyeṇa nava sargāḥ prayatnataḥ. tathā kālaparīmāṇaṃ tattvānām ṛṣisattama. adhyātmam adhibhūtaṃ ca adhidaivaṃ tathaiva ca. kālasaṃkhyā ca sargaṃ ca sarvam eva mahāmune. tamasaḥ kurvataḥ sargas tāmasety abhidhīyate. brahmavidbhir dvijair nityaṃ nityam adhyātmacintakaiḥ. paryāyanāmāny etasya kathayanti manīṣiṇaḥ. tāni te saṃpravakṣyāmi tad ihaikamanāḥ śṛṇu. mahārṇavo 'rṇavaś caiva salilaṃ ca guṇās tathā. vedās tapaś ca yajñāś ca dharmaś ca bhagavān vibhuḥ. prāṇaḥ saṃvartako 'gniś ca vyoma kālas tathaiva ca. nāmāny etāni brahmarṣe śarīrasyeśvarasya vai. kīrtitāni dvijaśreṣṭha mayā śāstrānumānataḥ. caturyugasahasraṃ tu caturyugam ariṃdama. prāhuḥ kalpasahasraṃ vai brāhmaṇās tattvadarśinaḥ. daśakalpasahasrāṇi avyaktasya mahāniśā. tathaiva divasaṃ prāhur yogāḥ sāṃkhyāś ca tattvataḥ. niśāṃ suptvātha bhagavān kṣapānte pratyabudhyata. ahaḥ kṛtvā sukhaṃ tāta sasarja prabhur īśvaraḥ. hiraṇyagarbhaṃ viśvātmā hy aṇḍajaṃ jalajaṃ munim. bhūtabhavyabhaviṣyasya kartāram anaghaṃ vibhum. mūrtimantaṃ mahātmānaṃ viśvaṃ śaṃbhuṃ svayaṃbhuvam. aṇimālaghimāprāptim īśānaṃ jyotiṣāṃ param. tasya cāpi niśām āhur vedavedāṅgapāragāḥ. pañcakalpasahasrāṇi ahar etāvad eva ca. na sargaṃ kurute brahmā tāmasasyānupūrvaśaḥ. sṛjate sa tv ahaṃkāraṃ parameṣṭhinam avyayam. ahaṃkāreṇa vai lokā vyāptās tv āhaṃkṛtena ca. yenāviṣṭāni bhūtāni majjanty avyaktasāgare. devarṣidānavanarā yakṣagandharvakiṃnarāḥ. unmajjanti nimajjanti ūrdhvādhas tiryag eva ca. etasyāpi niśām āhus tṛtīyam atha kurvataḥ. trīṇi kalpasahasrāṇi ahar etāvad eva ca. ahaṃkāraś ca sṛjati mahābhūtāni pañca vai. pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam. eteṣāṃ guṇatattvāni pañca prāhur dvijātayaḥ. śabde sparśe ca rūpe ca rase gandhe tathaiva ca. guṇeṣv eteṣv abhiratāḥ paṅkalagnā iva dvipāḥ. nottiṣṭhanty avaśībhūtāḥ saktā avyaktasāgare. eteṣām iha vai sargaṃ caturtham iha kurvatām. dve tu kalpasahasre vai aho rātris tathaiva ca. ananta iti vikhyātaḥ pañcamaḥ sarga ucyate. indriyāṇi daśaikaṃ ca yathāśrutinidarśanāt. manaḥ sargagataṃ tāta viśat sarvam idaṃ jagat. na tathānyāni bhūtāni balavanti yathā manaḥ. etasyāpi tu vai sargaṃ ṣaṣṭham āhur dvijātayaḥ. ahaḥ kalpasahasraṃ vai rātrir etāvatī tathā. urdhvasrotas tu vai sargaṃ saptamaṃ brāhmaṇā viduḥ. aṣṭamaś cāpy adhaḥsrotas tiryak tu navamaḥ smṛtaḥ. etāni nava sargāṇi tattvāni ca mahāmune. caturviṃśatir uktāni kālasaṃkhyāś ca te 'nagha. apyayaṃ prabhavaṃ caiva avyaktasya mahāmune. pravakṣyāmy aparaṃ tattvaṃ yasya yasyeśvaraś ca yaḥ. adhyātmam adhibhūtaṃ ca adhidaivaṃ tathaiva ca. sanatkumāra uvāca. yathāśrutaṃ yathādṛṣṭaṃ tat tathā vai nibodha me. adhaḥsrotasi sarge ca tiryaksrotasi caiva ha. etābhyām īśvaraṃ vidyād ūrdhvasrotas tathaiva ca. karmendriyāṇāṃ pañcānām īśvaro buddhigocaraḥ. buddhīndriyāṇām atha tu mana īśvaram ucyate. manasaḥ pañca bhūtāni saguṇāny āhur īśvaram. bhūtānām īśvaraṃ vidyād brahmāṇaṃ parameṣṭhinam. bhavān hi kuśalaś caiva dharmeṣv eva pareṣu vai. kālāgnir apy ahaḥ svaṃ te jagad dahati cāṃśubhiḥ. tataḥ sarvāṇi bhūtāni sthāvarāṇi carāṇi ca. hāhābhūtāni dagdhāni svayoniṃ gamitāni vai. kūrmapṛṣṭhanibhā bhūmir nirdagdhakuśakaṇṭakā. nirvṛkṣā nistṛṇā caiva dagdhā kālāgninā tadā. jagat pralīnaṃ jagati jagaty apsu pralīyate. naṣṭagandhā tadā sūkṣmā jalam evābhavat tadā. tato mayūkhajālena sūryasyāpīyate jalam. jalātmā pralīyaty arke tadā brāhmaṇasattama. antarikṣagatān bhūtān pradahaty analas tadā. agnibhūtaṃ tadā vyoma bhavatīty abhicakṣate. taṃ tathā visphurantaṃ hi vāyur dhvaṃsayate mahān. mahatā balavegena ādatte taṃ hi bhānumān. vāyor api guṇaṃ sparśam ākāśaṃ grasate yadā. praṇaśyati tadā vāyuḥ khaṃ tu tiṣṭhati nānadat. tasya taṃ ninadaṃ śabdam ādatte vai manas tadā. sa śabdaguṇahīnātmā tiṣṭhate 'mūrtimāṃs tu vai. bhuṅkte tu sa tadā vyoma manas tāta digātmakam. vyomātmani vinaṣṭe tu saṃkalpātmā vivardhate. saṃkalpātmānam ādatte cittaṃ vai svena tejasā. cittaṃ grasaty ahaṃkāras tadā vai munisattama. vinaṣṭe ca tadā citte ahaṃkāro bhaven mahān. ahaṃkāraṃ tadādatte mahān brahmā prajāpatiḥ. abhimāne vinaṣṭe tu mahān brahmā virājate. taṃ tadā triṣu lokeṣu mūrtiṣv evāgramūrtijam. yena viśvam idaṃ kṛtsnaṃ nirmitaṃ vai guṇārthinā. mūrtiṃ jaleśvaram api vyavasāyaguṇātmakam. grasiṣṇur bhagavān brahmā vyakto 'vyaktam asaṃśayam. eṣo 'pyayaś ca pralayo mayā te paribhāṣitaḥ. adhyātmam adhibhūtaṃ ca adhidaivaṃ ca śrūyatām. ākāśaṃ prathamaṃ bhūtaṃ śrotram adhyātmaṃ śabdo 'dhibhūtaṃ diśo 'dhidaivatam |. vāyur dvitīyaṃ bhūtaṃ tvag adhyātmaṃ sparśo 'dhibhūtaṃ vidyud adhidaivataṃ. syāt | jyotis tṛtīyaṃ bhūtaṃ cakṣur adhyātmaṃ rūpam adhibhūtaṃ. sūryo 'dhidaivataṃ syāt | āpaś caturthaṃ bhūtaṃ jihvādhyātmaṃ. raso 'dhibhūtaṃ somo 'dhidaivataṃ syāt | pṛthivī pañcamaṃ bhūtaṃ ghrāṇam adhyātmaṃ. gandho 'dhibhūtaṃ vāyur adhidaivataṃ syāt | pāñcabhautikam etac. catuṣṭayam anuvarṇitam |. ata ūrdhvaṃ trividham indriyavidhim anuvarṇayiṣyāmaḥ | pādāv adhyātmaṃ. gantavyam adhibhūtaṃ viṣṇur adhidaivataṃ syāt | hastāv adhyātmaṃ. kartavyam adhibhūtaṃ indro 'dhidaivataṃ syāt | pāyur adhyātmaṃ visargo 'dhibhūtaṃ. mitro 'dhidaivataṃ syāt | upastham adhyātmam ānando 'dhibhūtaṃ. prajāpatir adhidaivataṃ syāt | vāg adhyātmaṃ vaktavyam adhibhūtaṃ agnir adhidaivataṃ. syāt | mano 'dhyātmaṃ mantavyam adhibhūtaṃ candramā adhidaivataṃ. syāt | ahaṃkāro 'dhyātmam abhimāno 'dhibhūtaṃ viriñco 'dhidaivataṃ. syāt | buddhir adhyātmaṃ vyavasāyo 'dhibhūtaṃ brahmādhidaivataṃ. syāt | evam avyakto bhagavān asakṛd asakṛt sargān kurute saṃharate ca |. kasmāt krīḍārtham | yathādityo 'ṃśujālaṃ kṣipati saṃharate ca yathā. cāntarikṣād abhrakośa uttiṣṭhati |. stanitaṃ garjitonmiśraṃ tac ca tatraiva prāṇaśat |. evam avyakto guṇān sṛjati saṃharate ca | yathā cārṇavād ūrmijālaṃ. nīcoccaṃ prādurbhavati tac ca tatraiva prāṇaśad evam avyakto lokān sṛjati. saṃharate ca | yathā ca kūrmo 'ṅgāni kāmāt prasārayate punaś ca praveśayaty. evam avyakto lokān prasārayati girati ca | cetanaś ca bhagavān pañcaviṃśakaḥ. śuciḥ | tenādhiṣṭhitā prakṛtiś cetayati | nityaṃ. sahadharmā ca bhagavato 'vyaktasya kriyāvato 'kriyāvān bhagavān paramaprakṛtir. nārada uvāca. aṇuḥ kṣetrajñaḥ kṣemya iti |. yady acetanā prakṛtiś cetanādhiṣṭhitā cetayati kasmān na mokṣo 'sti |. bhavadvidhānāṃ cetaskāṅkṣiṇāṃ ceto hi pañcaviṃśakam upadiśanti. yogāḥ sāṃkhyāś ca | tac cāyuktam upadiśanti | tad vañcanāc cāyutaprakṛtisahadharmā. prakṛtiṃ vartamānām anuvartate iti | anuvartamānāc. ca manyāmahe adhiṣṭhātṛtvād aṇutvāc ceta iti | ataś ca bhavaty eva. doṣa iti | yathā hi kaś cid dīrgham adhvānaṃ gacchati saṅgavān | asaṅgasyāgamavato. gamane na prayojanaṃ bhavati | atha gacchati so 'pi saṅgī. bhavati | matsyaś codakaṃ sahadharmiṇāv eva | evaṃ bhagavadvacanāt. prakṛtipuruṣau | yady udakaṃ pravartamānaṃ matsyo 'nupravartate nanu saṅgavān. sanatkumāra uvāca. bhavati asaṅgī matsyas tasya kiṃ saṅgavṛttyānuvartanena |. devarṣe tatrāsaṅgaṃ varṇayanti puruṣasya | na bhagavatā vyaktena. saṅgo 'sti nirguṇasya guṇinā | tatra ślokān udāharanti budhāḥ |. tān upadhārayasvaikārthe paryāyavacanaṃ kṛtvā |. adhiṣṭhā puruṣo nityaṃ prakṛtyā na ca ātmanaḥ. tasyābhimāno bhavati tasmād āsaṅga ucyate. cetanā puruṣo nityaṃ kālasya na ca ātmanaḥ. tasyābhimāno bhavati tasmād āsaṅga ucyate. draṣṭā hi puruṣo nityaṃ manaso na ca ātmanaḥ. tasyābhimāno bhavati tasmād āsaṅga ucyate. boddhā hi puruṣo nityaṃ vedasya na ca ātmanaḥ. tasyābhimāno bhavati tasmād āsaṅga ucyate. jñātā hi puruṣo nityaṃ kṣetrasya na ca ātmanaḥ. tasyābhimāno bhavati tasmād āsaṅga ucyate. kartā hi puruṣo nityaṃ parasya na ca ātmanaḥ. tasyābhimāno bhavati tasmād āsaṅga ucyate. devarṣe tatrāsaṅgam anuvarṇayanti puruṣasya | śucir hi bhagavān. kṣetrajño 'śucinīṃ prakṛtim udāharanti | saṅgī hi saṅgavān saṅgī. cāsaṅga iti yo 'saṅgo hy ātmānaṃ saṅginam anupaśyati sa. khalv ajñānīty ucyate budhair iha |. etasyāvidyāgrastasya udbhavākṣepaśatasahasrakoṭiśo 'pyayamānasyāvyaktasāgare. sumahān duḥkhayogo bhavati | yathā ca samudraṃ prayātasya. kṛtaprāyaścittasya arthatarṣiṇo vaṇiksaṃghasya yānapātrārṇavodaragataś. caṇḍavāyunā bhidyamāna itas tataś ca vimalābhir ūrmibhir. bhidyamāno hāhābhūto jano vyāpadyet | śataśaś cāprāptamanorathāḥ. plavān gṛhītvā | plavāś conmajjanti nimajjanti cānyonyam. avalambamānāḥ | evam ajñānī puruṣa unmajjati nimajjati ca | yathā. tatronmajjaṃś ca nimajjaṃś ca kaś cit pāram āsādayati sa muktas tatas tasyāpado. mṛtyumukhāt |. nārada uvāca. bhagavann acchedyābhedyādāhyātarkyānantyākalpyānādimadhyā yadā. prakṛtis tadvat puruṣo 'py ebhir eva guṇair yutaḥ | tat katham anityāṃ prakṛtim. udāharanti nityaṃ puruṣam iti |. sanatkumāra uvāca. devarṣe samyag abhihitaṃ bhavatā | acchedyābhedyādāhyātarkyānantyākalpyānādimadhyā. prakṛtir hi puruṣaś ca | kartṛtvād guṇānām. anityāṃ prakṛtim udāharanti akartṛtvān nityaḥ puruṣaḥ | yadi prakṛtir. guṇān kuryād veda cātmānaṃ puruṣaś ca | nityānityabhāve vītarāgatve. cāsya nirdvaṃdvatā ca | yadā tv ayam eva syān nānyad asti mama param ity abhimanyamāno. nityatvatām eti | tatra ślokān udāharanti |. ubhāv amūrtī hy ajarāv ubhāv eva mahātmabhiḥ. viditau viṣayī caiva viṣayaś ca mahāmune. puruṣo viṣayī nityaṃ prakṛtir viṣayaḥ smṛtaḥ. vyākhyātau śāstravidbhir hi maśakodumbarau yathā. prakṛtir na vijānāti bhujyamānam acetanam. puruṣaś cāpi jānāti bhuṅkte yaś ca sa bhujyate. mahadādayo guṇā bhojyaṃ bhoktā tu prakṛtir dvija. manyanty evaṃ vibhāgajñā bhoktāraṃ tasya ceśvaram. aiśvaryaṃ bhavatīśatvāt prakṛtyā dvijasattama. anīśatvād anaiśvaryaṃ puruṣasyānucakṣate. vibhūtitvād vibhutvaṃ hi puruṣasya mahāmune. dvaṃdvabhāvād anityaṃ hi triguṇā prakṛtis tathā. nirdvaṃdvo nirguṇo nityaḥ puruṣo 'trānucakṣate. kriyākaraṇayogitvād anityā prakṛtir dvija. kriyākaraṇahīno hi nityaḥ puruṣa ucyate. evam anumanyante yatayaḥ stunvānāḥ puruṣam | sattvaṃ. kṣetraṃ paraṃ guhākṣayakaraṃ calavraṇakaraṃ niśicaraṃ nidhir matiḥ smṛtir dhṛtir. iti caitāni prakṛtiparyāyanāmāni | athāparāṇi bhūtaṃ bhavyaṃ bhaviṣyam. iti | sattvaṃ rajas tama iti triguṇam etat prakṛtir ity anupaśyati |. atha tad avyaktāt param avyayaṃ śivaṃ kṣemamayaṃ śuci vyabhram iti vimalam. amalam acalam ajaram akaram ataram abhavam iti | abhavanam anayanam. agamanaṃ pṛthag iti caitāni puruṣaparyāyanāmāni | atra paśyantu. bhavantaḥ kṣetrajñaṃ vimokṣaṃ viśokaṃ vimoham | vidambhād vilobhād vikārād. viruddhād ānṛśaṃsyād alaulyam aśaraṇam abhayam anavayavaṃ paśyante |. tad yathā maśakodumbarayor vivāsasahavāso 'nya eva svabhāva evam eva. jñānājñānayor vivāsasahavāsaḥ | anyad eva jñānam ajñānam |. kṣetrajñas tyakṣyati prakṛtiṃ na ca prakṛtiḥ kṣetrajñaṃ tyakṣyati | manyate. prakṛtiṃ kṣetrajño na ca prakṛtiḥ kṣetrajñaṃ manyate | budhyate prakṛtiṃ. kṣetrajño na ca prakṛtiḥ kṣetrajñaṃ budhyate | paśyati prakṛtiṃ kṣetrajño. na ca prakṛtiḥ kṣetrajñaṃ paśyati | etad vivāsasahavāsam ity etan nānātvadarśanaṃ. paśyanti devarṣe | jñātāraṃ tad asaṅgam anupaśyatu. bhavān puruṣe | atra ślokam udāharanti |. yogāś ca sāṃkhyāś ca vadanti samyaṅ. na pañcaviṃśāt param asti kiṃ cit. athānyathā paśyati tattvam etad. dvayaṃ tu paśyāma guror niyogāt. ity etad yogadarśanam | atra sāṃkhyair gītam | śloko bhavati |. paśyaḥ paśyati paśyantam apaśyantaṃ ca paśyati. apaśyas tāv apaśyatvāt paśyāpaśyau na paśyati. prakṛtiḥ kṣetraṃ kṣetrajñaś cāparaḥ | kṣetrajñaḥ ṣaḍviṃśako 'nupaśyati |. na tat pañcaviṃśaḥ kṣetrajñaḥ prakṛtir vā paraṃ kṣetrajñaṃ paśyati |. devarṣe yan mayā bahubhir janmabhir avāptam idānīm | ye hy evaṃ paśyanti. śivaṃ hi teṣām ihaiva cāmutra saṃśayo nāsti | sukhaṃ paraṃ janma cāhaṃ. bravīmi | na tv itaraṃ mṛtyuṃ vivedāham |. prativirama sa buddhivigrahāt paramaśucis tvam upāsa nirmamaḥ. bahubhir aribhir etad āvṛtaṃ prakṛtimayaṃ hi śarīram adhruvam. yadi jayasi śarīram ekato nanu vijitās tava sarvaśatravaḥ. munibhir ṛṣibhir īritaṃ paraṃ paramaśuciṃ tam upāsya te gatāḥ. etan mayopasanneṣūpadiṣṭaṃ devarṣe hiraṇyanābhasya mahāsurasya. śivasya caitan namucer nāradasya prahrādasya vṛtrasya virocanasya. baler marīceḥ pulastyapulahayoḥ | tathaiva bhṛgvaṅgirasor atrivasiṣṭhakāśyapānāṃ. śukrasya cendrasya bṛhaspateś cāṅgirasottamāya |. tathaiva viśvāvasave mayoktaṃ gandharvāpsarobhiś ca | etad brahma sarvatra. samaṃ draṣṭavyam | brahmaṇi cendre śuni kīṭe pataṃgadaṃśamaśakeṣu samyag. anudarśanāc ca paśyāmaḥ | sarvasya mokṣadharmo vidyate | etat padam. anudvignaṃ janmamṛtyutamonudam upaśāntaṃ samuttīrṇam avasthitam. bhīṣma uvāca. apajvaram |. etac chrutvā muniśreṣṭho nāradaḥ sa mahāmuniḥ. parayā ca mudā yuktaḥ praṇamya śirasā gurum. pradakṣiṇaṃ ca taṃ kṛtvā jagāma bhavanaṃ svakam. bhagavān api tatraiva sadyas tv antaradhīyata. bhīṣma uvāca. saṃyamanaḥ kāśipatir avimuktagataṃ muniṃ papraccha jñānavijñānaṃ. saṃyamana uvāca. kapilād āgatāgamam |. ko viśvaṃ sṛjate sarvam idaṃ saṃharate ca kaḥ. kaś ca viśvam adhiṣṭhāya tiṣṭhaty agnivad dāruṣu. kaś ca viśvam aviśvaṃ ca nityam evānupaśyati. kau ca tau muniśārdūla namasye tāv ubhāv api. kati tattvāni viśvātmā bhagavān havyakavyabhuk. kiṃ ca havyaṃ ca kavyaṃ ca paṭhyate śāstradarśanāt. kaś ca sattvāt samutpannas tasmāt tattvād viśāradaḥ. kaś ca tattvādir ity uktas tathā prāṇādir eva ca. bhūtādiś ca muniśreṣṭha vikārādis tathaiva ca. kasmād ādadate caiva visṛjya ca punaḥ punaḥ. adhyātmam adhibhūtaṃ ca adhidaivaṃ tathaiva ca. vimokṣaś cāsya bhagavan yo 'yaṃ deheṣu vartate. savijñānaṃ sadaśakaṃ tathopaniṣadaṃ mune. vartate tvayi kārtsnyena yogaśāstraṃ tathaiva ca. purāṇaṃ ca muniśreṣṭha yathābuddhi sanātanam. sāṅgopāṅgāś ca catvāro vedās tiṣṭhanti vedavit. sarvasya cāsya jñānasya granthataś cārthataś ca te. viditaṃ veditavyaṃ hi pāṇāv āmalakaṃ yathā. parāvarajño bhagavān ity evam anuśuśruma. tena tvām anupṛcchāmi sarvabhūtahite ratam. parokṣam etad asmākaṃ tava pratyakṣam eva ca. manyāma manasā deva yatīnāṃ yatisattama. tad anugrahadharmeṇa akṣayeṇāvyayena ca. śāśvatenāprameyena acalenāmṛtena ca. janmamṛtyuvimuktena yoktum arhasi mānagha. sarvathā tena dehena asadgranthena me mune. badhyāmi bhagavan nityam ityartham aham āgataḥ. kāśirājyaṃ parityajya bhagavantam ariṃdama. tad etac chrotum icchāmi yāthātathyena tattvataḥ. mamānatasya bhagavañ śiṣyasyāmitabuddhimān. vaktum arhasi śāntyartham etam arthaṃ mahāmune. mamodvahaty eva manaḥ tattvaṃ śrotuṃ parāyaṇam. pañcaśikha uvāca. pāpaghnam amṛtaṃ śreṣṭhaṃ pavitrāṇāṃ parāyaṇam. śrūyatāṃ nṛpaśārdūla sarvam etad asaṃśayam. sarvasya cāsya jñānasya kṛtsnakārī bhavān api. viśanād viśvam ity āhur lokānāṃ kāśisattama. lokāṃś ca viśvam eveti pravadanti narādhipa. lokānām apy aviśanād aviśvam iti taṃ viduḥ. īdṛgbhūtīyam evāhur aparaṃ śāstradarśanāt. viśvāviśve naraśreṣṭha tattvabuddhiparāyaṇāḥ. narāṇāṃ naraśārdūla tattvam etad asaṃśayam. amṛtāś ca trayo 'py ete nityāś ceti vadanti vai. vibhāginaś ca vai nityaṃ vimalāś ceti naḥ śrutiḥ. ajāś cāmūrtayaś caiva aprakampyāvyayāś ca ha. agrāhyāś cāpratarkyāś ca tathāmartyāś ca pārthiva. anādinidhanāś caiva tathāmūrtyāś ca te 'nagha. acchedyāś cāmarāś caiva apradahyatamāś ca vai. nirguṇāś cetanāś caiva paśyāś ceti narādhipa. yathaitad uktam ācāryair evam etad asaṃśayam. santi sarve guṇā hy eṣāṃ trayāṇāṃ nṛpasattama. ahaṃ tattvaṃ pravakṣyāmi yathā cācāryadarśanam. eko 'tra guṇavāṃś caiva tathaivācetanaś ca ha. apaśyaś ca mahārāja pradhāna iti paṭhyate. pratyayaṃ copasarge vai vidhānaṃ mana iṣyate. pradhāna iti nāmāsya etayor dharma ucyate. saṃdhāvatīti rājendra ity evam anuśuśruma. tasya tat saṃpravakṣyāmi nava tāṃś ca nibodha me. prākṛtāny asya catvāri vaikṛtāni tu pañca vai. pūrvam utpadyate 'vyaktād vyakto vyaktādir ucyate. prāṇānām ādim evaitam āhur adhyātmacintakāḥ. mahān iti ca nāmāsya prāhur vedavipaścitaḥ. buddhir ity apare rājan viriñceti tathāpare. etasmāt khalu vairiñcam utpadyati narādhipa. viriñcād rājaśārdūla vairiñcaḥ sarga ucyate. ekaikaśo viriñco vai vairiñcād utpattitaḥ smṛtaḥ. ete sargā mahārāja vidyāvidyeti naḥ śrutiḥ. vairiñcāt pañca bhūtāni vairiñcāni narādhipa. utpadyante mahārāja ahaṃkārād asaṃśayam. pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam. pañca bhūtaviśeṣāś ca yugapat kāśinandana. vairiñco viṣayārthī tu jajñe bhūteṣu pañcasu. mana ity abhidiśyeta vikharād vaikharas tathā. buddhīndriyāṇi rājendra tathā karmendriyāṇy api. caturaḥ prākṛtān sargān yugapat tāta buddhimān. vaikṛtān pañca caivāhur adhyātmakṛtaniścayāḥ. tvaṃ caivānye ca rājendra tattvabuddhiviśāradāḥ. tiryak sargaṃ tathā mukhya ūrdhvo 'rvāksrota eva ca. pañcamo 'nugrahaś caiva navaitān viddhi pārthiva. etad dhi sarganavakaṃ sāṃkhyayoganidarśanam. mayeyam ānupūrvyeṇa tattvasaṃkhyā ca te 'nagha. yaś ca yasmāt samutpannas tataś caivānuvarṇitaḥ. vikārādi manaḥ prāhus trayāṇāṃ pañcakāni vai. bhūtādīnāṃ tu pañcānām āhur vikharam eva tu. prāṇāpānasamānānām udānavyānayoś ca ha. viriñcam āhuḥ prāṇādiṃ brāhmaṇās tattvadarśinaḥ. trayoviṃśatitattvānāṃ vyaktānāṃ nṛpasattama. ādim avyaktam ity āhur yathāśrutinidarśanam. pañcaśikha uvāca. iti |. etad dhi mūrtisaṃghātaṃ trailokye sarvadehiṣu. āvyaktikasya sādṛśyaṃ viriñcasya prajāpateḥ. vyaktasyāvyaktam ity āhur viśvarūpasya naḥ śrutiḥ. veditavyo mahārāja viśvarūpaḥ sanātanaḥ. adhyātmam adhibhūtaṃ ca adhidaivaṃ tathaiva ca. pravakṣyāmi yathātattvaṃ tan nibodha janeśvara. śrotram adhyātmaṃ śabdo 'dhibhūtam ākāśam adhidaivatam | tvag adhyātmaṃ. sparśo 'dhibhūtaṃ vāyur adhidaivatam | vāg adhyātmaṃ vaktavyam adhibhūtam agnir. adhidaivatam | ghrāṇam adhyātmaṃ gandho 'dhibhūtaṃ pṛthivy adhidaivatam |. pādāv adhyātmaṃ gantavyam adhibhūtaṃ viṣṇur adhidaivatam | hastāv. adhyātmaṃ kartavyam adhibhūtam indro 'dhidaivatam | pāyur adhyātmaṃ visargo. 'dhibhūtaṃ mitro 'dhidaivatam | upastho 'dhyātmam ānando 'dhibhūtaṃ. prajāpatir adhidaivatam | mano 'dhyātmaṃ mantavyam adhibhūtaṃ candramā. adhidaivatam | ahaṃkāro 'dhyātmam abhimāno 'dhibhūtaṃ viriñco 'dhidaivatam |. buddhir adhyātmaṃ boddhavyam adhibhūtaṃ puruṣo 'dhidaivatam |. etad adhyātmam adhibhūtam adhidaivataṃ ca sarvaṃ vijñātavyam |. anabhidroheṇa brāhmaṇendre śuni kīṭe pataṃgaputtikādaṃśamaśakeṣv. ity evaṃ prayoktavyaṃ syāt |. ātmany evātmaliṅge caitasyāvyaktikasya mahātmikasyāhaṃkārikabhautikavaikārikebhyaś. ca kālajñānaṃ puruṣebhyo vyākhyāsyāmaḥ |. tad etat paryāyaśatasahasraśaḥ pañcaśataṃ pañcāhorātram apadiśyate. pañcānāṃ puruṣāṇām | tatraikasya pratiṣiddham avyaktasya caturṇāṃ. vakṣyanty ācāryāḥ | mahadādīnāṃ paryāyaśatasahasrāṇy aśītim ahorātram. apadiśyate | prādhānikasya mahataś catvāriṃśat paryāyaśatasahasrāṇy ahorātram. apadiśyate |. āhaṃkārikasya bhautikasya puruṣasya paryāyadaśasahasrāṇy ahorātram. apadiśyate | vaikārikasya puruṣasya manasaḥ paryāyam api caturyugam |. tad etat paryāyaśatasahasrāṇi pañcāśatam avyaktasyāhorātrasyākevalasya |. ebhyaḥ paśyen nityaṃ kālajñānam | kālajñāne 'syāvyaktasyācetanasya. jñānavijñānam iti paśyantyā bījadharmiṇaṃ. bījadharmiṇām aprasavadharmiṇām aprakṛtidharmiṇām apralayadharmiṇāṃ pralayadharmiṇām. iti |. saṃyamana uvāca. bhagavan yadā khalv agnir dāruśatasahasrakoṭiṣv avatiṣṭhamānas tatsthatvān. nityaṃ sahadharmā syād evaṃ khalv ayaṃ kṣetrasahasrakoṭiṣv avatiṣṭhamānas tatsthatvān. nityaṃ sahadharmaḥ syāt | yadi khalv asyāniṣṭaṃ. kṣetraṃ sahadharmitvaṃ syān nāyam iṣṭāniṣṭe pravartamānaḥ prakṛtim anuvarteta. guṇasargāya guṇasargam | yac cānuvartamānasya prakṛtisahadharmitvaṃ. syād bhavatu | na hy aniṣṭaguṇenānugamyamānām abhiṣvajata ityartham. asyeṣṭā prakṛtir guṇāṃś ca tān anuvartate ca | tad abhiṣvajanād anugamanāc ca. tatsthatvāc ca nityasyānityam anupaśyāmaḥ | tad dhetumātraṃ. vakṣyāmaḥ | kaś cid guṇyaguṇinā sārdhaṃ samīyāya | sametya ca kāryakāraṇaṃ. sa kurvīta | taṃ ca tatheṣṭāniṣṭe pravartamānaṃ guṇinam athāguṇo 'nuvartate. tatsthatvāt | nanu so 'pīṣṭāniṣṭavad bhavati tatsthatvāt |. yadi hy ayam iṣṭāniṣṭavyatiriktaḥ sadbhāvo nāyam iṣṭāniṣṭavattvam ityartham. asyeṣṭāniṣṭatvabhāvam iṣṭaṃ yenāyam anuvartate cābhiṣvajate. ceti | tad anuṣvajanād anugamanāc ca kāryākāryakartṛtvam asyānupaśyāmaḥ |. kāryākāryakartṛtvāc cāyam iṣṭāniṣṭavān bhavati |. yad uktam iṣṭāniṣṭe nāyam iti tan mithyā | guṇavān ayaṃ kṣetrajño. nāguṇavān | yady ayam aguṇavān syān nāyam iṣṭāniṣṭe pravartamānāṃ prakṛtim. anuvarteta dharmiṇīm | tad anuvarṇitāni dvaṃdvasya dvaṃdvadharmitvāt. paśyāmaḥ | tad anupapannaṃ syād vyatiriktasyātiriktatvam anirdvaṃdvasya. sadvaṃdvatvaṃ ca paśyasva | ācārya paśya tvaṃ kevalasyākevalatvaṃ. pañcaśikha uvāca. nityasya cānityatvaṃ kevalasyākevalatvaṃ svātantryaṃ cāsya |. bhoḥ saṃyamana yad etad uktaṃ bhavatā na vayam asyaitad evaṃ gṛhṇīmaḥ | ekatvam. evaitad upadiṣṭaṃ bhavatā tatra yan neṣṭam | saṃyogaṃ nityaṃ jānīte. sṛjyamānam asakṛt saṃharamāṇaṃ ca | guṇāṃs tu guṇasaṃharaṇam anuvyākhyāsyāmaḥ |. tad yathā catvāro bhūtagrāmā jarāyujāṇḍajodbhidasvedajāḥ. kālāgnināhaṃkāreṇāprameyaprabhāvānubhāvena śatasahasrāṃśunā dahyamānā. vighūrṇanto 'vaśā bhūmau patanti | tatas tair bhūtair hīnā bhūr vivasanā. śuddhā sthaṇḍilā kūrmapṛṣṭhanibhā babhūva | tāṃ tathābhūtāṃ. jagajjananīṃ jagatīm āpo bhuñjate | praṇaṣṭā bhūr jalam eva syāt | jalam. ādityo raśmibhir ādatte | samantād apāṃ vināśād agnir jājvalyamāno 'ntarikṣacarān. bhūtān upayujyāgnir jalam ādatte | agniṃ ca vāyuḥ | vinaṣṭe. 'gnau vāyur evāgniḥ syāt | sa tadā sarvaprāṇabhṛtāṃ prāṇān upayujya. vāyur ākāśaṃ syāt | ākāśaṃ mano mano 'haṃkāro 'haṃkāraṃ. mahān sūryaḥ sūyanāt | kṛtsnasya jagataḥ sarvasūryāṇām ekīkṛtya lokāṃs. trīn nāśāya syān mahatas tamaso madhye tiṣṭhaty ekas tam apy ādadad avyaktam |. tad etat pañcāhorātrikaṃ pralayaṃ mahāpralaya ity ucyate | pralayān mahatas tad. ekatvaṃ praṇaṣṭasarvasvaṃ sarvamūrtijāleśvaravināśyodakaṃ mūrtyekaṃ syāt |. tad etad dhavyaṃ kavyaṃ ca prakaraṇād guṇatāṃ kavyam ity ucyate sa. haraṇād dhavyam iti | tad etad guṇavan nirguṇaṃ guṇopayogād guṇakartṛtvād guṇīty. ucyate budhaiḥ | krīḍārtham evāsakṛt sṛjate ca guṇān | anavabodhāt tad aparas. tv aham evaikaḥ syān nānyaḥ syād iti | yadi hy eṣāvabudhyetānyo 'sti. mama vara iti na sṛjed udāsīnatvāc ca sargasaṃhārayor utpattir na bhavet |. yad uktaṃ bhoḥ saṃyamana ko viśvaṃ sṛjate kṛtsnam idaṃ saṃharate. ceti | yad apy uktaṃ kaś ca viśvam adhiṣṭhāya tiṣṭhaty agnivad dāruṣv iti |. pañcaviṃśako 'nyo 'nyasyāvyaktasya trayoviṃśatitattvasya caturviṃśakasya. draṣṭā draṣṭavyasya śrotā śrotavyasya mantā mantavyasya boddhā boddhavyasyādhiṣṭhātā. vā | anenādhiṣṭhitā prakṛtir guṇān saṃharate ca nartate |. na cetanenācetanā nirguṇena guṇinīti paśyenāpaśyeti. śuddhenāśuddhā nityenānityā kevalenākevalā sargadharmiṇy asargadharmiṇādarśanadharmiṇā. darśanadharmiṇī kṣetradharmiṇākṣetradarśanāt | kasmāt |. pṛthaktvāt | pṛthagbhāvam asya prapadyato 'nekatvaṃ neṣṭaṃ bhavataḥ |. prakṛtikṣetrajñayor ekatvam anavabodhadarśanam etad abudhānāṃ darśanam | na. budhā hy evam etad anupaśyanti paśyāpaśyayor ekatvam | paśyaṃ. paśyantaṃ daivād anya eva paśyaḥ | kasmāt | śāstradarśanāt | śāstradarśanasya. cānavabodhād abudha ity ucyate budhaiḥ | budhaś cāyaṃ kṣetrajño. buddhyādīn guṇān abhivartamānān anubudhyate prakṛtitaḥ | tac ca boddhavyam |. na tv evaṃ prakṛtir guṇān kṣetrajñaṃ vā | anavabodhāt | yadi hy evaṃ budhyeran. prakṛtir vā guṇā vā buddhaṃ buddhasahadharmiṇī syāt | bhaveyus. te ca | buddho 'nubudhyati tam anubuddhatvāt prakṛtir abhimanyate | aham evāsya. nānyaḥ syād iti | iṣṭāny abhiṣvajate ''tmajānāṃ yajanayājanādhyayanādhyāpanadānapratigrahaṃ. bhakṣyābhakṣyaṃ peyāpeyaṃ vācyāvācyam. iti | gamanaṃ saṃkocanaṃ prasāraṇaṃ priyāpriyaṃ gamyāgamyaṃ. śubhāśubhaṃ śabdasparśarūparasagandhādīnāṃ cāvāptir ity evamādīn. guṇān utpādayaty anavabodhāt | prakṛtir anubhūyate dvaṃdvatvāt |. tad anekatvam asya kṣetrajñasya prapadyate | nirdvaṃdvasya cāsya pravartamānasya. paśyata utpadyate 'haṃkārakṛto doṣaḥ syāt | aham enāṃ pratyācakṣe 'ham. enāṃ budhyāmīti | na caiṣā paśyaty ācakṣate manyate budhyate. cāhaṃkārāt | yadi hy abhimanyed vābhiṣvajed vā | evam anubuddhaḥ. syāt | anubandhāc ca śaktitvaṃ syāt | śaktitvāc cāsya vyatirekatvaṃ. syāt | yadi hy ayam iṣṭāniṣṭābhyāṃ madhyasthaḥ katham asyeṣṭāniṣṭakṛto. doṣaḥ syāt | bhavati nirdvaṃdvatvāc cāsyālepakatvāc cāsya. vyatirekatvaṃ syāt | bhavataś cātra ślokau yathā |. paṅkasyāpi hi doṣeṇa nopalipyati paṅkajam. tathāvyaktasya doṣeṇa nopalipyati kevalaḥ. kevalatvaṃ pṛthagbhāvāt paṅkapaṅkajayor yathā. tathāsya sahabhāvatvād vinābhāva iti smṛtaḥ. evam asya bho saṃyamana vyatiriktasya vyatiriktatvaṃ bhavati |. asahabhāvam asahabhāvatvāc ca | anyatvam anyatvān nistattvam. iti | atra ślokā bhavanti |. ghorād agādhād avyaktād astam astataraṃ janāḥ. pratīpabhūtam anyasyā manyante tattvabuddhayaḥ. ye tv abuddhās tapoyogād ekatvaṃ nānupaśyati (sic). te vyaktaniṣṭhād ekatvāj jāyante ca mriyanti ca. nirdvaṃdvadharmiṇo nityam atyantaṃ dvaṃdvadharmiṇā. anityāc ca mahārāja dvaṃdvaniṣṭhā bhavanti te. aśraddadhānāḥ śāstrasya dvaidhībhāvāc ca pārthiva. kālasyāsye nimajjanti unmajjanti bhave narāḥ. advaidhāt tu bhaven mokṣo hy avyaktagrāhadharmiṇām. pañcaśikha uvāca. vimucyaitad vimokṣaḥ syād avimokṣāt punarbhavaḥ. bhoḥ saṃyamana evam anyo 'vyaktadharmiṇo 'py aguṇo guṇadharmiṇo 'py. acalaś caladharmiṇo 'prakṛtiḥ prakṛtidharmiṇaḥ kṣetrajñaḥ kṣetradharmiṇo. vimuktaś cāvimuktād vimalaś cāvimalāc chuddho 'śuddhād yogaś cāviyogān. mokṣaś cāvimokṣāt | evaṃ puṣkaraparṇastha ivābbindur. nityam asaktas tatsthatvān maśakodumbarayor matsyodakayoś ca yathāvyaktaṃ. bhavati sahabhāvād evam asya kṣetrajñasyānyatvaṃ bhavati | tad uṣyamāṇasya. paśyenāpaśyasya paśyataś cāpaśyabuddhyābuddhasya cetanācetanasya. kevalākevalasya nityānityasya jñānājñānasya | evam asya bhoḥ. ajñātasyāvyaktasyopakaraṇaṃ śokād aśokaṃ, mohād amohaṃ,. sthirāt sthiraṃ, abhrād anabhraṃ vraṇād avraṇaṃ kājād akājaṃ sīmād asīmaṃ. purād apuraṃ purasya cāpy avadāraṇaṃ puratvam upadiśyate | lokād alokaṃ. kālād akālaṃ bhayād abhayaṃ śivād aśivaṃ vibhutvāc cāvibhutvam |. evam asyānupaśyataḥ khalv avyaktam avijanam asyaikatvaṃ param anupaśyato. nānātvāt kṣemyād akṣemyaḥ syād akṣemyād avyaktāt | bhavanti. cātra ślokāḥ |. kṣemyākṣemyaṃ nānupaśyeta nityaṃ. kṣemyas tv anyas taṃ tu naivānupaśyet. ṣaḍviṃśo vā pañcaviṃśo nu rājann. avyaktaś ca prāhur evaṃ vidhijñāḥ. yo 'yaṃ boddhā pañcaviṃśaḥ parasya. sa manyate īdṛśo 'smīti rājan. buddhasya vai bodhanāt tena samyag. gacchaty ayaṃ na calo nācalas tvam. evaṃ boddhā kevalāt kevalaḥ san. sa syād vyaktaḥ kiṃ ca saṃjñānasaṃjñaḥ. nirdvaṃdvasya dvaṃdvabhāvātmakasya. bhāvān na syān na prabhāvaḥ śuciḥ syāt. śuciprabodhād aśucitvaṃ tadā syāt. trilokasadbhāvaguṇapravartakam. bhavaty ayaṃ kevala eva kevalaḥ. sametya nityām amalām alaṃ śucim. śuciprabodhanasya bhoḥ saṃyamana budhyamānasya pañcaviṃśasya. buddhāt ṣaḍviṃśabodhanatvam upadiśanti | boddhāraṃ budhyamānasya vyatiriktasya. vyatiriktatvam upapadyate | kevalaṃ nāham asyāḥ. kaś cin neyaṃ mama kā cana ṣaḍviṃśasyāham anena mama saha caikatvam iti |. tatra ślokaḥ |. sāmyaḥ sāmyaṃ śuciṃ dṛṣṭvā śucim āhur manīṣiṇaḥ. bahiḥ kṛtvā tamisrālam avyaktāc cetanaṃ param. iti |. tad etad bhagavatā buddham avāpya mahat tattvaṃ paramarṣiṇā paramaguruṇā. mama kapilena guruṇā ca mamāsuriṇā jātiśatair bahubhir avāptaṃ. kṛtsnakṣayaṃ kapilāt | mamāpy evam eva śiṣyadaśakatvam upagamya. jātiśatair bahubhir avāptaṃ bhagavata āsureḥ sakāśāt | mattaś ca kātyāyanenāptam |. gautamena kātyāyanād avāptam | gautamāc ca. gārgyeṇāvāptam | tad etat paraṃparayā bahubhir ācāryair avāptaṃ kṛtsnakṣayam amṛtārthatattvaṃ. vimalam amalajñānam | atyagādham acetanam akevalam avyaktam. apāsya nityaṃ cetanaṃ kevalaṃ jñānaṃ pratibuddhaṃ budhyamānena pañcaviṃśakena. ṣaḍviṃśakam | atra ślokā bhavanti |. sutasyaitad varṇitaṃ manniyogād. vārāṇasyāṃ krīḍamānena rājñā. tattvajñānaṃ pṛcchataḥ prāñjaliḥ syāt. pṛcchaṃs tasya granthataś cārthataś ca. proktaṃ hy etat ṣoḍaśapraśnam ugraṃ. nistattvākhyaṃ viṃśat ṣaṭ caiva rājan. yaṃ vai buddhvā bālakāya praṇamya. mūrdhnābhyarṇaṃ pādayor hṛṣyamāṇaḥ. padbhyāṃ gatas tattvam avāpya kṛtsnaṃ. sanatkumārād amṛtaṃ paraṃ vai. sanatkumāreṇa mamopadiṣṭam. etan mahad brahma yathāvad adya. tat te śrutaṃ tad bhava vītaśoka. etaṃ mahāpraśnam avāpya cārtham. tulyaṃ bhavān paśyatu brahmaṇaś ced. indrasya sthāṇor maśakasya caiva. pataṃgakīṭe śuni ca śvapāke. sarvaṃ hi sarvatra narendrasiṃha. yas tv anyathā paśyati hy alpabuddhir. avyaktaniṣṭhaḥ sa bhaveta rājan. sattvasya sarvasya hy apaśyamāno. abuddhimān duḥkham upaiti nityam. na cāsya duḥkhaṃ sa tu duḥkham eti. vaiṣamyabuddhitvam avāpya mohāt. tad gaccha rājan svapurīṃ viśālāṃ. vārāṇasīm aśvarathena śīghram. etāvad etat paramaṃ rahasyam. uktaṃ mayā te 'tividhāya sarvam. jñānī bhavān na tvam abuddhabuddhir. buddhir hi te jyāyasī rājasiṃha. buddhaṃ tvayāgryaṃ paramaṃ pavitraṃ. ṣaḍviṃśakaṃ pañcaviṃśāt paraṃ yat. na pañcaviṃśakāt punaḥ prajāyate narottamaḥ. sa yatra tatra saṃvasaṃs trivargavic chucir bhavet. śucir hi pañcaviṃśakas tathaiva ṣaḍviṃśaka-. tvam avabudhyati yadā tadā śucir bhaved iti. vaiśaṃpāyana uvāca. purā yudhiṣṭhiro rājā prayatenāntarātmanā. dvaipāyanam ṛṣiśreṣṭhaṃ papracchātha kṛtāñjaliḥ. sahito bhrātṛbhiḥ sarvair udāramatibhiḥ śubhaiḥ. pṛthivyām upaviṣṭais tu vinītair uttamaujasaiḥ. bhagavān sarvabhūtānāṃ sarvajñaḥ sarvadarśivān. viśrutas triṣu lokeṣu dharmeṇa ca damena ca. tad icchāma upaśrotuṃ maṅgalyam ṛṣisattama. kathāṃ bhagavatā proktāṃ sarvapāpapraṇāśinīm. vayaṃ ca yady anugrāhyāḥ sarve bhagavato matāḥ. brūhi satyavatāṃ śreṣṭha śṛṇumopahitā vayam. evaṃ saṃpraśrayād uktaḥ satyātmā satyavādinā. yudhiṣṭhireṇa satkṛtya kṛṣṇadvaipāyano 'bravīt. yudhiṣṭhira mahāprājña kurūṇāṃ vaṃśavardhana. śrotum icchasi kaunteya bhrātṛbhiḥ sahitaḥ śubhām. imāṃ kathām upaśrutya narāṇām arthasiddhaye. vijayaś ca narendrāṇām iha pārtha na durlabhaḥ. śāntikī pauṣṭikī rakṣā sarvaduḥsvapnanāśinī. katheyam amarākārā daivatair api kathyate. atra te vartayiṣyāmi itihāsaṃ purātanam. bālye 'vāptaṃ tu yad vīra agastyena mahātmanā. purā kṛtayuge rājan maharṣiḥ kumbhasaṃbhavaḥ. mitrāvaruṇayoḥ putraḥ śrīmān atitapāḥ prabhuḥ. sa cāśramapade puṇye puṇyakarmā mahātapāḥ. samā dvādaśako rājan vayasā bharatarṣabha. sva āvasatha ekākī hy abhrākāśakṛtavrataḥ. mitrāvaruṇayoḥ svargaṃ gatayoḥ sukṛtātmanoḥ. puṣkarasyottare tīre sarvadevanamaskṛtaḥ. parvato bhāskaro nāma bhāskarābhaḥ svatejasā. ataḥ prabhavate rājan puṇyasrotā mahānadī. varadā vitamā nāma siddhacāraṇasevitā. tasmin girivare tasyāgasteḥ paitṛka āśramaḥ. puṇyapuṣpaphalopetaiḥ pādapair upaśobhitaḥ. tapyate śiśur ekākī tapo dvādaśavārṣikam. yan na taptaṃ purā vatsa divyair anyais tapodhanaiḥ. neśvareṇa na cendreṇa yamena varuṇena vā. nityordhvabāhur ādityaṃ bhāskare tasthivān muniḥ. ūrdhvamukho nirālambo jitātmā pavanopamaḥ. nirāvṛto nirālambo niyatātmā jitendriyaḥ. nirdvaṃdvo nirahaṃkāro nirāśo niḥspṛhaḥ kva cit. kāṣṭhabhūtas tapas tepe sarvabhūtahite rataḥ. nirvṛto nistamā dhīro nivṛttaḥ sarvataḥ samaḥ. tam evam upasaṃpannam udāramanasaṃ śucim. bhāskare vartate nityaṃ tapyamānam atīva ca. avardhata mahāpuṇye sa hi dharmeṇa bhārata. atha kaunteya kālena kena cid bharatarṣabha. aṣṭāśītisahasrāṇi yatīnāṃ puṇyakarmaṇām. ānupūrvyeṇa yātāni mahīṃ kṛtvā pradakṣiṇam. saparvatavanoddeśāṃ sanadīnadasāgarām. dvaipāyana uvāca. tatra tatra mahāpuṇyāḥ puṇyatīrthābhilāṣiṇaḥ. etasminn antare pārtha ṛṣisaṃghaḥ sa vai mahān. pradakṣiṇaṃ mahīṃ kṛtvā bhāskaraṃ girim abhyayāt. te taṃ girivaraṃ puṇyam atha kṛtvā pradakṣiṇam. tato girinadīṃ puṇyāṃ tīrthahetor upāgaman. aṣṭāśītisahasrāṇi tatra nadyāṃ yudhiṣṭhira. vigāhya taj jalaṃ rājan prahṛṣṭā munayo 'bhavan. ke cit sasnur yathākāmaṃ ke cid atra upaspṛśan. ke cit puṇyena toyena pitṝn devān atarpayan. ke cit prakrīḍitās tatra japanty anye tapodhanāḥ. adhyātmaṃ cintayanty anye ke cid vedān adhīyire. kathāḥ śuśruvur anye ca proktā anyais tapodhanaiḥ. dhyānam anye hy upāsanta niṣeduś ca tathā pare. evaṃ tair ṛṣibhiḥ siddhair vitamā puṇyavardhanī. nadī sā puruṣavyāghra dyotate tais tapodhanaiḥ. etasminn antare pārtha devarājaḥ puraṃdaraḥ. pitāmahaṃ puraskṛtya saha devaiḥ sameyivān. vitamāyāṃ tad ekānte tasyāṃ nadyāṃ yudhiṣṭhira. athābravīt puṣkarajaḥ sureśvaram ariṃdamam. vijñāya munisaṃghasya dharme rāgam upasthitam. puraṃdara mahābāho sarvathā śrotum arhasi. ṛṣīṇām amaraśreṣṭha dharme rāgam upasthitam. imaṃ muhūrtam eteṣām ahaṃkāraḥ sureśvara. prabhaviṣyati sarveṣām asvargīyo na saṃśayaḥ. sa bhavān deśam utsṛjya imaṃ suravareśvara. gantum arhasi dharmātman draṣṭum etan na te kṣamam. sa tatas tad vacaḥ śrutvā devarājaḥ pitāmahāt. jagāma bharataśreṣṭha saha devair ariṃdama. gate deveśvare śakre pitāmahapurogame. aṣṭāśītisahasrāṇi paramaṃ harṣam abhyayuḥ. te pranṛttāḥ pragītāś ca tathā prahasitā api. vitamāyā jale puṇye tasmin prakrīḍitāḥ pare. ekānte ca mahāprājño nāradaḥ kalahapriyaḥ. tantrīyuktakam ādāya munir vedān adhītavān. saṃvarto 'py atha kaunteya jalād utthāya bhārata. uvāca tān ṛṣīn sarvān harṣeṇa mahatā yutaḥ. śrūyatām ṛṣibhiḥ sarvair idaṃ mama vaco dvijāḥ. rocate yadi sarveṣāṃ kriyatāṃ munisattamāḥ. aham ugratapā viprā bhavanto 'pi tathaiva ca. na tulyo 'smatprabhāveṇa dharmeṇa ca tathā paraḥ. dīrghakālapracīrṇasya yamasya niyamasya ca. tapobalaṃ na paśyāmi kim apy etat kathaṃ cana. saṃvartavacanaṃ śrutvā sarvaṃ tad ṛṣimaṇḍalam. ahaṃkāravaśaṃ prāptaṃ tad vākyam abhinandati. ahaṃkṛtvā tataḥ sarve ṛṣayaḥ kuntinandana. parasparam avajñāya tatra te 'thāmitaujasaḥ. bhṛgus tato mahārāja sarvarṣigaṇapūjitaḥ. saṃvartavacanaṃ tatra sa satkṛtyedam abravīt. evam etan na saṃdeho yat tvayoktaṃ dhṛtavrata. tasmāt prabhāvaṃ tapaso draṣṭum arhāma sarvaśaḥ. ṛṣayaḥ śrūyatāṃ tāvan mama vākyaṃ dhṛtavratāḥ. ahaṃ śucir ahaṃ śreṣṭhaḥ aham ugratapodhanaḥ. ahaṃ pradhāna ity evaṃ yaj jalpatha tapodhanāḥ. kim etat kathayitvā vo hy ahaṃkārāt punaḥ punaḥ. pratyakṣaṃ draṣṭum icchāma iha dharmasya naḥ phalam. na tapo vidyate yatra sarvabhūteṣv asaṃśayam. upaspṛśya tatas toyaṃ punar abhyupagamyatām. dṛśyatāṃ suprataptasya dharmasya mahataḥ phalam. yatra yena tapas taptaṃ tathā daśadaśātmakam. tad darśayadhvaṃ saṃgamya tapo yasya yathā kṛtam. tato bhṛguvacaḥ śrutvā sarvaṃ tad ṛṣimaṇḍalam. bhṛgor vacaḥ puraskṛtya tathety ūcur maharṣayaḥ. te tu krodhād ahaṃkāraṃ prāpya sarve maharṣayaḥ. nadīṃ tāṃ vitamāṃ puṇyām upaspraṣṭuṃ vicakramuḥ. te tatra bhraṣṭatapaso vitamāyāṃ jalaṃ śubham. upaspṛśya mahārāja japyam āvartayaṃs tadā. tatas tad gaganaṃ ruddhaṃ sarvais tair ṛṣisattamaiḥ. tapobalaṃ naraśreṣṭha darśayadbhir asaṃśayam. kaś cid ākāśam āviśya jvalad dharmeṇa kevalam. apsarobhis tathā cānye pūtāḥ svargagatā dvijāḥ. puṣpavarṣais tathā cānyaiḥ pūjyante guhyakair api. ke cid ākāśam āviśya divyāṃ ceṣṭām akurvata. tathāsīt sumahān nādo harṣāt teṣām ariṃdama. anyonyaṃ paśyatāṃ tatra hasatāṃ ca yudhiṣṭhira. te dṛṣṭvā balam anyonyaṃ dharmasya bharatarṣabha. tad evaṃ kathayantas te tīre nadyās tathā vibho. taṃ tu dṛṣṭvā viditvā ca dharmalopaṃ mahātmanām. nāradaḥ kuruśārdūla ghaṭṭayaṃs tantriyuktakam. atha te ṛṣayaḥ sarve gantukāmā nabhastalam. yathāpūrvam amitraghna aśaktā gamanāya hi. aṣṭāśītisahasrāṇi munīnāṃ bhāvitātmanām. aśaktā gamane rājaṃs tato 'nyonyam apaśyata. te nirastā nirutsāhā nirāśā gamanaṃ prati. tatraivāsan mahābhāga bhraṣṭapakṣāḥ khagā iva. parasparam udaikṣanta evam uktvā maharṣayaḥ. kim idaṃ kiṃ nv idam iti dhik kaṣṭam iti cāpare. te vīkṣamāṇāḥ kṛpaṇāḥ svarge vigatacetasaḥ. ahaṃkāreṇa mahatā vasudhāyāṃ nipātitāḥ. mohasya vaśam āgamya sarva eva vicetasaḥ. na kiṃ cid abhijānanti dharmasya gamanasya vā. yadā vimanasaḥ sarve khagāḥ khāt patitā iva. athaitān nāradovāca harṣād idam atho vacaḥ. kim udīkṣatha mohasthā nākapṛṣṭhaṃ yiyāsavaḥ. durlabho 'yaṃ guṇo bhūyo bhavatāṃ naṣṭadharmiṇām. ahaṃkāreṇa mahatā naṣṭo dharmaḥ sanātanaḥ. evaṃ gate na paśyāmi svargaṃ gantuṃ yathā purā. ete stha ṛṣayaḥ sarve pakṣahīnāḥ khagā iva. tena dharmātilopena cintitena durātmanā. ete stha sarve saṃvṛttā nirāśā gamanaṃ prati. dvaipāyana uvāca. nadyās tīre śubhe puṇye dharmaṃ kuruta yatnataḥ. tasya tad vacanaṃ śrutvā ṛṣayo dīnacetasaḥ. taṃ nāradam ṛṣiśreṣṭhaṃ prahvā bhūtvātha te 'bruvan. punar asmadvidhair bhūyo nākapṛṣṭhaṃ tapodhana. adhiṣṭhātuṃ kathaṃ vāpi na bhaved dharmasaṃkaraḥ. teṣāṃ tu vacanaṃ śrutvā nāradaḥ punar abravīt. muhūrtaṃ dhyānam āsthāya yogam āgamya vai śubham. ahaṃkārasya jānīdhvam ṛṣayo dāruṇaṃ balam. kim āśāsya tu pāpasya karmaṇaś caritasya vai. aho phalam anāryasya duṣkṛtasya mahat tv idam. yad evaṃ prāpyate doṣas tv ahaṃkāro maharṣibhiḥ. kva tad varṣasahasrāṇi taptasya tapasaḥ phalam. kva tan naṣṭaṃ purā tv iṣṭaṃ niyamaḥ kva ca vai damaḥ. yad ūrdhvabāhubhiḥ śāntaiḥ kva nu tasya phalaṃ gatam. yadarthaṃ cārcitā devāḥ pitaraś ca tapodhanāḥ. kva nu tasya phalaṃ viprāḥ tapaso 'gryasya vai gatam. ete kartavyadharmāḥ stha punar eva yathā purā. evaṃ gate na paśyāmi gamanaṃ vas triviṣṭapam. ahaṃkāraprabhāveṇa tena saṃśayitā gatiḥ. aham apy anugantā vai kevalena tu karmaṇā. anena kāraṇenāptam evaṃ saṃśayam ātmani. tad iyaṃ pravarasrotā nadī puṇyajalā śubhā. kartavyo dharma iha tu yadi nāsti nabhogatiḥ. vāyubhakṣā nirāhārā niyatā vijitendriyāḥ. iha dharmaṃ sunibhṛtā bhavantaḥ kartum arhatha. iha deveśvareṇāpi vāsavena mahātmanā. dharma ugraḥ sucarito vitamāyāḥ puropari. iha devena devyā ca rudreṇa sumahat tapaḥ. taptaṃ varṣasahasrāṇi divyena vidhinā purā. imāṃ saridvarāṃ prāpya viṣṇunāpi mahātmanā. śubhaṃ jalam upaspṛśya prāpto dustarasaṃkṣayaḥ. eṣa prabhāvo dharmajñā nadyā asyā na saṃśayaḥ. caritveha tataḥ puṇyaṃ gamiṣyatha śubhāṃ gatim. yadā vimanasaḥ sarve paraṃ dainyam upāgatāḥ. sarva eva mahātmānaḥ tatas tān nārado 'bravīt. dainyam etat parityajya sarvakāryāvasādakam. śrotum arhatha vai sarve prayatenāntarātmanā. yac ca vakṣyāmi tat kāryaṃ bhavadbhiḥ kāryasādhanam. sarvathā mānam utsṛjya vinayena damena ca. yad idaṃ vacanaṃ me 'dya kariṣyatha tapodhanāḥ. idaṃ muhūrtam ākāśaṃ yathāpūrvaṃ gamiṣyatha. yadi madvacanaṃ sarve yathoktam anutiṣṭhatha. asmin muhūrte sarveṣāṃ kalmaṣaṃ nāśam eṣyati. anṛtaṃ noktapūrvaṃ me munir asmi dhṛtavratāḥ. madvacaḥ śrūyatāṃ sādhu nārado 'smi tapodhanāḥ. dharmo vas tyaktamānānāṃ svargaś caiva bhaviṣyati. idaṃ muhūrtaṃ sarveṣāṃ madvākyaṃ parigṛhya tu. bhāvajñeyāni dharmyāṇi vākyāni suhṛdāṃ sadā. kriyatām avicāreṇa mamedaṃ vacanaṃ hitam. saṃvartasya hitārthāya yathāvad iha lapsyatha. kathayiṣyāmi vaḥ samyak sarveṣām eva sādhuṣu. śrutvā kṣamākṣamaṃ jñātvā yad dhitaṃ tat kariṣyatha. dvaipāyana uvāca. śāśvataṃ ca dhruvaṃ caiva yathāsthānaṃ gamiṣyatha. te tasya vacanaṃ śrutvā tadā ṛṣivarā nṛpa. harṣeṇotphullanayanāḥ sarva eva tadābhavan. taṃ bhṛguḥ prayato bhūtvā devarṣiṃ nāradaṃ tadā. uvāca puruṣaśreṣṭha vismayād ruciraṃ vacaḥ. kiṃ nu tad daivataṃ brahman vrataṃ vā niyamo 'pi vā. yat kṛtvā khecaraśreṣṭha nākapṛṣṭhaṃ labhemahi. sarvathā naitad āścaryaṃ devarṣe tava yan matam. asmākam anukampārthaṃ yat tvaṃ vadasi dhārmika. tato vada hitaṃ vākyaṃ pāpam etat pramārjitam. ko vā sa niyamo vipra samādheyo hi naḥ punaḥ. tad ete vai vayaṃ sarve ṛṣayo munisattama. baddhāñjalipuṭāḥ prahvās tava sādho prasādane. tat tu dharmātmanaḥ śrutvā bhṛgor vākyaṃ mahāyaśāḥ. kṛtāñjalipuṭāṃs tāṃś ca ṛṣīn dṛṣṭvā mahāmuniḥ. tataḥ prahasya tad vākyaṃ nārado munisattamaḥ. sarvān eva samāsīnān idaṃ vacanam abravīt. hanta vaḥ kathayiṣyāmi sarva eva nibodhata. kṣamaṃ cāpy anukūlaṃ ca svargāya ca hitāya ca. eṣa śailavare bālo mitrāvaruṇasaṃbhavaḥ. agastyo nāma dharmātmā bhāskare tapa āsthitaḥ. dhairyeṇa tapasā caiva dharmeṇa ca damena ca. na tulyo vidyate yasya sarveṣāṃ bhavatām api. taṃ bālam ugratapasaṃ dharmātmānam aninditam. abhigacchata saṃhṛtya ṛṣayo mānam ātmanaḥ. yadi mānaṃ ca mohaṃ ca tyaktvā darpaṃ ca kevalam. abhigacchata taṃ bālaṃ gamiṣyatha yathā purā. sa hy arka iva tejasvī bhāskare parvatottame. tapaś carati lokasya svastihetor dhṛtavrataḥ. na tulyas tejasā tasya dharmeṇa ca damena ca. upatiṣṭhata taṃ sarve varadaṃ munipuṃgavam. tatas tasya vacaḥ śrutvā nāradasya mahātmanaḥ. hṛṣṭena manasā sarve tasya vākyam adhiṣṭhitāḥ. nāradaṃ te tathety uktvā sarve kṛtvā pradakṣiṇam. prasannamanaso vīra jagmus te bhāskaraṃ girim. te taṃ girivaraṃ puṇyaṃ sarvakālaphaladrumam. adhiruhya yatātmānaḥ sarvataḥ pratyalokayan. sa tu parvatarājasya bhāskarasyāṃśumān iva. upary upari dharmātmā caraty ugraṃ tapaḥ śuciḥ. taṃ dṛṣṭvā vismitāḥ sarve ṛṣayaḥ śatrusūdana. tasmān nātarkayaṃs te tad yad uktaṃ nāradena vai. tatas tv abhigatāḥ sarve taṃ bālam ṛṣisattamāḥ. aṣṭāśītisahasrāṇi prayatāni yatāni ca. sarveṣāṃ vacanāt teṣāṃ bhṛgus tatra yatavrataḥ. abravīt taṃ mahātmānaṃ dīpyamānaḥ svatejasā. agastya śreṣṭha sādhūnāṃ nityaṃ sucaritavrata. śrotum arhasi dharmajña vaco munivarātmaja. vayaṃ daivatasṛṣṭena ahaṃkāreṇa mohitāḥ. damam utsṛjya dharmeṇa rāgaspṛṣṭā vimohitāḥ. bhavatprasādād icchāmo gantum iṣṭāṃ śubhāṃ gatim. ahaṃkārādidagdhānāṃ sarveṣāṃ śaraṇaṃ bhava. aṣṭāśītisahasrāṇi mokṣayitvā bhavān imān. kalmaṣād atidharmeṇa śaśval lokān avāpsyasi. dānenānena dharmasya maharṣe munisattama. ātmānaṃ ca pitṝṃś caiva jīvalokaṃ ca tāraya. vayaṃ tvā prayatāḥ sarve svargahetor upasthitāḥ. aṣṭāśītisahasrāṇi tārayemāni tejasā. vayaṃ tv abhigatāḥ sarve bhavataḥ svargakāṅkṣiṇaḥ. āśayā tvatsakāśāc ca kāṅkṣamāṇāḥ śivaṃ padam. yathārthaṃ kuru dharmajña ṛṣīṇām iha cāgamam. dvaipāyana uvāca. arhase tejasā svena rakṣituṃ śaraṇāgatān. sa tān ṛṣigaṇān dṛṣṭvā agastyaḥ śaraṇāgatān. baddhāñjalipuṭān sarvān prahṛṣṭavadano 'bhavat. pratyarcayitvā sarvān vai vinayenopagamya ca. kṛtāñjalir uvācedaṃ sarvān sa ṛṣisattamān. susvāgataṃ vo bhavatu sādhūnāṃ sarvaśas tv iha. svam āśramapadaṃ tāvad ṛṣīṇāṃ bhavatām idam. tatas teṣv arhataḥ kṛtvā sa cātithividhiṃ dvijaḥ. upaviśya yathānyāyaṃ praśrayāvanataḥ sthitaḥ. agastyas tāṃs tataḥ sarvān kṛtāñjalir abhāṣata. namo bhagavatām astu sarveṣām eva vaḥ samam. putro 'haṃ bhavatāṃ sādhu śiṣyo vā praṇato 'bruvam. kā śaktir mama bālasya muner akṛtakarmaṇaḥ. bhavatām abhayaṃ dātuṃ svargaṃ prāpayituṃ tathā. muneḥ kartavyadharmo 'yaṃ kevalaṃ kiṃ cid eva hi. nāma dharma iti śrutvā kiṃ cin niyamavān aham. kuto dharmaḥ kutaḥ puṇyaṃ kuto dānaṃ kuto damaḥ. yena dadyām ahaṃ dharmaṃ bhavatāṃ svargakāṅkṣiṇām. prasīdata na me roṣaṃ yūyaṃ vai kartum arhatha. saṃbhāvayāmi nātmānaṃ yena dadyām aho 'bhayam. tad etad vacanaṃ śrutvā munes tasya mahātmanaḥ. cakrus te gamane buddhiṃ tām eva vitamāṃ tadā. tatas tv agastyaḥ sahasā tān uvāca dhṛtavrataḥ. aṣṭāśītisahasrāṇi ṛṣīṇāṃ bhāvitātmanām. śirasy añjalinā bālaḥ praṇamya śirasā hy api. idaṃ vacanam iṣṭātmā sarvān eva tadābravīt. na gantavyam alaṃ tāvat sarvair ṛṣigaṇair itaḥ. dāsyāmi yadi śakṣyāmi svargīyaṃ bhavatāṃ vacaḥ. gamiṣyatha yathāpūrvaṃ yadi dharmo bhaviṣyati. muhūrtaṃ sthīyatāṃ tāvad yāvat tāvad upaspṛśe. sa gatvā vitamāṃ puṇyām ṛṣis tvaritam ātmavān. yathāvidhi upaspṛśya tatas tv abhyājagāma ha. tataḥ pūrvāṃ diśaṃ dhīmān adhiṣṭhāya kṛtāñjaliḥ. hṛṣṭena manasovāca sthito hy ūrdhvam udaṅmukhaḥ. yady asti sukṛtaṃ kiṃ cid devatā vā supūjitāḥ. aṣṭāśītisahasrāṇi yāntv etāni yathā purā. dhruvāya cāstu sarveṣāṃ svargaṃ sthānaṃ mahātmanām. mama satyena tapasā niyamena damena ca. etasya vacanasyānte tatas tu bharatarṣabha. aṣṭāśītisahasrāṇi munīnāṃ puṇyakarmaṇām. svargam āruruhus tāni muditāni yathā purā. vacanaṃ śrūyate tatra sādhu sādhv ity anantaram. sādhu putra suputras tvaṃ mitrasya sudhṛtavrata. sādhu sattvavatāṃ śreṣṭha sādhu satyavatāṃ vara. sādhu dānam idaṃ puṇyaṃ sādhu brahmaṇyatā ca te. tvatprasādād vayaṃ sarve nākapṛṣṭham idaṃ kṣaṇāt. prāptavanto yathāpūrvam aho dānaṃ tavākṣayam. nedur dundubhayaḥ svarge aho dānaphalasya vai. ghuṣyate cāpy aho dānaṃ tribhir lokair mahāmune. devā mahoragā yakṣā gandharvāḥ siddhacāraṇāḥ. agastyaṃ puruṣaśreṣṭhaṃ puṣpavarṣair avākiran. gandharvā gītaghoṣeṇa vicitrair vāditais tathā. aho dānaṃ ghoṣayanto agastyaṃ pūjayanti vai. ūrvaśī menakā rambhā śyāmā kālī tathaiva ca. rāmā yojanagandhā ca gandhakālī tathaiva ca. varāpsarā hy anṛtyanta agastyaṃ bharatarṣabha. aho dānaṃ ghoṣayanti śataśaś caiva mānada. manoramaṃ susaṃhṛṣṭā devagandharvapannagāḥ. ghoṣayanto mahānādam agaster muditās tadā. tiṣṭhanty abhimukhāḥ svargaṃ sādhu sādhv ity atho 'bruvan. dhruvaṃ te cāpy aho dānaṃ tasya lokās trayas tadā. divyapuṣpadharā meghāḥ sarvataḥ samupasthitāḥ. vavṛṣuḥ puṣpavarṣāṇi agastyasyāśramaṃ prati. evaṃ tadā mahārāja agasteḥ sādhuvādinaḥ. dvaipāyana uvāca. ghuṣyate cāpy aho dānaṃ sarvato bharatarṣabha. aho dāne ghuṣyamāṇe brahmarṣes tasya vai tadā. nāradaḥ paramāścaryam adbhutaṃ prativīkṣya tat. sa tasmād vitamātīrād utthāya munipuṃgavaḥ. harṣeṇa mahatā yukto bhāskaraṃ girim āruhat. so 'dhiruhya mahāprājña paśyate bālakaṃ munim. nirvikāraṃ tadāsīnaṃ dhairyeṇa mahatānvitam. taṃ dṛṣṭvā nārado bālam agastyaṃ munisattamam. devarṣir vardhayām āsa harṣād amarasaṃnibham. diṣṭyā vardhasi dharmajña dhruvāya munisattama. bhavatā vijitā lokā hitakāma mahāmune. aṣṭāśītisahasrāṇi prāpayitvā nabhastalam. tad etad bhavatāvāptaṃ mahādānaṃ mahodayam. naitad indrādibhir devair avāptam ṛṣibhir na ca. yat tvayādya mahāprājña prāptaṃ bālena kevalam. svargīyam etad dharmajña dhruvāya munisattama. bhavatā vijitā lokāḥ sarvalokahitaiṣiṇā. kartavyo bahulaś caiva tvayā dharmo hy asaṃśayam. bhavān asmin yuge pūrve ṛṣir eko guṇaiḥ smṛtaḥ. bhaviṣyasi mahāprājña dhruvaḥ śāśvata avyayaḥ. tasya tad vacanaṃ śrutvā nāradasya mahātmanaḥ. abhivādya yathānyāyam idaṃ vacanam abravīt. bhagavan kevalaṃ bālyād avāptaṃ tapasā vibho. mayādya katham apy uktaṃ kṛte teṣāṃ mahātmanām. te gatāḥ sahasā sarve vacanān mama nārada. nākapṛṣṭhaṃ mahātmānaḥ sa hi dharmaḥ samārjitaḥ. agastyavacanaṃ śrutvā nārado bharatarṣabha. uvāca paramaprītas tad vākyam abhipūjayan. kiṃ nāma budhyase ''tmānam agaste pūrvanirjitān. lokāṃs tvayā mahāprājña dharmeṇa mahatā ciram. bhavān eko muniḥ pūrvaṃ vṛṣabho nāma nāmataḥ. yadā ca varṣakoṭī vai yugam āsīn mahāvrata. divyasaṃkalpakaṃ nāma pūrvakalpe kṛte yuge. yadā dvīpān samudrāṃś ca parvatāṃś ca vanāni ca. viṣṇuḥ saṃkalpayām āsa sahitaḥ padmayoninā. tadāpi hi bhavāñ jātaḥ salilād dhi svayaṃ prabho. puṣkarāc ca yathā brahmā yathā toyāc ca pāvakaḥ. tathā tvam api dharmajña svayaṃbhūḥ salilodbhavaḥ. evaṃ hi kathayām āsa varadaḥ padmasaṃbhavaḥ. tava sarvaṃ mahāprājña pūrvajanma tapomayam. agastya uvāca. tan na te jñānasaṃjñeyas tava janma prabudhyatām. yathā tathāstu bhagavan diṣṭyā te ṛṣayo gatāḥ. diṣṭyā te na vṛthā satyā bhagavan vāg udāhṛtā. ahaṃkārakṛtaṃ manye na ca satyaṃ mamānyathā. vyāsa uvāca. na smarāmy anṛtaṃ tāta kadā cid api bhāṣitam. yudhiṣṭhira mahāprājña śrūyatāṃ paramādbhutam. yac chrutvā manujaśreṣṭha kalmaṣaṃ nāśam eṣyati. bhaviṣyati na duḥsvapnaḥ pāpaṃ na prabhaviṣyati. nityaṃ svastikaraṃ dhanyaṃ putrapautre bhaviṣyati. bhaviṣyati mahārāja jīvaloke 'py anāmayam. tad idaṃ kathayiṣyāmi kuntīputra nibodha me. purā dvādaśavarṣeṇa yad avāptam agastinā. sa kadā cin mahārāja mahātmā kumbhasaṃbhavaḥ. upavāsasya mahataḥ samāptau niyatavrataḥ. upaviṣṭaḥ śuciḥ snātaḥ samāptau sudhṛtavrataḥ. tatas tu sahasā hy eva utpapāta mahātapāḥ. sa jagāma tadākāśaṃ vāyuneva samuddhataḥ. devagandharvacaritāṃ gatiṃ siddhaniṣevitām. sa siddhacāraṇākīrṇāṃ vidyādharaniṣevitām. prāpyāntarikṣaṃ bhagavān kiṃ svit kim iti cābravīt. sa saptamapathaṃ gatvā pavanasya mahātapāḥ. sa jagāma tadākāśaṃ vāyuneva samuddhataḥ. devagandharvacaritāṃ gatiṃ siddhaniṣevitām. paśyate vimalāḥ sarvā diśo daśa nṛpottama. vimānāni ca devānāṃ parvatāṃś ca vanāni ca. mahānubhāvān yakṣāṃś ca sarvataḥ pravilokayan. devatānāṃ niketāni divyāni bhavanāni ca. gandharvanagaraṃ caiva tatra tatrānvavaikṣata. saptadvīpavatīṃ ramyāṃ bahuparvataśobhitām. paṭṭaṇāgārakīrṇāṃ ca catuḥsāgaramaṇḍitām. so 'paśyata mahīṃ ramyām agastyo bharatarṣabha. divyena cakṣuṣā rājan daivatāni ca bhārata. tatas tv ākāśam āviśya saptavāyupathāṃ gatim. agastyo nīyate rājan dharmeṇa bharatarṣabha. sa paśyati nabho dīptaṃ jvālārcirbhir nirantaram. dhūmāndhakārasaṃchannaṃ pradīptavanasaṃnibham. taṃ dṛṣṭvā vyathitas tv āsīt sa tadā kumbhasaṃbhavaḥ. kim etad iti cāvignaś cakre saṃsthām avasthitām. tatas tu sahasāgatya daivataṃ puruṣākṛti. tasthau vai pārśvatas tasya agastyasya kṛtāñjaliḥ. sa tu taṃ praśrayād eva upasaṃgamya cābravīt. agastyaḥ prayato nityaṃ śucinā caiva cetasā. brāhmaṇo 'smi mahābhāga katham abhyāgato nabhaḥ. tataḥ pradīptam ālokya śaṅkitaḥ sādhu kathyatām. saśarīratayā nedaṃ viditaṃ me yathāvidham. tato 'smi vyathito deva tat prasīda vadasva me. evaṃ pṛṣṭaṃ tadā rājan muninā daivataṃ tu tat. satkṛtya vacanaṃ tasya tato vacanam abravīt. avagacchāmy agastya tvām ṛṣiṃ paramadhārmikam. saśarīram anuprāptam ato 'haṃ samupasthitaḥ. idaṃ khalu nabhaḥ sarvam agnir eva dhṛtavrata. tato jyotiṣam ity uktaṃ kāraṇena na saṃśayaḥ. jyotīṃṣy etās tārakā vai nakṣatrāṇi grahāṃs tathā. nityaṃ tāpayate cāpi sahasrārcir divākaraḥ. idaṃ tu dahanākāraṃ yat paśyasi dhṛtavrata. svargas tatra mahātejā dāhanaṃ pāvakasya ca. tatrārciṣmān hutavaho lokatrayacaro mahān. svayam agniḥ sthito vipra ato dīptam idaṃ nabhaḥ. atrastham abhigacchanti devāḥ sarṣigaṇās tadā. hutāśanaṃ mahābhāgaṃ varadaṃ ca svayaṃprabham. atrasthaṃ varadaṃ devaṃ sarvadevanamaskṛtaḥ. adhigacchati devānāṃ śāntyarthaṃ madhusūdanaḥ. atrasthaṃ daivatair brahma devalokaś ca nirmitaḥ. parvatāś ca samudrāś ca dvīpāś ca saritas tathā. etat tat prathamaṃ sthānam agnes trailokyapūjitam. pradīptaṃ yat tvam ālokya śaṅkito 'bhūr dvijottama. tad etan nirviśaṅkas tvaṃ mune praviśa mā vyathāḥ. nedaṃ dharmātmanā dīptaṃ nabhaḥ pavanaśītalam. tasya tad vacanaṃ śrutvā daivatasya dhṛtavrataḥ. satkṛtya tad asaṃmohād viveśa sa munir nabhaḥ. sa paśyamānas tatrasthān devān ṛṣigaṇāṃs tathā. jagāma dṛśyamānaś ca pūjyamānaś ca tair api. sa tan nabho mahātejā viveśa himaśītalam. maharṣir daivatākīrṇaṃ padmair iva jalāśayam. tatrasthāni vimānāni daivatānāṃ dadarśa ca. sadhvajāni patākāś ca savimānāṃś ca toraṇān. gandharvāṃś caiva dharmātmā pranṛttāṃś cāpsarogaṇān. so 'paśyata mahātejās tasmin hautāśane ha khe.