नान्योन्येन विवादो ऽभूत् स्त्रीणाम् अपि कुतो नृणाम्। धर्मनित्याः प्रजाश् चासन् रामे राज्यं प्रशासति। संतुष्टाः सर्वसिद्धार्था निर्भयाः स्वैरचारिणः। नराः सत्यव्रताश् चासन् रामे राज्यं प्रशासति।
nānyonyena vivādo 'bhūt strīṇām api kuto nṛṇām. dharmanityāḥ prajāś cāsan rāme rājyaṃ praśāsati. saṃtuṣṭāḥ sarvasiddhārthā nirbhayāḥ svairacāriṇaḥ. narāḥ satyavratāś cāsan rāme rājyaṃ praśāsati.