इमां ज्वरोत्पत्तिम् अदीनमानसः; पठेत् सदा यः सुसमाहितो नरः। विमुक्तरोगः स सुखी मुदा युतो; लभेत कामान् स यथामनीषितान्। जनमेजय उवाच। प्राचेतसस्य दक्षस्य कथं वैवस्वते ऽन्तरे। विनाशम् अगमद् ब्रह्मन् हयमेधः प्रजापतेः। देव्या मन्युकृतं मत्वा क्रुद्धः सर्वात्मकः प्रभुः। प्रसादात् तस्य दक्षेण स यज्ञः संधितः कथम्। वैशंपायन उवाच। एतद् वेदितुम् इच्छामि तन् मे ब्रूहि यथातथम्। पुरा हिमवतः पृष्ठे दक्षो वै यज्ञम् आहरत्। गङ्गाद्वारे शुभे देशे ऋषिसिद्धनिषेविते। गन्धर्वाप्सरसाकीर्णे नानाद्रुमलतावृते। ऋषिसंघैः परिवृतं दक्षं यज्ञभृतां वरम्। पृथिव्याम् अन्तरिक्षे च ये च स्वर्लोकवासिनः। सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम्। देवदानवगन्धर्वाः पिशाचोरगराक्षसाः। हाहा हूहूश् च गन्धर्वौ तुम्बुरुर् नारदस् तथा। विश्वावसुर् विश्वसेनो गन्धर्वाप्सरसस् तथा। आदित्या वसवो रुद्राः साध्याः सह मरुद्गणैः। इन्द्रेण सहिताः सर्वे आगता यज्ञभागिनः। ऊष्मपाः सोमपाश् चैव धूमपा आज्यपास् तथा। ऋषयः पितरश् चैव आगता ब्रह्मणा सह। एते चान्ये च बहवो भूतग्रामश् चतुर्विधः। जरायुजाण्डजाश् चैव स्वेदजोद्भिदजास् तथा। आहूता मन्त्रिताः सर्वे देवाश् च सह पत्निभिः। विराजन्ते विमानस्था दीप्यमाना इवाग्नयः। तान् दृष्ट्वा मन्युनाविष्टो दधीचिर् वाक्यम् अब्रवीत्। नायं यज्ञो न वा धर्मो यत्र रुद्रो न इज्यते। वधबन्धं प्रपन्ना वै किं नु कालस्य पर्ययः। किं नु मोहान् न पश्यन्ति विनाशं पर्युपस्थितम्। उपस्थितं भयं घोरं न बुध्यन्ति महाध्वरे। इत्य् उक्त्वा स महायोगी पश्यति ध्यानचक्षुषा। स पश्यति महादेवं देवीं च वरदां शुभाम्। नारदं च महात्मानं दृष्ट्वा देव्याः समीपतः। संतोषं परमं लेभे इति निश्चित्य योगवित्। एकमन्त्रास् तु ते सर्वे येनेशो न निमन्त्रितः। तस्माद् देशाद् अपक्रम्य दधीचिर् वाक्यम् अब्रवीत्। अपूज्यपूजने चैव पूज्यानां चाप्य् अपूजने। त्रिपातकसमं पापं शश्वत् प्राप्नोति मानवः। अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदा चन। देवतानाम् ऋषीणां च मध्ये सत्यं ब्रवीम्य् अहम्। आगतं पशुभर्तारं स्रष्टारं जगतः पतिम्। दक्ष उवाच। अध्वरे ह्य् अप्रभोक्तारं सर्वेषां पश्यत प्रभुम्। सन्ति नो बहवो रुद्राः शूलहस्ताः कपर्दिनः। दधीचिर् उवाच। एकादशस्थानगता नाहं वेद्मि महेश्वरम्। सर्वेषाम् एकमन्त्रो ऽयं येनेशो न निमन्त्रितः। यथाहं शंकराद् ऊर्ध्वं नान्यं पश्यामि दैवतम्। दक्ष उवाच। तथा दक्षस्य विपुलो यज्ञो ऽयं न भविष्यति। एतन् मखेशाय सुवर्णपात्रे। हविः समस्तं विधिमन्त्रपूतम्। विष्णोर् नयाम्य् अप्रतिमस्य भागं। देव्य् उवाच। प्रभुर् विभुश् चाहवनीय एषः। किं नाम दानं नियमं तपो वा। कुर्याम् अहं येन पतिर् ममाद्य। लभेत भागं भगवान् अचिन्त्यो। वैशंपायन उवाच। भागस्य चार्धम् अथ वा तृतीयम्। एवं ब्रुवाणां भगवान् स्वपत्नीं। प्रहृष्टरूपः क्षुभिताम् उवाच। न वेत्सि मां देवि कृशोदराङ्गि। किं नाम युक्तं मयि यन् मखेशे। अहं हि जानामि विशालनेत्रे। ध्यानेन हीना न विदन्त्य् असन्तः। तवाद्य मोहेन च सेन्द्रदेवा। लोकास् त्रयः सर्वत एव मूढाः। माम् अध्वरे शंसितारः स्तुवन्ति। रथंतरं सामगाश् चोपगान्ति। मां ब्राह्मणा ब्रह्मसत्रे यजन्ते। देव्य् उवाच। ममाध्वर्यवः कल्पयन्ते च भागम्। सुप्राकृतो ऽपि भगवन् सर्वः स्त्रीजनसंसदि। भगवान् उवाच। स्तौति गर्वायते चापि स्वम् आत्मानं न संशयः। नात्मानं स्तौमि देवेशि पश्य मे तनुमध्यमे। वैशंपायन उवाच। यं स्रक्ष्यामि वरारोहे तवार्थे वरवर्णिनि। इत्य् उक्त्वा भगवान् पत्नीम् उमां प्राणैर् अपि प्रियाम्। सो ऽसृजद् भगवान् वक्त्राद् भूतं घोरं प्रहर्षणम्। तम् उवाचाक्षिप मखं दक्षस्येति महेश्वरः। तस्माद् वक्त्राद् विमुक्तेन सिंहेनैकेन लीलया। देव्या मन्युव्यपोहार्थं हतो दक्षस्य वै क्रतुः। मन्युना च महाभीमा महाकाली महेश्वरी। आत्मनः कर्मसाक्षित्वे तेन सार्धं सहानुगा। देवस्यानुमतं मत्वा प्रणम्य शिरसा ततः। आत्मनः सदृशः शौर्याद् बलरूपसमन्वितः। स एव भगवान् क्रोधः प्रतिरूपसमन्वितः। अनन्तबलवीर्यश् च अनन्तबलपौरुषः। वीरभद्र इति ख्यातो देव्या मन्युप्रमार्जकः। सो ऽसृजद् रोमकूपेभ्यो रौम्यान् नाम गणेश्वरान्। रुद्रानुगा गणा रौद्रा रुद्रवीर्यपराक्रमाः। ते निपेतुस् ततस् तूर्णं दक्षयज्ञविहिंसया। भीमरूपा महाकायाः शतशो ऽथ सहस्रशः। ततः किलकिलाशब्दैर् आकाशं पूरयन्न् इव। तेन शब्देन महता त्रस्तास् तत्र दिवौकसः। पर्वताश् च व्यशीर्यन्त चकम्पे च वसुंधरा। मारुताश् चैव घूर्णन्ते चुक्षुभे वरुणालयः। अग्नयो नैव दीप्यन्ते नैव दीप्यति भास्करः। ग्रहा नैव प्रकाशन्ते नक्षत्राणि न चन्द्रमाः। ऋषयो न प्रकाशन्ते न देवा न च मानुषाः। एवं तु तिमिरीभूते निर्दहन्त्य् अवमानिताः। प्रहरन्त्य् अपरे घोरा यूपान् उत्पाटयन्ति च। प्रमर्दन्ति तथा चान्ये विमर्दन्ति तथा परे। आधावन्ति प्रधावन्ति वायुवेगा मनोजवाः। चूर्ण्यन्ते यज्ञपात्राणि दिव्यान्य् आभरणानि च। विशीर्यमाणा दृश्यन्ते तारा इव नभस्तलात्। दिव्यान्नपानभक्ष्याणां राशयः पर्वतोपमाः। क्षीरनद्यो ऽथ दृश्यन्ते घृतपायसकर्दमाः। दधिमण्डोदका दिव्याः खण्डशर्करवालुकाः। षड्रसा निवहन्त्य् एता गुडकुल्या मनोरमाः। उच्चावचानि मांसानि भक्ष्याणि विविधानि च। पानकानि च दिव्यानि लेह्यचोष्याणि यानि च। भुञ्जते विविधैर् वक्त्रैर् विलुम्पन्त्य् आक्षिपन्ति च। रुद्रकोपान् महाकायाः कालाग्निसदृशोपमाः। क्षोभयन् सुरसैन्यानि भीषयन्तः समन्ततः। क्रीडन्ति विकृताकारैश् चिक्षिपुः सुरयोषितः। रुद्रक्रोधात् प्रयत्नेन सर्वदेवैः सुरक्षितम्। तं यज्ञम् अदहच् छीघ्रं भद्रकाली समन्ततः। चकार भैरवं नादं सर्वभूतभयंकरम्। छित्त्वा शिरो वै यज्ञस्य ननाद च मुमोद च। ततो ब्रह्मादयो देवा दक्षश् चैव प्रजापतिः। वीरभद्र उवाच। ऊचुः प्राञ्जलयः सर्वे कथ्यतां को भवान् इति। नाहं रुद्रो न वा देवी नैव भोक्तुम् इहागतः। देव्या मन्युकृतं मत्वा क्रुद्धः सर्वात्मकः प्रभुः। द्रष्टुं वा नैव विप्रेन्द्रान् नैव कौतूहलेन च। तव यज्ञविनाशार्थं संप्राप्तं विद्धि माम् इह। वीरभद्र इति ख्यातो रुद्रकोपाद् विनिःसृतः। भद्रकालीति विज्ञेया देव्याः कोपाद् विनिःसृता। प्रेषितौ देवदेवेन यज्ञान्तिकम् इहागतौ। शरणं गच्छ विप्रेन्द्र देवदेवम् उमापतिम्। वैशंपायन उवाच। वरं क्रोधो ऽपि देवस्य वरदानं न चान्यतः। वीरभद्रवचः श्रुत्वा दक्षो धर्मभृतां वरः। तोषयाम् आस स्तोत्रेण प्रणिपत्य महेश्वरम्। प्रपद्ये देवम् ईशानं शाश्वतं ध्रुवम् अव्ययम्। महादेवं महात्मानं विश्वस्य जगतः पतिम्। दक्षप्रजापतेर् यज्ञे द्रव्यैस् तु सुसमाहितैः। आहूता देवताः सर्वा ऋषयश् च तपोधनाः। देवो नाहूयते तत्र विश्वकर्मा महेश्वरः। तत्र क्रुद्धा महादेवी गणांस् तत्र व्यसर्जयत्। प्रदीप्ते यज्ञवाटे तु विद्रुतेषु द्विजातिषु। तारागणम् अनुप्राप्ते रौद्रे दीप्ते महात्मनि। शूलनिर्भिन्नहृदयैः कूजद्भिः परिचारकैः। निखातोत्पाटितैर् यूपैर् अपविद्धैर् इतस् ततः। उत्पतद्भिः पतद्भिश् च गृध्रैर् आमिषगृद्धिभिः। पक्षवातविनिर्धूतैः शिवाशतनिनादितैः। यक्षगन्धर्वसंघैश् च पिशाचोरगराक्षसैः। प्राणापानौ संनिरुध्य वक्त्रस्थानेन यत्नतः। विचार्य सर्वतो दृष्टिं बहुदृष्टिर् अमित्रजित्। सहसा देवदेवेशो अग्निकुण्डात् समुत्थितः। बिभ्रत् सूर्यसहस्रस्य तेजः संवर्तकोपमः। स्मितं कृत्वाब्रवीद् वाक्यं ब्रूहि किं करवाणि ते। श्राविते च मखाध्याये देवानां गुरुणा ततः। तम् उवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः। भीतशङ्कितवित्रस्तः सबाष्पवदनेक्षणः। यदि प्रसन्नो भगवान् यदि चाहं तव प्रियः। यदि वाहम् अनुग्राह्यो यदि देयो वरो मम। यद् दग्धं भक्षितं पीतम् अशितं यच् च नाशितम्। चूर्णीकृतापविद्धं च यज्ञसंभारम् ईहितम्। दीर्घकालेन महता प्रयत्नेन च संचितम्। तन् न मिथ्या भवेन् मह्यं वरम् एतम् अहं वृणे। तथास्त्व् इत्य् आह भगवान् भगनेत्रहरो हरः। धर्माध्यक्षो विरूपाक्षस् त्र्यक्षो देवः प्रजापतिः। जानुभ्याम् अवनीं गत्वा दक्षो लब्ध्वा भवाद् वरम्। युधिष्ठिर उवाच। नाम्नाम् अष्टसहस्रेण स्तुतवान् वृषभध्वजम्। यैर् नामधेयैः स्तुतवान् दक्षो देवः प्रजापतिः। भीष्म उवाच। वक्तुम् अर्हसि मे तात श्रोतुं श्रद्धा ममानघ। श्रूयतां देवदेवस्य नामान्य् अद्भुतकर्मणः। गूढव्रतस्य गुह्यानि प्रकाशानि च भारत। दक्ष उवाच। नमस् ते देवदेवेश देवारिबलसूदन। देवेन्द्रबलविष्टम्भ देवदानवपूजित। सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिप प्रिय। सर्वतःपाणिपादान्त सर्वतोक्षिशिरोमुख। सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठसि। शङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय। गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमो ऽस्तु ते। शतोदर शतावर्त शतजिह्व शतानन। गायन्ति त्वां गायत्रिणो अर्चयन्त्य् अर्कम् अर्किणः। ब्रह्माणं त्वां शतक्रतुम् ऊर्ध्वं खम् इव मेनिरे। मूर्तौ हि ते महामूर्ते समुद्राम्बरसंनिभ। सर्वा वै देवता ह्य् अस्मिन् गावो गोष्ठ इवासते। भवच्छरीरे पश्यामि सोमम् अग्निं जलेश्वरम्। आदित्यम् अथ वै विष्णुं ब्रह्माणं च बृहस्पतिम्। भगवान् कारणं कार्यं क्रिया करणम् एव च। असतश् च सतश् चैव तथैव प्रभवाप्ययौ। नमो भवाय शर्वाय रुद्राय वरदाय च। पशूनां पतये चैव नमो ऽस्त्व् अन्धकघातिने। त्रिजटाय त्रिशीर्षाय त्रिशूलवरपाणिने। त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः। नमश् चण्डाय मुण्डाय अण्डायाण्डधराय च। दण्डिने समकर्णाय दण्डिमुण्डाय वै नमः। नमोर्ध्वदंष्ट्रकेशाय शुक्लायावतताय च। विलोहिताय धूम्राय नीलग्रीवाय वै नमः। नमो ऽस्त्व् अप्रतिरूपाय विरूपाय शिवाय च। सूर्याय सूर्यमालाय सूर्यध्वजपताकिने। नमः प्रमथनाथाय वृषस्कन्धाय धन्विने। शत्रुंदमाय दण्डाय पर्णचीरपटाय च। नमो हिरण्यगर्भाय हिरण्यकवचाय च। हिरण्यकृतचूडाय हिरण्यपतये नमः। नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः। सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने। नमो होत्रे ऽथ मन्त्राय शुक्लध्वजपताकिने। नमो नाभाय नाभ्याय नमः कटकटाय च। नमो ऽस्तु कृशनासाय कृशाङ्गाय कृशाय च। संहृष्टाय विहृष्टाय नमः किलकिलाय च। नमो ऽस्तु शयमानाय शयितायोत्थिताय च। स्थिताय धावमानाय मुण्डाय जटिलाय च। नमो नर्तनशीलाय मुखवादित्रवादिने। नाद्योपहारलुब्धाय गीतवादित्रशालिने। नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च। कालनाथाय कल्याय क्षयायोपक्षयाय च। भीमदुन्दुभिहासाय भीमव्रतधराय च। उग्राय च नमो नित्यं नमो ऽस्तु दशबाहवे। नमः कपालहस्ताय चितिभस्मप्रियाय च। विभीषणाय भीष्माय भीमव्रतधराय च। नमो विकृतवक्त्राय खड्गजिह्वाय दंष्ट्रिणे। पक्वाममांसलुब्धाय तुम्बीवीणाप्रियाय च। नमो वृषाय वृष्याय गोवृषाय वृषाय च। कटंकटाय चण्डाय नमः पचपचाय च। नमः सर्ववरिष्ठाय वराय वरदाय च। वरमाल्यगन्धवस्त्राय वरातिवरदे नमः। नमो रक्तविरक्ताय भावनायाक्षमालिने। संभिन्नाय विभिन्नाय छायायातपनाय च। अघोरघोररूपाय घोरघोरतराय च। नमः शिवाय शान्ताय नमः शान्ततमाय च। एकपाद् बहुनेत्राय एकशीर्ष नमो नमः। नमः क्षुद्राय लुब्धाय संविभागप्रियाय च। पञ्चालाय सिताङ्गाय नमः शमशमाय च। नमश् चण्डिकघण्टाय घण्टायाघण्टघण्टिने। सहस्रशतघण्टाय घण्टामालाप्रियाय च। प्राणघण्टाय गन्धाय नमः कलकलाय च। हूंहूंहूंकारपाराय हूंहूंकारप्रियाय च। नमः शमशमे नित्यं गिरिवृक्षालयाय च। गर्भमांसशृगालाय तारकाय तराय च। नमो यज्ञाय यजिने हुताय प्रहुताय च। यज्ञवाहाय दान्ताय तप्यायातपनाय च। नमस् तटाय तट्याय तटानां पतये नमः। अन्नदायान्नपतये नमस् त्व् अन्नभुजे तथा। नमः सहस्रशीर्षाय सहस्रचरणाय च। सहस्रोद्यतशूलाय सहस्रनयनाय च। नमो बालार्कवर्णाय बालरूपधराय च। बालानुचरगोप्त्राय बालक्रीडनकाय च। नमो वृद्धाय लुब्धाय क्षुब्धाय क्षोभणाय च। तरङ्गाङ्कितकेशाय मुञ्जकेशाय वै नमः। नमः षट्कर्णतुष्टाय त्रिकर्मनिरताय च। वर्णाश्रमाणां विधिवत् पृथक्कर्मनिवर्तिने। नमो घुष्याय घोषाय नमः कलकलाय च। श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च। प्राणभग्नाय दण्डाय स्फोटनाय कृशाय च। धर्मार्थकाममोक्षाणां कथ्याय कथनाय च। सांख्याय सांख्यमुख्याय सांख्ययोगप्रवर्तिने। नमो रथ्यविरथ्याय चतुष्पथरथाय च। कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने। ईशान वज्रसंघात हरिकेश नमो ऽस्तु ते। त्र्यम्बकाम्बिकनाथाय व्यक्ताव्यक्त नमो ऽस्तु ते। काम कामद कामघ्न तृप्तातृप्तविचारिणे। सर्व सर्वद सर्वघ्न संध्याराग नमो ऽस्तु ते। महाबल महाबाहो महासत्त्व महाद्युते। महामेघचयप्रख्य महाकाल नमो ऽस्तु ते। स्थूलजीर्णाङ्गजटिले वल्कलाजिनधारिणे। दीप्तसूर्याग्निजटिले वल्कलाजिनवाससे। सहस्रसूर्यप्रतिम तपोनित्य नमो ऽस्तु ते। उन्मादन शतावर्त गङ्गातोयार्द्रमूर्धज। चन्द्रावर्त युगावर्त मेघावर्त नमो ऽस्तु ते। त्वम् अन्नम् अन्नभोक्ता च अन्नदो ऽन्नभुग् एव। अन्नस्रष्टा च पक्ता च पक्वभुक् पवनो ऽनलः। जरायुजाण्डजाश् चैव स्वेदजाश् च तथोद्भिजाः। त्वम् एव देवदेवेश भूतग्रामश् चतुर्विधः। चराचरस्य स्रष्टा त्वं प्रतिहर्ता तथैव च। त्वाम् आहुर् ब्रह्मविदुषो ब्रह्म ब्रह्मविदां वर। मनसः परमा योनिः खं वायुर् ज्योतिषां निधिः। ऋक्सामानि तथ्ॐकारम् आहुस् त्वां ब्रह्मवादिनः। हायिहायि हुवाहायि हावुहायि तथासकृत्। गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः। यजुर्मयो ऋङ्मयश् च त्वाम् आहुतिमयस् तथा। पठ्यसे स्तुतिभिस् त्वं हि वेदोपनिषदां गणैः। ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश् च ये। त्वम् एव मेघसंघाश् च विद्युत्स्तनितगर्जितः। संवत्सरस् त्वम् ऋतवो मासो मासार्धम् एव च। युगा निमेषाः काष्ठास् त्वं नक्षत्राणि ग्रहाः कलाः। वृक्षाणां ककुदो ऽसि त्वं गिरीणां शिखराणि च। व्याघ्रो मृगाणां पततां तार्क्ष्यो ऽनन्तश् च भोगिनाम्। क्षीरोदो ह्य् उदधीनां च यन्त्राणां धनुर् एव च। वज्रः प्रहरणानां च व्रतानां सत्यम् एव च। त्वम् एव द्वेष इच्छा च रागो मोहः क्षमाक्षमे। व्यवसायो धृतिर् लोभः कामक्रोधौ जयाजयौ। त्वं गदी त्वं शरी चापी खट्वाङ्गी झर्झरी तथा। छेत्ता भेत्ता प्रहर्ता त्वं नेता मन्ता पिता मतः। दशलक्षणसंयुक्तो धर्मो ऽर्थः काम एव च। गङ्गा समुद्राः सरितः पल्वलानि सरांसि च। लता वल्ल्यस् तृणौषध्यः पशवो मृगपक्षिणः। द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः। आदिश् चान्तश् च देवानां गायत्र्य् ॐकार एव च। हरितो लोहितो नीलः कृष्णो रक्तस् तथारुणः। कद्रुश् च कपिलश् चैव कपोतो मेचकस् तथा। अवर्णश् च सुवर्णश् च वर्णकारो ह्य् अनौपमः। सुवर्णनामा च तथा सुवर्णप्रिय एव च। त्वम् इन्द्रश् च यमश् चैव वरुणो धनदो ऽनलः। उपप्लवश् चित्रभानुः स्वर्भानुर् भानुर् एव च। होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः। त्रिसौपर्णं तथा ब्रह्म यजुषां शतरुद्रियम्। पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम्। गिरिको हिण्डुको वृक्षो जीवः पुद्गल एव च। प्राणः सत्त्वं रजश् चैव तमश् चाप्रमदस् तथा। प्राणो ऽपानः समानश् च उदानो व्यान एव च। उन्मेषश् च निमेषश् च क्षुतं जृम्भितम् एव च। लोहितान्तर्गता दृष्टिर् महावक्त्रो महोदरः। शुचिरोमा हरिश्मश्रुर् ऊर्ध्वकेशश् चलाचलः। गीतवादित्रतत्त्वज्ञो गीतवादनकप्रियः। मत्स्यो जलचरो जाल्यो ऽकलः केलिकलः कलिः। अकालश् चातिकालश् च दुष्कालः काल एव च। मृत्युः क्षुरश् च कृत्यश् च पक्षो ऽपक्षक्षयंकरः। मेघकालो महादंष्ट्रः संवर्तकबलाहकः। घण्टो ऽघण्टो घटी घण्टी चरुचेली मिलीमिली। ब्रह्मकायिकम् अग्नीनां दण्डी मुण्डस् त्रिदण्डधृक्। चतुर्युगश् चतुर्वेदश् चातुर्होत्रप्रवर्तकः। चातुराश्रम्यनेता च चातुर्वर्ण्यकरश् च यः। सदा चाक्षप्रियो धूर्तो गणाध्यक्षो गणाधिपः। रक्तमाल्याम्बरधरो गिरिशो गिरिकप्रियः। शिल्पिकः शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्तकः। भगनेत्राङ्कुशश् चण्डः पूष्णो दन्तविनाशनः। स्वाहा स्वधा वषट्कारो नमस्कारो नमो नमः। गूढव्रतो गुह्यतपास् तारकस् तारकामयः। धाता विधाता संधाता विधाता धारणो ऽधरः। ब्रह्मा तपश् च सत्यं च ब्रह्मचर्यम् अथार्जवम्। भूतात्मा भूतकृद् भूतो भूतभव्यभवोद्भवः। भूर् भुवः स्वरितश् चैव ध्रुवो दान्तो महेश्वरः। दीक्षितो ऽदीक्षितः क्षान्तो दुर्दान्तो ऽदान्तनाशनः। चन्द्रावर्तो युगावर्तः संवर्तः संप्रवर्तकः। कामो बिन्दुर् अणुः स्थूलः कर्णिकारस्रजप्रियः। नन्दीमुखो भीममुखः सुमुखो दुर्मुखो ऽमुखः। चतुर्मुखो बहुमुखो रणेष्व् अग्निमुखस् तथा। हिरण्यगर्भः शकुनिर् महोरगपतिर् विराट्। अधर्महा महापार्श्वो दण्डधारो रणप्रियः। गोनर्दो गोप्रतारश् च गोवृषेश्वरवाहनः। त्रैलोक्यगोप्ता गोविन्दो गोमार्गो ऽमार्ग एव च। श्रेष्ठः स्थिरश् च स्थाणुश् च निष्कम्पः कम्प एव च। दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः। दुर्धर्षो दुष्प्रकम्पश् च दुर्विषो दुर्जयो जयः। शशः शशाङ्कः शमनः शीतोष्णक्षुज्जराधिधृक्। आधयो व्याधयश् चैव व्याधिहा व्याधिर् एव च। मम यज्ञमृगव्याधो व्याधीनाम् आगमो गमः। शिखण्डी पुण्डरीकाक्षः पुण्डरीकवनालयः। दण्डधारस् त्र्यम्बकश् च उग्रदण्डो ऽण्डनाशनः। विषाग्निपाः सुरश्रेष्ठः सोमपास् त्वं मरुत्पतिः। अमृतपास् त्वं जगन्नाथ देवदेव गणेश्वरः। विषाग्निपा मृत्युपाश् च क्षीरपाः सोमपास् तथा। मधुश्च्युतानाम् अग्रपास् त्वम् एव तुषिताज्यपाः। हिरण्यरेताः पुरुषस् त्वम् एव। त्वं स्त्री पुमांस् त्वं च नपुंसकं च। बालो युवा स्थविरो जीर्णदंष्ट्रो। नागेन्द्रशत्रुर् विश्वकर्ता वरेण्यः। त्वं विश्वबाहुस् तेजस्वी विश्वतोमुखश्। चन्द्रादित्यौ हृदयं च पितामहः। सरस्वती वाग्बलम् उत्तमो ऽनिलः। अहोरात्रो निमेषोन्मेषकर्ता। न ब्रह्मा न च गोविन्दः पौराणा ऋषयो न ते। माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव। या मूर्तयः सुसूक्ष्मास् ते न मह्यं यान्ति दर्शनम्। त्राहि मां सततं रक्ष पिता पुत्रम् इवौरसम्। रक्ष मां रक्षणीयो ऽहं तवानघ नमो ऽस्तु ते। भक्तानुकम्पी भगवान् भक्तश् चाहं सदा त्वयि। यः सहस्राण्य् अनेकानि पुंसाम् आवृत्य दुर्दृशः। तिष्ठत्य् एकः समुद्रान्ते स मे गोप्तास् तु नित्यशः। यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः। ज्योतिः पश्यन्ति युञ्जानास् तस्मै योगात्मने नमः। जटिले दण्डिने नित्यं लम्बोदरशरीरिणे। कमण्डलुनिषङ्गाय तस्मै रुद्रात्मने नमः। यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु। कुक्षौ समुद्राश् चत्वारस् तस्मै तोयात्मने नमः। संभक्ष्य सर्वभूतानि युगान्ते पर्युपस्थिते। यः शेते जलमध्यस्थस् तं प्रपद्ये ऽम्बुशायिनम्। प्रविश्य वदनं राहोर् यः सोमं पिबते निशि। ग्रसत्य् अर्कं च स्वर्भानुर् भूत्वा मां सो ऽभिरक्षतु। ये चानुपतिता गर्भा यथाभागानुपासते। नमस् तेभ्यः स्वधा स्वाहा प्राप्नुवन्तु मुदन्तु ते। ये ऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम्। रक्षन्तु ते हि मां नित्यं नित्यं चाप्याययन्तु च। ये न रोदन्ति देहस्था देहिनो रोदयन्ति च। हर्षयन्ति न हृष्यन्ति नमस् तेभ्यो ऽस्तु नित्यशः। ये नदीषु समुद्रेषु पर्वतेषु गुहासु च। वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च। चतुष्पथेषु रथ्यासु चत्वरेषु तटेषु च। हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च। ये च पञ्चसु भूतेषु दिशासु विदिशासु च। चन्द्रार्कयोर् मध्यगता ये च चन्द्रार्करश्मिषु। रसातलगता ये च ये च तस्मै परं गताः। नमस् तेभ्यो नमस् तेभ्यो नमस् तेभ्यो ऽस्तु नित्यशः। येषां न विद्यते संख्या प्रमाणं रूपम् एव च। असंख्येयगुणा रुद्रा नमस् तेभ्यो ऽस्तु नित्यशः। सर्वभूतकरो यस्मात् सर्वभूतपतिर् हरः। सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः। त्वम् एव हीज्यसे यस्माद् यज्ञैर् विविधदक्षिणैः। त्वम् एव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः। अथ वा मायया देव सूक्ष्मया तव मोहितः। एतस्मात् कारणाद् वापि तेन त्वं न निमन्त्रितः। प्रसीद मम भद्रं ते तव भावगतस्य मे। त्वयि मे हृदयं देव त्वयि बुद्धिर् मनस् त्वयि। स्तुत्वैवं स महादेवं विरराम प्रजापतिः। भगवान् अपि सुप्रीतः पुनर् दक्षम् अभाषत। परितुष्टो ऽस्मि ते दक्ष स्तवेनानेन सुव्रत। बहुनात्र किम् उक्तेन मत्समीपे भविष्यसि। अश्वमेधसहस्रस्य वाजपेयशतस्य च। प्रजापते मत्प्रसादात् फलभागी भविष्यसि। अथैनम् अब्रवीद् वाक्यं त्रैलोक्याधिपतिर् भवः। आश्वासनकरं वाक्यं वाक्यविद् वाक्यसंमितम्। दक्ष दक्ष न कर्तव्यो मन्युर् विघ्नम् इमं प्रति। अहं यज्ञहरस् तुभ्यं दृष्टम् एतत् पुरातनम्। भूयश् च ते वरं दद्मि तं त्वं गृह्णीष्व सुव्रत। प्रसन्नवदनो भूत्वा तद् इहैकमनाः शृणु। वेदात् षडङ्गाद् उद्धृत्य सांख्ययोगाच् च युक्तितः। तपः सुतप्तं विपुलं दुश्चरं देवदानवैः। अपूर्वं सर्वतोभद्रं विश्वतोमुखम् अव्ययम्। अब्दैर् दशाहसंयुक्तं गूढम् अप्राज्ञनिन्दितम्। वर्णाश्रमकृतैर् धर्मैर् विपरीतं क्व चित् समम्। गतान्तैर् अध्यवसितम् अत्याश्रमम् इदं व्रतम्। मया पाशुपतं दक्ष योगम् उत्पादितं पुरा। तस्य चीर्णस्य तत् सम्यक् फलं भवति पुष्कलम्। तच् चास्तु ते महाभाग त्यज्यतां मानसो ज्वरः। एवम् उक्त्वा महादेवः सपत्नीको वृषध्वजः। अदर्शनम् अनुप्राप्तो दक्षस्यामितविक्रमः। दक्षप्रोक्तं स्तवम् इमं कीर्तयेद् यः शृणोति वा। नाशुभं प्राप्नुयात् किं चिद् दीर्घम् आयुर् अवाप्नुयात्। यथा सर्वेषु देवेषु वरिष्ठो भगवाञ् शिवः। तथा स्तवो वरिष्ठो ऽयं स्तवानां ब्रह्मसंमितः। यशोराज्यसुखैश्वर्यकामार्थधनकाङ्क्षिभिः। श्रोतव्यो भक्तिम् आस्थाय विद्याकामैश् च यत्नतः। व्याधितो दुःखितो दीनश् चोरग्रस्तो भयार्दितः। राजकार्याभियुक्तो वा मुच्यते महतो भयात्। अनेनैव तु देहेन गणानां समतां व्रजेत्। तेजसा यशसा चैव युक्तो भवति निर्मलः। न राक्षसाः पिशाचा वा न भूता न विनायकाः। विघ्नं कुर्युर् गृहे तस्य यत्रायं पठ्यते स्तवः। शृणुयाच् चैव या नारी तद्भक्ता ब्रह्मचारिणी। पितृपक्षे मातृपक्षे पूज्या भवति देववत्। शृणुयाद् यः स्तवं कृत्स्नं कीर्तयेद् वा समाहितः। तस्य सर्वाणि कर्माणि सिद्धिं गच्छन्त्य् अभीक्ष्णशः। मनसा चिन्तितं यच् च यच् च वाचानुकीर्तितम्। सर्वं संपद्यते तस्य स्तवस्यास्यानुकीर्तनात्। देवस्य च सगुहस्य देव्या नन्दीश्वरस्य च। बलिं सुविहितं कृत्वा दमेन नियमेन च। ततस् तु युक्तो गृह्णीयान् नामान्य् आशु यथाक्रमम्। ईप्सितांल् लभते सो ऽर्थान् कामान् भोगांश् च मानवः। मृतश् च स्वर्गम् आप्नोति तिर्यक्षु च न जायते। इत्य् आह भगवान् व्यासः पराशरसुतः प्रभुः। कथेयं कथिता पुण्या धर्म्या धर्मभृतां वर। किम् अन्यत् कथयामीह तद् भवान् वक्तुम् अर्हति।
imāṃ jvarotpattim adīnamānasaḥ; paṭhet sadā yaḥ susamāhito naraḥ. vimuktarogaḥ sa sukhī mudā yuto; labheta kāmān sa yathāmanīṣitān. janamejaya uvāca. prācetasasya dakṣasya kathaṃ vaivasvate 'ntare. vināśam agamad brahman hayamedhaḥ prajāpateḥ. devyā manyukṛtaṃ matvā kruddhaḥ sarvātmakaḥ prabhuḥ. prasādāt tasya dakṣeṇa sa yajñaḥ saṃdhitaḥ katham. vaiśaṃpāyana uvāca. etad veditum icchāmi tan me brūhi yathātatham. purā himavataḥ pṛṣṭhe dakṣo vai yajñam āharat. gaṅgādvāre śubhe deśe ṛṣisiddhaniṣevite. gandharvāpsarasākīrṇe nānādrumalatāvṛte. ṛṣisaṃghaiḥ parivṛtaṃ dakṣaṃ yajñabhṛtāṃ varam. pṛthivyām antarikṣe ca ye ca svarlokavāsinaḥ. sarve prāñjalayo bhūtvā upatasthuḥ prajāpatim. devadānavagandharvāḥ piśācoragarākṣasāḥ. hāhā hūhūś ca gandharvau tumburur nāradas tathā. viśvāvasur viśvaseno gandharvāpsarasas tathā. ādityā vasavo rudrāḥ sādhyāḥ saha marudgaṇaiḥ. indreṇa sahitāḥ sarve āgatā yajñabhāginaḥ. ūṣmapāḥ somapāś caiva dhūmapā ājyapās tathā. ṛṣayaḥ pitaraś caiva āgatā brahmaṇā saha. ete cānye ca bahavo bhūtagrāmaś caturvidhaḥ. jarāyujāṇḍajāś caiva svedajodbhidajās tathā. āhūtā mantritāḥ sarve devāś ca saha patnibhiḥ. virājante vimānasthā dīpyamānā ivāgnayaḥ. tān dṛṣṭvā manyunāviṣṭo dadhīcir vākyam abravīt. nāyaṃ yajño na vā dharmo yatra rudro na ijyate. vadhabandhaṃ prapannā vai kiṃ nu kālasya paryayaḥ. kiṃ nu mohān na paśyanti vināśaṃ paryupasthitam. upasthitaṃ bhayaṃ ghoraṃ na budhyanti mahādhvare. ity uktvā sa mahāyogī paśyati dhyānacakṣuṣā. sa paśyati mahādevaṃ devīṃ ca varadāṃ śubhām. nāradaṃ ca mahātmānaṃ dṛṣṭvā devyāḥ samīpataḥ. saṃtoṣaṃ paramaṃ lebhe iti niścitya yogavit. ekamantrās tu te sarve yeneśo na nimantritaḥ. tasmād deśād apakramya dadhīcir vākyam abravīt. apūjyapūjane caiva pūjyānāṃ cāpy apūjane. tripātakasamaṃ pāpaṃ śaśvat prāpnoti mānavaḥ. anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana. devatānām ṛṣīṇāṃ ca madhye satyaṃ bravīmy aham. āgataṃ paśubhartāraṃ sraṣṭāraṃ jagataḥ patim. dakṣa uvāca. adhvare hy aprabhoktāraṃ sarveṣāṃ paśyata prabhum. santi no bahavo rudrāḥ śūlahastāḥ kapardinaḥ. dadhīcir uvāca. ekādaśasthānagatā nāhaṃ vedmi maheśvaram. sarveṣām ekamantro 'yaṃ yeneśo na nimantritaḥ. yathāhaṃ śaṃkarād ūrdhvaṃ nānyaṃ paśyāmi daivatam. dakṣa uvāca. tathā dakṣasya vipulo yajño 'yaṃ na bhaviṣyati. etan makheśāya suvarṇapātre. haviḥ samastaṃ vidhimantrapūtam. viṣṇor nayāmy apratimasya bhāgaṃ. devy uvāca. prabhur vibhuś cāhavanīya eṣaḥ. kiṃ nāma dānaṃ niyamaṃ tapo vā. kuryām ahaṃ yena patir mamādya. labheta bhāgaṃ bhagavān acintyo. vaiśaṃpāyana uvāca. bhāgasya cārdham atha vā tṛtīyam. evaṃ bruvāṇāṃ bhagavān svapatnīṃ. prahṛṣṭarūpaḥ kṣubhitām uvāca. na vetsi māṃ devi kṛśodarāṅgi. kiṃ nāma yuktaṃ mayi yan makheśe. ahaṃ hi jānāmi viśālanetre. dhyānena hīnā na vidanty asantaḥ. tavādya mohena ca sendradevā. lokās trayaḥ sarvata eva mūḍhāḥ. mām adhvare śaṃsitāraḥ stuvanti. rathaṃtaraṃ sāmagāś copagānti. māṃ brāhmaṇā brahmasatre yajante. devy uvāca. mamādhvaryavaḥ kalpayante ca bhāgam. suprākṛto 'pi bhagavan sarvaḥ strījanasaṃsadi. bhagavān uvāca. stauti garvāyate cāpi svam ātmānaṃ na saṃśayaḥ. nātmānaṃ staumi deveśi paśya me tanumadhyame. vaiśaṃpāyana uvāca. yaṃ srakṣyāmi varārohe tavārthe varavarṇini. ity uktvā bhagavān patnīm umāṃ prāṇair api priyām. so 'sṛjad bhagavān vaktrād bhūtaṃ ghoraṃ praharṣaṇam. tam uvācākṣipa makhaṃ dakṣasyeti maheśvaraḥ. tasmād vaktrād vimuktena siṃhenaikena līlayā. devyā manyuvyapohārthaṃ hato dakṣasya vai kratuḥ. manyunā ca mahābhīmā mahākālī maheśvarī. ātmanaḥ karmasākṣitve tena sārdhaṃ sahānugā. devasyānumataṃ matvā praṇamya śirasā tataḥ. ātmanaḥ sadṛśaḥ śauryād balarūpasamanvitaḥ. sa eva bhagavān krodhaḥ pratirūpasamanvitaḥ. anantabalavīryaś ca anantabalapauruṣaḥ. vīrabhadra iti khyāto devyā manyupramārjakaḥ. so 'sṛjad romakūpebhyo raumyān nāma gaṇeśvarān. rudrānugā gaṇā raudrā rudravīryaparākramāḥ. te nipetus tatas tūrṇaṃ dakṣayajñavihiṃsayā. bhīmarūpā mahākāyāḥ śataśo 'tha sahasraśaḥ. tataḥ kilakilāśabdair ākāśaṃ pūrayann iva. tena śabdena mahatā trastās tatra divaukasaḥ. parvatāś ca vyaśīryanta cakampe ca vasuṃdharā. mārutāś caiva ghūrṇante cukṣubhe varuṇālayaḥ. agnayo naiva dīpyante naiva dīpyati bhāskaraḥ. grahā naiva prakāśante nakṣatrāṇi na candramāḥ. ṛṣayo na prakāśante na devā na ca mānuṣāḥ. evaṃ tu timirībhūte nirdahanty avamānitāḥ. praharanty apare ghorā yūpān utpāṭayanti ca. pramardanti tathā cānye vimardanti tathā pare. ādhāvanti pradhāvanti vāyuvegā manojavāḥ. cūrṇyante yajñapātrāṇi divyāny ābharaṇāni ca. viśīryamāṇā dṛśyante tārā iva nabhastalāt. divyānnapānabhakṣyāṇāṃ rāśayaḥ parvatopamāḥ. kṣīranadyo 'tha dṛśyante ghṛtapāyasakardamāḥ. dadhimaṇḍodakā divyāḥ khaṇḍaśarkaravālukāḥ. ṣaḍrasā nivahanty etā guḍakulyā manoramāḥ. uccāvacāni māṃsāni bhakṣyāṇi vividhāni ca. pānakāni ca divyāni lehyacoṣyāṇi yāni ca. bhuñjate vividhair vaktrair vilumpanty ākṣipanti ca. rudrakopān mahākāyāḥ kālāgnisadṛśopamāḥ. kṣobhayan surasainyāni bhīṣayantaḥ samantataḥ. krīḍanti vikṛtākāraiś cikṣipuḥ surayoṣitaḥ. rudrakrodhāt prayatnena sarvadevaiḥ surakṣitam. taṃ yajñam adahac chīghraṃ bhadrakālī samantataḥ. cakāra bhairavaṃ nādaṃ sarvabhūtabhayaṃkaram. chittvā śiro vai yajñasya nanāda ca mumoda ca. tato brahmādayo devā dakṣaś caiva prajāpatiḥ. vīrabhadra uvāca. ūcuḥ prāñjalayaḥ sarve kathyatāṃ ko bhavān iti. nāhaṃ rudro na vā devī naiva bhoktum ihāgataḥ. devyā manyukṛtaṃ matvā kruddhaḥ sarvātmakaḥ prabhuḥ. draṣṭuṃ vā naiva viprendrān naiva kautūhalena ca. tava yajñavināśārthaṃ saṃprāptaṃ viddhi mām iha. vīrabhadra iti khyāto rudrakopād viniḥsṛtaḥ. bhadrakālīti vijñeyā devyāḥ kopād viniḥsṛtā. preṣitau devadevena yajñāntikam ihāgatau. śaraṇaṃ gaccha viprendra devadevam umāpatim. vaiśaṃpāyana uvāca. varaṃ krodho 'pi devasya varadānaṃ na cānyataḥ. vīrabhadravacaḥ śrutvā dakṣo dharmabhṛtāṃ varaḥ. toṣayām āsa stotreṇa praṇipatya maheśvaram. prapadye devam īśānaṃ śāśvataṃ dhruvam avyayam. mahādevaṃ mahātmānaṃ viśvasya jagataḥ patim. dakṣaprajāpater yajñe dravyais tu susamāhitaiḥ. āhūtā devatāḥ sarvā ṛṣayaś ca tapodhanāḥ. devo nāhūyate tatra viśvakarmā maheśvaraḥ. tatra kruddhā mahādevī gaṇāṃs tatra vyasarjayat. pradīpte yajñavāṭe tu vidruteṣu dvijātiṣu. tārāgaṇam anuprāpte raudre dīpte mahātmani. śūlanirbhinnahṛdayaiḥ kūjadbhiḥ paricārakaiḥ. nikhātotpāṭitair yūpair apaviddhair itas tataḥ. utpatadbhiḥ patadbhiś ca gṛdhrair āmiṣagṛddhibhiḥ. pakṣavātavinirdhūtaiḥ śivāśatanināditaiḥ. yakṣagandharvasaṃghaiś ca piśācoragarākṣasaiḥ. prāṇāpānau saṃnirudhya vaktrasthānena yatnataḥ. vicārya sarvato dṛṣṭiṃ bahudṛṣṭir amitrajit. sahasā devadeveśo agnikuṇḍāt samutthitaḥ. bibhrat sūryasahasrasya tejaḥ saṃvartakopamaḥ. smitaṃ kṛtvābravīd vākyaṃ brūhi kiṃ karavāṇi te. śrāvite ca makhādhyāye devānāṃ guruṇā tataḥ. tam uvācāñjaliṃ kṛtvā dakṣo devaṃ prajāpatiḥ. bhītaśaṅkitavitrastaḥ sabāṣpavadanekṣaṇaḥ. yadi prasanno bhagavān yadi cāhaṃ tava priyaḥ. yadi vāham anugrāhyo yadi deyo varo mama. yad dagdhaṃ bhakṣitaṃ pītam aśitaṃ yac ca nāśitam. cūrṇīkṛtāpaviddhaṃ ca yajñasaṃbhāram īhitam. dīrghakālena mahatā prayatnena ca saṃcitam. tan na mithyā bhaven mahyaṃ varam etam ahaṃ vṛṇe. tathāstv ity āha bhagavān bhaganetraharo haraḥ. dharmādhyakṣo virūpākṣas tryakṣo devaḥ prajāpatiḥ. jānubhyām avanīṃ gatvā dakṣo labdhvā bhavād varam. yudhiṣṭhira uvāca. nāmnām aṣṭasahasreṇa stutavān vṛṣabhadhvajam. yair nāmadheyaiḥ stutavān dakṣo devaḥ prajāpatiḥ. bhīṣma uvāca. vaktum arhasi me tāta śrotuṃ śraddhā mamānagha. śrūyatāṃ devadevasya nāmāny adbhutakarmaṇaḥ. gūḍhavratasya guhyāni prakāśāni ca bhārata. dakṣa uvāca. namas te devadeveśa devāribalasūdana. devendrabalaviṣṭambha devadānavapūjita. sahasrākṣa virūpākṣa tryakṣa yakṣādhipa priya. sarvataḥpāṇipādānta sarvatokṣiśiromukha. sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhasi. śaṅkukarṇa mahākarṇa kumbhakarṇārṇavālaya. gajendrakarṇa gokarṇa pāṇikarṇa namo 'stu te. śatodara śatāvarta śatajihva śatānana. gāyanti tvāṃ gāyatriṇo arcayanty arkam arkiṇaḥ. brahmāṇaṃ tvāṃ śatakratum ūrdhvaṃ kham iva menire. mūrtau hi te mahāmūrte samudrāmbarasaṃnibha. sarvā vai devatā hy asmin gāvo goṣṭha ivāsate. bhavaccharīre paśyāmi somam agniṃ jaleśvaram. ādityam atha vai viṣṇuṃ brahmāṇaṃ ca bṛhaspatim. bhagavān kāraṇaṃ kāryaṃ kriyā karaṇam eva ca. asataś ca sataś caiva tathaiva prabhavāpyayau. namo bhavāya śarvāya rudrāya varadāya ca. paśūnāṃ pataye caiva namo 'stv andhakaghātine. trijaṭāya triśīrṣāya triśūlavarapāṇine. tryambakāya trinetrāya tripuraghnāya vai namaḥ. namaś caṇḍāya muṇḍāya aṇḍāyāṇḍadharāya ca. daṇḍine samakarṇāya daṇḍimuṇḍāya vai namaḥ. namordhvadaṃṣṭrakeśāya śuklāyāvatatāya ca. vilohitāya dhūmrāya nīlagrīvāya vai namaḥ. namo 'stv apratirūpāya virūpāya śivāya ca. sūryāya sūryamālāya sūryadhvajapatākine. namaḥ pramathanāthāya vṛṣaskandhāya dhanvine. śatruṃdamāya daṇḍāya parṇacīrapaṭāya ca. namo hiraṇyagarbhāya hiraṇyakavacāya ca. hiraṇyakṛtacūḍāya hiraṇyapataye namaḥ. namaḥ stutāya stutyāya stūyamānāya vai namaḥ. sarvāya sarvabhakṣāya sarvabhūtāntarātmane. namo hotre 'tha mantrāya śukladhvajapatākine. namo nābhāya nābhyāya namaḥ kaṭakaṭāya ca. namo 'stu kṛśanāsāya kṛśāṅgāya kṛśāya ca. saṃhṛṣṭāya vihṛṣṭāya namaḥ kilakilāya ca. namo 'stu śayamānāya śayitāyotthitāya ca. sthitāya dhāvamānāya muṇḍāya jaṭilāya ca. namo nartanaśīlāya mukhavāditravādine. nādyopahāralubdhāya gītavāditraśāline. namo jyeṣṭhāya śreṣṭhāya balapramathanāya ca. kālanāthāya kalyāya kṣayāyopakṣayāya ca. bhīmadundubhihāsāya bhīmavratadharāya ca. ugrāya ca namo nityaṃ namo 'stu daśabāhave. namaḥ kapālahastāya citibhasmapriyāya ca. vibhīṣaṇāya bhīṣmāya bhīmavratadharāya ca. namo vikṛtavaktrāya khaḍgajihvāya daṃṣṭriṇe. pakvāmamāṃsalubdhāya tumbīvīṇāpriyāya ca. namo vṛṣāya vṛṣyāya govṛṣāya vṛṣāya ca. kaṭaṃkaṭāya caṇḍāya namaḥ pacapacāya ca. namaḥ sarvavariṣṭhāya varāya varadāya ca. varamālyagandhavastrāya varātivarade namaḥ. namo raktaviraktāya bhāvanāyākṣamāline. saṃbhinnāya vibhinnāya chāyāyātapanāya ca. aghoraghorarūpāya ghoraghoratarāya ca. namaḥ śivāya śāntāya namaḥ śāntatamāya ca. ekapād bahunetrāya ekaśīrṣa namo namaḥ. namaḥ kṣudrāya lubdhāya saṃvibhāgapriyāya ca. pañcālāya sitāṅgāya namaḥ śamaśamāya ca. namaś caṇḍikaghaṇṭāya ghaṇṭāyāghaṇṭaghaṇṭine. sahasraśataghaṇṭāya ghaṇṭāmālāpriyāya ca. prāṇaghaṇṭāya gandhāya namaḥ kalakalāya ca. hūṃhūṃhūṃkārapārāya hūṃhūṃkārapriyāya ca. namaḥ śamaśame nityaṃ girivṛkṣālayāya ca. garbhamāṃsaśṛgālāya tārakāya tarāya ca. namo yajñāya yajine hutāya prahutāya ca. yajñavāhāya dāntāya tapyāyātapanāya ca. namas taṭāya taṭyāya taṭānāṃ pataye namaḥ. annadāyānnapataye namas tv annabhuje tathā. namaḥ sahasraśīrṣāya sahasracaraṇāya ca. sahasrodyataśūlāya sahasranayanāya ca. namo bālārkavarṇāya bālarūpadharāya ca. bālānucaragoptrāya bālakrīḍanakāya ca. namo vṛddhāya lubdhāya kṣubdhāya kṣobhaṇāya ca. taraṅgāṅkitakeśāya muñjakeśāya vai namaḥ. namaḥ ṣaṭkarṇatuṣṭāya trikarmaniratāya ca. varṇāśramāṇāṃ vidhivat pṛthakkarmanivartine. namo ghuṣyāya ghoṣāya namaḥ kalakalāya ca. śvetapiṅgalanetrāya kṛṣṇaraktekṣaṇāya ca. prāṇabhagnāya daṇḍāya sphoṭanāya kṛśāya ca. dharmārthakāmamokṣāṇāṃ kathyāya kathanāya ca. sāṃkhyāya sāṃkhyamukhyāya sāṃkhyayogapravartine. namo rathyavirathyāya catuṣpatharathāya ca. kṛṣṇājinottarīyāya vyālayajñopavītine. īśāna vajrasaṃghāta harikeśa namo 'stu te. tryambakāmbikanāthāya vyaktāvyakta namo 'stu te. kāma kāmada kāmaghna tṛptātṛptavicāriṇe. sarva sarvada sarvaghna saṃdhyārāga namo 'stu te. mahābala mahābāho mahāsattva mahādyute. mahāmeghacayaprakhya mahākāla namo 'stu te. sthūlajīrṇāṅgajaṭile valkalājinadhāriṇe. dīptasūryāgnijaṭile valkalājinavāsase. sahasrasūryapratima taponitya namo 'stu te. unmādana śatāvarta gaṅgātoyārdramūrdhaja. candrāvarta yugāvarta meghāvarta namo 'stu te. tvam annam annabhoktā ca annado 'nnabhug eva. annasraṣṭā ca paktā ca pakvabhuk pavano 'nalaḥ. jarāyujāṇḍajāś caiva svedajāś ca tathodbhijāḥ. tvam eva devadeveśa bhūtagrāmaś caturvidhaḥ. carācarasya sraṣṭā tvaṃ pratihartā tathaiva ca. tvām āhur brahmaviduṣo brahma brahmavidāṃ vara. manasaḥ paramā yoniḥ khaṃ vāyur jyotiṣāṃ nidhiḥ. ṛksāmāni tathoṃkāram āhus tvāṃ brahmavādinaḥ. hāyihāyi huvāhāyi hāvuhāyi tathāsakṛt. gāyanti tvāṃ suraśreṣṭha sāmagā brahmavādinaḥ. yajurmayo ṛṅmayaś ca tvām āhutimayas tathā. paṭhyase stutibhis tvaṃ hi vedopaniṣadāṃ gaṇaiḥ. brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā varṇāvarāś ca ye. tvam eva meghasaṃghāś ca vidyutstanitagarjitaḥ. saṃvatsaras tvam ṛtavo māso māsārdham eva ca. yugā nimeṣāḥ kāṣṭhās tvaṃ nakṣatrāṇi grahāḥ kalāḥ. vṛkṣāṇāṃ kakudo 'si tvaṃ girīṇāṃ śikharāṇi ca. vyāghro mṛgāṇāṃ patatāṃ tārkṣyo 'nantaś ca bhoginām. kṣīrodo hy udadhīnāṃ ca yantrāṇāṃ dhanur eva ca. vajraḥ praharaṇānāṃ ca vratānāṃ satyam eva ca. tvam eva dveṣa icchā ca rāgo mohaḥ kṣamākṣame. vyavasāyo dhṛtir lobhaḥ kāmakrodhau jayājayau. tvaṃ gadī tvaṃ śarī cāpī khaṭvāṅgī jharjharī tathā. chettā bhettā prahartā tvaṃ netā mantā pitā mataḥ. daśalakṣaṇasaṃyukto dharmo 'rthaḥ kāma eva ca. gaṅgā samudrāḥ saritaḥ palvalāni sarāṃsi ca. latā vallyas tṛṇauṣadhyaḥ paśavo mṛgapakṣiṇaḥ. dravyakarmaguṇārambhaḥ kālapuṣpaphalapradaḥ. ādiś cāntaś ca devānāṃ gāyatry oṃkāra eva ca. harito lohito nīlaḥ kṛṣṇo raktas tathāruṇaḥ. kadruś ca kapilaś caiva kapoto mecakas tathā. avarṇaś ca suvarṇaś ca varṇakāro hy anaupamaḥ. suvarṇanāmā ca tathā suvarṇapriya eva ca. tvam indraś ca yamaś caiva varuṇo dhanado 'nalaḥ. upaplavaś citrabhānuḥ svarbhānur bhānur eva ca. hotraṃ hotā ca homyaṃ ca hutaṃ caiva tathā prabhuḥ. trisauparṇaṃ tathā brahma yajuṣāṃ śatarudriyam. pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam. giriko hiṇḍuko vṛkṣo jīvaḥ pudgala eva ca. prāṇaḥ sattvaṃ rajaś caiva tamaś cāpramadas tathā. prāṇo 'pānaḥ samānaś ca udāno vyāna eva ca. unmeṣaś ca nimeṣaś ca kṣutaṃ jṛmbhitam eva ca. lohitāntargatā dṛṣṭir mahāvaktro mahodaraḥ. śuciromā hariśmaśrur ūrdhvakeśaś calācalaḥ. gītavāditratattvajño gītavādanakapriyaḥ. matsyo jalacaro jālyo 'kalaḥ kelikalaḥ kaliḥ. akālaś cātikālaś ca duṣkālaḥ kāla eva ca. mṛtyuḥ kṣuraś ca kṛtyaś ca pakṣo 'pakṣakṣayaṃkaraḥ. meghakālo mahādaṃṣṭraḥ saṃvartakabalāhakaḥ. ghaṇṭo 'ghaṇṭo ghaṭī ghaṇṭī carucelī milīmilī. brahmakāyikam agnīnāṃ daṇḍī muṇḍas tridaṇḍadhṛk. caturyugaś caturvedaś cāturhotrapravartakaḥ. cāturāśramyanetā ca cāturvarṇyakaraś ca yaḥ. sadā cākṣapriyo dhūrto gaṇādhyakṣo gaṇādhipaḥ. raktamālyāmbaradharo giriśo girikapriyaḥ. śilpikaḥ śilpināṃ śreṣṭhaḥ sarvaśilpapravartakaḥ. bhaganetrāṅkuśaś caṇḍaḥ pūṣṇo dantavināśanaḥ. svāhā svadhā vaṣaṭkāro namaskāro namo namaḥ. gūḍhavrato guhyatapās tārakas tārakāmayaḥ. dhātā vidhātā saṃdhātā vidhātā dhāraṇo 'dharaḥ. brahmā tapaś ca satyaṃ ca brahmacaryam athārjavam. bhūtātmā bhūtakṛd bhūto bhūtabhavyabhavodbhavaḥ. bhūr bhuvaḥ svaritaś caiva dhruvo dānto maheśvaraḥ. dīkṣito 'dīkṣitaḥ kṣānto durdānto 'dāntanāśanaḥ. candrāvarto yugāvartaḥ saṃvartaḥ saṃpravartakaḥ. kāmo bindur aṇuḥ sthūlaḥ karṇikārasrajapriyaḥ. nandīmukho bhīmamukhaḥ sumukho durmukho 'mukhaḥ. caturmukho bahumukho raṇeṣv agnimukhas tathā. hiraṇyagarbhaḥ śakunir mahoragapatir virāṭ. adharmahā mahāpārśvo daṇḍadhāro raṇapriyaḥ. gonardo gopratāraś ca govṛṣeśvaravāhanaḥ. trailokyagoptā govindo gomārgo 'mārga eva ca. śreṣṭhaḥ sthiraś ca sthāṇuś ca niṣkampaḥ kampa eva ca. durvāraṇo durviṣaho duḥsaho duratikramaḥ. durdharṣo duṣprakampaś ca durviṣo durjayo jayaḥ. śaśaḥ śaśāṅkaḥ śamanaḥ śītoṣṇakṣujjarādhidhṛk. ādhayo vyādhayaś caiva vyādhihā vyādhir eva ca. mama yajñamṛgavyādho vyādhīnām āgamo gamaḥ. śikhaṇḍī puṇḍarīkākṣaḥ puṇḍarīkavanālayaḥ. daṇḍadhāras tryambakaś ca ugradaṇḍo 'ṇḍanāśanaḥ. viṣāgnipāḥ suraśreṣṭhaḥ somapās tvaṃ marutpatiḥ. amṛtapās tvaṃ jagannātha devadeva gaṇeśvaraḥ. viṣāgnipā mṛtyupāś ca kṣīrapāḥ somapās tathā. madhuścyutānām agrapās tvam eva tuṣitājyapāḥ. hiraṇyaretāḥ puruṣas tvam eva. tvaṃ strī pumāṃs tvaṃ ca napuṃsakaṃ ca. bālo yuvā sthaviro jīrṇadaṃṣṭro. nāgendraśatrur viśvakartā vareṇyaḥ. tvaṃ viśvabāhus tejasvī viśvatomukhaś. candrādityau hṛdayaṃ ca pitāmahaḥ. sarasvatī vāgbalam uttamo 'nilaḥ. ahorātro nimeṣonmeṣakartā. na brahmā na ca govindaḥ paurāṇā ṛṣayo na te. māhātmyaṃ vedituṃ śaktā yāthātathyena te śiva. yā mūrtayaḥ susūkṣmās te na mahyaṃ yānti darśanam. trāhi māṃ satataṃ rakṣa pitā putram ivaurasam. rakṣa māṃ rakṣaṇīyo 'haṃ tavānagha namo 'stu te. bhaktānukampī bhagavān bhaktaś cāhaṃ sadā tvayi. yaḥ sahasrāṇy anekāni puṃsām āvṛtya durdṛśaḥ. tiṣṭhaty ekaḥ samudrānte sa me goptās tu nityaśaḥ. yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ samadarśinaḥ. jyotiḥ paśyanti yuñjānās tasmai yogātmane namaḥ. jaṭile daṇḍine nityaṃ lambodaraśarīriṇe. kamaṇḍaluniṣaṅgāya tasmai rudrātmane namaḥ. yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasaṃdhiṣu. kukṣau samudrāś catvāras tasmai toyātmane namaḥ. saṃbhakṣya sarvabhūtāni yugānte paryupasthite. yaḥ śete jalamadhyasthas taṃ prapadye 'mbuśāyinam. praviśya vadanaṃ rāhor yaḥ somaṃ pibate niśi. grasaty arkaṃ ca svarbhānur bhūtvā māṃ so 'bhirakṣatu. ye cānupatitā garbhā yathābhāgānupāsate. namas tebhyaḥ svadhā svāhā prāpnuvantu mudantu te. ye 'ṅguṣṭhamātrāḥ puruṣā dehasthāḥ sarvadehinām. rakṣantu te hi māṃ nityaṃ nityaṃ cāpyāyayantu ca. ye na rodanti dehasthā dehino rodayanti ca. harṣayanti na hṛṣyanti namas tebhyo 'stu nityaśaḥ. ye nadīṣu samudreṣu parvateṣu guhāsu ca. vṛkṣamūleṣu goṣṭheṣu kāntāragahaneṣu ca. catuṣpatheṣu rathyāsu catvareṣu taṭeṣu ca. hastyaśvarathaśālāsu jīrṇodyānālayeṣu ca. ye ca pañcasu bhūteṣu diśāsu vidiśāsu ca. candrārkayor madhyagatā ye ca candrārkaraśmiṣu. rasātalagatā ye ca ye ca tasmai paraṃ gatāḥ. namas tebhyo namas tebhyo namas tebhyo 'stu nityaśaḥ. yeṣāṃ na vidyate saṃkhyā pramāṇaṃ rūpam eva ca. asaṃkhyeyaguṇā rudrā namas tebhyo 'stu nityaśaḥ. sarvabhūtakaro yasmāt sarvabhūtapatir haraḥ. sarvabhūtāntarātmā ca tena tvaṃ na nimantritaḥ. tvam eva hījyase yasmād yajñair vividhadakṣiṇaiḥ. tvam eva kartā sarvasya tena tvaṃ na nimantritaḥ. atha vā māyayā deva sūkṣmayā tava mohitaḥ. etasmāt kāraṇād vāpi tena tvaṃ na nimantritaḥ. prasīda mama bhadraṃ te tava bhāvagatasya me. tvayi me hṛdayaṃ deva tvayi buddhir manas tvayi. stutvaivaṃ sa mahādevaṃ virarāma prajāpatiḥ. bhagavān api suprītaḥ punar dakṣam abhāṣata. parituṣṭo 'smi te dakṣa stavenānena suvrata. bahunātra kim uktena matsamīpe bhaviṣyasi. aśvamedhasahasrasya vājapeyaśatasya ca. prajāpate matprasādāt phalabhāgī bhaviṣyasi. athainam abravīd vākyaṃ trailokyādhipatir bhavaḥ. āśvāsanakaraṃ vākyaṃ vākyavid vākyasaṃmitam. dakṣa dakṣa na kartavyo manyur vighnam imaṃ prati. ahaṃ yajñaharas tubhyaṃ dṛṣṭam etat purātanam. bhūyaś ca te varaṃ dadmi taṃ tvaṃ gṛhṇīṣva suvrata. prasannavadano bhūtvā tad ihaikamanāḥ śṛṇu. vedāt ṣaḍaṅgād uddhṛtya sāṃkhyayogāc ca yuktitaḥ. tapaḥ sutaptaṃ vipulaṃ duścaraṃ devadānavaiḥ. apūrvaṃ sarvatobhadraṃ viśvatomukham avyayam. abdair daśāhasaṃyuktaṃ gūḍham aprājñaninditam. varṇāśramakṛtair dharmair viparītaṃ kva cit samam. gatāntair adhyavasitam atyāśramam idaṃ vratam. mayā pāśupataṃ dakṣa yogam utpāditaṃ purā. tasya cīrṇasya tat samyak phalaṃ bhavati puṣkalam. tac cāstu te mahābhāga tyajyatāṃ mānaso jvaraḥ. evam uktvā mahādevaḥ sapatnīko vṛṣadhvajaḥ. adarśanam anuprāpto dakṣasyāmitavikramaḥ. dakṣaproktaṃ stavam imaṃ kīrtayed yaḥ śṛṇoti vā. nāśubhaṃ prāpnuyāt kiṃ cid dīrgham āyur avāpnuyāt. yathā sarveṣu deveṣu variṣṭho bhagavāñ śivaḥ. tathā stavo variṣṭho 'yaṃ stavānāṃ brahmasaṃmitaḥ. yaśorājyasukhaiśvaryakāmārthadhanakāṅkṣibhiḥ. śrotavyo bhaktim āsthāya vidyākāmaiś ca yatnataḥ. vyādhito duḥkhito dīnaś coragrasto bhayārditaḥ. rājakāryābhiyukto vā mucyate mahato bhayāt. anenaiva tu dehena gaṇānāṃ samatāṃ vrajet. tejasā yaśasā caiva yukto bhavati nirmalaḥ. na rākṣasāḥ piśācā vā na bhūtā na vināyakāḥ. vighnaṃ kuryur gṛhe tasya yatrāyaṃ paṭhyate stavaḥ. śṛṇuyāc caiva yā nārī tadbhaktā brahmacāriṇī. pitṛpakṣe mātṛpakṣe pūjyā bhavati devavat. śṛṇuyād yaḥ stavaṃ kṛtsnaṃ kīrtayed vā samāhitaḥ. tasya sarvāṇi karmāṇi siddhiṃ gacchanty abhīkṣṇaśaḥ. manasā cintitaṃ yac ca yac ca vācānukīrtitam. sarvaṃ saṃpadyate tasya stavasyāsyānukīrtanāt. devasya ca saguhasya devyā nandīśvarasya ca. baliṃ suvihitaṃ kṛtvā damena niyamena ca. tatas tu yukto gṛhṇīyān nāmāny āśu yathākramam. īpsitāṃl labhate so 'rthān kāmān bhogāṃś ca mānavaḥ. mṛtaś ca svargam āpnoti tiryakṣu ca na jāyate. ity āha bhagavān vyāsaḥ parāśarasutaḥ prabhuḥ. katheyaṃ kathitā puṇyā dharmyā dharmabhṛtāṃ vara. kim anyat kathayāmīha tad bhavān vaktum arhati.