भूतग्रामस्य कर्तारं कालज्ञाने च निश्चयम्। ज्ञानं ब्रह्म च योगं च गवात्मकम् इदं जगत्। त्रितये त्व् एनम् आयाति तथा ह्य् एषो ऽपि वा पुनः। केनैव च विभागः स्यात् तुरीयो लक्षणैर् विना। ज्ञानज्ञेयान्तरे को ऽसौ को ऽयं भावस् तु भेदवत्। यज् ज्ञानं लक्षणं चैव तेषां कर्तारम् एव च। ब्राह्मणस्य च यत् कृत्यं तद् भवान् वक्तुम् अर्हति।
bhūtagrāmasya kartāraṃ kālajñāne ca niścayam. jñānaṃ brahma ca yogaṃ ca gavātmakam idaṃ jagat. tritaye tv enam āyāti tathā hy eṣo 'pi vā punaḥ. kenaiva ca vibhāgaḥ syāt turīyo lakṣaṇair vinā. jñānajñeyāntare ko 'sau ko 'yaṃ bhāvas tu bhedavat. yaj jñānaṃ lakṣaṇaṃ caiva teṣāṃ kartāram eva ca. brāhmaṇasya ca yat kṛtyaṃ tad bhavān vaktum arhati.