कदा चित् प्रातर् उत्थाय पिस्पृक्षुः सलिलं शुचि। ध्रुवद्वारभवां गङ्गां जगामावततार च। मेरुपादोद्भवां गङ्गां नारायणपदच्युताम्। स वीक्षमाणो हृष्टात्मा तं देशम् अभिजग्मिवान्। यं देवजवा[?ना]कीर्णं सूक्ष्मकाञ्चनवालुकम्। गङ्गाद्वीपं समासाद्य नानावृक्षैर् अलंकृतम्। सालतालाश्वकर्णानां चन्दनानां च राजिभिः। मण्डितं विविधैः पुष्पैर् हंसकारण्डवायुतम्। नदीपुलिनम् आसाद्य स्नात्वा संतर्प्य देवताः। जजाप जप्यं धर्मात्मा तन्मयत्वेन भास्वता।
kadā cit prātar utthāya pispṛkṣuḥ salilaṃ śuci. dhruvadvārabhavāṃ gaṅgāṃ jagāmāvatatāra ca. merupādodbhavāṃ gaṅgāṃ nārāyaṇapadacyutām. sa vīkṣamāṇo hṛṣṭātmā taṃ deśam abhijagmivān. yaṃ devajavā[?nā]kīrṇaṃ sūkṣmakāñcanavālukam. gaṅgādvīpaṃ samāsādya nānāvṛkṣair alaṃkṛtam. sālatālāśvakarṇānāṃ candanānāṃ ca rājibhiḥ. maṇḍitaṃ vividhaiḥ puṣpair haṃsakāraṇḍavāyutam. nadīpulinam āsādya snātvā saṃtarpya devatāḥ. jajāpa japyaṃ dharmātmā tanmayatvena bhāsvatā.