देवताभिश् च ये सार्धं पितृभिश् चोपभुञ्जते। रमन्ते पुत्रपौत्रैश् च तेषां गतिर् अनुत्तमा। युधिष्ठिर उवाच। के चिद् आहुर् द्विधा लोके त्रिधा राजन्न् अनेकधा। न प्रत्ययो न चान्यच् च दृश्यते ब्रह्म नैव तत्। नानाविधानि शास्त्राणि युक्ताश् चैव पृथग्विधाः। भीष्म उवाच। किम् अधिष्ठाय तिष्ठामि तन् मे ब्रूहि पितामह। स्वे स्वे युक्ता महात्मानः शास्त्रेषु प्रभविष्णवः। वर्तन्ते पण्डिता लोके को विद्वान् कश् च पण्डितः। सर्वेषां तत्त्वम् अज्ञाय यथारुचि तथा भवेत्। अस्मिन्न् अर्थे पुराभूतम् इतिहासं पुरातनम्। महाविवादसंयुक्तम् ऋषीणां भावितात्मनाम्। हिमवत्पार्श्व आसीना ऋषयः संशितव्रताः। षण्णां तानि सहस्राणि ऋषीणां गणम् आहितम्। तत्र के चिद् ध्रुवं विश्वं सेश्वरं तु निरीश्वरम्। प्राकृतं कारणं नास्ति सर्वं नैवम् इदं जगत्। अनेन चापरे विप्राः स्वभावं कर्म चापरे। पौरुषं कर्म दैवं च यत् स्वभावादिर् एव तम्। नानाहेतुशतैर् युक्ता नानाशास्त्रप्रवर्तकाः। स्वभावाद् ब्राह्मणा राजञ् जिगीषन्तः परस्परम्। ततस् तु मूलम् उद्भूतं वादिप्रत्यर्थिसंयुतम्। पात्रदण्डविघातं च वल्कलाजिनवाससाम्। एके मन्युसमापन्नास् ततः शान्ता द्विजोत्तमाः। वसिष्ठम् अब्रुवन् सर्वे त्वं नो ब्रूहि सनातनम्। नाहं जानामि विप्रेन्द्राः प्रत्युवाच स तान् प्रभुः। ते सर्वे सहिता विप्रा नारदम् ऋषिम् अब्रुवन्। त्वं नो ब्रूहि महाभाग तत्त्वविच् च भवान् असि। नाहं द्विजा विजानामि क्व हि गच्छाम संगताः। इति तान् आह भगवांस् ततः प्राह च स द्विजान्। को विद्वान् इह लोके ऽस्मिन्न् अमोहो ऽमृतम् अद्भुतम्। तच् च ते शुश्रुवुर् वाक्यं ब्राह्मणा ह्य् अशरीरिणः। सनद्धाम द्विजा गत्वा पृच्छध्वं स च वक्ष्यति। तम् आह कश् चिद् द्विजवर्यसत्तमो। विभाण्डको मण्डितवेदराशिः। कस् त्वं भवान् अर्थविभेदमध्ये। न दृश्यसे वाक्यम् उदीरयंश् च। अथाहेदं तं भगवान् सनन्तं। महामुने विद्धि मां पण्डितो ऽसि। ऋषिं पुराणं सततैकरूपं। यम् अक्षयं वेदविदो वदन्ति। पुनस् तम् आहेदम् असौ महात्मा। स्वरूपसंस्थं वद आह पार्थ। त्वम् एको ऽस्मदृषिपुंगवाद्य। न सत्स्वरूपम् अथ वा पुनः किम्। अथाह गम्भीरतरानुवादं। वाक्यं महात्मा ह्य् अशरीर आदिः। न ते मुने श्रोत्रमुखे ऽपि चास्यं। न पादहस्तौ प्रपदात्मके न। ब्रुवन् मुनीन् सत्यम् अथो निरीक्ष्य। स्वम् आह विद्वान् मनसा निगम्य। ऋषे कथं वाक्यम् इदं ब्रवीषि। न चास्य मन्ता न च विद्यते चेत्। न शुश्रुवुस् ततस् तत् तु प्रतिवाक्यं द्विजोत्तमाः। निरीक्षमाणा आकाशं प्रहसन्तस् ततस् ततः। आश्चर्यम् इति मत्वा ते ययुर् हैमं महागिरिम्। सनत्कुमारसंकाशं सगणा मुनिसत्तमाः। तं पर्वतं समारुह्य ददृशुर् ध्यानम् आश्रिताः। कुमारं देवम् अर्हन्तं वेदपाराविवर्जितम्। ततः संवत्सरे पूर्णे प्रकृतिस्थं महामुनिम्। सनत्कुमारं राजेन्द्र प्रणिपत्य द्विजाः स्थिताः। आगतान् भगवान् आह ज्ञाननिर्धूतकल्मषः। ज्ञातं मया मुनिगणा वाक्यं तद् अशरीरिणः। कार्यम् अद्य यथाकामं पृच्छध्वं मुनिपुंगवाः। तम् अब्रुवन् प्राञ्जलयो महामुनिं। द्विजोत्तमं ज्ञाननिधिं सुनिर्मलम्। कथं वयं ज्ञाननिधिं वरेण्यं। यक्ष्यामहे विश्वरूपं कुमार। प्रसीद नो भगवञ् ज्ञानलेशं। मधुप्रयाताय सुखाय सन्तः। यत् तत् पदं विश्वरूपं महामुने। तत्र ब्रूहि किं कुत्र महानुभाव। स तैर् वियुक्तो भगवान् महात्मा। यो ऽसंगवान् सत्यवित् तच् छृणुष्व। अनेकसाहस्रकलेषु चैव। प्रसन्नधातुं च शुभाज्ञया सत्। यथाह पूर्वं युष्मासु ह्य् अशरीरी द्विजोत्तमाः। तथैव वाक्यं तत् सत्यम् अजानन्तश् च कीर्तितम्। शृणुध्वं परमं कारणम् अस्ति । कथम् अवगम्यते । अहन्य् अहनि। पाकविशेषो दृश्यते । तेन मिश्रं सर्वं मिश्रयते । यथा। मण्डली दृशि सर्वेषाम् अस्ति निदर्शनम् । अस्ति चक्षुष्मताम् अस्ति। ज्ञाने स्वरूपं पश्यति । यथा दर्पणान्तर्निदर्शनम् । स एव सर्वं। विद्वान् न बिभेति न गच्छति । कुत्राहं कस्य नाहं केनेत्य् अवर्तमानो। विजानाति । स युगतो व्यापी । स पृथक् स्थितः ।। तद् अपरमार्थम् । यथा वायुर् एकः सन् बहुधेरितः । आश्रयविशेषो। वा यस्याश्रयो वा । यथावद् द्विजे मृगे व्याघ्रे च । मनुजे वेणु संश्रयो। भिद्यते वायुर् अथैकः । आत्मा तथासौ परमात्मासाव् अन्य। इव भाति । एवम् आत्मा स एव गच्छति । सर्वम् आत्मा पश्यञ्। शृणोति न जिघ्रति न भाषते ।। चक्रे ऽस्य तं महात्मानं परितो दश रश्मयः। विनिष्क्रम्य यथा सूर्यम् अनुगच्छति तं प्रभुम्। दिने दिने ऽस्तम् अभ्येति पुनर् उद्गच्छते दिशः। ताव् उभौ न रवौ चास्तां तथा वित्त शरीरिणम्। पतिते वित्त विप्रेन्द्राः भक्षणे चरणे परः। ऊर्ध्वम् एकस् तथाधस्ताद् एकस् तिष्ठति चापरः। हिरण्यसदनं ज्ञेयं समेत्य परमं पदम्। आत्मना ह्य् आत्मदीपं तम् आत्मनि ह्य् आत्मपूरुषम्। संचितं संचितं पूर्वं भ्रमरो वर्तते भ्रमन्। यो ऽभिमानीव जानाति न मुह्यति न हीयते। न चक्षुषा पश्यति कश् चनैनं। हृदा मनीषा पश्यति रूपम् अस्य। न शुक्लं न कृष्णं परमार्थभावं। गुहाशयं ज्ञानदेवीकरस्थम्। ब्राह्मणस्य न सादृश्ये वर्तते सो ऽपि किं पुनः। इज्यते यस् तु मन्त्रेण यजमानो द्विजोत्तमः। नैव धर्मी न चाधर्मी द्वंद्वातीतो विमत्सरः। ज्ञानतृप्तः सुखं शेते ह्य् अमृतात्मा न संशयः। एवम् एष जगत्सृष्टिं कुरुते मायया प्रभुः। न जानाति विरूढात्मा कारणं चात्मनो ह्य् असौ। ध्याता द्रष्टा तथा मन्ता बोद्धा दृष्टान् स एव सः। को विद्वान् परमात्मानम् अनन्तं लोकभावनम्। यत् तु शक्यं मया प्रोक्तं गच्छध्वं मुनिपुंगवाः। भीष्म उवाच। एवं प्रणम्य विप्रेन्द्रा ज्ञानसागरसंभवम्। सनत्कुमारं संदृष्ट्वा जग्मुस् ते रुचिरं पुनः। तस्मात् त्वम् अपि कौन्तेय ज्ञानयोगपरो भव। ज्ञानम् एव महाराज सर्वदुःखविनाशनम्। इदं महादुःखसमाकराणां। नृणां परित्राणविनिर्मितं पुरा। पुराणपुंसा ऋषिणा महात्मना। युधिष्ठिर उवाच। महामुनीनां प्रवरेण तद् ध्रुवम्। यद् इदं तप इत्य् आहुः किं तपः संप्रकीर्तितम्। उपवासम् अथान्यत् तु वेदाचारम् अथो नु किम्। भीष्म उवाच। शास्त्रं तपो महाप्राज्ञ तन् मे ब्रूहि पितामह। पक्षमासोपवासादीन् मन्यन्ते वै तपोधनाः। वेदव्रतादीनि तपः अपरे वेदपारगाः। वेदपारायणं चान्ये चाहुस् तत्त्वम् अथापरे। यथाविहितम् आचारस् तपः सर्वं व्रतं गताः। आत्मविद्याविधानं यत् तत् तपः परिकीर्तितम्। त्यागस् तपस् तथा शान्तिस् तप इन्द्रियनिग्रहः। ब्रह्मचर्यं तपः प्रोक्तम् आहुर् एवं द्विजातयः। सदोपवासो यो विद्वान् ब्रह्मचारी सदा भवेत्। यो मुनिश् च सदा धीमान् विघसाशी विमत्सरः। ततस् त्व् अनन्तम् अप्य् आहुर् यो नित्यम् अतिथिप्रियः। नान्तराशीस् ततो नित्यम् उपवासी महाव्रतः। ऋतुगामी तथा प्रोक्तो विघसाशी स्मृतो बुधैः। भृत्यशेषं तु यो भुङ्क्ते यज्ञशेषं तथामृतम्। एवं नानार्थसंयोगं तपः शश्वद् उदाहृतम्। केषां लोका ह्य् अपर्यन्ताः सर्वे सत्यव्रते स्थिताः। ये ऽपि कर्ममयं प्राहुस् ते द्विजा ब्राह्मणाः स्मृताः। रमन्ते दिव्यभोगैश् च पूजिता ह्य् अप्सरोगणैः। ज्ञानात्मकं तपःशब्दं ये वदन्ति विनिश्चिताः। ते ह्य् अन्तरात्मसद्भावं प्रपन्ना नृपसत्तम। एतत् ते नृपशार्दूल प्रोक्तं यत् पृष्टवान् असि। यथावस्तूनि संज्ञानि विविधानि भवन्त्य् उत। युधिष्ठिर उवाच। पितामह महाप्राज्ञ राजाधीना नृपाः पुनः। अन्यानि च सहस्राणि नामानि विविधानि च। प्रतियोगीनि वै तेषां छन्नान्य् अस्तमितानि च। दृढं सर्वं प्राकृतकम् इदं सर्वत्र पश्य वै। भीष्म उवाच। तस्माद् यथागतं राजन् यथारुचि नृणां भवेत्। अस्मिन्न् अर्थे पुरावृत्तं शृणु राजन् युधिष्ठिर। ब्राह्मणानां समूहे तु यद् उवाच सुवर्चला। देवलस्य सुता विद्वन् सर्वलक्षणशोभिता। कन्या सुवर्चला नाम योगभावितचेतना। हेतुना केन जाता सा निर्द्वंद्वा नष्टसंशया। साब्रवीत् पितरं विप्रं वरान्वेषणतत्परा। अन्धाय मां महाप्राज्ञ देहि वीक्ष्य सुलोचनम्। पितोवाच। एवं स्म च पितः शश्वन् मयेदं [प्रार्थितं] मुने। न शक्यं प्रार्थितुं वत्से त्वयाद्य प्रतिभाति मे। अन्धतानन्धता चेति विचारो मम जायते। कन्योवाच। उन्मत्तेव सुते वाक्यं भाषसे पृथुलोचने। नाहम् उन्मत्तभूताद्य बुद्धिपूर्वं ब्रवीमि ते। विद्धि वै तादृशं लोके स मां भजति वेदवित्। यान् यांस् त्वं मन्यसे दातुं मां द्विजोत्तम तान् इह। आनयान्यान् महाभाग ह्य् अहं द्रक्ष्यामि तेषु तम्। तथेति चोक्त्वा तां विप्रः प्रेषयाम् आस शिष्यकान्। ऋषेः प्रभावं दृष्ट्वा ते कन्यायाश् च द्विजोत्तमाः। अनेकमुनयो राजन् संप्राप्ता देवलाश्रमम्। तान् आगतान् अथाभ्यर्च्य कन्याम् आह पिता महान्। यदीच्छसि वरं भद्रे तं विप्रं वरय स्वयम्। तथेति चोक्त्वा कल्याणी तप्तहेमनिभानना। करसंमितमध्याङ्गी वाक्यम् आह तपोधनाः। यद्य् अस्ति संमतो विप्रो ह्य् अन्धो ऽनन्धः स मे वरः। नोचुर् विप्रा महाभागां प्रतिवाक्यं ययुश् च ते। कन्या च तिष्ठताम् अत्र पितुर् वेश्मनि भारत। श्वेतकेतुः कहालस्य श्यालः परमधर्मवित्। श्रुत्वा ब्रह्मा तदागम्य कन्याम् आह महीपते। सो ऽहं भद्रे समावृत्तस् त्वयोक्तो यः पुरा द्विजः। सुवर्चलोवाच। विशालनयनं विद्धि माम् अन्धो ऽहं वृणीष्व माम्। कथं विशालनेत्रो ऽसि कथं वा त्वम् अलोचनः। द्विज उवाच। ब्रूहि पश्चाद् अहं विद्वन् परीक्षे त्वां द्विजोत्तम। प्रतियोगीनि नामानि छन्नान्य् अस्तमितानि च। शब्दे स्पर्शे तथा रूपे रसे गन्धे सहेतुकम्। न मे प्रवर्तते चेतो न प्रत्यक्षं हि तेषु मे। अलोचनो ऽहं तस्माद् धि न गतिर् विद्यते यतः। येन पश्यति सुश्रोणि भाषते स्पृशते पुनः। भुज्यते घ्रायते नित्यं शृणोति मनुते तथा। तच् चक्षुर् विद्यते मह्यं येन पश्यति वै स्फुटम्। सुलोचनो ऽहं भद्रे वै पृच्छ वा किं वदामि ते। सर्वम् अस्मिन् न मे ऽविद्या विद्वान् हि परमार्थतः। सा विशुद्धा ततो भूत्वा श्वेतकेतुं महामुनिम्। प्रणम्य पूजयाम् आस तां भार्यां स च लब्धवान्। वैराग्यसंयुता कन्या तादृशं पतिम् उत्तमम्। प्राप्ता राजन् महाप्राज्ञ तस्माद् अर्थः पृथक् पृथक्। एतत् ते कथितं राजन् किं भूयः श्रोतुम् इच्छसि।
devatābhiś ca ye sārdhaṃ pitṛbhiś copabhuñjate. ramante putrapautraiś ca teṣāṃ gatir anuttamā. yudhiṣṭhira uvāca. ke cid āhur dvidhā loke tridhā rājann anekadhā. na pratyayo na cānyac ca dṛśyate brahma naiva tat. nānāvidhāni śāstrāṇi yuktāś caiva pṛthagvidhāḥ. bhīṣma uvāca. kim adhiṣṭhāya tiṣṭhāmi tan me brūhi pitāmaha. sve sve yuktā mahātmānaḥ śāstreṣu prabhaviṣṇavaḥ. vartante paṇḍitā loke ko vidvān kaś ca paṇḍitaḥ. sarveṣāṃ tattvam ajñāya yathāruci tathā bhavet. asminn arthe purābhūtam itihāsaṃ purātanam. mahāvivādasaṃyuktam ṛṣīṇāṃ bhāvitātmanām. himavatpārśva āsīnā ṛṣayaḥ saṃśitavratāḥ. ṣaṇṇāṃ tāni sahasrāṇi ṛṣīṇāṃ gaṇam āhitam. tatra ke cid dhruvaṃ viśvaṃ seśvaraṃ tu nirīśvaram. prākṛtaṃ kāraṇaṃ nāsti sarvaṃ naivam idaṃ jagat. anena cāpare viprāḥ svabhāvaṃ karma cāpare. pauruṣaṃ karma daivaṃ ca yat svabhāvādir eva tam. nānāhetuśatair yuktā nānāśāstrapravartakāḥ. svabhāvād brāhmaṇā rājañ jigīṣantaḥ parasparam. tatas tu mūlam udbhūtaṃ vādipratyarthisaṃyutam. pātradaṇḍavighātaṃ ca valkalājinavāsasām. eke manyusamāpannās tataḥ śāntā dvijottamāḥ. vasiṣṭham abruvan sarve tvaṃ no brūhi sanātanam. nāhaṃ jānāmi viprendrāḥ pratyuvāca sa tān prabhuḥ. te sarve sahitā viprā nāradam ṛṣim abruvan. tvaṃ no brūhi mahābhāga tattvavic ca bhavān asi. nāhaṃ dvijā vijānāmi kva hi gacchāma saṃgatāḥ. iti tān āha bhagavāṃs tataḥ prāha ca sa dvijān. ko vidvān iha loke 'sminn amoho 'mṛtam adbhutam. tac ca te śuśruvur vākyaṃ brāhmaṇā hy aśarīriṇaḥ. sanaddhāma dvijā gatvā pṛcchadhvaṃ sa ca vakṣyati. tam āha kaś cid dvijavaryasattamo. vibhāṇḍako maṇḍitavedarāśiḥ. kas tvaṃ bhavān arthavibhedamadhye. na dṛśyase vākyam udīrayaṃś ca. athāhedaṃ taṃ bhagavān sanantaṃ. mahāmune viddhi māṃ paṇḍito 'si. ṛṣiṃ purāṇaṃ satataikarūpaṃ. yam akṣayaṃ vedavido vadanti. punas tam āhedam asau mahātmā. svarūpasaṃsthaṃ vada āha pārtha. tvam eko 'smadṛṣipuṃgavādya. na satsvarūpam atha vā punaḥ kim. athāha gambhīratarānuvādaṃ. vākyaṃ mahātmā hy aśarīra ādiḥ. na te mune śrotramukhe 'pi cāsyaṃ. na pādahastau prapadātmake na. bruvan munīn satyam atho nirīkṣya. svam āha vidvān manasā nigamya. ṛṣe kathaṃ vākyam idaṃ bravīṣi. na cāsya mantā na ca vidyate cet. na śuśruvus tatas tat tu prativākyaṃ dvijottamāḥ. nirīkṣamāṇā ākāśaṃ prahasantas tatas tataḥ. āścaryam iti matvā te yayur haimaṃ mahāgirim. sanatkumārasaṃkāśaṃ sagaṇā munisattamāḥ. taṃ parvataṃ samāruhya dadṛśur dhyānam āśritāḥ. kumāraṃ devam arhantaṃ vedapārāvivarjitam. tataḥ saṃvatsare pūrṇe prakṛtisthaṃ mahāmunim. sanatkumāraṃ rājendra praṇipatya dvijāḥ sthitāḥ. āgatān bhagavān āha jñānanirdhūtakalmaṣaḥ. jñātaṃ mayā munigaṇā vākyaṃ tad aśarīriṇaḥ. kāryam adya yathākāmaṃ pṛcchadhvaṃ munipuṃgavāḥ. tam abruvan prāñjalayo mahāmuniṃ. dvijottamaṃ jñānanidhiṃ sunirmalam. kathaṃ vayaṃ jñānanidhiṃ vareṇyaṃ. yakṣyāmahe viśvarūpaṃ kumāra. prasīda no bhagavañ jñānaleśaṃ. madhuprayātāya sukhāya santaḥ. yat tat padaṃ viśvarūpaṃ mahāmune. tatra brūhi kiṃ kutra mahānubhāva. sa tair viyukto bhagavān mahātmā. yo 'saṃgavān satyavit tac chṛṇuṣva. anekasāhasrakaleṣu caiva. prasannadhātuṃ ca śubhājñayā sat. yathāha pūrvaṃ yuṣmāsu hy aśarīrī dvijottamāḥ. tathaiva vākyaṃ tat satyam ajānantaś ca kīrtitam. śṛṇudhvaṃ paramaṃ kāraṇam asti | katham avagamyate | ahany ahani. pākaviśeṣo dṛśyate | tena miśraṃ sarvaṃ miśrayate | yathā. maṇḍalī dṛśi sarveṣām asti nidarśanam | asti cakṣuṣmatām asti. jñāne svarūpaṃ paśyati | yathā darpaṇāntarnidarśanam | sa eva sarvaṃ. vidvān na bibheti na gacchati | kutrāhaṃ kasya nāhaṃ kenety avartamāno. vijānāti | sa yugato vyāpī | sa pṛthak sthitaḥ |. tad aparamārtham | yathā vāyur ekaḥ san bahudheritaḥ | āśrayaviśeṣo. vā yasyāśrayo vā | yathāvad dvije mṛge vyāghre ca | manuje veṇu saṃśrayo. bhidyate vāyur athaikaḥ | ātmā tathāsau paramātmāsāv anya. iva bhāti | evam ātmā sa eva gacchati | sarvam ātmā paśyañ. śṛṇoti na jighrati na bhāṣate |. cakre 'sya taṃ mahātmānaṃ parito daśa raśmayaḥ. viniṣkramya yathā sūryam anugacchati taṃ prabhum. dine dine 'stam abhyeti punar udgacchate diśaḥ. tāv ubhau na ravau cāstāṃ tathā vitta śarīriṇam. patite vitta viprendrāḥ bhakṣaṇe caraṇe paraḥ. ūrdhvam ekas tathādhastād ekas tiṣṭhati cāparaḥ. hiraṇyasadanaṃ jñeyaṃ sametya paramaṃ padam. ātmanā hy ātmadīpaṃ tam ātmani hy ātmapūruṣam. saṃcitaṃ saṃcitaṃ pūrvaṃ bhramaro vartate bhraman. yo 'bhimānīva jānāti na muhyati na hīyate. na cakṣuṣā paśyati kaś canainaṃ. hṛdā manīṣā paśyati rūpam asya. na śuklaṃ na kṛṣṇaṃ paramārthabhāvaṃ. guhāśayaṃ jñānadevīkarastham. brāhmaṇasya na sādṛśye vartate so 'pi kiṃ punaḥ. ijyate yas tu mantreṇa yajamāno dvijottamaḥ. naiva dharmī na cādharmī dvaṃdvātīto vimatsaraḥ. jñānatṛptaḥ sukhaṃ śete hy amṛtātmā na saṃśayaḥ. evam eṣa jagatsṛṣṭiṃ kurute māyayā prabhuḥ. na jānāti virūḍhātmā kāraṇaṃ cātmano hy asau. dhyātā draṣṭā tathā mantā boddhā dṛṣṭān sa eva saḥ. ko vidvān paramātmānam anantaṃ lokabhāvanam. yat tu śakyaṃ mayā proktaṃ gacchadhvaṃ munipuṃgavāḥ. bhīṣma uvāca. evaṃ praṇamya viprendrā jñānasāgarasaṃbhavam. sanatkumāraṃ saṃdṛṣṭvā jagmus te ruciraṃ punaḥ. tasmāt tvam api kaunteya jñānayogaparo bhava. jñānam eva mahārāja sarvaduḥkhavināśanam. idaṃ mahāduḥkhasamākarāṇāṃ. nṛṇāṃ paritrāṇavinirmitaṃ purā. purāṇapuṃsā ṛṣiṇā mahātmanā. yudhiṣṭhira uvāca. mahāmunīnāṃ pravareṇa tad dhruvam. yad idaṃ tapa ity āhuḥ kiṃ tapaḥ saṃprakīrtitam. upavāsam athānyat tu vedācāram atho nu kim. bhīṣma uvāca. śāstraṃ tapo mahāprājña tan me brūhi pitāmaha. pakṣamāsopavāsādīn manyante vai tapodhanāḥ. vedavratādīni tapaḥ apare vedapāragāḥ. vedapārāyaṇaṃ cānye cāhus tattvam athāpare. yathāvihitam ācāras tapaḥ sarvaṃ vrataṃ gatāḥ. ātmavidyāvidhānaṃ yat tat tapaḥ parikīrtitam. tyāgas tapas tathā śāntis tapa indriyanigrahaḥ. brahmacaryaṃ tapaḥ proktam āhur evaṃ dvijātayaḥ. sadopavāso yo vidvān brahmacārī sadā bhavet. yo muniś ca sadā dhīmān vighasāśī vimatsaraḥ. tatas tv anantam apy āhur yo nityam atithipriyaḥ. nāntarāśīs tato nityam upavāsī mahāvrataḥ. ṛtugāmī tathā prokto vighasāśī smṛto budhaiḥ. bhṛtyaśeṣaṃ tu yo bhuṅkte yajñaśeṣaṃ tathāmṛtam. evaṃ nānārthasaṃyogaṃ tapaḥ śaśvad udāhṛtam. keṣāṃ lokā hy aparyantāḥ sarve satyavrate sthitāḥ. ye 'pi karmamayaṃ prāhus te dvijā brāhmaṇāḥ smṛtāḥ. ramante divyabhogaiś ca pūjitā hy apsarogaṇaiḥ. jñānātmakaṃ tapaḥśabdaṃ ye vadanti viniścitāḥ. te hy antarātmasadbhāvaṃ prapannā nṛpasattama. etat te nṛpaśārdūla proktaṃ yat pṛṣṭavān asi. yathāvastūni saṃjñāni vividhāni bhavanty uta. yudhiṣṭhira uvāca. pitāmaha mahāprājña rājādhīnā nṛpāḥ punaḥ. anyāni ca sahasrāṇi nāmāni vividhāni ca. pratiyogīni vai teṣāṃ channāny astamitāni ca. dṛḍhaṃ sarvaṃ prākṛtakam idaṃ sarvatra paśya vai. bhīṣma uvāca. tasmād yathāgataṃ rājan yathāruci nṛṇāṃ bhavet. asminn arthe purāvṛttaṃ śṛṇu rājan yudhiṣṭhira. brāhmaṇānāṃ samūhe tu yad uvāca suvarcalā. devalasya sutā vidvan sarvalakṣaṇaśobhitā. kanyā suvarcalā nāma yogabhāvitacetanā. hetunā kena jātā sā nirdvaṃdvā naṣṭasaṃśayā. sābravīt pitaraṃ vipraṃ varānveṣaṇatatparā. andhāya māṃ mahāprājña dehi vīkṣya sulocanam. pitovāca. evaṃ sma ca pitaḥ śaśvan mayedaṃ [prārthitaṃ] mune. na śakyaṃ prārthituṃ vatse tvayādya pratibhāti me. andhatānandhatā ceti vicāro mama jāyate. kanyovāca. unmatteva sute vākyaṃ bhāṣase pṛthulocane. nāham unmattabhūtādya buddhipūrvaṃ bravīmi te. viddhi vai tādṛśaṃ loke sa māṃ bhajati vedavit. yān yāṃs tvaṃ manyase dātuṃ māṃ dvijottama tān iha. ānayānyān mahābhāga hy ahaṃ drakṣyāmi teṣu tam. tatheti coktvā tāṃ vipraḥ preṣayām āsa śiṣyakān. ṛṣeḥ prabhāvaṃ dṛṣṭvā te kanyāyāś ca dvijottamāḥ. anekamunayo rājan saṃprāptā devalāśramam. tān āgatān athābhyarcya kanyām āha pitā mahān. yadīcchasi varaṃ bhadre taṃ vipraṃ varaya svayam. tatheti coktvā kalyāṇī taptahemanibhānanā. karasaṃmitamadhyāṅgī vākyam āha tapodhanāḥ. yady asti saṃmato vipro hy andho 'nandhaḥ sa me varaḥ. nocur viprā mahābhāgāṃ prativākyaṃ yayuś ca te. kanyā ca tiṣṭhatām atra pitur veśmani bhārata. śvetaketuḥ kahālasya śyālaḥ paramadharmavit. śrutvā brahmā tadāgamya kanyām āha mahīpate. so 'haṃ bhadre samāvṛttas tvayokto yaḥ purā dvijaḥ. suvarcalovāca. viśālanayanaṃ viddhi mām andho 'haṃ vṛṇīṣva mām. kathaṃ viśālanetro 'si kathaṃ vā tvam alocanaḥ. dvija uvāca. brūhi paścād ahaṃ vidvan parīkṣe tvāṃ dvijottama. pratiyogīni nāmāni channāny astamitāni ca. śabde sparśe tathā rūpe rase gandhe sahetukam. na me pravartate ceto na pratyakṣaṃ hi teṣu me. alocano 'haṃ tasmād dhi na gatir vidyate yataḥ. yena paśyati suśroṇi bhāṣate spṛśate punaḥ. bhujyate ghrāyate nityaṃ śṛṇoti manute tathā. tac cakṣur vidyate mahyaṃ yena paśyati vai sphuṭam. sulocano 'haṃ bhadre vai pṛccha vā kiṃ vadāmi te. sarvam asmin na me 'vidyā vidvān hi paramārthataḥ. sā viśuddhā tato bhūtvā śvetaketuṃ mahāmunim. praṇamya pūjayām āsa tāṃ bhāryāṃ sa ca labdhavān. vairāgyasaṃyutā kanyā tādṛśaṃ patim uttamam. prāptā rājan mahāprājña tasmād arthaḥ pṛthak pṛthak. etat te kathitaṃ rājan kiṃ bhūyaḥ śrotum icchasi.