हरश् च बहुरूपश् च त्र्यम्बकश् च सुरेश्वरः। सावित्रश् च जयन्तश् च पिनाकी चापराजितः। एकादशैते कथिता रुद्रास् त्रिभुवनेश्वराः। धरो ध्रुवश् च सोमश् च आपश् चैवानिलो ऽनलः। प्रत्यूषश् च महाभागः सावित्रश् चाष्टमः स्मृतः। पूर्वम् एव महाभागा वसवो ऽष्टौ प्रकीर्तिताः।
haraś ca bahurūpaś ca tryambakaś ca sureśvaraḥ. sāvitraś ca jayantaś ca pinākī cāparājitaḥ. ekādaśaite kathitā rudrās tribhuvaneśvarāḥ. dharo dhruvaś ca somaś ca āpaś caivānilo 'nalaḥ. pratyūṣaś ca mahābhāgaḥ sāvitraś cāṣṭamaḥ smṛtaḥ. pūrvam eva mahābhāgā vasavo 'ṣṭau prakīrtitāḥ.