उद्यन् हि सविता यद्वत् सृजते रश्मिमण्डलम्। दृश्यते मण्डलं तस्य न च दृश्येत मण्डली। तद्वद् देहस् तु संदृश्य आत्मादृश्यः परः सदा। ग्रस्तं ह्य् उद्गिरते नित्यम् उद्गीथं वेत्ति नित्यशः। बाल्ये रथाभ्यां योगेन तत्त्वज्ञानं तु संमतम्। स एवास्तम् उपागच्छंस् तद् एवात्मनि यच्छति। आदत्ते सर्वभूतानां रसभूतं विकासवान्।
udyan hi savitā yadvat sṛjate raśmimaṇḍalam. dṛśyate maṇḍalaṃ tasya na ca dṛśyeta maṇḍalī. tadvad dehas tu saṃdṛśya ātmādṛśyaḥ paraḥ sadā. grastaṃ hy udgirate nityam udgīthaṃ vetti nityaśaḥ. bālye rathābhyāṃ yogena tattvajñānaṃ tu saṃmatam. sa evāstam upāgacchaṃs tad evātmani yacchati. ādatte sarvabhūtānāṃ rasabhūtaṃ vikāsavān.