भ्रातृसौहृदम् आस्थाय यद् उक्तं वचनं त्वया। न्याय्यं युक्तं च कौन्तेय प्रीतो ऽहं तेन ते ऽर्जुन। ममेश्वरसमं सत्त्वं ब्रह्मणा चैव यत् समम्। वासुदेवसमं चैव न भूतं न भविष्यति। तथा त्वं यौधमुख्येषु सत्त्वं परमम् उच्यते। बलम् इन्द्रे च वायौ च बलं यच् च जनार्दने। तद् बलं भीमसेने च त्वयि चार्जुन विद्यते। त्वत्समश् चित्रयोधी च दूरपाती च पाण्डव। दिव्यास्त्रेण च संपन्नः को वान्यस् त्वत्समो नरः।
bhrātṛsauhṛdam āsthāya yad uktaṃ vacanaṃ tvayā. nyāyyaṃ yuktaṃ ca kaunteya prīto 'haṃ tena te 'rjuna. mameśvarasamaṃ sattvaṃ brahmaṇā caiva yat samam. vāsudevasamaṃ caiva na bhūtaṃ na bhaviṣyati. tathā tvaṃ yaudhamukhyeṣu sattvaṃ paramam ucyate. balam indre ca vāyau ca balaṃ yac ca janārdane. tad balaṃ bhīmasene ca tvayi cārjuna vidyate. tvatsamaś citrayodhī ca dūrapātī ca pāṇḍava. divyāstreṇa ca saṃpannaḥ ko vānyas tvatsamo naraḥ.