परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम्। मूलं रुन्धीन्द्रियग्रामं शकुन्तान् इव पञ्जरे। न द्वितीयस्य शिरसश् छेदनं विद्यते क्व चित्। न च पाणेस् तृतीयस्य यन् नास्ति न ततो भयम्।
paricchidyaiva kāmānāṃ sarveṣāṃ caiva karmaṇām. mūlaṃ rundhīndriyagrāmaṃ śakuntān iva pañjare. na dvitīyasya śirasaś chedanaṃ vidyate kva cit. na ca pāṇes tṛtīyasya yan nāsti na tato bhayam.