लीनं तु तस्य गात्रेषु मार्जारस्याथ मूषकम्। तौ दृष्ट्वा नकुलोलूकौ निराशौ जग्मतुर् गृहान्। तथैव तौ सुसंत्रस्तौ दृढम् आगततन्द्रितौ। दृष्ट्वा तयोः परां प्रीतिं विस्मयं परमं गतौ। बलिनौ मतिमन्तौ च सुवृत्तौ चाप्य् उपासितौ। अशक्तौ तु नयात् तस्मात् संप्रधर्षयितुं बलात्। कार्यार्थकृतसंधी तौ दृष्ट्वा मार्जारमूषिकौ। उलूकनकुलौ तूर्णं जग्मतुस् तौ स्वम् आलयम्।
līnaṃ tu tasya gātreṣu mārjārasyātha mūṣakam. tau dṛṣṭvā nakulolūkau nirāśau jagmatur gṛhān. tathaiva tau susaṃtrastau dṛḍham āgatatandritau. dṛṣṭvā tayoḥ parāṃ prītiṃ vismayaṃ paramaṃ gatau. balinau matimantau ca suvṛttau cāpy upāsitau. aśaktau tu nayāt tasmāt saṃpradharṣayituṃ balāt. kāryārthakṛtasaṃdhī tau dṛṣṭvā mārjāramūṣikau. ulūkanakulau tūrṇaṃ jagmatus tau svam ālayam.