द्रौपद्य् उवाच। आर्ये पौत्राः क्व ते सर्वे सौभद्रसहिता गताः। न त्वां ते ऽद्याभिगच्छन्ति चिरदृष्टां तपस्विनीम्। किं नु राज्येन वै कार्यं विहीनायाः सुतैर् मम।
draupady uvāca. ārye pautrāḥ kva te sarve saubhadrasahitā gatāḥ. na tvāṃ te 'dyābhigacchanti ciradṛṣṭāṃ tapasvinīm. kiṃ nu rājyena vai kāryaṃ vihīnāyāḥ sutair mama.