भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम। रक्षणं च करिष्ये ऽस्याः सर्वशक्त्या तपोधन। ऋषिर् उवाच। त्वदर्थं रक्ष्यते चैषा मया मुनिवरोत्तम। न भरिष्ये ऽहम् एतां वै एष मे समयः कृतः। अप्रियं च न कर्तव्यं कृते चैनां त्यजाम्य् अहम्।
bhariṣyāmi ca te bhāryāṃ pratīcchemāṃ dvijottama. rakṣaṇaṃ ca kariṣye 'syāḥ sarvaśaktyā tapodhana. ṛṣir uvāca. tvadarthaṃ rakṣyate caiṣā mayā munivarottama. na bhariṣye 'ham etāṃ vai eṣa me samayaḥ kṛtaḥ. apriyaṃ ca na kartavyaṃ kṛte caināṃ tyajāmy aham.