तम् अब्रवीत् पिता ब्रह्मंस् तथा कोपसमन्वितम्। न मे प्रियं कृतं तात नैष धर्मस् तपस्विनाम्। कामं क्रोधं तथा लोभं यस् तपस्वी न शक्नुयात्। विजेतुम् अकृतप्रज्ञः स याति नरकं ध्रुवम्। त्रिविधं नरकस्येदं द्वारं नाशनम् आत्मनः। कामः क्रोधस् तथा लोभस् तस्माद् एतत् त्रयं त्यजेत्। यः प्रव्रज्यां गृहीत्वा तु न भवेद् विजितेन्द्रियः। वर्षकोटिसहस्राणि स याति नरकं ध्रुवम्।
tam abravīt pitā brahmaṃs tathā kopasamanvitam. na me priyaṃ kṛtaṃ tāta naiṣa dharmas tapasvinām. kāmaṃ krodhaṃ tathā lobhaṃ yas tapasvī na śaknuyāt. vijetum akṛtaprajñaḥ sa yāti narakaṃ dhruvam. trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ. kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ tyajet. yaḥ pravrajyāṃ gṛhītvā tu na bhaved vijitendriyaḥ. varṣakoṭisahasrāṇi sa yāti narakaṃ dhruvam.