न च त्यक्तुम् अहं शक्ता हृदयं दूयतीव मे। कथं प्रदीप्ताज् ज्वलनाद् विमुच्येरन् सुता मम। मन्दभाग्या सपुत्राहं किं करिष्यामि शोचती। कं नु जह्याम् अहं पुत्रं कम् आदाय व्रजाम्य् अहम्।
na ca tyaktum ahaṃ śaktā hṛdayaṃ dūyatīva me. kathaṃ pradīptāj jvalanād vimucyeran sutā mama. mandabhāgyā saputrāhaṃ kiṃ kariṣyāmi śocatī. kaṃ nu jahyām ahaṃ putraṃ kam ādāya vrajāmy aham.