वैशंपायन उवाच। ततः संवादिते तस्मिन्न् अनुज्ञातो धनंजयः। गतां रैवतके कन्यां विदित्वा जनमेजय। वैशंपायनः। श्रीभगवान्। वैशंपायनः। वासुदेवः। बलदेवः। वैशंपायनः। वैशंपायनः। वैशंपायनः। वैशंपायनः। वैशंपायनः। वैशंपायनः। वैशंपायनः। वैशंपायनः। वैशंपायनः। वैशंपायनः। वैशंपायनः। चिन्तयानस् ततो भद्राम् उपविष्टः शिलातले। रमणीये वनोद्देशे बहुपादपसंवृते। सालतालाश्वकर्णैश् च बकुलैर् अर्जुनैस् तथा। चम्पकाशोकपुंनागैः केतकैः पाटलैस् तथा। कर्णिकारैर् अशोकैश् च अङ्कोलैर् अतिमुक्तकैः। एवमादिभिर् अन्यैश् च संवृते स शिलातले। पुनः पुनश् चिन्तयानः सुभद्रां भद्रभाषिणीम्। यदृच्छया चोपपन्नान् वृष्णिवीरान् ददर्श ह। बलदेवं च हार्दिक्यं साम्बं सारणम् एव च। प्रद्युम्नं च गदं चैव चारुदेष्णं विडूरथम्। भानुं च निशठं चैव पृथुं विपृथुम् एव च। तथान्यांश् च बहून् पश्यन् हृदि शोकम् अधारयत्। ततस् ते सहिताः सर्वे यतिं दृष्ट्वा समुत्सुकाः। वृष्णयो विनयोपेताः परिवार्योपतस्थिरे। ततो ऽर्जुनः प्रीतमनाः स्वागतं व्याजहार सः। आस्यताम् आस्यतां सर्वै रमणीये शिलातले। इत्य् एवम् उक्ता यतिना प्रीतास् ते यादवर्षभाः। उपोपविविशुः सर्वे सुस्वागतम् इति ब्रुवन्। ततस् तेषु निविष्टेषु वृष्णिवीरेषु पाण्डवः। आकारं गूहमानस् तु कुशलप्रश्नम् अब्रवीत्। सर्वत्र कुशलं चोक्त्वा बलदेवो ऽब्रवीद् इदम्। प्रसादं कुरु मे विप्र कुतस् त्वं चागतो ह्य् असि। त्वया दृष्टानि पुण्यानि वदस्व वदतां वर। पर्वतांश् चैव तीर्थानि वनान्य् आयतनानि च। तीर्थानां दर्शनं चैव पर्वतानां च भारत। आपगानां वनानां च कथयाम् आस यादवे। ताः कथाः कथयन्न् एव कथान्ते जनमेजय। कथां धर्मसमायुक्तां वृष्णिवीरे न्यवेदयत्। श्रुत्वा धर्मकथां पुण्यां वृष्णिवीरो ऽभ्यपूजयत्। ततस् तु यादवाः सर्वे मन्त्रयन्ति स्म भारत। अयं देशातिथिः श्रीमान् यतिलिङ्गधरो द्विजः। आवासं कम् उपाश्रित्य वसेत निरुपद्रवः। इत्य् एवम् अब्रुवंस् ते वै रौहिणेयं तु यादवाः। ददृशुः कृष्णम् आयान्तं सर्वे यादवनन्दनम्। एहि केशव तातेति रौहिणेयो ऽब्रवीद् वचः। यतिलिङ्गधरो विद्वान् देशातिथिर् अयं द्विजः। वर्षरात्रनिवासार्थम् आगतो नः पुरं प्रति। स्थाने यस्मिन् निवसति तन् मे ब्रूहि जनार्दन। त्वयि स्थिते महाभाग परवान् अस्मि धर्मतः। स्वयं तु रुचिरे स्थाने वसताम् इति मां वद। सुप्रीतस् तेन वाक्येन परिष्वज्य जनार्दनम्। बलदेवो ऽब्रवीद् वाक्यं चिन्तयित्वा महाबलः। आरामे तु वसेद् धीमांश् चतुरो वर्षमासकान्। कन्यापुरे सुभद्राया भुक्त्वा भोजनम् इष्टतः। लतागृहेषु वसताम् इति मे धीयते मतिः। लब्धानुज्ञास् त्वया तत्र मन्यन्ते सर्वयादवाः। बलवान् दर्शनीयश् च वाग्विच् छ्रीमान् बहुश्रुतः। कन्यापुरसमीपे तु न युक्तम् इति मे मतिः। गुरुः शास्ता च नेता च शास्त्रज्ञो धर्मवित्तमः। त्वयोक्तं न विरुध्ये ऽहं करिष्यामि वचस् तव। शुभाशुभस्य विज्ञाने नान्यो ऽस्ति भुवि कश् चन। अयं देशातिथिः श्रीमान् सर्वधर्मविशारदः। धृतिमान् विनयोपेतः सत्यवाग् विजितेन्द्रियः। यतिलिङ्गधरो ह्य् एष को विजानाति मानसम्। त्वम् इमं पुण्डरीकाक्ष नीत्वा कन्यापुरं शुभम्। निवेदय सुभद्रायै मद्वाक्यपरिचोदितः। भक्ष्यैर् भोज्यैश् च पानैश् च अन्यैर् इष्टैश् च पूजय। स तथेति प्रतिज्ञाय सहितो यतिना हरिः। कृत्वा तु संविदं तेन प्रहृष्टः केशवो ऽभवत्। पर्वते तौ विहृत्यैव यथेष्टं कृष्णपाण्डवौ। तां पुरीं प्रविवेशाथ गृह्य हस्ते च पाण्डवम्। प्रविश्य च गृहं रम्यं सर्वभोगसमन्वितम्। पार्थम् आवेदयाम् आस रुक्मिणीसत्यभामयोः। हृषीकेशवचः श्रुत्वा ते उभे ऊचतुर् भृशम्। मनोरथो महान् एष हृदि नः परिवर्तते। कदा द्रक्ष्याम बीभत्सुं पाण्डवं गृहम् आगतम्। इति चिन्तयमानानां पार्थो दुःखम् अपानुदत्। प्राप्तम् अज्ञातपूजाभिर् उत्तमाभिर् अपूजयत्। स तं प्रियातिथिश्रेष्ठं समीक्ष्य यतिम् आगतम्। सोदर्यां भगिनीं कृष्णः सुभद्राम् इदम् अब्रवीत्। अयं देशातिथिर् भद्रे संयतो व्रतवान् ऋषिः। प्राप्नोतु सततं पूजां तव कन्यापुरे वसन्। आर्येण च परिज्ञातः पूजनीयो यतिः सदा। तस्माद् भरस्व वार्ष्णेयि भक्ष्यैर् भोज्यैर् यतिं सदा। एष यद् यद् ऋषिर् ब्रूयात् कार्यम् एव न संशयः। सखीभिः सहिता भद्रे भवास्य वशवर्तिनी। पुरापि यतयो भद्रे ये भैक्षार्थम् अनुव्रताः। ते बभूवुर् दशार्हाणां कन्यापुरनिवासिनः। तेभ्यो भोज्यानि भक्ष्याणि यथाकालम् अतन्द्रिताः। कन्यापुरगताः कन्याः प्रयच्छन्ति यशस्विनि। सा तथेत्य् अब्रवीत् कृष्णं करिष्यामि यथात्थ माम्। तोषयिष्यामि वृत्तेन कर्मणा च द्विजर्षभम्। एवम् एतेन रूपेण कं चित् कालं धनंजयः। उवास भक्ष्यैर् भोज्यैश् च भद्रया परमार्चितः। तस्य सर्वगुणोपेतां वासुदेवसहोदराम्। पश्यतः सततं भद्रां प्रादुर् आसीन् मनोभवः। गूहयन्न् इव चाकारम् आलोक्य वरवर्णिनीम्। दीर्घम् उष्णं निशश्वास पार्थः कामवशं गतः। न कृष्णां रूपतो मेने वासुदेवसहोदराम्। प्राप्तां हृदीन्द्रसेनां वा साक्षाद् वा वरुणात्मजाम्। अतीतसमये काले सोदर्याणां धनंजयः। न सस्मार सुभद्रायाः कामाङ्कुशनिवारितः। क्रीडारतिपरां भद्रां सखीजनशतैर् वृताम्। प्रीयते स्मार्जुनः पश्यन् स्वाहाम् इव हुताशनः। पाण्डवस्य सुभद्रायाः सकाशे तु यशस्विनः। समुत्पत्तिः प्रभावश् च गदेन कथितः पुरा। श्रुत्वा चाशनिनिर्घोषं केशवेनापि धीमता। उपमाम् अर्जुनं कृत्वा विस्तरः कथितः पुरा। क्रुद्धमत्तप्रलापश् च वृष्णीनाम् अर्जुनं प्रति। पौरुषाण्य् उपमां कृत्वा प्रावर्धन्त धनुष्मताम्। अन्योन्यकलहे चापि विवादे चापि वृष्णयः। अर्जुनो ऽपि न मे तुल्यः कुतस् त्वम् इति ते ऽब्रुवन्। जातांश् च पुत्रान् गृह्णन्त आशिषो वृष्णयो ऽब्रुवन्। अर्जुनस्य समो वीर्ये भव तात धनुर्धरः। तस्मात् सुभद्रा चकमे पौरुषाद् भरतर्षभम्। सत्यसंधस्य रूपेण चातुर्येण च मोहिता। चारणातिथिसंघानां गदस्य च निशम्य सा। अदृष्टे कृतभावाभूत् सुभद्रा भरतर्षभे। कीर्तयन् ददृशे यो यः कथं चित् कुरुजाङ्गलम्। तं तम् एव सदा भद्रा बीभत्सुं स्माभिपृच्छति। अभीक्ष्णशः परिप्रश्नाद् अभीक्ष्णश्रवणात् तथा। प्रत्यक्ष इव भद्रायाः पाण्डवः समपद्यत। भुजौ भुजगसंकाशौ ज्याघातेन किणीकृतौ। पार्थो ऽयम् इति पश्यन्त्या निःसंशयम् अजायत। यथारूपं हि शुश्राव सुभद्रा भरतर्षभम्। तथारूपम् अवेक्ष्यैनं परां प्रीतिम् अवाप सा। सा कदा चिद् उपासीनं पप्रच्छ कुरुनन्दनम्। कथं देशाः कथं शैला नानाजनपदाः कथम्। सरांसि सरितश् चैव वनानि च कथं यते। दिशः काश् च कथं प्राप्ताश् चरता भवता सदा। स तथोक्तस् तदा भद्रां बहुनर्मानृतं ब्रुवन्। उवाच परमप्रीतस् तस्या बहु तथा कथाः। निशम्य विविधं तस्य लोके चरितम् आत्मनः। कथापरिगतो भावः कन्यायाः समपद्यत। पर्वसंधौ च कस्मिंश् चित् सुभद्रा भरतर्षभम्। रहस्य् एकान्तम् आसाद्य हृष्यमाणाभ्यभाषत। यतिना चरता लोकान् खाण्डवप्रस्थवासिनी। कच्चिद् भगवता दृष्टा पृथास्माकं पितृष्वसा। भ्रातृभिः प्रयतैः सर्वैः कच्चिद् आर्यो युधिष्ठिरः। कच्चिद् धर्मपरो भीमो धर्मराजस्य धीमतः। निवृत्तसमयः कच्चिद् अपराधाद् धनंजयः। नियमे कामभोगानां वर्तमानः प्रियेतरे। क्व नु पार्थश् चरत्य् अद्य बह्वीर् दुर्वसतीर् वसन्। सुखोचितो ह्य् अदुःखार्हो दीर्घबाहुर् अरिंदमः। कच्चिच् छ्रुतो वा दृष्टो वा पार्थो भगवतार्जुनः। निशम्य वचनं तस्यास् ताम् उवाच हसन्न् इव। आर्ये पृथा च कुशला सपुत्रा च सहस्नुषा। प्रीयते पश्यती पुत्रान् कुरुक्षेत्रं च पश्यती। अनुज्ञातस् तु मात्रा च सोदर्यैस् तु धनंजयः। द्वारकाम् आवसत्य् एको यतिलिङ्गेन पाण्डवः। पश्यन्ती सततं कस्मान् नाभिजानासि माधवि। निशम्य वचनं तस्य वासुदेवसहोदरा। निःश्वासबहुला तस्थौ क्षितिं विलिखती तदा। ततः परमसंहृष्टः सर्वशस्त्रभृतां वरः। अर्जुनो ऽहम् इति प्रीतस् ताम् उवाच धनंजयः। यथा तव गतो भावः श्रवणान् मयि भामिनि। त्वद्गतः सततं भावस् तथा शतगुणो मम। प्रशस्ते ऽहनि धर्मेण भद्रे स्वयम् अहं वृतः। सत्यवान् इव सावित्र्या भविष्यामि पतिस् तव। एवम् उक्त्वा ततः पार्थः प्रविवेश लतागृहम्। ततः सुभद्रा ललिता लज्जाभावसमन्विता। मुमोह शयने दिव्ये शयाना नतथोचिता। कन्यापुरे च संवृत्तं ज्ञात्वा दिव्येन चक्षुषा। शशास रुक्मिणीं कृष्णो भोजनादिकम् अर्जुने। तदा प्रभृति तां भद्रां चिन्तयन् वै धनंजयः। आस्ते स्म स तदारामे कार्येणैव सहाभिभूः। सुभद्रापि न च स्वस्था पार्थं प्रति बभूव सा। कृशा विवर्णवदना चिन्ताशोकपरायणा। निःश्वासपरमा भद्रा मानसेन मनस्विनी। न शय्यासनभोगेषु रतिं विन्दति केन चित्। न नक्तं न दिवा शेते बभूवोन्मत्तदर्शना। एवं शोकपरां भद्रां देवकी वाक्यम् अब्रवीत्। मा शोकं कुरु वार्ष्णेयि धृतिम् आलम्ब शोभने। निवेदयिष्ये त्वां रामे कृष्णे चैव नरर्षभे। पश्चाज् जानामि ते वार्तां मा शोकं कुरु माधवि। एवम् उक्त्वा च सा माता भद्रायाः प्रियकामिनी। निवेदयाम् आस तदा भद्राम् आनकदुन्दुभेः। रहस्य् एकासना तत्र भद्रास्वस्थेति चाब्रवीत्। आरामे तु यतिः श्रीमान् अर्जुनः सो ऽथ नः श्रुतः। अक्रूराय च कृष्णाय आहुकाय च सात्यके। निवेद्यतां महाप्राज्ञ श्रोतव्यं यदि बान्धवैः। वसुदेवस् तु तच् छ्रुत्वा अक्रूराहुकयोस् तदा। निवेदयित्वा कृष्णाय मन्त्रयाम् आस नैकधा। इदं कार्यम् इदं कृत्यम् इदम् एवं विनिश्चितम्। अक्रूरश् चोग्रसेनश् च सत्यकश् च गदेन च। पृथुश्रवाश् च कृष्णश् च सहिताः शिनिना सह। रुक्मिणी सत्यभामा च देवकी रोहिणी तथा। वासुदेवेन सहिताः पुरोहितमते स्थिताः। विवाहं मन्त्रयाम् आसुर् द्वादशे ऽहनि भारत। अज्ञातं रौहिणेयस्य उद्धवस्य च भारत। विवाहं तु सुभद्रायाः कर्तुकामो गदाग्रजः। महादेवस्य पूजार्थं महोत्सवम् इति ब्रुवन्। चतुस्त्रिंशद् अहोरात्रं सुभद्रार्तिप्रशान्तये। नगरे घोषयाम् आस हितार्थं सव्यसाचिनः। इतश् चतुर्थे त्व् अहनि अन्तर्द्वीपं तु गम्यताम्। सदारैः सानुयात्रैश् च सपुत्रैश् च सबान्धवैः। गन्तव्यं सर्ववर्णैश् च गन्तव्यं सर्वयादवैः। एवम् उक्तास् तु ते सर्वे तथा चक्रुश् च सर्वशः। ततः सर्वदशार्हाणाम् अन्तर्द्वीपे तु भारत। चतुस्त्रिंशद् अहोरात्रं बभूव परमोत्सवः। कृष्णरामाहुकाक्रूरप्रद्युम्नशिनिसत्यकाः। समुद्रं प्रययुर् हृष्टाः कुकुरान्धकवृष्णयः। युक्तयन्त्रपताकाभिर् वृष्णयो ब्राह्मणैः सह। समुद्रं प्रययुर् नौभिः सर्वे पुरनिवासिनः। ततस् त्वरितम् आगम्य दाशार्हगणपूजितम्। सुभद्रा पुण्डरीकाक्षम् अब्रवीद् यतिशासनात्। कृत्यवान् द्वादशाहानि स्थाता स भगवान् इह। तिष्ठतस् तस्य कः कुर्याद् उपस्थानविधिं प्रति। ताम् उवाच हृषीकेशः कस् त्वद् अन्यो विशेषतः। तम् ऋषिं प्रत्युपस्थातुम् इतो नार्हति मानवः। त्वम् एवास्मन्मतेनास्य महर्षेर् वशवर्तिनी। कुरु सर्वाणि कार्याणि कीर्तिं धर्मम् अवेक्ष्य च। तस्य चातिथिमुख्यस्य सर्वेषां च तपस्विनाम्। संविधानपरा भद्रे भव त्वं वशवर्तिनी। एवम् आदिश्य भद्रां च रक्षां च मधुसूदनः। ययौ शङ्खप्रणादेन भेरीणां च महास्वनैः। ततस् तद् द्वीपम् आसाद्य दानधर्मपरायणाः। उग्रसेनमुखाः सर्वे विजह्रुः कुकुरान्धकाः। सप्तयोजनविस्तार आयतो दशयोजनम्। बभूव स महाद्वीपः सपर्वतमहावनः। सेतुपुष्करिणीजालैर् आक्रीडः सर्वसात्वताम्। वापीपल्वलसंघैश् च काननैश् च मनोरमैः। वासुदेवसमैर् द्वीपः स सर्वैः कुकुरान्धकैः। बभूव परमोपेतस् त्रिविष्टप इवामरैः। चतुस्त्रिंशद् अहोरात्रं दानधर्मपरायणाः। उग्रसेनमुखाः सर्वे विजह्रुः कुकुरान्धकाः। विचित्रमाल्याभरणाश् चित्ररूपानुलेपनाः। विहाराभिमुखाः सर्वे यादवाः पानसंयुताः। सुनृत्तगीतवादित्रै रममाणास् ततो ऽभवन्। तत्र याते दशार्हाणाम् ऋषभे शार्ङ्गधन्वनि। सुभद्रोद्वाहनं पार्थः प्राप्तकालम् अमन्यत। वृष्ण्यन्धकपुरात् तस्माद् अपयानं च पाण्डवः। विनिश्चित्य ततः पार्थः सुभद्राम् इदम् अब्रवीत्। शृणु भद्रे यथाशास्त्रं यथार्थम् ऋषिभिः कृतम्। कन्यायास् तु पिता भ्राता माता मातुल एव च। पितृभ्राता गुरुश् चापि दाने तु प्रभुतां गतः। महोत्सवं पशुपतेर् द्रष्टुकामः पिताहुकः। अन्तर्द्वीपं गतो भद्रे पुत्रैः पौत्रैः सबान्धवैः। मम चैव विशालाक्षि विदेशस्थास् तु बान्धवाः। तस्मात् सुभद्रे गान्धर्वो विवाहः पञ्चमो भवेत्। समागमे तु कन्यायाः क्रियाः प्रोक्ताश् चतुर्विधाः। तेषां प्रवृत्तिं साधूनां शृणु माधवि तद् यथा। वरम् आहूय विधिना पितृदत्ता यथार्थिने। सा पत्नी तु बुधैर् उक्ता सा तु वश्या पतिव्रता। भृत्यानां भरणार्थाय आत्मनः पोषणाय च। दारे स्थिते गृहीता सा भार्या चेति बुधैर् मता। धर्मतो वरयित्वा तु आनीय स्वं निवेशनम्। न्यायेन दत्ता तारुण्ये दाराः पितृकृता भवेत्। जनयेद् या तु भर्तारं जाया इत्य् एव नामतः। दाराः पत्नी च भार्या च जाया चेति चतुर्विधाः। चतस्र एवाग्निसाक्ष्याः क्रियायुक्तास् तु धर्मतः। गान्धर्वेण विवाहेन रागात् पुत्रार्थकारणात्। आत्मनानुगृहीता या सा तु वश्या प्रजावती। गान्धर्वस् तु क्रियाहीनो रागाद् एव प्रवर्तते। सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः। मयोक्तम् अक्रियं चापि कर्तव्यं माधवि त्वया। अयनं चैव मासश् च ऋक्षं पक्षस् तथा तिथिः। करणं च मुहूर्तं च लग्नसंपद् यथाद्य वै। विवाहस्य विशालाक्षि प्रशस्तं चोत्तरायणम्। वैशाखश् चैव मासानां पक्षाणां शुभ्र एव च। नक्षत्राणां तथा हस्तस् तृतीया च तिथिष्व् अपि। लग्नो हि मकरः श्रेष्ठः करणानां बवस् तथा। मैत्रो मुहूर्तो वैवाह्य आवयोः शुभकर्मणि। सर्वसंपद् इयं भद्रे अद्य रात्रौ भविष्यति। भगवान् अस्तम् अभ्येति तपनस् तपतां वरः। नारायणो हि सर्वज्ञो नानुबुध्येत विश्वकृत्। धर्मसंकटम् आपन्ने किं नु कृत्वा शुभं भवेत्। मनोभवेन कामेन मोहितं मा प्रलापिनम्। प्रतिवाक्यं तु मे देहि किं न वक्ष्यसि माधवि। अर्जुनस्य वचः श्रुत्वा चिन्तयन्ती जनार्दनम्। नोवाच किं चिद् वचनं बाष्पदूषितलोचना। रागोन्मादप्रलापी स्याद् अर्जुनो जयतां वरः। चिन्तयाम् आस पितरं प्रविश्य च लतागृहम्। चिन्तयानं तु कौन्तेयं ज्ञात्वा शच्या शचीपतिः। सहितो नारदाद्यैस् तु मुनिसिद्धाप्सरोगणैः। अरुन्धत्या वसिष्ठेन आजगाम कुशस्थलीम्। चिन्तितं च सुभद्रायाश् चिन्तयित्वा जनार्दनः। निद्रयापहृतज्ञानं रौहिणेयं विना तदा। सहाक्रूरेण शिनिना सत्यकेन गदेन च। वसुदेवेन देवक्या आहुकेन च धीमता। आजगाम पुरीं रात्रौ द्वारकां स्वजनैर् वृतः। पूजयित्वा तु देवेशं नारदाद्यैर् महर्षिभिः। कुशलप्रश्नम् उक्त्वा तु देवेन्द्रेणाभियाचितः। वैवाहिकक्रियां कृष्णस् तथेत्य् एवम् उवाच ह। आहुको वसुदेवश् च सहाक्रूरः ससात्यकिः। अभिप्रणम्य शिरसा पाकशासनम् अब्रुवन्। देवदेव नमस् ते ऽस्तु लोकनाथ जगत्पते। वयं धन्याः स्म लोकेषु बान्धवैः सहिता विभो। कृतप्रसादास् तु वयं तव वाक्येन विश्वजित्। एवम् उक्त्वा प्रसाद्यैनं पूजयित्वा प्रयत्नतः। महेन्द्रशासनात् सर्वे सहिताश् च महर्षिभिः। विवाहं कारयाम् आसुः शक्रपुत्रस्य शास्त्रतः। अरुन्धती शची देवी रुक्मिणी देवकी तथा। दिव्यस्त्रीभिश् च सहिताः क्रियां भद्रां प्रयोजयन्। महर्षिः काश्यपो होता सदस्या नारदादयः। पुण्याशिषः प्रयोक्तारः सर्वे ह्य् आसंस् तदार्जुने। अभिषेकं ततः कृत्वा महेन्द्रः पाकशासनिम्। लोकपालैस् तु सहितः सर्वैर् देवैर् अभिष्टुतः। किरीटाङ्गदहाराद्यैर् हस्ताभरणकुण्डलैः। भूषयित्वा तु तं पार्थं द्वितीयम् इव वासवम्। पुत्रं परिष्वज्य तदा प्रीतिम् आप पुरंदरः। शची देवी तथा भद्राम् अरुन्धत्यादिभिस् तदा। कारयाम् आस वैवाह्यं मङ्गल्यं यादवस्त्रियः। सहाप्सरोभिर् मुदिता भूषणैश् चाभ्यपूजयन्। पौलोमीम् इव मन्यन्ते सुभद्रां देवयोषितः। ततो विवाहो ववृधे कृतः सर्वगुणान्वितः। तस्याः पाणिं गृहीत्वा तु मन्त्रहोमपुरस्कृतम्। यथा तस्यैव हि पिता शच्या इव शतक्रतुः। सा जिष्णुम् अधिकं भेजे सुभद्रा चारुदर्शना। पार्थस्य सदृशी भद्रा रूपेण वयसा तथा। सुभद्रायाश् च पार्थो ऽपि सदृशो रूपलक्षणैः। इत्य् ऊचुश् च तदा देवाः प्रीताः सेन्द्रपुरोगमाः। एवं निवेश्य देवास् तु गन्धर्वैः साप्सरोगणैः। आमन्त्र्य यादवान् सर्वे विप्रजग्मुर् यथागतम्। यादवाः पार्थम् आमन्त्र्य अन्तर्द्वीपं गतास् तदा। वासुदेवस् तदा पार्थम् उवाच यदुनन्दनः। द्वाविंशद् दिवसान् पार्थ इहोष्य भरतर्षभ। मामकं रथम् आरुह्य सैन्यसुग्रीवयोजितम्। सुभद्रया सुखं पार्थ खाण्डवप्रस्थम् आविश। यादवैः सहितः पश्चाद् आगमिष्यामि भारत। यतिवेषेण निरतो वस त्वं रुक्मिणीगृहे। एवम् उक्त्वा प्रचक्राम अन्तर्द्वीपं जनार्दनः। कृतोद्वाहस् तदा पार्थः कृतकार्यो ऽभवत् तदा। तस्यां चोपगतो भावः पार्थस्य सहसागतः। स तया युयुजे वीरो भद्रया भरतर्षभः। अभिनिष्पन्नया रामः सीतयेव समन्वितः। स हि जिष्णुर् विजज्ञे तां ह्रीं श्रियं संनतिक्रियाम्। द्वादशानां वरस्त्रीणां रूपेणासदृशीं सतीम्। स प्रकृत्या श्रिया दीप्तः संदिदीपे तयाधिकम्। उद्यत्सहस्रदीप्तांशुः शरदीव दिवाकरः। सा तु तं मनुजव्याघ्रम् अनुरक्ता मनस्विनी। कन्यापुरगता भूत्वा तत्परा समपद्यत। वृष्ण्यन्धकपुरात् तत्र अपयानं धनंजयः। विनिश्चित्य तया पार्थः सुभद्राम् इदम् अब्रवीत्। द्विजानां गणमुख्यानां यथार्हं प्रतिपादय। भक्ष्यैर् भोज्यैश् च कामैश् च प्रयच्छ प्रतियास्यताम्। आत्मनश् च समुद्दिश्य महाव्रतसमापनम्। गच्छ भद्रे स्वयं तूर्णं महाराजनिवेशनम्। तेजोबलजवोपेतै रत्नैर् हयवरोत्तमैः। सैन्यसुग्रीवसंयुक्तं रथं तूर्णम् इहानय। क्रीडार्थम् इति भाषित्वा सखीभिः सुभगे सह। क्षिप्रम् आदाय पर्येहि रथं सर्वायुधानि च। अनुकर्षान् पताकाश् च तूणीरांश् च धनूंषि च। सर्वान् रथवरे कुर्याः सोत्सेधाश् च महागदाः। अर्जुनेनैवम् उक्ता तु सुभद्रा भद्रभाषिणी। जगाम नृपतेर् वेश्म सखीभिस् त्वरिता सह। क्रीडार्थम् इव तत्रस्थान् रक्षिणो वाक्यम् अब्रवीत्। रथेनानेन यास्यामि महाव्रतसमापनम्। सैन्यसुग्रीवयुक्तेन सायुधेन च शार्ङ्गिणः। सुभद्रयैवम् उक्ते तु जनाः प्राञ्जलयो ऽब्रुवन्। रथेनानेन भद्रे त्वं यथेष्टं क्रियताम् इति। योजयित्वा रथवरं कल्याणैर् अभिभाष्य ताम्। यथोक्तं सर्वम् आरोप्य सखीभिः सह भामिनी। क्षिप्रम् आदाय कल्याणी सुभद्रार्जुनम् अब्रवीत्। रथो ऽयं रथिनां श्रेष्ठ आनीतस् तव शासनात्। स्वस्ति याहि यथाकामं कुरून् कौरवनन्दन। निवेद्य तं रथं भर्तुः सुभद्रा भद्रसंमता। ब्राह्मणेभ्यो ददौ हृष्टा तदा सा विविधं वसु। स्नेहवन्ति च भोज्यानि प्रददाव् ईप्सितानि च। यथाकामं यथाश्रद्धं वस्त्राणि विविधानि च। तर्पिता विविधैर् भक्ष्यैस् तान्य् अवाप्य वसूनि च। ब्राह्मणाः स्वगृहं जग्मुः प्रयुज्य परमाशिषः। सुभद्रया तु विज्ञप्तः पूर्वम् एव धनंजयः। रश्मिप्रग्रहणे पार्थ न मे ऽस्ति सदृशो भुवि। तस्मात् सा पूर्वम् आरुह्य रश्मीञ् जग्राह माधवी। सोदरा वासुदेवस्य कृतस्वस्त्ययना हयान्। वर्जयित्वा तु तल् लिङ्गं समुच्छ्रितमहाधनुः। आरुरोह रथश्रेष्ठं शुक्लवासा धनंजयः। महेन्द्रदत्तमुकुटं तथा ह्य् आभरणानि च। अलंकृत्य तु कौन्तेयः प्रयातुम् उपचक्रमे। ततः कन्यापुरे घोषस् तुमुलः समपद्यत। दृष्ट्वा रथगतं पार्थं खड्गपाणिं धनुर्धरम्। अभीशुहस्तां सुश्रोणीं अर्जुनेन रथे स्थिताम्। ऊचुः कन्यापुरे कन्या वासुदेवसहोदराम्। सर्वे कामाः समृद्धास् ते सुभद्रे भद्रभाषिणि। वासुदेवप्रियं लब्ध्वा भर्तारं वीरम् अर्जुनम्। सर्वसीमन्तिनीनां त्वं श्रेष्ठा कृष्णसहोदरे। यस्मात् सर्वमनुष्याणां श्रेष्ठो भर्ता तवार्जुनः। उपपन्नस् त्वया वीरः सर्वलोकमहारथः। स्वस्ति याहि गृहं भद्रे सुहृद्भिः संगमो ऽस्तु ते। एवम् उक्ता प्रहृष्टाभिः सखीभिः परिनन्दिता। भद्रा भद्रजवोपेतान् पुनर् अश्वान् अचोदयत्। ततश् चामरहस्ता सा सखी कुब्जाङ्गनाभवत्। ततः कन्यापुरद्वारात् सघोषम् अभिनिःसृतम्। ददृशुस् तं रथश्रेष्ठं जना जीमूतनिःस्वनम्। सुभद्रासंगृहीतस्य रथस्य महतो रवम्। मेघस्वनम् इवाकाशे शुश्रुवुः पुरवासिनः। सुभद्रया च संपन्ने तिष्ठन् रथवरे ऽर्जुनः। प्रबभौ परयोपेतः कैलास इव गङ्गया। पार्थः सुभद्रासहितो विरराज महारथः। पार्थस्येव पिता शक्रो यथा शच्या समन्वितः। सुभद्रां प्रेक्ष्य धर्मेण ह्रियमाणां यशस्विनीम्। चक्रुः किलकिलाशब्दम् आसाद्य बहवो जनाः। दाशार्हाणां कुलस्य श्रीः सुभद्रा भद्रभाषिणी। अभिकामा सकामेन पार्थेन सह गच्छति। अथापरे हि संक्रुद्धा गृह्णीत घ्नत माचिरम्। इति संवार्यमाणानां स नादः सुमहान् अभूत्। स तेन जनघोषेण वीरो गज इवार्दितः। ववर्ष शरवर्षाणि न तु कं चन रोषयत्। मुमोच निशितान् बाणान् दीप्यमानान् स्वतेजसा। प्रासादवरसंघेषु हर्म्येषु भवनेषु च। प्रासादपङ्क्तिस्तम्भेषु वेदिकासु ध्वजेषु च। मुमोच निशितान् बाणान् न च कं चन रोषयत्। क्षोभयित्वा पुरश्रेष्ठं गरुत्मान् इव सागरम्। प्रेक्षन् रैवतकद्वारं निर्ययौ भरतर्षभः। शासनात् पुरुषेन्द्रस्य बलेन महता बली। गिरौ रैवतके नित्यं बभूव विपृथुश्रवाः। प्रवासे वासुदेवस्य तस्मिन् हलधरोपमः। संबभूव तदा गोप्ता पुरस्य पुरवर्धनः। प्राप्य पाण्डवनिर्याणं निर्ययौ विपृथुश्रवाः। निशम्य पुरनिर्घोषं स्वम् अनीकम् अचोदयत्। सो ऽभिपत्य तदाध्वानं ददर्श पुरुषर्षभम्। निःसृतं द्वारकाद्वाराद् अंशुमन्तम् इवाम्बुदात्। सविद्युतम् इवाम्भोदं प्रेक्ष्य बाणधनुर्धरम्। पार्थम् आसाद्य योधानां विस्मयः समपद्यत। उदीर्णरथनागाश्वम् अनीकम् अभिवीक्ष्य तत्। उवाच परमप्रीता सुभद्रा भद्रभाषिणी। संग्रहीतुम् अभिप्रायो दीर्घकालकृतो मम। युध्यमानस्य संग्रामे रथं तव नरर्षभ। ओजस्तेजोद्युतिबलैर् आचितस्य महात्मनः। पार्थस्य वै सारथित्वे भवेथा इत्य् अशिक्षयन्। एवम् उक्तः प्रियां प्रीतः प्रत्युवाच नरर्षभः। चोदयाश्वान् असंसक्तान् विशन्तु विपृथोर् बलम्। बहुभिर् युध्यमानस्य तावकानां जिघांसतः। पश्य बाहुबलं भद्रे शरान् विक्षिपतो मम। एवम् उक्ता ततो भद्रा पार्थेन भरतर्षभ। चुचोद चाश्वान् विस्रब्धा ततस् ते विविशुर् बलम्। तदाहतमहावाद्यं समुदग्रध्वजायुतम्। अनीकं विपृथोर् हृष्टं पार्थम् एवान्ववर्तत। रथैर् बहुविधैर् हृष्टाः सदश्वैश् च महाजवैः। किरन्तः शरवर्षाणि परिवव्रुर् धनंजयम्। तेषाम् अस्त्राणि संवार्य दिव्यैर् अस्त्रैर् महास्त्रवित्। आवृणोन् महद् आकाशं शरैः परपुरंजयः। तेषां बाणान् महाबाहुर् मकुटान्य् अङ्गदान्य् अपि। चिच्छेद निशितैर् बाणैः शरांश् चैव धनूंषि च। युगानीषा वरूथानि यन्त्राणि विविधानि च। अजिघांसन् परान् पार्थश् चिच्छेद निशितैः शरैः। निर्धनुष्कान् विकवचान् विरथांश् च महारथान्। कृत्वा पार्थः प्रियां प्रीतः प्रेक्ष्यताम् इत्य् अदर्शयत्। सा दृष्ट्वा महद् आश्चर्यं सुभद्रा पार्थम् अब्रवीत्। अवाप्तार्थास्मि भद्रं ते याहि पार्थ यथासुखम्। संसक्तं पाण्डुपुत्रेण समीक्ष्य विपृथुर् बलम्। त्वरमाणो ऽभिसंक्रम्य स्थीयताम् इत्य् अभाषत। तत् तु सेनापतेर् वाक्यं नात्यवर्तन्त यादवाः। सागरे मारुतोद्धूता वेलाम् इव महोर्मयः। ततो रथवरात् तूर्णम् अवरुह्य नरर्षभः। अभिगम्य नरव्याघ्रं प्रहृष्टः परिषस्वजे। सो ऽब्रवीत् पार्थम् आसाद्य दीर्घकालम् इदं तव। निवासम् अभिजानामि शङ्खचक्रगदाधरात्। न मे ऽस्त्य् अविदितं किं चिद् यद् यद् आचरितं त्वया। सुभद्रासंप्रयोगेन प्रीतस् तव जनार्दनः। प्राप्तस्य यतिलिङ्गेन द्वारकां तु धनंजय। विसृष्टा सर्ववृष्णीनाम् ऋषभेण च सोदरा। त्वम् इमां वीर दाशार्हां शचीम् इव शचीपतिः। भक्तां गुणवतीं भद्रां सदा सत्कर्तुम् अर्हसि। बन्धुर् भव सुभद्राया गतिश् च त्वं धनंजय। बन्धुमान् असि रामेण महेन्द्रावरजेन च। माम् एव हि सदाकार्षीन् मन्त्रिणं मधुसूदनः। अन्तरेण सुभद्रां च त्वां च तात धनंजय। इमं रथवरं दिव्यं सर्वशस्त्रसमन्वितम्। इदम् एवानुयात्रं च निर्दिश्य गदपूर्वजः। अन्तर्द्वीपं तदा वीर यातो वृष्णिसुखावहः। दीर्घकालावरुद्धं त्वां संप्राप्तं प्रियया सह। पश्यन्तु भ्रातरस् तत्र वज्रपाणिम् इवामराः। आगते तु दशार्हाणाम् ऋषभे शार्ङ्गधन्वनि। भद्राम् अनुगमिष्यन्ति रत्नानि च वसूनि च। अरिष्टं गच्छ पन्थानं सुखी भव धनंजय। नष्टशोकैर् विशोकस्य सुहृद्भिः संगमो ऽस्तु ते। ततो विपृथुम् आमन्त्र्य पार्थः प्रीतो ऽभिवाद्य च। कृष्णस्य मतम् आस्थाय कृष्णस्य रथम् आस्थितः। पूर्वम् एव तु पार्थाय कृष्णेन विनियोजितम्। सर्वरत्नसुसंपूर्णं सर्वभोगसमन्वितम्।
vaiśaṃpāyana uvāca. tataḥ saṃvādite tasminn anujñāto dhanaṃjayaḥ. gatāṃ raivatake kanyāṃ viditvā janamejaya. vaiśaṃpāyanaḥ. śrībhagavān. vaiśaṃpāyanaḥ. vāsudevaḥ. baladevaḥ. vaiśaṃpāyanaḥ. vaiśaṃpāyanaḥ. vaiśaṃpāyanaḥ. vaiśaṃpāyanaḥ. vaiśaṃpāyanaḥ. vaiśaṃpāyanaḥ. vaiśaṃpāyanaḥ. vaiśaṃpāyanaḥ. vaiśaṃpāyanaḥ. vaiśaṃpāyanaḥ. vaiśaṃpāyanaḥ. cintayānas tato bhadrām upaviṣṭaḥ śilātale. ramaṇīye vanoddeśe bahupādapasaṃvṛte. sālatālāśvakarṇaiś ca bakulair arjunais tathā. campakāśokapuṃnāgaiḥ ketakaiḥ pāṭalais tathā. karṇikārair aśokaiś ca aṅkolair atimuktakaiḥ. evamādibhir anyaiś ca saṃvṛte sa śilātale. punaḥ punaś cintayānaḥ subhadrāṃ bhadrabhāṣiṇīm. yadṛcchayā copapannān vṛṣṇivīrān dadarśa ha. baladevaṃ ca hārdikyaṃ sāmbaṃ sāraṇam eva ca. pradyumnaṃ ca gadaṃ caiva cārudeṣṇaṃ viḍūratham. bhānuṃ ca niśaṭhaṃ caiva pṛthuṃ vipṛthum eva ca. tathānyāṃś ca bahūn paśyan hṛdi śokam adhārayat. tatas te sahitāḥ sarve yatiṃ dṛṣṭvā samutsukāḥ. vṛṣṇayo vinayopetāḥ parivāryopatasthire. tato 'rjunaḥ prītamanāḥ svāgataṃ vyājahāra saḥ. āsyatām āsyatāṃ sarvai ramaṇīye śilātale. ity evam uktā yatinā prītās te yādavarṣabhāḥ. upopaviviśuḥ sarve susvāgatam iti bruvan. tatas teṣu niviṣṭeṣu vṛṣṇivīreṣu pāṇḍavaḥ. ākāraṃ gūhamānas tu kuśalapraśnam abravīt. sarvatra kuśalaṃ coktvā baladevo 'bravīd idam. prasādaṃ kuru me vipra kutas tvaṃ cāgato hy asi. tvayā dṛṣṭāni puṇyāni vadasva vadatāṃ vara. parvatāṃś caiva tīrthāni vanāny āyatanāni ca. tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata. āpagānāṃ vanānāṃ ca kathayām āsa yādave. tāḥ kathāḥ kathayann eva kathānte janamejaya. kathāṃ dharmasamāyuktāṃ vṛṣṇivīre nyavedayat. śrutvā dharmakathāṃ puṇyāṃ vṛṣṇivīro 'bhyapūjayat. tatas tu yādavāḥ sarve mantrayanti sma bhārata. ayaṃ deśātithiḥ śrīmān yatiliṅgadharo dvijaḥ. āvāsaṃ kam upāśritya vaseta nirupadravaḥ. ity evam abruvaṃs te vai rauhiṇeyaṃ tu yādavāḥ. dadṛśuḥ kṛṣṇam āyāntaṃ sarve yādavanandanam. ehi keśava tāteti rauhiṇeyo 'bravīd vacaḥ. yatiliṅgadharo vidvān deśātithir ayaṃ dvijaḥ. varṣarātranivāsārtham āgato naḥ puraṃ prati. sthāne yasmin nivasati tan me brūhi janārdana. tvayi sthite mahābhāga paravān asmi dharmataḥ. svayaṃ tu rucire sthāne vasatām iti māṃ vada. suprītas tena vākyena pariṣvajya janārdanam. baladevo 'bravīd vākyaṃ cintayitvā mahābalaḥ. ārāme tu vased dhīmāṃś caturo varṣamāsakān. kanyāpure subhadrāyā bhuktvā bhojanam iṣṭataḥ. latāgṛheṣu vasatām iti me dhīyate matiḥ. labdhānujñās tvayā tatra manyante sarvayādavāḥ. balavān darśanīyaś ca vāgvic chrīmān bahuśrutaḥ. kanyāpurasamīpe tu na yuktam iti me matiḥ. guruḥ śāstā ca netā ca śāstrajño dharmavittamaḥ. tvayoktaṃ na virudhye 'haṃ kariṣyāmi vacas tava. śubhāśubhasya vijñāne nānyo 'sti bhuvi kaś cana. ayaṃ deśātithiḥ śrīmān sarvadharmaviśāradaḥ. dhṛtimān vinayopetaḥ satyavāg vijitendriyaḥ. yatiliṅgadharo hy eṣa ko vijānāti mānasam. tvam imaṃ puṇḍarīkākṣa nītvā kanyāpuraṃ śubham. nivedaya subhadrāyai madvākyaparicoditaḥ. bhakṣyair bhojyaiś ca pānaiś ca anyair iṣṭaiś ca pūjaya. sa tatheti pratijñāya sahito yatinā hariḥ. kṛtvā tu saṃvidaṃ tena prahṛṣṭaḥ keśavo 'bhavat. parvate tau vihṛtyaiva yatheṣṭaṃ kṛṣṇapāṇḍavau. tāṃ purīṃ praviveśātha gṛhya haste ca pāṇḍavam. praviśya ca gṛhaṃ ramyaṃ sarvabhogasamanvitam. pārtham āvedayām āsa rukmiṇīsatyabhāmayoḥ. hṛṣīkeśavacaḥ śrutvā te ubhe ūcatur bhṛśam. manoratho mahān eṣa hṛdi naḥ parivartate. kadā drakṣyāma bībhatsuṃ pāṇḍavaṃ gṛham āgatam. iti cintayamānānāṃ pārtho duḥkham apānudat. prāptam ajñātapūjābhir uttamābhir apūjayat. sa taṃ priyātithiśreṣṭhaṃ samīkṣya yatim āgatam. sodaryāṃ bhaginīṃ kṛṣṇaḥ subhadrām idam abravīt. ayaṃ deśātithir bhadre saṃyato vratavān ṛṣiḥ. prāpnotu satataṃ pūjāṃ tava kanyāpure vasan. āryeṇa ca parijñātaḥ pūjanīyo yatiḥ sadā. tasmād bharasva vārṣṇeyi bhakṣyair bhojyair yatiṃ sadā. eṣa yad yad ṛṣir brūyāt kāryam eva na saṃśayaḥ. sakhībhiḥ sahitā bhadre bhavāsya vaśavartinī. purāpi yatayo bhadre ye bhaikṣārtham anuvratāḥ. te babhūvur daśārhāṇāṃ kanyāpuranivāsinaḥ. tebhyo bhojyāni bhakṣyāṇi yathākālam atandritāḥ. kanyāpuragatāḥ kanyāḥ prayacchanti yaśasvini. sā tathety abravīt kṛṣṇaṃ kariṣyāmi yathāttha mām. toṣayiṣyāmi vṛttena karmaṇā ca dvijarṣabham. evam etena rūpeṇa kaṃ cit kālaṃ dhanaṃjayaḥ. uvāsa bhakṣyair bhojyaiś ca bhadrayā paramārcitaḥ. tasya sarvaguṇopetāṃ vāsudevasahodarām. paśyataḥ satataṃ bhadrāṃ prādur āsīn manobhavaḥ. gūhayann iva cākāram ālokya varavarṇinīm. dīrgham uṣṇaṃ niśaśvāsa pārthaḥ kāmavaśaṃ gataḥ. na kṛṣṇāṃ rūpato mene vāsudevasahodarām. prāptāṃ hṛdīndrasenāṃ vā sākṣād vā varuṇātmajām. atītasamaye kāle sodaryāṇāṃ dhanaṃjayaḥ. na sasmāra subhadrāyāḥ kāmāṅkuśanivāritaḥ. krīḍāratiparāṃ bhadrāṃ sakhījanaśatair vṛtām. prīyate smārjunaḥ paśyan svāhām iva hutāśanaḥ. pāṇḍavasya subhadrāyāḥ sakāśe tu yaśasvinaḥ. samutpattiḥ prabhāvaś ca gadena kathitaḥ purā. śrutvā cāśaninirghoṣaṃ keśavenāpi dhīmatā. upamām arjunaṃ kṛtvā vistaraḥ kathitaḥ purā. kruddhamattapralāpaś ca vṛṣṇīnām arjunaṃ prati. pauruṣāṇy upamāṃ kṛtvā prāvardhanta dhanuṣmatām. anyonyakalahe cāpi vivāde cāpi vṛṣṇayaḥ. arjuno 'pi na me tulyaḥ kutas tvam iti te 'bruvan. jātāṃś ca putrān gṛhṇanta āśiṣo vṛṣṇayo 'bruvan. arjunasya samo vīrye bhava tāta dhanurdharaḥ. tasmāt subhadrā cakame pauruṣād bharatarṣabham. satyasaṃdhasya rūpeṇa cāturyeṇa ca mohitā. cāraṇātithisaṃghānāṃ gadasya ca niśamya sā. adṛṣṭe kṛtabhāvābhūt subhadrā bharatarṣabhe. kīrtayan dadṛśe yo yaḥ kathaṃ cit kurujāṅgalam. taṃ tam eva sadā bhadrā bībhatsuṃ smābhipṛcchati. abhīkṣṇaśaḥ paripraśnād abhīkṣṇaśravaṇāt tathā. pratyakṣa iva bhadrāyāḥ pāṇḍavaḥ samapadyata. bhujau bhujagasaṃkāśau jyāghātena kiṇīkṛtau. pārtho 'yam iti paśyantyā niḥsaṃśayam ajāyata. yathārūpaṃ hi śuśrāva subhadrā bharatarṣabham. tathārūpam avekṣyainaṃ parāṃ prītim avāpa sā. sā kadā cid upāsīnaṃ papraccha kurunandanam. kathaṃ deśāḥ kathaṃ śailā nānājanapadāḥ katham. sarāṃsi saritaś caiva vanāni ca kathaṃ yate. diśaḥ kāś ca kathaṃ prāptāś caratā bhavatā sadā. sa tathoktas tadā bhadrāṃ bahunarmānṛtaṃ bruvan. uvāca paramaprītas tasyā bahu tathā kathāḥ. niśamya vividhaṃ tasya loke caritam ātmanaḥ. kathāparigato bhāvaḥ kanyāyāḥ samapadyata. parvasaṃdhau ca kasmiṃś cit subhadrā bharatarṣabham. rahasy ekāntam āsādya hṛṣyamāṇābhyabhāṣata. yatinā caratā lokān khāṇḍavaprasthavāsinī. kaccid bhagavatā dṛṣṭā pṛthāsmākaṃ pitṛṣvasā. bhrātṛbhiḥ prayataiḥ sarvaiḥ kaccid āryo yudhiṣṭhiraḥ. kaccid dharmaparo bhīmo dharmarājasya dhīmataḥ. nivṛttasamayaḥ kaccid aparādhād dhanaṃjayaḥ. niyame kāmabhogānāṃ vartamānaḥ priyetare. kva nu pārthaś caraty adya bahvīr durvasatīr vasan. sukhocito hy aduḥkhārho dīrghabāhur ariṃdamaḥ. kaccic chruto vā dṛṣṭo vā pārtho bhagavatārjunaḥ. niśamya vacanaṃ tasyās tām uvāca hasann iva. ārye pṛthā ca kuśalā saputrā ca sahasnuṣā. prīyate paśyatī putrān kurukṣetraṃ ca paśyatī. anujñātas tu mātrā ca sodaryais tu dhanaṃjayaḥ. dvārakām āvasaty eko yatiliṅgena pāṇḍavaḥ. paśyantī satataṃ kasmān nābhijānāsi mādhavi. niśamya vacanaṃ tasya vāsudevasahodarā. niḥśvāsabahulā tasthau kṣitiṃ vilikhatī tadā. tataḥ paramasaṃhṛṣṭaḥ sarvaśastrabhṛtāṃ varaḥ. arjuno 'ham iti prītas tām uvāca dhanaṃjayaḥ. yathā tava gato bhāvaḥ śravaṇān mayi bhāmini. tvadgataḥ satataṃ bhāvas tathā śataguṇo mama. praśaste 'hani dharmeṇa bhadre svayam ahaṃ vṛtaḥ. satyavān iva sāvitryā bhaviṣyāmi patis tava. evam uktvā tataḥ pārthaḥ praviveśa latāgṛham. tataḥ subhadrā lalitā lajjābhāvasamanvitā. mumoha śayane divye śayānā natathocitā. kanyāpure ca saṃvṛttaṃ jñātvā divyena cakṣuṣā. śaśāsa rukmiṇīṃ kṛṣṇo bhojanādikam arjune. tadā prabhṛti tāṃ bhadrāṃ cintayan vai dhanaṃjayaḥ. āste sma sa tadārāme kāryeṇaiva sahābhibhūḥ. subhadrāpi na ca svasthā pārthaṃ prati babhūva sā. kṛśā vivarṇavadanā cintāśokaparāyaṇā. niḥśvāsaparamā bhadrā mānasena manasvinī. na śayyāsanabhogeṣu ratiṃ vindati kena cit. na naktaṃ na divā śete babhūvonmattadarśanā. evaṃ śokaparāṃ bhadrāṃ devakī vākyam abravīt. mā śokaṃ kuru vārṣṇeyi dhṛtim ālamba śobhane. nivedayiṣye tvāṃ rāme kṛṣṇe caiva nararṣabhe. paścāj jānāmi te vārtāṃ mā śokaṃ kuru mādhavi. evam uktvā ca sā mātā bhadrāyāḥ priyakāminī. nivedayām āsa tadā bhadrām ānakadundubheḥ. rahasy ekāsanā tatra bhadrāsvastheti cābravīt. ārāme tu yatiḥ śrīmān arjunaḥ so 'tha naḥ śrutaḥ. akrūrāya ca kṛṣṇāya āhukāya ca sātyake. nivedyatāṃ mahāprājña śrotavyaṃ yadi bāndhavaiḥ. vasudevas tu tac chrutvā akrūrāhukayos tadā. nivedayitvā kṛṣṇāya mantrayām āsa naikadhā. idaṃ kāryam idaṃ kṛtyam idam evaṃ viniścitam. akrūraś cograsenaś ca satyakaś ca gadena ca. pṛthuśravāś ca kṛṣṇaś ca sahitāḥ śininā saha. rukmiṇī satyabhāmā ca devakī rohiṇī tathā. vāsudevena sahitāḥ purohitamate sthitāḥ. vivāhaṃ mantrayām āsur dvādaśe 'hani bhārata. ajñātaṃ rauhiṇeyasya uddhavasya ca bhārata. vivāhaṃ tu subhadrāyāḥ kartukāmo gadāgrajaḥ. mahādevasya pūjārthaṃ mahotsavam iti bruvan. catustriṃśad ahorātraṃ subhadrārtipraśāntaye. nagare ghoṣayām āsa hitārthaṃ savyasācinaḥ. itaś caturthe tv ahani antardvīpaṃ tu gamyatām. sadāraiḥ sānuyātraiś ca saputraiś ca sabāndhavaiḥ. gantavyaṃ sarvavarṇaiś ca gantavyaṃ sarvayādavaiḥ. evam uktās tu te sarve tathā cakruś ca sarvaśaḥ. tataḥ sarvadaśārhāṇām antardvīpe tu bhārata. catustriṃśad ahorātraṃ babhūva paramotsavaḥ. kṛṣṇarāmāhukākrūrapradyumnaśinisatyakāḥ. samudraṃ prayayur hṛṣṭāḥ kukurāndhakavṛṣṇayaḥ. yuktayantrapatākābhir vṛṣṇayo brāhmaṇaiḥ saha. samudraṃ prayayur naubhiḥ sarve puranivāsinaḥ. tatas tvaritam āgamya dāśārhagaṇapūjitam. subhadrā puṇḍarīkākṣam abravīd yatiśāsanāt. kṛtyavān dvādaśāhāni sthātā sa bhagavān iha. tiṣṭhatas tasya kaḥ kuryād upasthānavidhiṃ prati. tām uvāca hṛṣīkeśaḥ kas tvad anyo viśeṣataḥ. tam ṛṣiṃ pratyupasthātum ito nārhati mānavaḥ. tvam evāsmanmatenāsya maharṣer vaśavartinī. kuru sarvāṇi kāryāṇi kīrtiṃ dharmam avekṣya ca. tasya cātithimukhyasya sarveṣāṃ ca tapasvinām. saṃvidhānaparā bhadre bhava tvaṃ vaśavartinī. evam ādiśya bhadrāṃ ca rakṣāṃ ca madhusūdanaḥ. yayau śaṅkhapraṇādena bherīṇāṃ ca mahāsvanaiḥ. tatas tad dvīpam āsādya dānadharmaparāyaṇāḥ. ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ. saptayojanavistāra āyato daśayojanam. babhūva sa mahādvīpaḥ saparvatamahāvanaḥ. setupuṣkariṇījālair ākrīḍaḥ sarvasātvatām. vāpīpalvalasaṃghaiś ca kānanaiś ca manoramaiḥ. vāsudevasamair dvīpaḥ sa sarvaiḥ kukurāndhakaiḥ. babhūva paramopetas triviṣṭapa ivāmaraiḥ. catustriṃśad ahorātraṃ dānadharmaparāyaṇāḥ. ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ. vicitramālyābharaṇāś citrarūpānulepanāḥ. vihārābhimukhāḥ sarve yādavāḥ pānasaṃyutāḥ. sunṛttagītavāditrai ramamāṇās tato 'bhavan. tatra yāte daśārhāṇām ṛṣabhe śārṅgadhanvani. subhadrodvāhanaṃ pārthaḥ prāptakālam amanyata. vṛṣṇyandhakapurāt tasmād apayānaṃ ca pāṇḍavaḥ. viniścitya tataḥ pārthaḥ subhadrām idam abravīt. śṛṇu bhadre yathāśāstraṃ yathārtham ṛṣibhiḥ kṛtam. kanyāyās tu pitā bhrātā mātā mātula eva ca. pitṛbhrātā guruś cāpi dāne tu prabhutāṃ gataḥ. mahotsavaṃ paśupater draṣṭukāmaḥ pitāhukaḥ. antardvīpaṃ gato bhadre putraiḥ pautraiḥ sabāndhavaiḥ. mama caiva viśālākṣi videśasthās tu bāndhavāḥ. tasmāt subhadre gāndharvo vivāhaḥ pañcamo bhavet. samāgame tu kanyāyāḥ kriyāḥ proktāś caturvidhāḥ. teṣāṃ pravṛttiṃ sādhūnāṃ śṛṇu mādhavi tad yathā. varam āhūya vidhinā pitṛdattā yathārthine. sā patnī tu budhair uktā sā tu vaśyā pativratā. bhṛtyānāṃ bharaṇārthāya ātmanaḥ poṣaṇāya ca. dāre sthite gṛhītā sā bhāryā ceti budhair matā. dharmato varayitvā tu ānīya svaṃ niveśanam. nyāyena dattā tāruṇye dārāḥ pitṛkṛtā bhavet. janayed yā tu bhartāraṃ jāyā ity eva nāmataḥ. dārāḥ patnī ca bhāryā ca jāyā ceti caturvidhāḥ. catasra evāgnisākṣyāḥ kriyāyuktās tu dharmataḥ. gāndharveṇa vivāhena rāgāt putrārthakāraṇāt. ātmanānugṛhītā yā sā tu vaśyā prajāvatī. gāndharvas tu kriyāhīno rāgād eva pravartate. sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ. mayoktam akriyaṃ cāpi kartavyaṃ mādhavi tvayā. ayanaṃ caiva māsaś ca ṛkṣaṃ pakṣas tathā tithiḥ. karaṇaṃ ca muhūrtaṃ ca lagnasaṃpad yathādya vai. vivāhasya viśālākṣi praśastaṃ cottarāyaṇam. vaiśākhaś caiva māsānāṃ pakṣāṇāṃ śubhra eva ca. nakṣatrāṇāṃ tathā hastas tṛtīyā ca tithiṣv api. lagno hi makaraḥ śreṣṭhaḥ karaṇānāṃ bavas tathā. maitro muhūrto vaivāhya āvayoḥ śubhakarmaṇi. sarvasaṃpad iyaṃ bhadre adya rātrau bhaviṣyati. bhagavān astam abhyeti tapanas tapatāṃ varaḥ. nārāyaṇo hi sarvajño nānubudhyeta viśvakṛt. dharmasaṃkaṭam āpanne kiṃ nu kṛtvā śubhaṃ bhavet. manobhavena kāmena mohitaṃ mā pralāpinam. prativākyaṃ tu me dehi kiṃ na vakṣyasi mādhavi. arjunasya vacaḥ śrutvā cintayantī janārdanam. novāca kiṃ cid vacanaṃ bāṣpadūṣitalocanā. rāgonmādapralāpī syād arjuno jayatāṃ varaḥ. cintayām āsa pitaraṃ praviśya ca latāgṛham. cintayānaṃ tu kaunteyaṃ jñātvā śacyā śacīpatiḥ. sahito nāradādyais tu munisiddhāpsarogaṇaiḥ. arundhatyā vasiṣṭhena ājagāma kuśasthalīm. cintitaṃ ca subhadrāyāś cintayitvā janārdanaḥ. nidrayāpahṛtajñānaṃ rauhiṇeyaṃ vinā tadā. sahākrūreṇa śininā satyakena gadena ca. vasudevena devakyā āhukena ca dhīmatā. ājagāma purīṃ rātrau dvārakāṃ svajanair vṛtaḥ. pūjayitvā tu deveśaṃ nāradādyair maharṣibhiḥ. kuśalapraśnam uktvā tu devendreṇābhiyācitaḥ. vaivāhikakriyāṃ kṛṣṇas tathety evam uvāca ha. āhuko vasudevaś ca sahākrūraḥ sasātyakiḥ. abhipraṇamya śirasā pākaśāsanam abruvan. devadeva namas te 'stu lokanātha jagatpate. vayaṃ dhanyāḥ sma lokeṣu bāndhavaiḥ sahitā vibho. kṛtaprasādās tu vayaṃ tava vākyena viśvajit. evam uktvā prasādyainaṃ pūjayitvā prayatnataḥ. mahendraśāsanāt sarve sahitāś ca maharṣibhiḥ. vivāhaṃ kārayām āsuḥ śakraputrasya śāstrataḥ. arundhatī śacī devī rukmiṇī devakī tathā. divyastrībhiś ca sahitāḥ kriyāṃ bhadrāṃ prayojayan. maharṣiḥ kāśyapo hotā sadasyā nāradādayaḥ. puṇyāśiṣaḥ prayoktāraḥ sarve hy āsaṃs tadārjune. abhiṣekaṃ tataḥ kṛtvā mahendraḥ pākaśāsanim. lokapālais tu sahitaḥ sarvair devair abhiṣṭutaḥ. kirīṭāṅgadahārādyair hastābharaṇakuṇḍalaiḥ. bhūṣayitvā tu taṃ pārthaṃ dvitīyam iva vāsavam. putraṃ pariṣvajya tadā prītim āpa puraṃdaraḥ. śacī devī tathā bhadrām arundhatyādibhis tadā. kārayām āsa vaivāhyaṃ maṅgalyaṃ yādavastriyaḥ. sahāpsarobhir muditā bhūṣaṇaiś cābhyapūjayan. paulomīm iva manyante subhadrāṃ devayoṣitaḥ. tato vivāho vavṛdhe kṛtaḥ sarvaguṇānvitaḥ. tasyāḥ pāṇiṃ gṛhītvā tu mantrahomapuraskṛtam. yathā tasyaiva hi pitā śacyā iva śatakratuḥ. sā jiṣṇum adhikaṃ bheje subhadrā cārudarśanā. pārthasya sadṛśī bhadrā rūpeṇa vayasā tathā. subhadrāyāś ca pārtho 'pi sadṛśo rūpalakṣaṇaiḥ. ity ūcuś ca tadā devāḥ prītāḥ sendrapurogamāḥ. evaṃ niveśya devās tu gandharvaiḥ sāpsarogaṇaiḥ. āmantrya yādavān sarve viprajagmur yathāgatam. yādavāḥ pārtham āmantrya antardvīpaṃ gatās tadā. vāsudevas tadā pārtham uvāca yadunandanaḥ. dvāviṃśad divasān pārtha ihoṣya bharatarṣabha. māmakaṃ ratham āruhya sainyasugrīvayojitam. subhadrayā sukhaṃ pārtha khāṇḍavaprastham āviśa. yādavaiḥ sahitaḥ paścād āgamiṣyāmi bhārata. yativeṣeṇa nirato vasa tvaṃ rukmiṇīgṛhe. evam uktvā pracakrāma antardvīpaṃ janārdanaḥ. kṛtodvāhas tadā pārthaḥ kṛtakāryo 'bhavat tadā. tasyāṃ copagato bhāvaḥ pārthasya sahasāgataḥ. sa tayā yuyuje vīro bhadrayā bharatarṣabhaḥ. abhiniṣpannayā rāmaḥ sītayeva samanvitaḥ. sa hi jiṣṇur vijajñe tāṃ hrīṃ śriyaṃ saṃnatikriyām. dvādaśānāṃ varastrīṇāṃ rūpeṇāsadṛśīṃ satīm. sa prakṛtyā śriyā dīptaḥ saṃdidīpe tayādhikam. udyatsahasradīptāṃśuḥ śaradīva divākaraḥ. sā tu taṃ manujavyāghram anuraktā manasvinī. kanyāpuragatā bhūtvā tatparā samapadyata. vṛṣṇyandhakapurāt tatra apayānaṃ dhanaṃjayaḥ. viniścitya tayā pārthaḥ subhadrām idam abravīt. dvijānāṃ gaṇamukhyānāṃ yathārhaṃ pratipādaya. bhakṣyair bhojyaiś ca kāmaiś ca prayaccha pratiyāsyatām. ātmanaś ca samuddiśya mahāvratasamāpanam. gaccha bhadre svayaṃ tūrṇaṃ mahārājaniveśanam. tejobalajavopetai ratnair hayavarottamaiḥ. sainyasugrīvasaṃyuktaṃ rathaṃ tūrṇam ihānaya. krīḍārtham iti bhāṣitvā sakhībhiḥ subhage saha. kṣipram ādāya paryehi rathaṃ sarvāyudhāni ca. anukarṣān patākāś ca tūṇīrāṃś ca dhanūṃṣi ca. sarvān rathavare kuryāḥ sotsedhāś ca mahāgadāḥ. arjunenaivam uktā tu subhadrā bhadrabhāṣiṇī. jagāma nṛpater veśma sakhībhis tvaritā saha. krīḍārtham iva tatrasthān rakṣiṇo vākyam abravīt. rathenānena yāsyāmi mahāvratasamāpanam. sainyasugrīvayuktena sāyudhena ca śārṅgiṇaḥ. subhadrayaivam ukte tu janāḥ prāñjalayo 'bruvan. rathenānena bhadre tvaṃ yatheṣṭaṃ kriyatām iti. yojayitvā rathavaraṃ kalyāṇair abhibhāṣya tām. yathoktaṃ sarvam āropya sakhībhiḥ saha bhāminī. kṣipram ādāya kalyāṇī subhadrārjunam abravīt. ratho 'yaṃ rathināṃ śreṣṭha ānītas tava śāsanāt. svasti yāhi yathākāmaṃ kurūn kauravanandana. nivedya taṃ rathaṃ bhartuḥ subhadrā bhadrasaṃmatā. brāhmaṇebhyo dadau hṛṣṭā tadā sā vividhaṃ vasu. snehavanti ca bhojyāni pradadāv īpsitāni ca. yathākāmaṃ yathāśraddhaṃ vastrāṇi vividhāni ca. tarpitā vividhair bhakṣyais tāny avāpya vasūni ca. brāhmaṇāḥ svagṛhaṃ jagmuḥ prayujya paramāśiṣaḥ. subhadrayā tu vijñaptaḥ pūrvam eva dhanaṃjayaḥ. raśmipragrahaṇe pārtha na me 'sti sadṛśo bhuvi. tasmāt sā pūrvam āruhya raśmīñ jagrāha mādhavī. sodarā vāsudevasya kṛtasvastyayanā hayān. varjayitvā tu tal liṅgaṃ samucchritamahādhanuḥ. āruroha rathaśreṣṭhaṃ śuklavāsā dhanaṃjayaḥ. mahendradattamukuṭaṃ tathā hy ābharaṇāni ca. alaṃkṛtya tu kaunteyaḥ prayātum upacakrame. tataḥ kanyāpure ghoṣas tumulaḥ samapadyata. dṛṣṭvā rathagataṃ pārthaṃ khaḍgapāṇiṃ dhanurdharam. abhīśuhastāṃ suśroṇīṃ arjunena rathe sthitām. ūcuḥ kanyāpure kanyā vāsudevasahodarām. sarve kāmāḥ samṛddhās te subhadre bhadrabhāṣiṇi. vāsudevapriyaṃ labdhvā bhartāraṃ vīram arjunam. sarvasīmantinīnāṃ tvaṃ śreṣṭhā kṛṣṇasahodare. yasmāt sarvamanuṣyāṇāṃ śreṣṭho bhartā tavārjunaḥ. upapannas tvayā vīraḥ sarvalokamahārathaḥ. svasti yāhi gṛhaṃ bhadre suhṛdbhiḥ saṃgamo 'stu te. evam uktā prahṛṣṭābhiḥ sakhībhiḥ parinanditā. bhadrā bhadrajavopetān punar aśvān acodayat. tataś cāmarahastā sā sakhī kubjāṅganābhavat. tataḥ kanyāpuradvārāt saghoṣam abhiniḥsṛtam. dadṛśus taṃ rathaśreṣṭhaṃ janā jīmūtaniḥsvanam. subhadrāsaṃgṛhītasya rathasya mahato ravam. meghasvanam ivākāśe śuśruvuḥ puravāsinaḥ. subhadrayā ca saṃpanne tiṣṭhan rathavare 'rjunaḥ. prababhau parayopetaḥ kailāsa iva gaṅgayā. pārthaḥ subhadrāsahito virarāja mahārathaḥ. pārthasyeva pitā śakro yathā śacyā samanvitaḥ. subhadrāṃ prekṣya dharmeṇa hriyamāṇāṃ yaśasvinīm. cakruḥ kilakilāśabdam āsādya bahavo janāḥ. dāśārhāṇāṃ kulasya śrīḥ subhadrā bhadrabhāṣiṇī. abhikāmā sakāmena pārthena saha gacchati. athāpare hi saṃkruddhā gṛhṇīta ghnata māciram. iti saṃvāryamāṇānāṃ sa nādaḥ sumahān abhūt. sa tena janaghoṣeṇa vīro gaja ivārditaḥ. vavarṣa śaravarṣāṇi na tu kaṃ cana roṣayat. mumoca niśitān bāṇān dīpyamānān svatejasā. prāsādavarasaṃgheṣu harmyeṣu bhavaneṣu ca. prāsādapaṅktistambheṣu vedikāsu dhvajeṣu ca. mumoca niśitān bāṇān na ca kaṃ cana roṣayat. kṣobhayitvā puraśreṣṭhaṃ garutmān iva sāgaram. prekṣan raivatakadvāraṃ niryayau bharatarṣabhaḥ. śāsanāt puruṣendrasya balena mahatā balī. girau raivatake nityaṃ babhūva vipṛthuśravāḥ. pravāse vāsudevasya tasmin haladharopamaḥ. saṃbabhūva tadā goptā purasya puravardhanaḥ. prāpya pāṇḍavaniryāṇaṃ niryayau vipṛthuśravāḥ. niśamya puranirghoṣaṃ svam anīkam acodayat. so 'bhipatya tadādhvānaṃ dadarśa puruṣarṣabham. niḥsṛtaṃ dvārakādvārād aṃśumantam ivāmbudāt. savidyutam ivāmbhodaṃ prekṣya bāṇadhanurdharam. pārtham āsādya yodhānāṃ vismayaḥ samapadyata. udīrṇarathanāgāśvam anīkam abhivīkṣya tat. uvāca paramaprītā subhadrā bhadrabhāṣiṇī. saṃgrahītum abhiprāyo dīrghakālakṛto mama. yudhyamānasya saṃgrāme rathaṃ tava nararṣabha. ojastejodyutibalair ācitasya mahātmanaḥ. pārthasya vai sārathitve bhavethā ity aśikṣayan. evam uktaḥ priyāṃ prītaḥ pratyuvāca nararṣabhaḥ. codayāśvān asaṃsaktān viśantu vipṛthor balam. bahubhir yudhyamānasya tāvakānāṃ jighāṃsataḥ. paśya bāhubalaṃ bhadre śarān vikṣipato mama. evam uktā tato bhadrā pārthena bharatarṣabha. cucoda cāśvān visrabdhā tatas te viviśur balam. tadāhatamahāvādyaṃ samudagradhvajāyutam. anīkaṃ vipṛthor hṛṣṭaṃ pārtham evānvavartata. rathair bahuvidhair hṛṣṭāḥ sadaśvaiś ca mahājavaiḥ. kirantaḥ śaravarṣāṇi parivavrur dhanaṃjayam. teṣām astrāṇi saṃvārya divyair astrair mahāstravit. āvṛṇon mahad ākāśaṃ śaraiḥ parapuraṃjayaḥ. teṣāṃ bāṇān mahābāhur makuṭāny aṅgadāny api. ciccheda niśitair bāṇaiḥ śarāṃś caiva dhanūṃṣi ca. yugānīṣā varūthāni yantrāṇi vividhāni ca. ajighāṃsan parān pārthaś ciccheda niśitaiḥ śaraiḥ. nirdhanuṣkān vikavacān virathāṃś ca mahārathān. kṛtvā pārthaḥ priyāṃ prītaḥ prekṣyatām ity adarśayat. sā dṛṣṭvā mahad āścaryaṃ subhadrā pārtham abravīt. avāptārthāsmi bhadraṃ te yāhi pārtha yathāsukham. saṃsaktaṃ pāṇḍuputreṇa samīkṣya vipṛthur balam. tvaramāṇo 'bhisaṃkramya sthīyatām ity abhāṣata. tat tu senāpater vākyaṃ nātyavartanta yādavāḥ. sāgare mārutoddhūtā velām iva mahormayaḥ. tato rathavarāt tūrṇam avaruhya nararṣabhaḥ. abhigamya naravyāghraṃ prahṛṣṭaḥ pariṣasvaje. so 'bravīt pārtham āsādya dīrghakālam idaṃ tava. nivāsam abhijānāmi śaṅkhacakragadādharāt. na me 'sty aviditaṃ kiṃ cid yad yad ācaritaṃ tvayā. subhadrāsaṃprayogena prītas tava janārdanaḥ. prāptasya yatiliṅgena dvārakāṃ tu dhanaṃjaya. visṛṣṭā sarvavṛṣṇīnām ṛṣabheṇa ca sodarā. tvam imāṃ vīra dāśārhāṃ śacīm iva śacīpatiḥ. bhaktāṃ guṇavatīṃ bhadrāṃ sadā satkartum arhasi. bandhur bhava subhadrāyā gatiś ca tvaṃ dhanaṃjaya. bandhumān asi rāmeṇa mahendrāvarajena ca. mām eva hi sadākārṣīn mantriṇaṃ madhusūdanaḥ. antareṇa subhadrāṃ ca tvāṃ ca tāta dhanaṃjaya. imaṃ rathavaraṃ divyaṃ sarvaśastrasamanvitam. idam evānuyātraṃ ca nirdiśya gadapūrvajaḥ. antardvīpaṃ tadā vīra yāto vṛṣṇisukhāvahaḥ. dīrghakālāvaruddhaṃ tvāṃ saṃprāptaṃ priyayā saha. paśyantu bhrātaras tatra vajrapāṇim ivāmarāḥ. āgate tu daśārhāṇām ṛṣabhe śārṅgadhanvani. bhadrām anugamiṣyanti ratnāni ca vasūni ca. ariṣṭaṃ gaccha panthānaṃ sukhī bhava dhanaṃjaya. naṣṭaśokair viśokasya suhṛdbhiḥ saṃgamo 'stu te. tato vipṛthum āmantrya pārthaḥ prīto 'bhivādya ca. kṛṣṇasya matam āsthāya kṛṣṇasya ratham āsthitaḥ. pūrvam eva tu pārthāya kṛṣṇena viniyojitam. sarvaratnasusaṃpūrṇaṃ sarvabhogasamanvitam.