गायन्त्यो वै हसन्त्यश् च लोभयन्त्यश् च तं द्विजम्। प्रेक्षणानि च कुर्वन्त्यो विवृतं कारयन्ति च। अनिच्छन्त्य इवाङ्गानि हासभावविलासितैः। बाहूरुमूलदन्तानां दर्शनं वै वराङ्गनाः। कुर्वन्त्यो लोभयन्त्यश् च तं द्विजं परितः स्थिताः। स च नास्मासु कृतवान् मनो वीर कथं चन। नाकम्पत महातेजाः स्थितस् तपसि निर्मले।
gāyantyo vai hasantyaś ca lobhayantyaś ca taṃ dvijam. prekṣaṇāni ca kurvantyo vivṛtaṃ kārayanti ca. anicchantya ivāṅgāni hāsabhāvavilāsitaiḥ. bāhūrumūladantānāṃ darśanaṃ vai varāṅganāḥ. kurvantyo lobhayantyaś ca taṃ dvijaṃ paritaḥ sthitāḥ. sa ca nāsmāsu kṛtavān mano vīra kathaṃ cana. nākampata mahātejāḥ sthitas tapasi nirmale.