भीमसेनस्य वा राजन्न् उपायकुशलैर् नरैः। मृत्युर् विधीयतां छन्नैः स हि तेषां बलाधिकः। तम् आश्रित्य हि कौन्तेयः पुरा चास्मान् न मन्यते। स हि तीक्ष्णश् च शूरश् च तेषां चैव परायणम्।
bhīmasenasya vā rājann upāyakuśalair naraiḥ. mṛtyur vidhīyatāṃ channaiḥ sa hi teṣāṃ balādhikaḥ. tam āśritya hi kaunteyaḥ purā cāsmān na manyate. sa hi tīkṣṇaś ca śūraś ca teṣāṃ caiva parāyaṇam.