तासाम् अन्यतमा गर्भं भयाद् दाधार तैजसम्। ऊरुणैकेन वामोरूर् भर्तुः कुलविवृद्धये। तद्गर्भम् उपलभ्याशु ब्राह्मणी या भयार्दिता। गत्वैका कथयाम् आस क्षत्रियाणाम् उपह्वरे। ततस् ते क्षत्रिया जग्मुस् तं गर्भं हन्तुम् उद्यताः। ददृशुर् ब्राह्मणीं तां ते दीप्यमानां स्वतेजसा।
tāsām anyatamā garbhaṃ bhayād dādhāra taijasam. ūruṇaikena vāmorūr bhartuḥ kulavivṛddhaye. tadgarbham upalabhyāśu brāhmaṇī yā bhayārditā. gatvaikā kathayām āsa kṣatriyāṇām upahvare. tatas te kṣatriyā jagmus taṃ garbhaṃ hantum udyatāḥ. dadṛśur brāhmaṇīṃ tāṃ te dīpyamānāṃ svatejasā.