नगरं चैव देशं च रक्षोबलसमन्वितः। तत्कृते परचक्राच् च भूतेभ्यश् च न नो भयम्। पुरुषादकेन रौद्रेण भक्ष्यमाणा दुरात्मना। अनाथा नगरी नाथं त्रातारं नाधिगच्छति। गुहायां वसतस् तत्र बाधते सततं जनम्। स्त्रियो बालांश् च वृद्धांश् च यूनश् चापि दुरात्मवान्। अत्र मन्त्रैश् च होमैश् च भोजनैश् च स राक्षसः। ईडितो द्विजमुख्यैश् च पूजितश् च दुरात्मवान्। यदा च सकलान् एवं प्रसूदयति राक्षसः। अथैनं ब्राह्मणाः सर्वे समये समयोजयन्। मास्मान् कामाद् वधी रक्षो दास्यामस् ते सदा वयम्। पर्यायेण यथाकामम् इह मांसोदनं प्रभो। अन्नं मांससमायुक्तं तिलचूर्णसमन्वितम्। सर्पिषा च समायुक्त व्यञ्जनैश् च विभूषितम्। स्रजश् चित्रास् तिलान् पिण्डांल् लाजापूपसुरासवान्। शृताशृतान् पानकुम्भान् स्थूलमांसं शृताशृतम्। सर्पिःकुम्भांश् च विविधान् अन्यांश् च विविधान् बहून्। अद्य सिद्धैः समायुक्तैस् तिलचूर्णैः समाकुलान्। कुलात् कुलाच् च पुरुषं बलीवर्दौ च कालकौ। प्राप्स्यसि त्वम् असंक्रुद्धो रक्षोभागं प्रकल्पितम्। तिष्ठेह समये ऽस्माकम् इत्य् अयाचन्त तं द्विजाः। बाढम् इत्य् एव तद् रक्षस् तद्वचः प्रत्यगृह्णत। परचक्रान् न बिभ्यंश् च रक्षणं स करोति च। तस्मिन् भागे विनिर्दिष्टे चास्थितः समयं बली।
nagaraṃ caiva deśaṃ ca rakṣobalasamanvitaḥ. tatkṛte paracakrāc ca bhūtebhyaś ca na no bhayam. puruṣādakena raudreṇa bhakṣyamāṇā durātmanā. anāthā nagarī nāthaṃ trātāraṃ nādhigacchati. guhāyāṃ vasatas tatra bādhate satataṃ janam. striyo bālāṃś ca vṛddhāṃś ca yūnaś cāpi durātmavān. atra mantraiś ca homaiś ca bhojanaiś ca sa rākṣasaḥ. īḍito dvijamukhyaiś ca pūjitaś ca durātmavān. yadā ca sakalān evaṃ prasūdayati rākṣasaḥ. athainaṃ brāhmaṇāḥ sarve samaye samayojayan. māsmān kāmād vadhī rakṣo dāsyāmas te sadā vayam. paryāyeṇa yathākāmam iha māṃsodanaṃ prabho. annaṃ māṃsasamāyuktaṃ tilacūrṇasamanvitam. sarpiṣā ca samāyukta vyañjanaiś ca vibhūṣitam. srajaś citrās tilān piṇḍāṃl lājāpūpasurāsavān. śṛtāśṛtān pānakumbhān sthūlamāṃsaṃ śṛtāśṛtam. sarpiḥkumbhāṃś ca vividhān anyāṃś ca vividhān bahūn. adya siddhaiḥ samāyuktais tilacūrṇaiḥ samākulān. kulāt kulāc ca puruṣaṃ balīvardau ca kālakau. prāpsyasi tvam asaṃkruddho rakṣobhāgaṃ prakalpitam. tiṣṭheha samaye 'smākam ity ayācanta taṃ dvijāḥ. bāḍham ity eva tad rakṣas tadvacaḥ pratyagṛhṇata. paracakrān na bibhyaṃś ca rakṣaṇaṃ sa karoti ca. tasmin bhāge vinirdiṣṭe cāsthitaḥ samayaṃ balī.