अन्योन्यं तौ समासाद्य विचकर्षतुर् ओजसा। राक्षसो भीमसेनश् च विक्रमं चक्रतुः परम्। भङ्क्त्वा वृक्षान् महाशाखांस् ताडयाम् आसतुः क्रुधा। सालतालतमालाम्रवटार्जुनविभीतकान्। न्यग्रोधप्लक्षखर्जूरपनसान् अश्मकण्टकान्। एतान् अन्यान् महावृक्षान् उत्खाय तरसाखिलान्। उत्क्षिप्यान्योन्यरोषेण ताडयाम् आसतू रणे। यदाभवद् वनं सर्वं निर्वृक्षं वृक्षसंकुलम्। तदा शिलाश् च कुञ्जांश् च वृक्षान् कण्टकिनस् तथा। ततस् तौ गिरिशृङ्गाणि पर्वतांश् चाभ्रलेलिहान्। शैलांश् च गण्डपाषाणान् उत्खायादाय वैरिणौ। चिक्षेपतुर् उपर्य् आजाव् अन्योन्यं विजयेषिणौ। तद् वनं परितः पञ्च योजनं निर्महीरुहम्। निर्लतागुल्मपाषाणं निर्मृगं चक्रतुर् भृशम्। तयोर् युद्धेन राजेन्द्र तद् वनं भीमरक्षसोः। मुहूर्तेनाभवत् कूर्मपृष्ठवच् छ्लक्ष्णम् अव्ययम्।
anyonyaṃ tau samāsādya vicakarṣatur ojasā. rākṣaso bhīmasenaś ca vikramaṃ cakratuḥ param. bhaṅktvā vṛkṣān mahāśākhāṃs tāḍayām āsatuḥ krudhā. sālatālatamālāmravaṭārjunavibhītakān. nyagrodhaplakṣakharjūrapanasān aśmakaṇṭakān. etān anyān mahāvṛkṣān utkhāya tarasākhilān. utkṣipyānyonyaroṣeṇa tāḍayām āsatū raṇe. yadābhavad vanaṃ sarvaṃ nirvṛkṣaṃ vṛkṣasaṃkulam. tadā śilāś ca kuñjāṃś ca vṛkṣān kaṇṭakinas tathā. tatas tau giriśṛṅgāṇi parvatāṃś cābhralelihān. śailāṃś ca gaṇḍapāṣāṇān utkhāyādāya vairiṇau. cikṣepatur upary ājāv anyonyaṃ vijayeṣiṇau. tad vanaṃ paritaḥ pañca yojanaṃ nirmahīruham. nirlatāgulmapāṣāṇaṃ nirmṛgaṃ cakratur bhṛśam. tayor yuddhena rājendra tad vanaṃ bhīmarakṣasoḥ. muhūrtenābhavat kūrmapṛṣṭhavac chlakṣṇam avyayam.