क्षत्रियाभ्यश् च ये जाता ब्राह्मणास् ते च विश्रुताः। विश्वामित्रप्रभृतयः प्राप्ता ब्रह्मत्वम् अव्ययम्। जातान् आहुः क्षत्रियासु ब्राह्मणैः क्षत्रसंक्षये। आचार्यः कलशाज् जातः शरस्तम्बाद् गुरुः कृपः। द्रोणः शस्त्रभृतां वरः। गौतमस्यान्ववाये च। भवतां च यथा जन्म तद् अप्य् आगमितं नृपैः।
kṣatriyābhyaś ca ye jātā brāhmaṇās te ca viśrutāḥ. viśvāmitraprabhṛtayaḥ prāptā brahmatvam avyayam. jātān āhuḥ kṣatriyāsu brāhmaṇaiḥ kṣatrasaṃkṣaye. ācāryaḥ kalaśāj jātaḥ śarastambād guruḥ kṛpaḥ. droṇaḥ śastrabhṛtāṃ varaḥ. gautamasyānvavāye ca. bhavatāṃ ca yathā janma tad apy āgamitaṃ nṛpaiḥ.