यद्य् अयं फल्गुनो युद्धे नाराज्ञा योद्धुम् इच्छति। तस्माद् एषो ऽङ्गविषये मया राज्ये ऽभिषिच्यते। ततो राजानम् आमन्त्र्य गाङ्गेयं च पितामहम्। अभिषेकस्य संभारान् समानीय द्विजातिभिः। गोसहस्रायुतं दत्त्वा युक्तानां पुण्यकर्मणाम्। अर्हो ऽयम् अङ्गराज्यस्य इति वाच्य द्विजातिभिः।
yady ayaṃ phalguno yuddhe nārājñā yoddhum icchati. tasmād eṣo 'ṅgaviṣaye mayā rājye 'bhiṣicyate. tato rājānam āmantrya gāṅgeyaṃ ca pitāmaham. abhiṣekasya saṃbhārān samānīya dvijātibhiḥ. gosahasrāyutaṃ dattvā yuktānāṃ puṇyakarmaṇām. arho 'yam aṅgarājyasya iti vācya dvijātibhiḥ.