पूर्वजं नकुलेत्य् एवं सहदेवेति चापरम्। माद्रीपुत्राव् अकथयंस् ते विप्राः प्रीतमानसाः। अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः। पाण्डुपुत्रा व्यराजन्त पञ्च संवत्सरा इव। अन्ववर्तन्त पार्थाश् च माद्रीपुत्रौ तथैव च। महासत्त्वा महावीर्या महाबलपराक्रमाः। पाण्डुर् दृष्ट्वा सुतांस् तांस् तु देवरूपान् महौजसः। मुदं परमिकां लेभे ननन्द च नराधिपः। ऋषीणाम् अपि सर्वेषां शतशृङ्गनिवासिनाम्। प्रिया बभूवुस् तासां च तथैव मुनियोषिताम्।
pūrvajaṃ nakulety evaṃ sahadeveti cāparam. mādrīputrāv akathayaṃs te viprāḥ prītamānasāḥ. anusaṃvatsaraṃ jātā api te kurusattamāḥ. pāṇḍuputrā vyarājanta pañca saṃvatsarā iva. anvavartanta pārthāś ca mādrīputrau tathaiva ca. mahāsattvā mahāvīryā mahābalaparākramāḥ. pāṇḍur dṛṣṭvā sutāṃs tāṃs tu devarūpān mahaujasaḥ. mudaṃ paramikāṃ lebhe nananda ca narādhipaḥ. ṛṣīṇām api sarveṣāṃ śataśṛṅganivāsinām. priyā babhūvus tāsāṃ ca tathaiva muniyoṣitām.