रुदन्तम् अन्यः प्ररुदन्न् उपैति नुदन्तम् अन्यः प्रणुदन्न् उपैति। समाकुलं तत् कपिसैन्यम् आसीन् मधुप्रपानोत्कट सत्त्वचेष्टम्। न चात्र कश् चिन् न बभूव मत्तो न चात्र कश् चिन् न बभूव तृप्तो।
rudantam anyaḥ prarudann upaiti nudantam anyaḥ praṇudann upaiti. samākulaṃ tat kapisainyam āsīn madhuprapānotkaṭa sattvaceṣṭam. na cātra kaś cin na babhūva matto na cātra kaś cin na babhūva tṛpto.