द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे। कर्णं च त्वां च द्रौणिं च कृपं च सुमहारथम्। वासांसि स समादत्त पर्याप्तं तन् निदर्शनम्। तथा द्रौणिं महेष्वासं शारद्वतम् अथापि च। गोग्रहे जितवान् पूर्वं पर्याप्तं तन् निदर्शनम्। विजित्य च यदा कर्णं सदा पुरुषमानिनम्। उत्तरायै ददौ वस्त्रं पर्याप्तं तन् निदर्शनम्।
droṇaṃ ca yudhi saṃrabdhaṃ māṃ ca nirjitya saṃyuge. karṇaṃ ca tvāṃ ca drauṇiṃ ca kṛpaṃ ca sumahāratham. vāsāṃsi sa samādatta paryāptaṃ tan nidarśanam. tathā drauṇiṃ maheṣvāsaṃ śāradvatam athāpi ca. gograhe jitavān pūrvaṃ paryāptaṃ tan nidarśanam. vijitya ca yadā karṇaṃ sadā puruṣamāninam. uttarāyai dadau vastraṃ paryāptaṃ tan nidarśanam.