स पाण्डवानां प्रवरान् पञ्च राजन् महारथान्। आत्तशस्त्रान् रणे यत्तान् वारयाम् आस सायकैः। भीष्मः परमसंक्रुद्धः शरैः संनतपर्वभिः। नाराचैर् वत्सदन्तैश् च शितैर् अञ्जलिकैस् तथा। नानाशस्त्रास्त्रवर्षैस् तान् वीर्यामर्षप्रवेरितैः।
sa pāṇḍavānāṃ pravarān pañca rājan mahārathān. āttaśastrān raṇe yattān vārayām āsa sāyakaiḥ. bhīṣmaḥ paramasaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ. nārācair vatsadantaiś ca śitair añjalikais tathā. nānāśastrāstravarṣais tān vīryāmarṣapraveritaiḥ.