एवम् एतत् तदा वृत्तं तस्य यज्ञे महात्मनः। पश्यतां चापि नस् तत्र नकुलो ऽन्तर्हितस् तदा। स चापि भगवान् कृष्णः शङ्खचक्रगदाधरः। यज्ञियो यज्ञनाथश् च पुण्डरीको जनार्दनः। वासुदेवो हरिर् विष्णुर् अनन्तो भक्तवत्सलः। आ समाप्तेर् जगन्नाथो यज्ञं रक्षितवान् हरिः। रक्षित्वा स महाबाहुर् जगाम द्वारकां पुरीम्। एतत् पुण्यं महाराज शृण्वतां भुक्तिमुक्तिदम्। श्रोता च श्रावको यश् च स याति परमां गतिम्। जनमेजयः। अश्वमेधे पुरा वृत्ते केशवं केशिसूदनम्। वैशंपायनः। धर्मसंशयम् उद्दिश्य किम् अपृच्छत् पितामहः। पश्चिमेनाश्वमेधेन यदा स्नातो युधिष्ठिरः। तदा राजन् नमस्कृत्य केशवं पुनर् अब्रवीत्। भगवन् वैष्णवा धर्माः किंफलाः किंपरायणाः। किं धर्मम् अधिकृत्याथ भवतोत्पादिताः पुरा। यदि ते ऽहम् अनुग्राह्यः प्रियो ऽस्मि मधुसूदन। श्रोतव्या यदि मे कृष्ण तन् मे कथय सुव्रत। पवित्राः किल ते धर्माः सर्वपापप्रणाशनाः। सर्वधर्मोत्तमाः पुण्या भगवंस् त्वन्मुखोद्गताः। याञ् श्रुत्वा ब्रह्महा गोघ्नो मातृहा गुरुतल्पगः। पाकभेदी कृतघ्नश् च सुरापो ब्रह्मविक्रयी। मित्रविश्वासघाती च वीरहा भ्रूणहा तथा। तपोविक्रयिणश् चैव दानविक्रयिणस् तथा। आत्मविक्रयिणो मूढा जीवेद् यश् च विकर्मभिः। पापाः शठा नैकृतिका डाम्भिका दूषकास् तथा। रसभेदकरा ये च ये च स्युर् ब्रह्मघातकाः। शूद्रप्रेष्यकराश् चोरा विप्रा ये च पुरोहिताः। निक्षेपहारिणः स्त्रीघ्नास् तथा ये पारदारिकाः। एते चान्ये च पापास् ते मुच्यन्ते ते ऽपि किल्बिषात्। तान् आचक्ष्व सुरश्रेष्ठ त्वद्भक्तस्य ममाच्युत। इत्य् एवं कथिते देवे धर्मपुत्रेण संसदि। वसिष्ठाद्यास् तपोयुक्ता मुनयस् तत्त्वदर्शिनः। श्रोतुकामाः परं गुह्यं वैष्णवं धर्मम् उत्तमम्। युधिष्ठिरः। तथा भागवताश् चैव ततस् तं पर्यवारयन्। तत्त्वतस् तु भवान् एव पादमूलम् उपागतम्। यदि जानासि मां भक्तं स्निग्धं वा भक्तवत्सल। धर्मगुह्यानि सर्वाणि वेत्तुम् इच्छामि तत्त्वतः। धर्मान् कथय देवेश यद्य् अनुग्रहभाग् अहम्। श्रुता मे मानवा धर्मा वासिष्ठाः काश्यपास् तथा। गार्गीया गौतमीयाश् च तथा गोपालकस्य च। पराशरकृताः पूर्वं मैत्रेयस्य च धीमतः। औमा माहेश्वराश् चैव नन्दिधर्माश् च पावनाः। ब्रह्मणा कथिता ये च कौमाराश् च श्रुता मया। धूम्रायणकृता धर्माः काण्डवैश्वानरा अपि। भार्गव्या याज्ञवल्क्याश् च मार्कण्डेयकृतास् तथा। भारद्वाजकृता ये च बृहस्पतिकृताश् च ये। कुणेश् च कुणिबाहोश् च विश्वामित्रकृताश् च ये। सुमन्तुजैमिनिकृताः शाकुनेयास् तथैव च। पुलस्त्यपुलहोद्गीताः पावकीयास् तथैव च। अगस्त्यगीता मौद्गल्याः शाण्डिल्याश् चैव पावनाः। वालखिल्यकृता ये च ये च सप्तर्षिभिः कृताः। आपस्तम्बकृता धर्माः शङ्खस्य लिखितस्य च। प्राजापत्यास् तथा याम्या माहेन्द्राश् च श्रुता मया। वैय्याघ्रा व्यासगीताश् च विभाण्डककृताश् च ये। नारदीयाः श्रुता धर्माः कापोताश् च श्रुता मया। तथा विदुरवाक्यानि भृगोर् अङ्गिरसस् तथा। क्रौञ्चा मृदङ्गगीताश् च सौर्या हारीतकाश् च ये। ये पिशङ्गकृताश् चापि कौतुपा हंसपालकाः। उद्दालककृता धर्मा औशनस्यास् तथैव च। वैशंपायनगीताश् च ये चान्ये ऽप्य् एवमादयः। एतेभ्यः सर्वधर्मेभ्यो देव त्वन्मुखनिःसृताः। पावनत्वात् पवित्रत्वाद् विशिष्टा इति मे मतिः। तस्माद् धि त्वां प्रपन्नस्य त्वद्भक्तस्य च भावतः। वैशंपायनः। युष्मदीयान् वरान् धर्मान् पुण्यान् कथय मे ऽच्युत। एवं पृष्टस् तु धर्मज्ञो धर्मपुत्रेण केशवः। उवाच धर्मान् सूक्ष्मार्थान् धर्मपुत्रस्य हर्षितः। एवं ते यस्य कौन्तेय यत्नो धर्मेषु सुव्रत। त्वत्समो दुर्लभो लोके न कश् चिद् इह विद्यते। धर्मः श्रुतो वा दृष्टो वा कथितो वा कृतो ऽपि वा। अनुमोदितो वा राजेन्द्र पुनातीह नरं सदा। धर्मः पिता च माता च धर्मो नाथः सुहृत् तथा। धर्मो भ्राता सखा चैव धर्मः स्वामी परंतप। धर्माद् अर्थश् च कामश् च धर्माद् भोगाः सुखानि च। धर्माद् ऐश्वर्यम् एवाग्र्यं धर्मात् स्वर्गगतिः परा। धर्मो यः सेवितः शुद्धस् त्रायते महतो भयात्। धर्माद् द्विजत्वं देवत्वं धर्मः प्रापयते नरम्। यदा च क्षीयते पापं कालेन पुरुषस्य तु। तदा संजायते बुद्धिर् धर्मं कर्तुं युधिष्ठिर। जन्मान्तरसहस्रैस् तु मनुष्यत्वं हि दुर्लभम्। तद् गत्वापीह यो धर्मं न करोति स वञ्चितः। कुत्सिता ये दरिद्राश् च विरूपा व्याधितास् तथा। परप्रेष्याश् च मूर्खाश् च न तैर् धर्मः कृतः पुरा। ये च दीर्घायुषः शूराः पण्डिता भोगिनस् तथा। नीरोगा रूपसंपन्नास् तैर् धर्मः सुकृतः पुरा। एवं धर्मः कृतः शुद्धो नयते गतिम् उत्तमाम्। अधर्मं सेवमानस् तु तिर्यग् योन्यां पतत्य् असौ। इदं रहस्यं कौन्तेय शृणु धर्मम् अनुत्तमम्। कथयिष्ये परं धर्मं मम भक्तस्य पाण्डव। इष्टस् त्वम् असि मे ऽत्यर्थं प्रपन्नश् चापि मां सदा। परमार्थम् अपि ब्रूमः किं पुनर् धर्मसंहिताम्। इदं मे मानुषं जन्म कृतम् आत्मनि मायया। धर्मसंस्थापनार्थाय दुष्टानां शासनाय च। मानुष्यं भावम् आपन्नं ये मां गृह्णन्त्य् अवज्ञया। संसरन्तीह ते मूढास् तिर्यग् योनिष्व् अनेकशः। ये च मां सर्वभूतस्थं पश्यन्ति ज्ञानचक्षुषा। मद्भक्तांस् तान् सदा युक्तान् मत्समीपं नयाम्य् अहम्। मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः। मद्भक्तानां तु मानुष्ये सफलं जन्म पाण्डव। अपि पापेष्व् अभिरता मद्भक्ताः पाण्डुनन्दन। मुच्यन्ते पापकैः सर्वैः पद्मपत्रम् इवाम्भसा। जन्मान्तरसहस्रेषु तपसा भावितात्मनाम्। भक्तिर् उत्पद्यते तात मनुष्याणां न संशयः। यच् च रूपं परं गुह्यं कूटस्थम् अचलं ध्रुवम्। न दृश्यते तथा देवैर् मद्भक्तैर् दृश्यते यथा। अपरं यच् च मे रूपं प्रादुर्भावेषु दृश्यते। तद् अर्चयन्ति सर्वार्थैः सर्वभूतानि पाण्डव। कल्पकोटिसहस्रेषु व्यतीतेष्व् आगतेषु च। दर्शयामीह तद् रूपं तत् प्रपश्यन्ति मे सुराः। स्थित्युत्पत्तिव्ययकरं यो मां ज्ञात्वा प्रपद्यते। अनुगृह्णाम्य् अहं तं वै संसारान् मोचयामि च। अहम् आदिर् हि देवानां सृष्टा ब्रह्मादयो मया। प्रकृतिं स्वाम् अवष्टभ्य जगत् सर्वं सृजाम्य् अहम्। तमोमूलो ऽहम् अव्यक्तो रजो मध्ये प्रतिष्ठितः। ऊर्ध्वं सत्त्वविशालो ऽहं ब्रह्मादिस्तम्बसंज्ञितः। मूर्धानं मे दिवं विद्धि चन्द्रादित्यौ च लोचने। देवाग्निर् ब्राह्मणा वक्त्रं मारुतः श्वसनश् च मे। दिशो मे बाहवश् चाष्टौ नक्षत्राणि च भूषणम्। अन्तरिक्षम् उरो विद्धि सर्वभूतावकाशकम्। मार्गो मेघानिलाभ्यां तु यन् ममोदरम् अव्ययम्। पृथिवीमण्डलं यद् वै द्वीपार्णवनगैर् युतम्। सर्वसंधारणोपेतं पादौ मम युधिष्ठिर। स्थितो ह्य् एकगुणः खे ऽहं द्विगुणश् चास्मि मारुते। त्रिगुणो ऽग्नौ स्थितो ऽहं वै सलिले तु चतुर्गुणः। शब्दाद्या ये गुणाः पञ्च महाभूतेषु पञ्चसु। तन्मात्रसंस्थितः सो ऽहं पृथिव्यां पञ्चधा स्थितः। अहं सहस्रशीर्षस् तु सहस्रवदनेक्षणः। सहस्रबाहूदरदृक् सहस्रोरुः सहस्रपात्। धृत्वोर्वीं सर्वतः सम्यग् अत्यतिष्ठद् दशाङ्गुलम्। सर्वभूतात्मभूतस्थः सर्वव्यापी ततो ह्य् अहम्। अचिन्त्यो ऽहम् अनन्तो ऽहम् अजरो ऽहम् अजो ह्य् अहम्। अनद्यो ऽहम् अवध्यो ऽहम् अप्रमेयो ऽहम् अव्ययः। निर्गुणो ऽहम् अगूढात्मा निर्द्वन्द्वो निर्ममो नृप। निष्कलो निर्विकारो ऽहं निदानम् अमृतस्य तु। सुधा चाहं स्वधा चाहं स्वाहा चाहं नराधिप। तेजसा तपसा चाहं भूतग्रामं चतुर्विधम्। स्नेहपाशगुणैर् बद्ध्वा धारयाम्य् आत्ममायया। चतुराश्रमधर्मो ऽहं चातुर्होत्रफलाशनः। चतुर्मूर्तिश् चतुर्व्यूहश् चतुराश्रमभावनः। संहृत्याहं जगत् सर्वं कृत्वा वै गर्भम् आत्मनः। शयामि दिव्ययोगेन प्रलयेषु युधिष्ठिर। सहस्रयुगपर्यन्तां ब्राह्मीं रात्रिं महार्णवे। स्थित्वा सृजामि भूतानि जङ्गमानि स्थिराणि च। कल्पे कल्पे च भूतानि संहरामि सृजामि च। न च मां तानि जानन्ति मायया मोहितानि मे। मम चैवान्धकारस्य मार्गितव्यस्य नित्यशः। प्रशान्तस्येव दीपस्य गतिर् नैवोपलभ्यते। न तद् अस्ति क्व चिद् राजन् यत्राहं न प्रतिष्ठितः। न च तद् विद्यते भूतं मयि यन् न प्रतिष्ठितम्। यावन्मात्रं भवेद् भूतं स्थूलं सूक्ष्मम् इदं जगत्। जीवभूतो ह्य् अहं तस्मिंस् तावन्मात्रं प्रतिष्ठितम्। किं चात्र बहुनोक्तेन सत्यम् एव ब्रवीमि ते। यद् भूतं यद् भविष्यच् च तत् सर्वम् अहम् एव तु। मया सृष्टानि भूतानि मन्मयानि च भारत। माम् एव न विजानन्ति मायया मोहितानि मे। एवं सर्वं जगद् इदं सदेवासुरमानुषम्। मत्तः प्रभवते राजन् मय्य् एव प्रविलीयते। वैशंपायन उवाच। एवम् आत्मोद्भवं सर्वं जगद् उद्दिश्य केशवः। भगवान् उवाच। धर्मान् धर्मात्मजस्याथ पुण्यान् अकथयत् प्रभुः। शृणु पाण्डव तत्त्वेन पवित्रं पापनाशनम्। कथ्यमानं मया पुण्यं धर्मशास्त्रफलं महत्। यः शृणोति शुचिर् भूत्वा एकचित्तस् तपोयुतः। स्वर्ग्यं यशस्यम् आयुष्यं धर्म्यं ज्ञेयं युधिष्ठिर। श्रद्दधानस्य तस्येह यत् पापं पूर्वसंचितम्। वैशंपायन उवाच। विनश्यत्य् आशु तत् सर्वं मद्भक्तस्य विशेषतः। एवं श्रुत्वा वचः पुण्यं सत्यं केशवभाषितम्। प्रहृष्टमनसो भूत्वा चिन्तयन्तो ऽद्भुतं परम्। देवा ब्रह्मर्षयः सर्वे गन्धर्वाप्सरसस् तथा। भूता यक्षग्रहाश् चैव गुह्यका भुजगास् तथा। वालखिल्या महात्मानो योगिनस् तत्त्वदर्शिनः। तथा भागवताश् चापि पञ्चकालम् उपासकाः। कौतूहलसमायुक्ताः प्रहृष्टेन्द्रियमानसाः। श्रोतुकामाः परं धर्मं वैष्णवं धर्मशासनात्। हृदि कर्तुं च तद् वाक्यं प्रणेमुः शिरसा नताः। ततस् ते वासुदेवेन दृष्टाः सौम्येन चक्षुषा। विमुक्तपापान् आलोक्य प्रणम्य शिरसा हरिम्। पप्रच्छ केशवं धर्मं धर्मपुत्रः प्रतापवान्। कीदृशी ब्राह्मणस्याथ क्षत्रियस्यापि कीदृशी। वैश्यस्य कीदृशी देव गतिः शूद्रस्य कीदृशी। कथं बध्येत पाशेन ब्राह्मणस् तु यमालये। क्षत्रियो वाथ वैश्यो वा शूद्रो वा बध्यते कथम्। वैशंपायन उवाच। एतत् कर्मफलं ब्रूहि लोकनाथ नमो ऽस्तु ते। पृष्टो ऽथ केशवो ह्य् एवं धर्मपुत्रेण धीमता। उवाच संसारगतिं चातुर्वर्ण्यस्य कर्मजाम्। भगवान् उवाच। शृणु वर्णक्रमेणैव धर्मं धर्मभृतां वर। नास्ति किं चिन् नरश्रेष्ठ दुष्कृतं ब्राह्मणस्य तु। ये स्थिताः स्युः सदाध्यात्मे संध्यां ये चाप्य् उपासते। यैश् च पूर्णाहुतिः प्राप्ता विधिवज् जुह्वते च ये। वैश्वदेवं च ये कुर्युः पूजयन्त्य् अतिथींश् च ये। नित्यं स्वाध्यायशीलाश् च जपयज्ञपराश् च ये। सायंप्रातर् हुताशाश् च शूद्रभोजनवर्जिताः। डम्भानृतविमुक्ताश् च स्वदारनिरताश् च ये। पञ्चयज्ञरता ये च ये ऽग्निहोत्रम् उपासते। दहन्ति दुष्कृतं येषां हूयमानाग्नयस् त्रयः। नष्टदुष्कृतकर्माणो ब्रह्मलोकं व्रजन्ति ते। ब्रह्मलोके पुनः कामं गन्धर्वैर् ब्रह्मगायकैः। उद्गीयमानाः प्रयतैः पूज्यमानाः स्वयंभुवा। ब्रह्मलोके प्रमोदन्ते यावद् आभूतसंप्लवम्। क्षत्रियो ऽपि स्थितो राज्ये स्वधर्मपरिपालकः। सम्यक् प्रजाः पालयिता षड्भागनिरतः सदा। यज्ञदानरतो धीरः स्वदारनिरतः सदा। शास्त्रानुसारी तत्त्वज्ञः प्रजाकार्यपरायणः। विप्रेभ्यः कामदो नित्यं भृत्यानां भरणे रतः। सत्यसंधः शुचिर् नित्यं लोभडम्भविवर्जितः। क्षत्रियो ऽप्य् उत्तमां याति गतिं देवनिषेविताम्। तत्र दिव्याप्सरोभिस् तु गन्धर्वैश् च विशेषतः। सेव्यमानो महातेजाः क्रीडते शक्रपूजितः। चतुर्युगानि वै त्रिंशत् क्रीडित्वा तत्र देववत्। इह मानुषलोके तु चतुर्वेदी द्विजो भवेत्। कृषिगोपालनिरतो धर्मान्वेषणतत्परः। दानधर्मे ऽपि निरतो विप्रशुश्रूषकस् तथा। सत्यसंधः शुचिर् नित्यं लोभडम्भविवर्जितः। ऋजुः स्वदारनिरतो हिंसाद्रोहविवर्जितः। वणिग्धर्मान् नमुञ्चन् वै देवब्राह्मणपूजकः। वैश्यः स्वर्गतिम् आप्नोति पूज्यमानो ऽप्सरोगणैः। चतुर्युगानि वै त्रिंशत् क्रीडित्वा दश पञ्च च। इह मानुष्यलोके च राजा भवति वीर्यवान्। सुवर्णकोट्यः पञ्चाशद् रत्नानां च शतं तथा। हस्त्यश्वरथसंयुक्तान् महाभोगांश् च सेवते। त्रयाणाम् अपि वर्णानां शुश्रूषानिरतः सदा। विशेषतस् तु विप्राणां दासवद् यस् तु तिष्ठति। अयाचितप्रदाता च सत्यशौचसमन्वितः। गुरुदेवार्चनरतः परदारविवर्जितः। परपीडाम् अकृत्वैव भृत्यवर्गं बिभर्ति यः। शूद्रो ऽपि स्वर्गम् आप्नोति जीवानाम् अभयप्रदः। स स्वर्गलोके क्रीडित्वा वर्षकोटिं महातपाः। इह मानुषलोके तु वैश्यो धनपतिर् भवेत्। एवं धर्मात् परं नास्ति महत् संसारमोक्षणम्। न च धर्मात् परं किं चित् पापकर्मव्यपोहनम्। तस्माद् धर्मः सदा कार्यो मानुष्यं प्राप्य दुर्लभम्। न हि धर्मानुरक्तानां लोके किं चिन् न दुर्लभम्। स्वयंभुविहितो धर्मो यो यस्येह नरेश्वर। स तेन क्षपयेत् पापं सम्यग् आचरितेन च। सहजं यद् भवेत् कर्म न तत् त्याज्यं हि केन चित्। स एव तस्य धर्मो हि तेन सिद्धिं स गच्छति। विगुणो ऽपि स्वधर्मस् तु पापकर्म व्यपोहति। युधिष्ठिर उवाच। एवम् एव तु धर्मो ऽपि क्षीयते पापवर्धनात्। भगवन् देवदेवेश श्रोतुं कौतूहलं हि मे। भगवान् उवाच। शुभस्याप्य् अशुभस्यापि क्षयवृद्धी यथाक्रमम्। शृणु पार्थिव तत् सर्वं धर्मं सूक्ष्मं सनातनम्। दुर्विज्ञेयतमं नित्यम् अत्र भग्ना महाजनाः। यथैव शीतम् उदकम् उष्णेन बहुनावृतम्। भवेत् तु तत्क्षणाद् उष्णं शीतत्वं च विनश्यति। यथोष्णं वा भवेद् अल्पं शीतेन बहुनावृतम्। शीतलं तद् भवेत् सर्वम् उष्णत्वं च विनश्यति। एवं तु यद् भवेद् भूरि सुकृतं वाथ दुष्कृतम्। तद् अल्पं क्षपयेच् छीघ्रं नात्र कार्या विचारणा। समत्वे सति राजेन्द्र तयोः सुकृतपापयोः। गूहितस्य भवेद् वृद्धिः कीर्तितस्य भवेत् क्षयः। ख्यापनेनानुतापेन प्रायः पापं विनश्यति। तथा कृतस् तु राजेन्द्र धर्मो नश्यति मानद। ताव् उभौ गूहितौ सम्यग् वृद्धिं यातौ न संशयः। तस्मात् सर्वप्रयत्नेन न पापं गूहयेद् बुधः। तस्माद् एतत् प्रयत्नेन कीर्तयेत् क्षयकारणात्। तस्मात् संकीर्तयेत् पापं सत्यं धर्मं च गूहयेत्। वैशंपायन उवाच। एवं श्रुत्वा वचस् तस्य धर्मपुत्रो ऽच्युतस्य तु। युधिष्ठिर उवाच। पप्रच्छ पुनर् अप्य् अन्यान् धर्मान् धर्मात्मजो हरिम्। वृथा च कति जन्मानि वृथा दानानि यानि च। वृथा च जीवितं केषां नराणां पुरुषोत्तम। कीदृशासु व्यवस्थासु दानं दत्तं जनार्दन। इह लोके ऽनुभवति पुरुषः पुरुषोत्तम। गर्भस्थे किं समश्नाति किं बाल्ये वापि केशव। यौवनस्थे ऽपि किं कृष्ण वार्धके वापि किं भवेत्। सात्त्विकं कीदृशं दानं राजसं कीदृशं भवेत्। तामसं कीदृशं देव तर्पयिष्यति किं प्रभो। उत्तमं कीदृशं दानं मध्यमं कीदृशं भवेत्। अधमं कीदृशं दानं तेषां वा वद किं फलम्। किं दानं नयति ह्य् ऊर्ध्वं किं गतिं मध्यमां भवेत्। गतिं जघन्याम् अथ वा देवदेव ब्रवीहि मे। एतद् इच्छामि विज्ञातुं परं कौतूहलं हि मे। त्वदीयं वचनं सत्यं पुण्यं च मधुसूदन। वैशंपायन उवाच। एवं धर्मं प्रयत्नेन पृष्टः पाण्डुसुतेन वै। उवाच वासुदेवो ऽथ धर्मान् धर्मात्मजस्य च। शृणु राजन् यथान्यायं वचनं तथ्यम् उत्तमम्। कथ्यमानं मया पुण्यं सर्वपापव्यपोहनम्। वृथा च दश जन्मानि चत्वारि च नराधिप। वृथा दानानि पञ्चाशत् पञ्चैव च यथाक्रमम्। वृथा च जीवितं येषां ते च षट् परिकीर्तिताः। अनुक्रमेण सर्वाणि तानि वक्ष्यामि पार्थिव। धर्मघ्नानां वृथा जन्म लुब्धानां पापिनां तथा। वृथा पाकं च ये ऽश्नन्ति परदाररताश् च ये। पाकभेदकरा ये च ये च स्युः सत्यवर्जिताः। मृष्टम् अश्नाति यश् चैको दृश्यमानस् तु बान्धवैः। पितरं मातरं चैव उपाध्यायं गुरुं तथा। मातुलं मातुलानीं च यो निहन्याच् छपेत वा। ब्राह्मणश् चैव यो भूत्वा संध्योपासनवर्जितः। निर्ब्रह्मो निःस्वधश् चैव शूद्राणाम् अन्नभुग् द्विजः। मम वा शंकरस्यापि ब्रह्मणो वा युधिष्ठिर। अथ वा ब्राह्मणानां तु ये न भक्ता नराधमाः। वृथा जन्मान्य् अथैतेषां पापिनां विद्धि पाण्डव। अश्रद्धया च यद् दत्तम् अवमानेन वापि यत्। डम्भार्थम् अपि यद् दत्तं यत् पाषण्डिहृतं नृप। शूद्राचाराय यद् दत्तं यद् दत्त्वा चानुकीर्तितम्। रोषयुक्तं तु यद् दत्तं यद् दत्तम् अनुशोचितम्। डम्भार्जितं च यद् दत्तं यच् च वाप्य् अनृतार्जितम्। ब्राह्मणस्वं च यद् दत्तं चौर्येणाप्य् आर्जितं च यत्। अभिशस्ताहृतं यत् तु यद् दत्तं पतिते द्विजे। निर्ब्रह्माभिहृतं यत् तु यद् धृतं सर्वयाचकैः। व्रात्यैस् तु यद् धृतं दानम् आरूढपतितैश् च यत्। यद् दत्तं स्वैरिणीभर्तुः श्वशुरान् अनुवर्तिने। यद् ग्रामयाचकहृतं यत् कृतघ्नहृतं तथा। उपपातकिने दत्तं वेदविक्रयिणे च यत्। स्त्रीजिताय च यद् दत्तं व्यालग्राहिहृतं च यत्। पुरोहिताय यद् दत्तं चिकित्सकहृतं च यत्। यद् वणिक्कर्मिणे दत्तं क्षुद्रमन्त्रोपजीविने। यच् छूद्रजीविने दत्तं यच् च देवलकाय च। देवद्रव्याशिने यच् च यद् दत्तं चित्रकर्मिणे। रङ्गोपजीविने दत्तं यच् च मांसोपजीविने। सेवकाय च यद् दत्तं यद् दत्तं ब्राह्मणब्रुवे। अग्निहीने च यद् दत्तं दत्तं वार्धुषिकाय च। यद् अनाचारिणे दत्तं यत् तु दत्तम् अनग्नये। असंध्योपासिने दत्तं यच् छूद्रग्रामवासिने। यन् मिथ्यालिङ्गिने दत्तं दत्तं सर्वाशिने च यत्। नास्तिकाय च यद् दत्तं धर्मविक्रयिणे च यत्। चारकाय च यद् दत्तं यद् दत्तं कूटसाक्षिणे। ग्रामकूटाय यद् दत्तं दानं पार्थिवपुंगव। वृथा भवति तत् सर्वं नात्र कार्या विचारणा। विप्रनामधरा ह्य् एते लोलुपा ब्राह्मणाधमाः। नात्मानं तारयन्त्य् एते न दातारं युधिष्ठिर। एतेभ्यो दत्तमात्राणि दानानि च बहून्य् अपि। वृथा भवन्ति राजेन्द्र भस्मन्य् आज्याहुतिर् यथा। एतेषु यत् फलं किं चिद् भविष्यति कथं चन। राक्षसाश् च पिशाचाश् च तद् विलुम्पन्ति हर्षिताः। वृथा ह्य् एतानि दत्तानि कथितानि समासतः। जीवितं तु वृथा येषां तच् छृणुष्व युधिष्ठिर। ये मां न प्रतिपद्यन्ते शंकरं वा नराधमाः। ब्राह्मणान् वा महीदेवान् वृथा जीवन्ति ते नराः। हेतुशास्त्रेषु ये सक्ताः कुदृष्टिपथम् आश्रिताः। वेदान् निन्दन्त्य् अनाचारा वृथा जीवन्ति ते नराः। कुशलैः कृतशास्त्राणि पठित्वा ये नराधमाः। विप्रान् निन्दन्ति यज्ञांश् च वृथा जीवन्ति ते नराः। ये च दुर्गां कुमारं वा वायुम् अग्निं जलं रविम्। पितरं मातरं चैव गुरुम् इन्द्रं निशाकरम्। मूढा निन्दन्त्य् अनाचारा वृथा जीवन्ति ते नराः। विद्यमाने धने यस् तु दानधर्मविवर्जितः। मृष्टम् अश्नाति यश् चैको वृथा जीवति सो ऽपि च। वृथा जीवितम् आख्यातं दानकालं ब्रवीमि ते। तमोनिविष्टचित्तेन दत्तं दानं तु यद् भवेत्। स तस्य फलम् अश्नाति नरो गर्भगतो नृप। ईर्ष्यामात्सर्यसंयुक्तो डम्भार्थं चार्थकारणात्। ददाति दानं यो मर्त्यो बालभावे तद् अश्नुते। भोक्तुं भोगं न शक्तस् तु व्याधिभिः पीडितो भृशम्। ददाति दानं यो मर्त्यो वृद्धभावे तद् अश्नुते। श्रद्धायुक्तः शुचिः स्नातः प्रसन्नेन्द्रियमानसः। ददाति दानं यो मर्त्यो यौवने स तद् अश्नुते। स्वयं नीत्वा तु यद् दानं भक्त्या पात्रे प्रदीयते। तत् सार्वकालिकं विद्धि दानम् आमरणान्तिकम्। सात्त्विकं राजसं चैव तामसं च युधिष्ठिर। दानं दानफलं चैव गतिं च त्रिविधां शृणु। दानं दातव्यम् इत्य् एव मतिं कृत्वा द्विजाय वै। उपकारवियुक्ताय यद् दत्तं तद् धि सात्त्विकम्। श्रोत्रियाय दरिद्राय बहुभृत्याय पाण्डव। दीयते यत् प्रहृष्टेन तत् सात्त्विकम् उदाहृतम्। वेदाक्षरविहीनाय यत् तु पूर्वोपकारिणे। समृद्धाय च यद् दत्तं तद् दानं राजसं स्मृतम्। संबन्धिने च यद् दत्तं प्रमत्ताय च पाण्डव। फलार्थिभिर् अपात्राय तद् दानं राजसं स्मृतम्। वैश्वदेवविहीनाय दानम् अश्रोत्रियाय च। दीयते तस्करायापि तद् दानं तामसं स्मृतम्। सरोषम् अवधूतं च क्लेशयुक्तम् अवज्ञया। सेवकाय च यद् दत्तं तत् तामसम् उदाहृतम्। देवाः पितृगणाश् चैव मुनयश् चाग्नयस् तथा। सात्त्विकं दानम् अश्नन्ति तुष्यन्ति च नरेश्वर। दानवा दैत्यसंघाश् च ग्रहा यक्षाः सराक्षसाः। राजसं दानम् अश्नन्ति वर्जितं पितृदैवतैः। पिशाचाः प्रेतसंघाश् च कश्मला ये मलीमसाः। तामसं दानम् अश्नन्ति गतिं च त्रिविधां शृणु। सात्त्विकानां तु दानानाम् उत्तमं फलम् उच्यते। मध्यमं राजसानां तु तामसानां तु पश्चिमम्। अभिगम्योपनीतानां दानानाम् उत्तमं फलम्। मध्यमं तु समाहूय जघन्यं याचते फलम्। अयाचितप्रदाता यः स याति गतिम् उत्तमाम्। समाहूय तु यो दद्यान् मध्यमां स गतिं व्रजेत्। याचितो यश् च वै दद्याज् जघन्यां स गतिं व्रजेत्। उत्तमा दैविका ज्ञेया मध्यमा मानुषी गतिः। गतिं जघन्यां तिर्यक्षु गतिर् एषा त्रिधा स्मृता। पात्रभूतेषु विप्रेषु सुस्थितेष्व् आहिताग्निषु। यत् तु निक्षिप्यते दानम् अक्षय्यं संप्रकीर्तितम्। श्रोत्रियाणां दरिद्राणां भरणं कुरु पार्थिव। समृद्धानां द्विजातीनां कुर्यात् तेषां च रक्षणम्। दरिद्रान् वृत्तिहीनांश् च प्रदानैः सुष्ठु पूजय। आतुरस्यौषधैः कार्यं नीरुजस्य किम् औषधैः। पापं प्रतिग्रहीतारं प्रदातुर् उपगच्छति। प्रतिग्रहीतुर् यत् पुण्यं प्रदातारम् उपैति तत्। तस्माद् दानं सदा कार्यं परत्र हितम् इच्छता। वेदविद्यावदातेषु सदा शूद्रान्नवर्जिषु। प्रयत्नेन विधातव्यो महादानमयो निधिः। येषां दाराः प्रतीक्षन्ते सहस्रस्येव लम्भनम्। भुक्तशेषस्य भक्तस्य तान् निमन्त्रय पाण्डव। आमन्त्र्य तु निराशानि न कर्तव्यानि भारत। कुलानि सुदरिद्राणां तेषाम् आशा हता भवेत्। मद्भक्ता ये नरश्रेष्ठ मद्गता मत्परायणाः। मद्याजिनो मन्नियमास् तान् प्रयत्नेन पूजयेत्। तेषां तु पावनायाहं नित्यम् एव युधिष्ठिर। उभे संध्ये ऽपि तिष्ठामि ह्य् अस्कन्नं तद् व्रतं मम। तस्माद् अष्टाक्षरं मन्त्रं मद्भक्तैर् वीतकल्मषैः। संध्याकालेषु जप्तव्यं सततं चात्मशुद्धये। अन्येषाम् अपि विप्राणां किल्बिषं हि प्रणश्यति। उभे संध्ये ऽप्य् उपासीत तस्माद् विप्रो विशुद्धये। दैवे श्राद्धे च विप्रः स नियोक्तव्यो ऽजुगुप्सया। जुगुप्सितस् तु यः श्राद्धं दहत्य् अग्निर् इवेन्धनम्। भारतं मानवो धर्मो वेदाः साङ्गाश् चिकित्सितम्। आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः। न ब्राह्मणान् परीक्षेत दैवे कर्मणि धर्मवित्। महान् भवेत् परीवादो ब्राह्मणानां परीक्षणे। ब्राह्मणानां परीवादं यः कुर्यात् पुरुषाधमः। रासभानां शुनां योनिं गच्छेत् पुरुषदूषकः। श्वत्वं प्राप्नोति निन्दित्वा परीवादात् खरो भवेत्। कृमिर् भवत्य् अभिभवात् कीटो भवति मत्सरी। दुर्वृत्ता वा सुवृत्ता वा प्राकृता वा सुसंस्कृताः। ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः। क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम्। नावमन्येत मेधावी कृशान् अपि कदा चन। एतत् त्रयं हि पुरुषं निर्दहेद् अवमानितम्। तस्माद् एतत् प्रयत्नेन नावमन्येत बुद्धिमान्। यथा सर्वास्व् अवस्थासु पावको दैवतं महत्। तथा सर्वास्व् अवस्थासु ब्राह्मणो दैवतं महत्। व्यङ्गाः काणाश् च कुब्जाश् च वामनाङ्गास् तथैव च। सर्वे दैवे नियोक्तव्या व्यामिश्रा वेदपारगैः। मन्युं नोत्पादयेत् तेषां न चारिष्टान् समाचरेत्। मन्युप्रहरणा विप्रा न विप्राः शस्त्रपाणयः। मन्युना घ्नन्ति ते शत्रून् वज्रेणेन्द्र इवासुरान्। ब्राह्मणो हि महद् दैवं जातिमात्रेण जायते। ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये। किं पुनर् ये च कौन्तेय संध्यां नित्यम् उपासते। यस्यास्येन समश्नन्ति हव्यानि त्रिदिवौकसः। कव्यानि चैव पितरः किं भूतम् अधिकं तथा। उत्पत्तिर् एव विप्रस्य मूर्तिर् धर्मस्य शाश्वती। स हि धर्मार्थम् उत्पन्नो ब्रह्मभूयाय कल्पते। स्वम् एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च। आनृशंस्याद् ब्राह्मणस्य भुञ्जते हीतरे जनाः। तस्मात् ते नावमन्तव्या मद्भक्ता हि द्विजाः सदा। आरण्यकोपनिषदि ये तु पश्यन्ति मां द्विजाः। निगूढं निष्कलावस्थं तान् प्रयत्नेन पूजय। स्वगृहे वा प्रवासे वा दिवारात्रम् अथापि वा। श्रद्धया ब्राह्मणाः पूज्या मद्भक्ता ये च पाण्डव। नास्ति विप्रसमं दैवं नास्ति विप्रसमो गुरुः। नास्ति विप्रात् परो बन्धुर् नास्ति विप्रात् परो निधिः। नास्ति विप्रात् परं तीर्थं न पुण्यं ब्राह्मणात् परम्। न पवित्रं परं विप्रान् न द्विजात् पावनं परम्। नास्ति विप्रात् परो धर्मो नास्ति विप्रात् परा गतिः। पापकर्मसमाक्षिप्तं पतन्तं नरके नरम्। त्रायते दानम् अप्य् एकं पात्रभूते कृतं द्विजे। बालाहिताग्नयो ये च शान्ताः शूद्रान्नवर्जिताः। माम् अर्चयन्ति मद्भक्तास् तेभ्यो दत्तम् इहाक्षयम्। प्रदानैः पूजितो विप्रो वन्दितो वापि संस्तुतः। संभाषितो वा दृष्टो वा मद्भक्तो दिवम् उन्नयेत्। ये पठन्ति नमस्यन्ति ध्यायन्ति पुरुषोत्तमम्। तान् स्पृष्ट्वा वाथ वा दृष्ट्वा नरः पापैः प्रमुच्यते। मद्भक्ता मद्गतप्राणा मद्गता मत्परायणाः। बीजयोनिविशुद्धा ये श्रोत्रियाः संयतेन्द्रियाः। शूद्रान्नविरता नित्यं ते पुनन्तीह दर्शनात्। स्वयं नीत्वा विशेषेण दानं तेषां गृहेष्व् अथ। निवापयेत् तु यद् भक्त्या तद् दानं कोटिसंमितम्। जाग्रतः स्वपतो वापि प्रवासेषु गृहेष्व् अथ। हृदये न प्रणश्यामि यस्य विप्रस्य भावतः। संपूजितो वा दृष्टो वा स्पृष्टो वापि द्विजोत्तमः। संभाषितो वा राजेन्द्र पुनात्य् एव नरं सदा। एवं सर्वास्व् अवस्थासु सर्वदानानि पाण्डव। वैशंपायन उवाच। मद्भक्तेभ्यः प्रदत्तानि स्वर्गमार्गप्रदानि वै। श्रुत्वैव सात्त्विकं दानं राजसं तामसं तथा। पृथक् पृथक् त्व् एव गतिं फलं चापि पृथक् पृथक्। अवितृप्तः प्रहृष्टात्मा पुण्यं धर्मामृतं पुनः। युधिष्ठिरो धर्मरतः केशवं पुनर् अब्रवीत्। बीजयोनिविशुद्धानां लक्षणानि वदस्व मे। बीजदोषेण लोकेश जायन्ते च कथं नराः। आचारदोषं देवेश वक्तुम् अर्हस्य् अशेषतः। ब्राह्मणानां विशेषं च गुणदोषौ च केशव। चातुर्वर्णस्य कृत्स्नस्य वर्तमानाः प्रतिग्रहे। केन विप्रा विशेषेण तरन्ते तारयन्ति च। भगवान् उवाच। एतान् कथय देवेश त्वद्भक्तस्य नमो ऽस्तु ते। शृणु राजन् यथावृत्तं बीजयोनिशुभाशुभम्। येन तिष्ठति लोको ऽयं विनश्यति च पाण्डव। अविप्लुतब्रह्मचर्यो यस् तु विप्रो यथाविधि। सुबीजं नाम विज्ञेयं तस्य बीजं शुभं भवेत्। कन्या चाक्षतयोनिः स्यात् कुलीना पितृमातृतः। ब्राह्मादिषु विवाहेषु परिणीता यथाविधि। सा प्रशस्ता वरारोहा तस्या योनिः प्रशस्यते। मनसा कर्मणा वाचा या भवेत् स्वैरचारिणी। सा कुलघ्नीति विज्ञेया तस्यां जातः श्वपाचकः। दैवे पित्र्ये तथा दाने भोजने सहभाषणे। शयने सहसंबन्धे न योग्या दुष्टयोनिजाः। न तस्माद् दुष्टयोन्यां तु गर्भम् उत्पादयेद् बुधः। मोहेन कुरुते यस् तु कुलं हन्ति त्रिपूरुषम्। कानीनश् च सहोढश् च तथोभौ कुण्डगोलकौ। आरूढपतिताज् जातः पतितस्यापि यः सुतः। षड् एते विश्वचण्डाला निकृष्टाः श्वपचाद् अपि। यो यत्र तत्र वा रेतः सिक्त्वा शूद्रासु वा चरेत्। कामचारी स पापात्मा बीजं तस्याशुभं भवेत्। अशुभं तद् भवेद् बीजं शुद्धां योनिं न चार्हति। दूषयत्य् अपि तां योनिं शुना लीढं हविर् यथा। शूद्रयोनौ पतेद् बीजं हाहाशब्दं द्विजन्मनः। कुर्यात् पुरीषगर्तेषु पतितो ऽस्मीति दुःखितः। माम् अधः पातयत्य् एष पापात्मा काममोहितः। अधोगतिं व्रजेत् क्षिप्रम् इति शप्त्वा पतेत् तु तत्। आत्मा हि शुक्लम् उद्दिष्टं दैवतं परमं महत्। तस्मात् सर्वप्रयत्नेन निरुन्ध्याच् छुक्लम् आत्मनः। आयुस् तेजो बलं वीर्यं प्रज्ञा श्रीश् च महद् यशः। पुण्यं च मत्प्रियत्वं च लभते ब्रह्मचर्यया। अविप्लुतब्रह्मचर्यैर् गृहस्थाश्रमम् आश्रितैः। पञ्चयज्ञपरैर् धर्मः स्थाप्यते पृथिवीतले। सायं प्रातस् तु ये संध्यां सम्यङ् नित्यम् उपासते। नावं वेदमयीं कृत्वा तरन्ते तारयन्ति च। यो जपेत् पावनीं देवीं गायत्रीं वेदमातरम्। न सीदेत् प्रतिगृह्णानः पृथिवीं च ससागराम्। ये चास्य दुःस्थिताः के चिद् ग्रहाः सूर्यादयो दिवि। ते चास्य सौम्या जायन्ते शिवाः शुभकरास् तथा। यत्र यत्र स्थिताश् चैव दारुणाः पिशिताशनाः। घोररूपा महाकाया धर्षयन्ति न तं द्विजम्। पुनन्तीह पृथिव्यां च चीर्णवेदव्रता नराः। चतुर्णाम् अपि वेदानां सा च राजन् गरीयसी। अचीर्णव्रतवेदा ये विकर्मपथम् आश्रिताः। ब्राह्मणा नाममात्रेण ते ऽपि पूज्या युधिष्ठिर। किं पुनर् यस् तु संध्ये द्वे नित्यम् एवोपतिष्ठति। शीलम् अध्ययनं दानं शौचं मार्दवम् आर्जवम्। तस्माद् वेदाद् विशिष्टानि मनुर् आह प्रजापतिः। भूर् भुवः स्वर् इति ब्रह्म यो वेदपरमं द्विजः। स्वदारनिरतो दान्तः स विद्वान् स च भूसुरः। संध्याम् उपासते विप्रा नित्यम् एव द्विजोत्तमाः। ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः। सावित्रीमात्रसारो ऽपि वरो विप्रः सुयन्त्रितः। नायन्त्रितश् चतुर्वेदी सर्वाशी सर्वविक्रयी। सावित्रीं चैव वेदांश् च तुलयातोलयन् पुरा। सदेवर्षिगणाश् चैव सर्वे ब्रह्मपुरःसराः। चतुर्णाम् अपि वेदानां सा हि राजन् गरीयसी। यथा विकसिते पुष्पे मधु गृह्णति षट्पदाः। समुत्सृज्य रसं सर्वं निरर्थकम् असारवत्। एवं गृहीता सावित्री सर्ववेदे च पाण्डव। तस्मात् तु सर्ववेदानां सावित्री प्राण उच्यते। निर्जीवा हीतरे वेदा विना सावित्रिया नृप। नायन्त्रितश् चतुर्वेदी शीलभ्रष्टः स कुत्सितः। शीलवृत्तसमायुक्तः सावित्रीपाठको वरः। सहस्रपरमां देवीं शतमध्यां दशावराम्। युधिष्ठिर उवाच। सावित्रीं जप कौन्तेय सर्वपापप्रणाशिनीम्। त्रैलोक्यनाथ हे कृष्ण सर्वभूतात्मको ह्य् असि। नानायोगपर श्रेष्ठ तुष्यसे केन कर्मणा। भगवान् उवाच। यदि भारसहस्रं तु गुग्गुल्वादि प्रधूपयेत्। करोति चेन् नमस्कारम् उपहारं च कारयेत्। स्तौति यः स्तुतिभिर् मां च ऋग्यजुःसामभिः सदा। न तोषयति चेद् विप्रान् नाहं तुष्यामि भारत। ब्राह्मणे पूजिते नित्यं पूजितो ऽस्मि न संशयः। आक्रुष्टे चाहम् आक्रुष्टो भवामि भरतर्षभ। परा मयि गतिस् तेषां पूजयन्ति च मां हि ते। यद् अहं द्विजरूपेण वसामि वसुधातले। यस् तान् पूजयति प्राज्ञो मद्गतेनान्तरात्मना। तम् अहं स्वेन रूपेण पश्यामि नरपुंगव। कुब्जाः काणा वामनाश् च दरिद्रा व्याधितास् तथा। नावमान्या द्विजाः प्राज्ञैर् मम रूपा हि ते द्विजाः। ये के चित् सागरान्तायां पृथिव्यां द्विजसत्तमाः। मम रूपं हि तेष्व् एवम् अर्चितेष्व् अर्चितो ऽस्म्य् अहम्। बहवस् तु न जानन्ति नरा ज्ञानबहिष्कृताः। यथाहं द्विजरूपेण वसामि वसुधातले। अवमन्यन्ति ये विप्रान् स्वधर्मात् पातयन्ति ते। प्रेषणैः प्रेषयन्ते च शुश्रूषां कारयन्ति च। मृताश् चात्र परत्रेमान् यमदूता महाबलाः। निकृन्तन्ति यथाकामं सूत्रमार्गेण शिल्पिनः। आक्रोशपरिवादाभ्यां ये रमन्ते द्विजातिषु। तान् मृतान् यमलोकस्थान् निपात्य पृथिवीतले। आक्रम्योरसि पादेन क्रूरः संरक्तलोचनः। अग्निवर्णैस् तु संदंशैर् यमो जिह्वां समुद्धरेत्। ये च विप्रान् निरीक्षन्ते पापाः पापेन चक्षुषा। अब्रह्मण्याः श्रुतेर् बाह्या नित्यं ब्रह्मद्विषो नराः। तेषां घोरा महाकाया वक्रतुण्डा महाबलाः। उद्धरन्ति मुहूर्तेन खगाश् चक्षुर् यमाज्ञया। यः प्रहारं द्विजेन्द्राय दद्यात् कुर्याच् च शोणितम्। अस्थिभङ्गं च यः कुर्यात् प्राणैर् वा विप्रयोजयेत्। सो ऽनुपूर्व्येण यातीमान् नरकान् एकविंशतिम्। शूलम् आरोपितो गत्वा ज्वलने परिपच्यते। बहुवर्षसहस्राणि पच्यमानस् त्व् अवाक्शिराः। नावमुच्येत दुर्मेधा न तस्य क्षीयते गतिः। ब्राह्मणायाविचार्यैवं व्रजन् वै वधकाङ्क्षया। शतवर्षसहस्राणि तामिस्रे परिपच्यते। उत्पाद्य शोणितं गात्रात् संरम्भान् मतिपूर्वकम्। स पर्यायेण यातीमान् नरकान् एकविंशतिम्। तस्मान् नाकुशलं ब्रूयान् न शुष्कां गिरम् ईरयेत्। न ब्रूयात् परुषां वाणीं न चैवैतान् अतिक्रमेत्। ये विप्राञ् श्रद्धया वाचा पूजयन्ति नरोत्तमाः। अर्चितश् च ततश् चैव तैर् भवामि न संशयः। तर्जयन्ति च ये विप्रान् क्रोशयन्ति च भारत। आक्रुष्टस् तर्जितश् चाहं तैर् भवामि न संशयः। यश् चन्दनैश् चागरुधूपदीपैर्। अभ्यर्चयेत् काष्ठमयीं ममार्चाम्। तेनार्चितो नैव भवामि सम्यग्। विप्रार्चनाद् अस्मि समर्चितो ऽहम्। विप्रप्रसादाद् धरणीधरो ऽहं। विप्रप्रसादाद् असुराञ् जयामि। विप्रप्रसादाच् च सदक्षिणो ऽहं। युधिष्ठिर उवाच। विप्रप्रसादाद् अजितो ऽहम् अस्मि। देवदेवेश दैत्यघ्न परं कौतूहलं हि मे। एतत् कथय सर्वज्ञ त्वद्भक्तस्य च केशव। मानुषस्य च लोकस्य धर्मलोकस्य चान्तरम्। कीदृशं किंप्रमाणं वा किम् अधिष्ठानम् एव च। तरन्ति मानुषा देव केनोपायेन माधव। त्वगस्थिमांसनिर्मुक्ते पञ्चभूतविवर्जिते। कथयस्व महादेव सुखदुःखम् अशेषतः। जीवस्य कर्मलोकेषु कर्मभिस् तु शुभाशुभैः। अनुबद्धस्य तैः पाशैर् नीयमानस्य दारुणैः। मृत्युदूतैर् दुराधर्षैर् घोरैर् घोरपराक्रमैः। वध्यस्याक्षिप्यमाणस्य विद्रुतस्य यमाज्ञया। पुण्यपापकृतं तिष्ठेत् सुखदुःखम् अशेषतः। यमदूतैर् दुराधर्षैर् नीयते वा कथं पुनः। किं वा तत्र गता देव कर्म कुर्वन्ति मानवाः। कथं धर्मपरा यान्ति देवताद्विजपूजकाः। कथं वा पापकर्माणो यान्ति प्रेतपुरं नराः। किं रूपं किं प्रमाणं वा वर्णः को वास्य केशव। भगवान् उवाच। जीवस्य गच्छतो नित्यं यमलोकं ब्रवीहि मे। शृणु राजन् यथावृत्तं यन् मां त्वं परिपृच्छसि। तत् ते ऽहं कथयिष्यामि मद्भक्तस्य नरेश्वर। षडशीतिसहस्राणि योजनानां युधिष्ठिर। मानुष्यस्य च लोकस्य यमलोकस्य चान्तरम्। न तत्र वृक्षच्छाया वा न तटाकं सरो ऽपि वा। न वाप्यो दीर्घिका वापि न कूपो वा युधिष्ठिर। न मण्टपं सभा वापि न प्रपा न निकेतनम्। न पर्वतो नदी वापि न भूमेर् विवरं क्व चित्। न ग्रामो वाश्रमो वापि नोद्यानं वा वनानि च। न किं चिद् आश्रयस्थानं पथि तस्मिन् युधिष्ठिर। जन्तोर् हि प्राप्तकालस्य वेदनार्तस्य वै भृशम्। करणैस् त्यक्तदेहस्य प्राणैः कण्ठगतैः पुनः। शरीराच् चाल्यते जीवो ह्य् अवशो मातरिश्वना। निर्गतो वायुभूतस् तु षट्कोशात् तु कलेवरात्। शरीरम् अन्यत् तद्रूपं तद्वर्णं तत्प्रमाणकम्। अदृश्यं तत् प्रविष्टस् तु सो ऽप्य् अदृष्टेन केन चित्। सो ऽन्तरात्मा देहवताम् अष्टाङ्गो यस् तु संचरेत्। छेदनाद् भेदनाद् दाहात् ताडनाद् वा न नश्यति। नानारूपधरैर् घोरैः प्रचण्डैश् चण्डसाधनैः। नीयमानो दुराधर्षैर् यमदूतैर् यमाज्ञया। पुत्रदारमयैः पाशैः संनिरुद्धो ऽवशो बलात्। स्वकर्मभिश् चानुगतः कृतैः सुकृतदुष्कृतैः। आक्रन्दमानः करुणं बन्धुभिर् दुःखपीडितैः। त्यक्त्वा बन्धुजनं सर्वं निरपेक्षस् तु गच्छति। मातृभिः पितृभिश् चापि भ्रातृभिर् मातुलैस् तथा। दारैः पुत्रैर् वयस्यैश् च रुदद्भिस् त्यज्यते पुनः। अदृश्यमानस् तैर् दीनैर् अश्रुपूर्णमुखेक्षणैः। स्वशरीरं परित्यज्य वायुभूतस् तु गच्छति। अन्धकारम् अपारं तं महाघोरं तमोवृतम्। दुःखान्तं दुष्प्रतारं च दुर्गमं पापकर्मणाम्। दुःसहायं दुरन्तं च दुर्निरीक्षं दुरासदम्। दुरापम् अतिदुःखं च पापिष्ठानां नरोत्तम। ऋषिभिः कथ्यमानं तत् पारंपर्येण पार्थिव। त्रासं जनयति प्रायः श्रूयमाणं कथास्व् अपि। अवश्यं चैव गन्तव्यं तदध्वानं युधिष्ठिर। प्राप्तकालेन संत्यज्य बन्धून् भोगान् धनानि च। जरायुजैर् अण्डजैश् च स्वेदजैर् उद्भिज्जैस् तथा। जङ्गमैः स्थिरजैश् चैव गन्तव्यं यमसादनम्। देवासुरैर् मनुष्याद्यैर् वैवस्वतवशानुगैः। स्त्रीपुंनपुंसकैश् चापि पृथिव्यां जीवसंज्ञितैः। मध्यमैर् युवभिर् वापि बालैर् वृद्धैस् तथैव च। जातमात्रैश् च गर्भस्थैर् गन्तव्यः स महापथः। पूर्वाह्णे वापराह्णे वा संध्याकाले ऽथ वा पुनः। प्रदोषे वार्धरात्रे वा प्रत्यूषे वाप्य् उपस्थिते। प्रवासस्थैर् वनस्थैर् वा पर्वतस्थैर् जलस्थितैः। क्षेत्रस्थैर् वा नभःस्थैर् वा गृहमध्यगतैर् अपि। भुञ्जद्भिर् वा पिबद्भिर् वा खादद्भिर् वा नरोत्तम। आसीनैर् वा स्थितैर् वापि शयनीयगतैर् अपि। जाग्रद्भिर् वा प्रसुप्तैर् वा गन्तव्यस् तु महापथः। मृत्युदूतैर् दुराधर्षैः प्रचण्डैश् चण्डशासनैः। आक्षिप्यमाणा ह्य् अवशाः प्रयान्ति यमसादनम्। क्व चिद् भीतैः क्व चित् त्रस्तैः प्रस्खलद्भिः क्व चित् क्व चित्। क्रन्दद्भिर् वेदनार्तैस् तु गन्तव्यं यमसादनम्। निर्भर्त्स्यमानैर् उद्विग्नैर् विधूतैर् भयविह्वलैः। तुद्यमानशरीरैश् च गन्तव्यं तर्जनैः सदा। कण्टकाकीर्णमार्गेण तप्तवालुकपांसुना। दह्यमानैस् तु गन्तव्यं नरैर् दानविवर्जितैः। काष्ठोपलशिलाघातैर् दण्डोल्मुककशाङ्कुशैः। हन्यमानैर् यमपुरं गन्तव्यं धर्मवर्जितैः। मेदःशोणितपूयार्द्रैर् वक्त्रगात्रैश् च सव्रणैः। दग्धक्षतजकीर्णैश् च गन्तव्यं जीवघातकैः। क्रन्दद्भिश् च रुदद्भिश् च क्रोशद्भिश् चापि विस्वनम्। वेदनार्तैश् च कूजद्भिर् विक्रोशद्भिश् च विस्वरम्। वेदनार्तैः पतद्भिश् च गन्तव्यं जीवघातकैः। भग्नपादोरुहस्ताङ्गैर् भग्नदन्तशिरोधरैः। छिन्नकण्ठोष्ठनासैश् च गन्तव्यं जीवघातकैः। शक्तिभिर् भिण्डिपालैश् च शङ्कुतोमरसायकैः। तुद्यमानैस् तु शूलाग्रैर् गन्तव्यं जीवघातकैः। श्वभिर् व्याघ्रैर् वृकैः काकैर् भक्ष्यमाणाः समन्ततः। तुद्यमानाश् च गच्छन्ति राक्षसैर् मांसखादिभिः। महिषैश् च मृगैश् चापि सूकरैः पृषतैस् तथा। भक्ष्यमाणैस् तदध्वानं गन्तव्यं मांसखादिभिः। सूचीसुतीक्ष्णतुण्डाभिर् मक्षिकाभिः समन्ततः। तुद्यमानैस् तु गन्तव्यं पापिष्ठैर् बालघातकैः। विस्रब्धं स्वामिनं मित्रं स्त्रियं वा घ्नन्ति ये नराः। शस्त्रैर् निर्भिद्यमानैस् तैर् गन्तव्यं यमसादनम्। घातयन्ति च ये जीवान् दुःखम् आपादयन्ति च। राक्षसैश् च श्वभिश् चैव भक्ष्यमाणा व्रजन्ति ते। ये हरन्ति च वस्त्राणि शय्याः प्रावरणानि च। ते यान्ति विद्रुता नग्नाः पिशाचा इव तत्पथम्। गाश् च धान्यं हिरण्यं च बलात् क्षेत्रगृहं तथा। ये हरन्ति दुरात्मानः परस्वं पापकारिणः। पाषाणैर् उल्मुकैर् दण्डैः काष्ठघातैश् च झर्झरैः। हन्यमानैः क्षताकीर्णैर् गन्तव्यं तैर् यमालयम्। ब्रह्मस्वं ये हरन्तीह नरा नरकनिर्भयाः। आक्रोशन्तीह वा नित्यं प्रहरन्ति च ये द्विजान्। शुष्ककण्ठा निबद्धास् ते छिन्नजिह्वाक्षिनासिकाः। पूयशोणितदुर्गन्धा भक्ष्यन्ते काकजम्बुकैः। चण्डालैर् भीषणैश् चण्डैस् तुद्यमानाः समन्ततः। क्रोशन्तः करुणं घोरं गच्छन्ति यमसादनम्। तत्र चापि गताः पापा विष्ठाकूपेष्व् अनेकशः। जीवन्तो वर्षकोटीस् तु क्लिश्यन्ते वेदनार्दिताः। ततश् च मुक्ताः कालेन लोके चास्मिन् नराधमाः। विष्ठाक्रिमित्वं गच्छन्ति जन्मकोटिशतं नृप। विद्यमानधनैर् यस् तु लोभडम्भानृतान्वितैः। श्रोत्रियेभ्यो न दत्तानि दानानि कुरुपुंगव। ग्रीवापाशनिबद्धास् ते हन्यमानाश् च राक्षसैः। क्षुत्पिपासाश्रमार्तास् तु यान्ति प्रेतपुरं नराः। अदत्तदाना गच्छन्ति शुष्ककण्ठास्यतालुकाः। अन्नं पानीयसहितं प्रार्थयन्तः पुनः पुनः। स्वामिन् बुभुक्षातृष्णार्ता गन्तुं नैवाद्य शक्नुमः। ममान्नं दीयतां स्वामिन् पानीयं दीयतां मम। वैशंपायन उवाच। इति ब्रुवन्तस् तैर् दूतैर् यापयन्ति यमालयम्। तच् छ्रुत्वा वचनं विष्णोः पपात भुवि पाण्डवः। निःसंज्ञो ऽपि भयत्रस्तो मूर्छया समभिप्लुतः। ततो लब्ध्वा शनैः संज्ञां समाश्वस्तो ऽच्युतेन सः। नेत्रे प्रक्षाल्य तोयेन भूयः केशवम् अब्रवीत्। भीतो ऽस्म्य् अहं महादेव श्रुत्वा मार्गस्य विस्तरम्। भगवान् उवाच। केनोपायेन तन्मार्गं तरन्ति पुरुषाः सुखम्। इह ये धार्मिका लोके जीवघातविवर्जिताः। गुरुशुश्रूषणे युक्ता देवब्राह्मणपूजकाः। अस्मान् मानुष्यकाल् लोकात् सभार्याः सहबान्धवाः। यम् अध्वानं तु गच्छन्ति यथावत् तं निबोध मे। ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पार्थिव। ये प्रयच्छन्ति विद्वद्भ्यस् ते सुखं यान्ति तत्पथम्। अन्नं ये च प्रयच्छन्ति ब्राह्मणेभ्यः सुसंस्कृतम्। श्रोत्रियेभ्यो विशेषेण प्रीत्या परमया युताः। ते विमानैर् महात्मानो यान्ति चित्रैर् यमालयम्। सेव्यमाना वरस्त्रीभिर् अप्सरोभिर् महापथम्। ये च नित्यं प्रभाषन्ते सत्यं निष्कल्मषं वचः। ते ऽपि यान्त्य् अमलाभ्राभैर् विमानैस् तं यमालयम्। कपिलाद्यानि पुण्यानि गोप्रदानानि ये नराः। ब्राह्मणेभ्यः प्रयच्छन्ति श्रोत्रियेभ्यो विशेषतः। ते यान्त्य् अमलवर्णाभैर् विमानैर् वृषयोजितैः। वैवस्वतपुरं प्राप्य अप्सरोभिर् निषेविताः। उपानहौ च छत्त्रं च शयनान्य् आसनानि च। विप्रेभ्यो ये प्रयच्छन्ति वस्त्राण्य् आभरणानि च। ते यान्त्य् अश्वैर् वृषैर् वापि कुञ्जरैर् अप्य् अलंकृताः। धर्मराजपुरं रम्यं सौवर्णच्छत्त्रशोभिताः। ये च भक्ष्याणि दास्यन्ति भोज्यं पेयं तथैव च। स्निग्धान्नान्य् अपि विप्रेभ्यः श्रद्धया परया युताः। ते यान्ति काञ्चनैर् यानैः सुखं वैवस्वतालयम्। वरस्त्रीभिर् यथाकामं सेव्यमानाः सहस्रशः। ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु। ब्राह्मणेभ्यः प्रयत्नेन श्रद्दधानाः सुसंस्कृताः। चक्रवाकप्रयुक्तैस् तु यानै रुक्ममयैः शुभैः। यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम्। ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च। हंसयुक्तैर् विमानैस् तु यान्ति धर्मपुरं नराः। ये प्रयच्छन्ति विप्रेभ्यो विचित्रान्नं घृताप्लुतम्। ते व्रजन्त्य् अमलाभ्राभैर् विमानैर् वायुवेगिभिः। पुरं तत् प्रेतनाथस्य नानाजनसमाकुलम्। पानीयं ये प्रयच्छन्ति सर्वभूतप्रजीवनम्। ते सुतृप्ताः सुखं यान्ति विमानैर् हंसचोदितैः। ये तिलांस् तिलधेनुं वा घृतधेनुम् अथापि वा। श्रोत्रियेभ्यः प्रयच्छन्ति सौम्यभावसमन्विताः। सोममण्डलसंकाशैर् यानैस् ते यान्ति निर्मलैः। गीयमानैस् तु गन्धर्वैर् वैवस्वतपुरं नृप। येषां वाप्यश् च कूपाश् च तटाकानि सरांसि च। दीर्घिकाः पुष्करिण्यश् च सजलाश् च जलाशयाः। यानैस् ते यान्ति चन्द्राभैर् दिव्यघण्टानिनादितैः। चामरैस् तालवृन्तैश् च वीज्यमाना महाप्रभाः। नित्यतृप्ता महात्मानो गच्छन्ति यमसादनम्। येषां देवगृहाणीह चित्राण्य् आयतनानि च। मनोहराणि कान्तानि दर्शनीयानि भान्ति च। ते व्रजन्त्य् अमलाभ्राभैर् विमानैर् वायुवेगिभिः। पुरं तत् प्रेतनाथस्य नानाजनसमाकुलम्। वैवस्वतं च पश्यन्ति सुखचित्तं सुखस्थितम्। यमेन पूजिता यान्ति देवसालोक्यतां ततः। देवान् उद्दिश्य लोकेषु प्रपासु करकोद्धृतम्। शीतलं सलिलं रम्यं तृषितेभ्यो दिशन्ति ये। ते तु तृप्तिं परां प्राप्य सुखं यान्ति महापथम्। काष्ठपादुकदा यान्ति तदध्वानं सुखं नराः। सौवर्णमणिपीठेषु पादौ कृत्वा रथोत्तमे। आरामान् वृक्षषण्डांश् च रोपयन्ति च ये नराः। संवर्धयन्ति चाव्यग्राः फलपुष्पोपशोभितान्। वृक्षच्छायासु रम्यासु शीतलासु स्वलंकृताः। यान्ति ते वाहनैर् दिव्यैः पूज्यमाना मुहुर् मुहुः। सेव्यमानाः सुरूपाभिर् उत्तमाभिः प्रयत्नतः। स्त्रीभिः कनकवर्णाभिर् यथाकामं यथासुखम्। अश्वयानं तु गोयानं हस्तियानम् अथापि वा। ये प्रयच्छन्ति विप्रेभ्यो विमानैः कनकोपमैः। सुवर्णं रजतं वापि विद्रुमं मौक्तिकं तथा। ये प्रयच्छन्ति ते यान्ति विमानैः काञ्चनोज्ज्वलैः। ते व्रजन्ति वरस्त्रीभिः सेव्यमाना यथासुखम्। भूमिदा यान्ति तं लोकं सर्वकामैः सुतर्पिताः। उदितादित्यसंकाशैर् विमानैर् वृषयोजितैः। कन्यां ये च प्रयच्छन्ति विप्राय श्रोत्रियाय च। दिव्यकन्यावृता यान्ति विमानैस् ते यमालयम्। सुगन्धान् गन्धसंयोगान् पुष्पाणि सुरभीणि च। प्रयच्छन्ति द्विजाग्रेभ्यो भक्त्या परमया युताः। सुगन्धाः सुष्ठुवेषाश् च सुप्रभाः स्रग्विभूषणाः। यान्ति धर्मपुरं यानैर् विचित्रैर् अप्य् अलंकृताः। दीपदा यान्ति यानैश् च द्योतयन्तो दिशो दश। आदित्यसदृशाकारैर् दीप्यमाना इवाग्नयः। गृहावसथदातारो ग्रहैः काञ्चनवेदिकैः। व्रजन्ति बालसूर्याभैर् धर्मराजपुरं नराः। जलभाजनदातारः कुण्डिकाकरकप्रदाः। पूज्यमाना वरस्त्रीभिर् यान्ति तृप्ता महागजैः। पादाभ्यङ्गं शिरोभ्यङ्गं पानं पादोदकं तथा। ये प्रयच्छन्ति विप्रेभ्यस् ते यान्त्य् अश्वैर् यमालयम्। विश्रामयन्ति ये विप्राञ् श्रान्तान् अध्वनि कर्शितान्। चक्रवाकप्रयुक्तेन यान्ति यानेन ते ऽपि च। स्वागतेन च यो विप्रान् पूजयेद् आसनेन च। स गच्छति तदध्वानं सुखं परमनिर्वृतः। नमो ब्रह्मण्यदेवेति यो मां दृष्ट्वाभिवादयेत्। व्रतवत् प्रयतो नित्यं स सुखं याति तत्पथम्। नमः सर्वसभाभ्यश् चेत्य् अभिख्याय दिने दिने। नमस्करोति गोभ्यो यः स सुखं याति तत्पथम्। नमो ऽस्तु प्रियदत्तायेत्य् एवंवादी दिने दिने। भूमिम् आक्रमते प्रातः शयनाद् उत्थितश् च यः। सर्वकामैः स तृप्तात्मा सर्वभूषणभूषितः। याति यानेन दिव्येन सुखं वैवस्वतालयम्। अनन्तराशिनो ये तु डम्भाहंकारवर्जिताः। ते ऽपि सारसयुक्तेन यान्ति यानेन वै सुखम्। ये चाप्य् एकेन भुक्तेन वर्तन्ते डम्भवर्जिताः। हंसयुक्तैर् विमानैस् तु सुखं यान्ति यमालयम्। चतुर्थेन च भुक्तेन वर्तन्ते ये जितेन्द्रियाः। यान्ति ते धर्मनगरं यानैर् बर्हिणयोजितैः। तृतीयदिवसेनेह भुञ्जते ये जितेन्द्रियाः। ते ऽपि हस्तिरथं यान्ति तत्पथं कनकोज्ज्वलैः। षष्ठाह्नकालिको यस् तु वर्षम् एकं तु वर्तते। कामक्रोधविनिर्मुक्तः शुचिर् नित्यं जितेन्द्रियः। स याति कुञ्जरस्थस् तु जयशब्दरवैर् युतः। पक्षोपवासिनो यान्ति यानैः शार्दूलयोजितैः। धर्मराजपुरं रम्यं दिव्यस्त्रीगणसेवितम्। ये च मासोपवासं वै कुर्वते संयतेन्द्रियाः। ते ऽपि सूर्योदयप्रख्यैर् यान्ति यानैर् यमालयम्। अग्निप्रवेशं यश् चापि कुरुते मद्गतात्मना। स यात्य् अग्निप्रकाशेन विमानेन यमालयम्। प्राणांस् त्यजति यो विप्रो मां प्रपन्नो ह्य् अनाशकः। स बालार्कप्रकाशेन व्रजेद् यानेन तत्पथम्। प्रविष्टो ऽन्तर्जले यस् तु प्राणांस् त्यजति मानवः। सोममण्डलकल्पेन याति यानेन तत्पथम्। स्वशरीरं हि गृध्राणां मन्मना यः प्रयच्छति। स याति रथमुख्येन काञ्चनेन यमालयम्। गोकृते स्त्रीकृते चैव हता विप्रकृते ऽपि च। ते यान्त्य् अमरकन्याभिः सेव्यमाना रविप्रभाः। ये च कुर्वन्ति मद्भक्तास् तीर्थयात्रां जितेन्द्रियाः। ते पन्थानं महात्मानो यानैर् यान्ति सुनिर्वृताः। ये यजन्ति द्विजश्रेष्ठाः क्रतुभिर् भूरिदक्षिणैः। हंससारससंयुक्तैर् यानैस् ते यान्ति तत्पथम्। परपीडाम् अकृत्वैव भृत्यान् बिभ्रति ये नराः। तत्पथं ते सुखं यान्ति विमानैः काञ्चनोज्ज्वलैः। ये समाः सर्वभूतेषु जीवानाम् अभयप्रदाः। क्रोधलोभविनिर्मुक्ता निगृहीतेन्द्रियास् तथा। पूर्णचन्द्रप्रतीकाशैर् विमानैस् ते महाप्रभाः। यान्ति वैवस्वतपुरं देवगन्धर्वसेविताः। ये माम् एकान्तभावेन देवं त्र्यम्बकम् एव च। पूजयन्ति नमस्यन्ति स्तुवन्ति च दिने दिने। धर्मराजपुरं यान्ति यानैस् ते ऽर्कसमप्रभैः। पूजितास् तत्र धर्मेण स्वयं माल्यादिभिः शुभैः। यान्त्य् एव मम लोकं वा रुद्रलोकम् अथापि वा। वैशंपायन उवाच। श्रुत्वा यमपुराध्वानं जीवानां गमनं तथा। धर्मपुत्रः प्रहृष्टात्मा केशवं पुनर् अब्रवीत्। देवदेवेश दैत्यघ्न ऋषिसंघैर् अभिष्टुत। भवान् भवकरः श्रीमान् सहस्रादित्यसप्रभ। सर्वसंभव सर्वज्ञ सर्वधर्मप्रवर्तक। सर्वदानफलं सौम्य कथयस्व ममाच्युत। दानं देयं कथं कृष्ण कीदृशाय द्विजाय वै। कीदृशं वा तपः कृत्वा तत्फलं कुत्र भुज्यते। एवम् उक्तो हृषीकेशो धर्मपुत्रेण धीमता। उवाच धर्मपुत्राय पुण्यान् धर्मान् महोदयान्। शृणुष्वावहितो राजन् पूतं पापघ्नम् उत्तमम्। सर्वदानफलं सौम्य न श्राव्यं पापकर्मणाम्। यच् छ्रुत्वा पुरुषः स्त्री वा नष्टपापः समाहितः। तत्क्षणात् पूततां याति पापकर्मरतो ऽपि वा। एकाहम् अपि कौन्तेय भूमाव् उत्पादितं जलम्। सप्त तारयते पूर्वान् वितृष्णा यत्र गौर् भवेत्। पानीयं परमं लोके जीवानां जीवनं स्मृतम्। पानीयस्य प्रदानेन तृप्तिर् भवति पाण्डव। पानीयस्य गुणा दिव्याः परलोके सुखावहाः। तत्र पुष्पोदकी नाम नदी परमपावनी। कामान् ददाति राजेन्द्र तोयदानं यमालये। शीतलं सलिलं तस्या अक्षय्यम् अमृतोपमम्। शीततोयप्रदातॄणां भवेन् नित्यं सुखावहा। ये चाप्य् अतोयदातारः पूयस् तेषां विधीयते। प्रणश्यत्य् अम्बुपानेन बुभुक्षा च युधिष्ठिर। तृषितस्य न चान्नेन पिपासापि प्रणश्यति। तस्मात् तोयं सदा देयं तृषितेभ्यो विजानता। अग्नेर् मूर्तिः क्षितेर् योनिर् अमृतस्य च संभवः। अतो ऽम्भः सर्वभूतानां मूलम् इत्य् उच्यते बुधैः। अद्भिः सर्वाणि भूतानि जीवन्ति प्रभवन्ति च। तस्मात् सर्वेषु दानेषु तोयदानं विशिष्यते। सर्वदानतपोयज्ञैर् यत् प्राप्यं फलम् उत्तमम्। तत् सर्वं तोयदानेन प्राप्यते नात्र संशयः। ये प्रयच्छन्ति विप्रेभ्यस् त्व् अन्नदानं सुसंस्कृतम्। तैस् तु दत्ता स्वयं प्राणा भवन्ति भरतर्षभ। अन्नाद् रक्तं च शुक्लं च अन्ने जीवः प्रतिष्ठितः। इन्द्रियाणि च बुद्धिश् च पुष्णन्त्य् अन्नेन नित्यशः। अन्नहीनानि सीदन्ति सर्वभूतानि पाण्डव। तेजो बलं च वीर्यं च सत्त्वं रूपं द्युतिर् धृतिः। ज्ञानं मेधा तथायुश् च सर्वम् अन्ने प्रतिष्ठितम्। देवमानवतिर्यक्षु सर्वलोकेषु सर्वदा। सर्वकालं हि सर्वेषाम् अन्ने प्राणाः प्रतिष्ठिताः। अन्नं प्रजापते रूपम् अन्नं प्रजननं स्मृतम्। सर्वभूतमयं चान्नं जीवश् चान्नमयं स्मृतम्। अन्नेनाधिष्ठितः प्राण अपानो व्यान एव च। उदानश् च समानश् च धारयन्ति शरीरिणाम्। शयनोत्थानगमनं ग्रहणाकर्षणानि च। सर्वसत्त्वकृतं कर्म चान्नाद् एव प्रवर्तते। चतुर्विधानि भूतानि जङ्गमानि स्थिराणि च। अन्नाद् भवन्ति राजेन्द्र सृष्टिर् एषा प्रजापतेः। विद्यास्थानानि सर्वाणि सर्वयज्ञाश् च पावनाः। अन्नाद् यस्मात् प्रवर्तन्ते तस्माद् अन्नं परं स्मृतम्। देवा रुद्रादयः सर्वे पितरो ऽप्य् अग्नयस् तथा। यस्माद् अन्नेन तुष्यन्ति तस्माद् अन्नं विशिष्यते। यस्माद् अन्नात् प्रजाः सर्वाः कल्पे कल्पे ऽसृजत् प्रभुः। तस्माद् अन्नात् परं दानं न भूतं न भविष्यति। यस्माद् अन्नात् प्रवर्तन्ते धर्मार्थौ काम एव च। तस्माद् अन्नात् परं दानं नामुत्रेह च पाण्डव। यक्षरक्षोग्रहा नागा भूता दैत्याश् च दानवाः। तुष्यन्त्य् अन्नेन यस्मात् तु तस्माद् अन्नं परं भवेत्। परान्नम् उपभुञ्जानो यत् कर्म कुरुते शुभम्। तच्छुभस्यैकभागस् तु कर्तुर् भवति भारत। अन्नदस्य त्रयो भागा भवन्ति पुरुषर्षभ। तस्माद् अन्नं प्रदातव्यं ब्राह्मणेभ्यो विशेषतः। ब्राह्मणाय दरिद्राय यो ऽन्नं संवत्सरं नृप। श्रोत्रियाय प्रयच्छेद् वै पाकभेदविवर्जितः। डम्भानृतविमुक्तस् तु परां भक्तिम् उपागतः। स्वधर्मेणार्जितफलं तस्य पुण्यफलं शृणु। शतं वर्षसहस्राणि कामगः कामरूपधृक्। मोदते ऽमरलोकस्थः पूज्यमानो ऽप्सरोगणैः। ततश् चापि च्युतः कालान् नरलोके द्विजो भवेत्। अग्रभिक्षां च यो दद्याद् दरिद्राय द्विजातये। षण्मासाद् वार्षिकं श्राद्धं तस्य पुण्यफलं शृणु। गोसहस्रप्रदानेन यत् पुण्यं समुदाहृतम्। तत् पुण्यफलम् आप्नोति नरो वै नात्र संशयः। अथ संवत्सरं दद्याद् अग्रभैक्ष्यम् अयाचते। प्रच्छाद्यैव स्वयं नीत्वा तस्य पुण्यफलं शृणु। कपिलानां सहस्रैस् तु यद् देयं पुण्यम् उच्यते। तत् सर्वम् अखिलं प्राप्य शक्रलोके महीयते। स शक्रभवने रम्ये वर्षकोटिशतं नृप। यथाकामं महातेजाः क्रीडत्य् अप्सरसां गणैः। अग्रान्नं यस् तु वै दद्याद् द्विजाय नियतव्रतः। दशवर्षाणि राजेन्द्र तस्य पुण्यफलं शृणु। कपिलाशतसहस्रस्य विधिदत्तस्य यत् फलम्। तत् पुण्यफलम् आसाद्य पुरंदरपुरं व्रजेत्। स शक्रभवने रम्ये कामरूपी यथासुखम्। शतकोटिसमा राजन् क्रीडते ऽमरपूजितः। शक्रलोकावतीर्णश् च इह लोके महाद्युतिः। चतुर्वेदी द्विजः श्रीमाञ् जायते राजपूजितः। अध्वश्रान्ताय विप्राय क्षुधितायान्नकाङ्क्षिणे। देशकालाभियाताय दीयते पाण्डुनन्दन। याचते ऽन्नं न दद्याद् यो विद्यमाने धनागमे। स लुब्धो नरकं याति कृमीणां कालसूत्रकम्। स तत्र नरके घोरे लोभमोहितचेतनः। दशवर्षसहस्राणि क्लिश्यते वेदनार्दितः। तस्माच् च नरकान् मुक्तः कालेन महता हि सः। दरिद्रो मानुषो लोके चण्डालेष्व् अपि जायते। यस् तु पांसुलपादश् च दूराध्वश्रमकर्शितः। क्षुत्पिपासाश्रमः श्रान्त आर्तः खिन्नगतिर् द्विजः। पृच्छन् वै ह्य् अन्नदातारं गृहम् अभ्येत्य याचयेत्। तं पूजयेत् तु यत्नेन सो ऽतिथिः स्वर्गसंक्रमः। तस्मिंस् तुष्टे नरश्रेष्ठ तुष्टाः स्युः सर्वदेवताः। न तथा हविषा होमैर् न पुष्पैर् नानुलेपनैः। अग्नयः पार्थ तुष्यन्ति यथा ह्य् अतिथिपूजनात्। कपिलायां तु दत्तायां विधिवज् ज्येष्ठपुष्करे। न तत् फलम् अवाप्नोति यत् फलं विप्रभोजनात्। द्विजपादोदकक्लिन्ना यावत् तिष्ठति मेदिनी। तावत् पुष्करपर्णेन पिबन्ति पितरो जलम्। देवमाल्यापनयनं द्विजोच्छिष्टापमार्जनम्। श्रान्तसंवाहनं चैव तथा पादावसेचनम्। प्रतिश्रयप्रदानं च तथा शय्यासनस्य च। एकैकं पाण्डवश्रेष्ठ गोप्रदानाद् विशिष्यते। पादोदकं पादघृतं दीपम् अन्नं प्रतिश्रयम्। ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पन्ति ते यमम्। विप्रातिथ्ये कृते राजन् भक्त्या शुश्रूषिते ऽपि च। देवाः शुश्रूषिताः सर्वे त्रयस्त्रिंशद् भवन्ति ते। अभ्यागतो ज्ञातपूर्वो ह्य् अज्ञातो ऽतिथिर् उच्यते। तयोः पूजां द्विजः कुर्याद् इति पौराणिकी श्रुतिः। पादाभ्यङ्गान्नपानैस् तु यो ऽतिथिं पूजयेन् नरः। पूजितस् तेन राजेन्द्र भवामीह न संशयः। शीघ्रं पापाद् विनिर्मुक्तो मया चानुग्रहीकृतः। विमानेनेन्दुकल्पेन मम लोकं स गच्छति। अभ्यागतं श्रान्तम् अनुव्रजन्ति। देवाश् च सर्वे पितरो ऽग्नयश् च। तस्मिन् द्विजे पूजिते पूजिताः स्युर्। गते निराशाः पितरो व्रजन्ति। अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते। पितरस् तस्य नाश्नन्ति दश वर्षाणि पञ्च च। वर्जितः पितृभिर् लुब्धः स देवैर् अग्निभिः सह। निरयं रौरवं गत्वा दश वर्षाणि पच्यते। ततश् चापि च्युतः कालाद् इह चोच्छिष्टभुग् भवेत्। वैश्वदेवान्तिके प्राप्तम् अतिथिं यो न पूजयेत्। स चण्डालत्वम् आप्नोति सद्य एव न संशयः। निर्वासयति यो विप्रं देशकालागतं गृहात्। पतितस् तत्क्षणाद् एव जायते नात्र संशयः। नरके रौरवे घोरे वर्षकोटिं स पच्यते। ततश् चापि च्युतः कालाद् इह लोके नराधमः। श्वा वै द्वादश जन्मानि जायते क्षुत्पिपासितः। चण्डालो ऽप्य् अतिथिः प्राप्तो देशकाले ऽन्नकाङ्क्षया। अभ्युद्गम्य गृहस्थेन पूजनीयश् च सर्वदा। अनर्चयित्वा यो ऽश्नाति लोभमोहविचेतनः। स चण्डालत्वम् आप्नोति दश जन्मानि पाण्डव। निराशम् अतिथिं कृत्वा भुञ्जानो यः प्रहृष्टवान्। न जानात्य् आत्मनात्मानं विष्ठाकूपे निपातितम्। मोघं ध्रुवं प्रोर्णयति मोघम् अस्य तु पच्यते। मोघम् अन्नं सदाश्नाति यो ऽतिथिं न च पूजयेत्। साङ्गोपाङ्गांस् तु यो वेदान् पठतीह दिने दिने। न चातिथिं पूजयति वृथा भवति स द्विजः। पाकयज्ञमहायज्ञैः सोमसंस्थाभिर् एव च। ये यजन्ति न चार्चन्ति गृहेष्व् अतिथिम् आगतम्। तेषां यशोभिकामानां दत्तम् इष्टं च यद् भवेत्। वृथा भवति तत् सर्वम् आशया हि तया हतम्। देशकालं च पात्रं च स्वशक्तिं च निरीक्ष्य च। अल्पं समं महद् वापि कुर्याद् आतिथ्यम् आत्मवान्। सुमुखः सुप्रसन्नात्मा धीमान् अतिथिम् आगतम्। स्वागतेनासनेनाद्भिर् अन्नाद्येन च पूजयेत्। हितः प्रियो वा द्वेष्यो वा मूर्खः पण्डित एव वा। प्राप्तो यो वैश्वदेवान्ते सो ऽतिथिः स्वर्गसंक्रमः। क्षुत्पिपासाश्रमार्ताय देशकालागताय च। सत्कृत्यान्नं प्रदातव्यं यज्ञस्य फलम् इच्छता। भोजयेद् आत्मनः श्रेष्ठान् विधिवद् धव्यकव्ययोः। अन्नं प्राणो मनुष्याणाम् अन्नदः प्राणदो भवेत्। तस्माद् अन्नं विशेषेण दातव्यं भूतिम् इच्छता। अन्नदः सर्वकामैस् तु सुतृप्तः सुष्ठ्व् अलंकृतः। पूर्णचन्द्रप्रकाशेन विमानेन विराजता। सेव्यमानो वरस्त्रीभिर् मम लोकं स गच्छति। क्रीडित्वा तु ततस् तस्मिन् वर्षकोटिं यथामरः। ततश् चापि च्युतः कालाद् इह लोके महायशाः। वेदशास्त्रार्थतत्त्वज्ञो भोगवान् ब्राह्मणो भवेत्। यथाश्रद्धं तु यः कुर्यान् मनुष्येषु प्रजायते। महाधनपतिः श्रीमान् वेदवेदाङ्गपारगः। सर्वशास्त्रार्थतत्त्वज्ञो भोगवान् ब्राह्मणो भवेत्। सर्वातिथ्यं तु यः कुर्याद् वर्षम् एकम् अकल्मषः। धर्मार्जितधनो भूत्वा पापभेदविवर्जितः। देवान् इव स्वयं विप्रान् अर्चयित्वा पितॄन् अपि। विप्रानग्राशनाशी यस् तस्य पुण्यफलं शृणु। वर्षेणैकेन यावन्ति पिण्डान् अश्नन्ति वै द्विजाः। तावद् वर्षाणि राजेन्द्र मम लोके महीयते। ततश् चापि च्युतः कालाद् इह लोके महायशाः। वेदशास्त्रार्थतत्त्वज्ञो भोगवान् ब्राह्मणो भवेत्। सर्वातिथ्यं च यः कुर्याद् यथाश्रद्धं नरेश्वर। अकालनियमेनापि सत्यवादी जितेन्द्रियः। सत्यसंधो जितक्रोधः शाखाधर्मविवर्जितः। अधर्मभीरुर् धर्मिष्ठो मायामात्सर्यवर्जितः। श्रद्दधानः शुचिर् नित्यं पाकभेदविवर्जितः। स विमानेन दिव्येन दिव्यरूपी महायशाः। पुरंदरपुरं याति गीयमानो ऽप्सरोगणैः। मन्वन्तरं तु तत्रैव क्रीडित्वा देवपूजितः। मानुष्यलोकम् आगम्य भोगवान् ब्राह्मणो भवेत्। दश जन्मानि विप्रत्वम् आप्नुयाद् राजपूजितः। भगवान् उवाच। जातिस्मरश् च भवति यत्र तत्रोपजायते। अतः परं प्रवक्ष्यामि भूमिदानम् अनुत्तमम्। यः प्रयच्छति विप्राय भूमिं रम्यां सदक्षिणाम्। श्रोत्रियाय दरिद्राय साग्निहोत्राय पाण्डव। स सर्वकामतृप्तात्मा सर्वरत्नविभूषितः। सर्वपापविनिर्मुक्तो दीप्यमानो ऽर्कवत् सदा। बालसूर्यप्रकाशेन विचित्रध्वजशोभिना। याति यानेन दिव्येन मम लोकं महायशाः। तत्र दिव्याङ्गनाभिस् तु सेव्यमानो यथासुखम्। कामगः कामरूपी च क्रीडत्य् अप्सरसां गणैः। यावद् बिभर्ति लोकान् वै भूमिः कुरुकुलोद्वह। तावद् भूमिप्रदः कामं मम लोके महीयते। न हि भूमिप्रदानाद् वै दानम् अन्यद् विशिष्यते। न चापि भूमिहरणात् पापम् अन्यद् विशिष्यते। दानान्य् अन्यानि हीयन्ते कालेन कुरुपुंगव। भूमिदानस्य पुण्यस्य क्षयो नैवोपपद्यते। ब्राह्मणाय दरिद्राय भूमिं दत्तां तु यो नरः। न हिंसति नरव्याघ्र तस्य पुण्यफलं शृणु। सप्तद्वीपसमुद्रान्ता रत्नधान्यसमाकुला। स शैलवनदुर्गाढ्या तेन दत्ता मही भवेत्। भूमिं दृष्ट्वा दीयमानां श्रोत्रियायाग्निहोत्रिणे। सर्वभूतानि मन्यन्ते मां ददातीति हर्षवत्। सुवर्णमणिरत्नानि धनधान्यवसूनि च। सर्वदानानि वै राजन् ददाति वसुधां ददन्। सागरान् सरितः शैलान् समानि विषमाणि च। सर्वगन्धरसांश् चैव ददाति वसुधां ददन्। ओषधीः फलसंपन्ना नानापुष्पफलान्विताः। कमलोत्पलषण्डांश् च ददाति वसुधां ददन्। धर्मं कामं तथार्थं च वेदान् यज्ञांस् तथैव च। स्वर्गमार्गगतिं चैव ददाति वसुधां ददन्। अग्निष्टोमादिभिर् यज्ञैर् ये यजन्ते सदक्षिणैः। न तत् फलं लभन्ते ते भूमिदानस्य यत् फलम्। श्रोत्रियाय महीं दत्त्वा यो न हिंसति पाण्डव। तद् दानं कथयिष्यन्ति यावल् लोकाः प्रतिष्ठिताः। तावत् स्वर्गोपभोगानां भोक्तारः पाण्डुनन्दन। सस्यपूर्णां महीं यस् तु श्रोत्रियाय प्रयच्छति। पितरस् तस्य तृप्यन्ति यावद् आभूतसंप्लवम्। मम रुद्रस्य सवितुस् त्रिदशानां तथैव च। प्रीतये विद्धि राजेन्द्र भूमिर् दत्ता द्विजाय वै। तेन पुण्येन पूतात्मा दाता भूमेर् युधिष्ठिर। मम सालोक्यम् आयाति नात्र कार्या विचारणा। यत् किं चित् कुरुते पापं पुरुषो वृत्तिकर्शितः। स च गोकर्णमात्रेण भूमिदानेन शुध्यति। मासोपवासे यत् पुण्यं कृच्छ्रे चान्द्रायणे ऽपि च। भूमिगोकर्णमात्रेण तत् पुण्यं तु विधीयते। सर्वतीर्थाभिषेके च यत् पुण्यं समुदाहृतम्। युधिष्ठिर उवाच। भूमिगोकर्णमात्रेण तत् पुण्यं तु विधीयते। देवदेव नमस् ते ऽस्तु वासुदेव सुरेश्वर। भगवान् उवाच। गोकर्णस्य प्रमाणं वै वक्तुम् अर्हसि तत्त्वतः। शृणु गोकर्णमात्रस्य प्रमाणं पाण्डुनन्दन। त्रिंशद्दण्डप्रमाणेन प्रमितं सर्वतोदिशम्। प्रत्यक् प्राग् अपि राजेन्द्र तत् तथा दक्षिणोत्तरम्। गोकर्णं तद्विदः प्राहुः प्रमाणं धरणेर् नृप। सवृषं गोशतं यत्र सुखं तिष्ठत्य् अयन्त्रितम्। सवत्सं कुरुशार्दूल तच् च गोकर्णम् उच्यते। किंकरा मृत्युदण्डाश् च कुम्भीपाकाश् च दारुणाः। घोराश् च वारुणाः पाशा नोपसर्पन्ति भूमिदम्। निरया रौरवाद्याश् च तथा वैतरणी नदी। तीव्राश् च यातनाः कष्टा नोपसर्पन्ति भूमिदम्। चित्रगुप्तः कलिः कालः कृतान्तो मृत्युर् एव च। यमश् च भगवान् साक्षात् पूजयन्ति महीप्रदम्। रुद्रः प्रजापतिः शक्रः सुरा ऋषिगणास् तथा। अहं च प्रीतिमान् राजन् पूजयामो महीप्रदम्। कृशभृत्यस्य कृशगोः कृशाश्वस्य कृशातिथेः। भूमिर् देया नरश्रेष्ठ स निधिः पारलौकिकः। सीदमानकुटुम्बाय श्रोत्रियायाग्निहोत्रिणे। व्रतस्थाय दरिद्राय भूमिर् देया नराधिप। यथा हि धात्री क्षीरेण पुत्रं वर्धयति स्वयम्। दातारम् अनुगृह्णाति दत्ता ह्य् एवं वसुंधरा। यथा बिभर्ति गौर् वत्सं सृजन्ती क्षीरम् आत्मनः। तथा सर्वगुणोपेता भूमिर् वहति भूमिदम्। यथा बीजानि रोहन्ति जलसिक्तानि भूपते। तथा कामाः प्ररोहन्ति भूमिदस्य दिने दिने। यथोदयस् तु सूर्यस्य तमः सर्वं व्यपोहति। तथा पापं नरस्येह भूमिदानं व्यपोहति। दाता दशानुगृह्णाति यो हरेद् दश हन्ति च। अतीतानागतानीह कुलानि कुरुपुंगव। आश्रुत्य भूमिदानं तु दत्त्वा यो वा हरेत् पुनः। स बद्धो वारुणैः पाशैः क्षिप्यते पूयशोणिते। स्वदत्तां परदत्तां वा यो हरेत वसुंधराम्। न तस्य नरकाद् घोराद् विद्यते निष्कृतिः क्व चित्। ब्राह्मणस्य हते क्षेत्रे हन्याद् द्वादश पूर्वजान्। स गच्छेत् कृमियोनिं च न च मुच्येत जातु सः। दत्त्वा भूमिं द्विजेन्द्राय यस् ताम् एवोपजीवति। गवां शतसहस्रस्य हन्तुः स लभते फलम्। सो ऽधःशिरास् तु पापात्मा कुम्भीपाकेषु पच्यते। दिव्यैर् वर्षसहस्रैस् तु कुम्भीपाकाद् विनिःसृतः। इह लोके भवेत् स श्वा शतजन्मानि पाण्डव। दत्त्वा भूमिं द्विजेन्द्राणां यस् ताम् एवोपजीवति। स मूढो याति दुष्टात्मा नरकान् एकविंशतिम्। नरकेभ्यो विनिर्मुक्तः शुनां योनिं स गच्छति। हलकृष्टा मही देया सबीजा सस्यमालिनी। अथ वा सोदका देया दरिद्राय द्विजातये। एवं दत्ता मही राजन् प्रहृष्टेनान्तरात्मना। सर्वान् कामान् अवाप्नोति मनसा चिन्तितानि च। बहुभिर् वसुधा दत्ता दीयते च नराधिपैः। यस्य यस्य यदा भूमिस् तस्य तस्य तदा फलम्। यः प्रयच्छति कन्यां वै सुरूपां श्रोत्रियाय वै। स ब्रह्मदेवो राजेन्द्र तस्य पुण्यफलं शृणु। बलीवर्दसहस्राणां दत्तानां धुर्यवाहिनाम्। यत् फलं लभते राजन् कन्यादानेन तत् फलम्। गवां शतसहस्रस्य सम्यग् दत्तस्य यत् फलम्। तत् फलं समवाप्नोति यः प्रयच्छति कन्यकाम्। यावन्ति चैव रोमाणि कन्यायाः कुरुपुंगव। तावद् वर्षसहस्राणि मम लोके महीयते। ततश् चापि च्युतः कालाद् इह लोके स जायते। षडङ्गविच् चतुर्वेदी सर्वलोकार्चितो द्विजः। यः सुवर्णं दरिद्राय ब्राह्मणाय प्रयच्छति। श्रोत्रियाय दरिद्राय बहुपुत्राय पाण्डव। विमुक्तः सर्वपापेभ्यो बालसूर्यसमप्रभः। विमानं दिव्यम् आरूढः कामगः कामभोगवान्। वर्षकोटिं महातेजा मम लोके प्रमोदते। ततः कालावतीर्णश् च सोस्मिंल् लोके हि जायते। वेदवेदाङ्गविद् विप्रः कोटीधनपतिर् भवेत्। यश् च रूप्यं प्रयच्छेद् वै दरिद्राय द्विजाय वै। कृशवृत्ते कृशगवे स मुक्तः सर्वकिल्बिषैः। पूर्णचन्द्रप्रकाशेन विमानेन विराजता। कामरूपी यथा कामं स्वर्गलोके महीयते। ततो ऽवतीर्णः कालेन लोके चास्मिन् महायशाः। सर्वलोकार्चितः श्रीमान् राजा भवति वीर्यवान्। तिलपर्वतकं यस् तु श्रोत्रियाय प्रयच्छति। विशेषेण दरिद्राय तस्यापि शृणु यत् फलम्। पुण्यं वृषायुतोत्सर्गे यत् प्रोक्तं पाण्डुनन्दन। तत् पुण्यं समनुप्राप्य तत्क्षणाद् विरजो भवेत्। यथा त्वचो भुजङ्गो वै त्यक्त्वा शुद्धतनुर् भवेत्। तथा तिलप्रदानाद् वै पापं त्यक्त्वा विशुध्यति। तिलषण्डं प्रयुञ्जानो जाम्बूनदविभूषितम्। विमानं दिव्यम् आरूढः पितृलोके महीयते। षष्टिवर्षसहस्राणि कामरूपी महायशाः। तिलप्रदाता रमते पितृलोके यथासुखम्। यः प्रयच्छति विप्राय तिलधेनुं नराधिप। श्रोत्रियाय दरिद्राय शृणु तस्यापि यत् फलम्। गोसहस्रप्रदानेन यत् पुण्यं समुदाहृतम्। तत् पुण्यफलम् आप्नोति तिलधेनुप्रदो नरः। तिलानां कुडवैर् यस् तु तिलधेनुं प्रयच्छति। तावत् कोटिसमा राजन् स्वर्गलोके महीयते। अष्टाढकतिलैः कृत्वा तिलधेनुं नराधिप। द्वात्रिंशन् निष्कसंयुक्तं विषुवे यः प्रयच्छति। मद्भक्त्या मद्गतात्मा वै तस्य पुण्यफलं शृणु। कन्यादानसहस्रस्य विधिदत्तस्य यत् फलम्। तत् पुण्यं समनुप्राप्तो मम लोके महीयते। मम लोकावतीर्णश् च सो ऽस्मिंल् लोके ऽभिजायते। ऋग्यजुःसामवेदानां पारगो ब्राह्मणर्षभः। गां तु यस् तु दरिद्राय श्रोत्रियाय प्रयच्छति। प्रसन्नां क्षीरिणीं पुण्यां सवत्सां कांस्यदोहिनीम्। यत् किं चिद् दुष्कृतं कर्म तस्य पूर्वकृतं नृप। तत् सर्वं तत्क्षणाद् एव विनश्यति न संशयः। यानं च वृषसंयुक्तं दीप्यमानं स्वलंकृतम्। आरूढः कामगं दिव्यं गोलोकम् अधिगच्छति। यावन्ति चैव रोमाणि तस्या गोस् तु नराधिप। तावद् वर्षसहस्राणि गवां लोके महीयते। गोलोकाद् अवतीर्णस् तु लोके ऽस्मिन् ब्राह्मणो भवेत्। सत्रयाजी वदान्यश् च सर्वराजभिर् अर्चितः। तिलं गावः सुवर्णं चाप्य् अन्नं कन्या वसुंधरा। तारयन्तीह दत्तानि ब्राह्मणेभ्यो महाभुज। ब्राह्मणं वृत्तसंपन्नम् आहिताग्निम् अलोलुपम्। तर्पयेद् विधिवद् राजन् स निधिः पारलौकिकः। आहिताग्निं दरिद्रं च श्रोत्रियं च जितेन्द्रियम्। शूद्रान्नवर्जितं चैव द्विजं यत्नेन पूजयेत्। आहिताग्निः सदा पात्रम् अग्निहोत्रश् च वेदवित्। पात्राणाम् अपि तत् पात्रं शूद्रान्नं यस्य नोदरे। यच् च वेदमयं पात्रं यच् च पात्रं तपोमयम्। असंकीर्णं च यत् पात्रं तत् पात्रं तारयिष्यति। नित्यं स्वाध्यायनिरतास् त्व् अप्रकीर्णेन्द्रियाश् च ये। पञ्चयज्ञरता नित्यं पूजितास् तारयन्ति ते। ये क्षान्तिदान्ताः श्रुतिपूर्णकर्णा। जितेन्द्रिया प्राणिवधे निवृत्ताः। प्रतिग्रहे संकुचिता गृहस्थास्। ते ब्राह्मणास् तारयितुं समर्थाः। नित्योदकी नित्ययज्ञोपवीती। नित्यस्वाध्यायी वृषलान्नवर्जी। ऋतौ गच्छन् विधिवच् चापि जुह्वन्। स ब्राह्मणस् तारयितुं समर्थः। ब्राह्मणो यस् तु मद्भक्तो मद्याजी मत्परायणः। मयि संन्यस्तकर्मा च स विप्रस् तारयेद् ध्रुवम्। द्वादशाक्षरतत्त्वज्ञश् चतुर्व्यूहविभागवित्। वैशंपायन उवाच। अच्छिद्रपञ्चकालज्ञः स विप्रस् तारयिष्यति। वासुदेवेन दानेषु कथितेषु यथाक्रमम्। अवितृप्तस् तु धर्मेषु केशवं पुनर् अब्रवीत्। देव धर्मामृतम् इदं शृण्वतो ऽपि परंतप। न विद्यते सुरश्रेष्ठ मम तृप्तिर् हि माधव। अनडुत्संप्रदानस्य यत् फलं तु विधीयते। तत् फलं कथयस्वेह तव भक्तस्य मे ऽच्युत। यानि चान्यानि दानानि त्वया नोक्तानि कानि चित्। तान्य् आचक्ष्व सुरश्रेष्ठ तेषां चानुक्रमात् फलम्। भगवान् उवाच। पवित्रत्वात् सुपुण्यत्वात् पावनत्वात् तथैव च। शृणु धर्मामृतं श्रेष्ठं दत्तस्यानडुहः फलम्। दशधेनुसमो ऽनड्वान् एको ऽपि कुरुपुंगव। मेदोमांसविपुष्टाङ्गो नीरोगः कोपवर्जितः। युवा भद्रः सुशीलश् च सर्वदोषविवर्जितः। धुरं धारयते क्षिप्रं दत्तो विप्राय पाण्डव। स तेन पुण्यदानेन वर्षकोटिं युधिष्ठिर। यथाकामं महातेजा गवां लोके महीयते। यश् च दद्याद् अनडुहौ द्वौ युक्तौ च धुरंधरौ। सुवृत्ताय दरिद्राय श्रोत्रियाय विशेषतः। तस्य यत् पुण्यम् आख्यातं तच् छृणुष्व युधिष्ठिर। सहस्रगोप्रदानेन यत् प्रोक्तं फलम् उत्तमम्। तत् पुण्यफलम् आप्नोति याति लोकान् स मामकान्। यावन्ति चैव रोमाणि तयोर् अनडुहोर् नृप। तावद् वर्षसहस्राणि मम लोके महीयते। दरिद्रायैव दातव्यं न समृद्धाय पाण्डव। वर्षाणां हि तटाकेषु फलं नैव पयोधिषु। यस् तु दद्याद् अनडुहं दरिद्राय द्विजातये। स तेन पुण्यदानेन पूतात्मा कुरुपुंगव। विमानं दिव्यम् आरूढो दिव्यरूपी यथासुखम्। मम लोकेषु रमते यावद् आभूतसंप्लवम्। गृहं दीपप्रभायुक्तं शय्यासनविभूषितम्। भाजनोपस्करैर् युक्तं धान्यपूर्णम् अलंकृतम्। दासीगोभूमिसंयुक्तं सफलं सर्वसाधनैः। ब्राह्मणाय दरिद्राय श्रोत्रियाय युधिष्ठिर। दद्यात् सदक्षिणं यस् तु तस्य पुण्यफलं शृणु। देवाः पितृगणाश् चैव अग्नयो ऋषयस् तथा। प्रयच्छन्ति प्रहृष्टा वै यानम् आदित्यसंनिभम्। तेन गच्छेच् छ्रिया युक्तो ब्रह्मलोकम् अनुत्तमम्। स्त्रीसहस्रावृते दिव्ये भवने तत्र काञ्चने। मोदते ब्रह्मलोकस्थो यावद् आभूतसंप्लवम्। शय्यां प्रस्तरणोपेतां यः प्रयच्छति पाण्डव। अर्चयित्वा द्विजं भक्त्या वस्त्रमाल्यानुलेपनैः। भोजयित्वा विचित्रान्नं तस्य पुण्यफलं शृणु। धेनुदानस्य यत् पुण्यं विधिदत्तस्य पाण्डव। तत् पुण्यं तम् अनुप्राप्य पितृलोके महीयते। शिल्पम् अध्ययनं वापि विद्यामन्त्रौषधानि च। यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु। आहिताग्निसहस्रस्य पूजितस्यैव यत् फलम्। तत् पुण्यफलम् आप्नोति यस् तु विद्यां प्रयच्छति। छन्दोभिः संप्रयुक्तेन विमानेन विराजता। सप्तर्षिलोकान् व्रजति पूज्यते ब्रह्मवादिभिः। चतुर्युगानि वै त्रिंशत् क्रीडित्वा तत्र देववत्। इह मानुष्यके लोके विप्रो भवति वेदवित्। विश्रामयति यो विप्रं श्रान्तम् अध्वनि कर्शितम्। विनश्यति तदा पापं तस्य वर्षकृतं नृप। अथ प्रक्षालयेत् पादौ तस्य तोयेन भक्तिमान्। दशवर्षकृतं पापं व्यपोहति न संशयः। घृतेन वाथ तैलेन पादौ तस्य तु पूजयेत्। तद् द्वादशसमारूढं पापम् आशु व्यपोहति। धेनुकाञ्चनदत्तस्य यच् च पुण्यम् उदाहृतम्। तत् पुण्यफलम् आप्नोति यस् त्व् एवं विप्रम् अर्चयेत्। स्वागतेन च यो विप्रं पूजयेद् आसनेन च। प्रत्युत्थानेन वा राजन् स देवानां प्रियो भवेत्। स्वागतेनाग्नयो राजन्न् आसनेन शतक्रतुः। प्रत्युत्थानेन पितरः प्रीतिं यान्त्य् अतिथिप्रियाः। अग्निशक्रपितॄणां च तेषां प्रीत्या नराधिप। संवत्सरकृतं पापं तस्य सद्यो विनश्यति। यः प्रयच्छति विप्राय आसनं माल्यभूषितम्। स याति मणिचित्रेण रथेनेन्द्रनिकेतनम्। पुरंदरपुरे तत्र दिव्यनारीविभूषितः। षष्टिं वर्षसहस्राणि क्रीडत्य् अप्सरसां गणैः। वाहनं यः प्रयच्छेत ब्राह्मणाय युधिष्ठिर। स याति रत्नचित्रेण वाहनेन सुरालयम्। स तत्र कामं क्रीडित्वा सेव्यमानो ऽप्सरोगणैः। इह राजा भवेद् राजन् नात्र कार्या विचारणा। पादपं पल्लवाकीर्णं पुष्पितं फलितं तथा। गन्धमाल्यैर् अथाभ्यर्च्य वस्त्राभरणभूषितम्। यः प्रयच्छति विप्राय श्रोत्रियाय सदक्षिणम्। भोजयित्वा यथाकामं तस्य पुण्यफलं शृणु। जाम्बूनदविचित्रेण विमानेन विराजता। पुरंदरपुरं याति जयशब्दरवैर् युतः। ततः शक्रपुरे रम्ये तस्य कल्पकपादपः। ददाति चेप्सितं सर्वं मनसा यद् यद् इच्छति। यावन्ति तस्य पत्राणि पुष्पाणि च फलानि च। तावद् वर्षसहस्राणि स्वर्गलोके महीयते। शक्रलोकावतीर्णश् च मानुष्यं लोकम् आगतः। रथाश्वगजसंपूर्णं पुरं राज्यं च रक्षति। स्थापयित्वा तु मद्भक्त्या यो मत्प्रतिकृतिं नरः। आलयं विधिवत् कृत्वा पूजाकर्म च कारयेत्। स्वयं वा पूजयेद् भक्त्या तस्य पुण्यफलं शृणु। अश्वमेधसहस्रस्य यत् पुण्यं समुदाहृतम्। तत् फलं समवाप्नोति मत्सालोक्यं प्रपद्यते। न जाने निर्गमं तस्य मम लोकाद् युधिष्ठिर। देवालये विप्रगृहे गोवाटे चत्वरे ऽपि वा। प्रज्वालयति यो दीपं तस्य पुण्यफलं शृणु। आरुह्य काञ्चनं यानं द्योतयन् सर्वतोदिशम्। गच्छेद् आदित्यलोकं स सेव्यमानः सुरोत्तमैः। तत्र प्रकामं क्रीडित्वा वर्षकोटिं महातपाः। इह लोके भवेद् विप्रो वेदवेदाङ्गपारगः। देवालयेषु वा राजन् ब्राह्मणावसथेषु वा। चत्वरे वा चतुष्के वा रात्रौ वा यदि वा दिवा। नानागन्धर्ववाद्यानि धर्मश्रावणिकानि च। यस् तु कारयते भक्त्या मद्गतेनान्तरात्मना। तस्य देवा नरश्रेष्ठ पितरश् चापि हर्षिताः। सुप्रीताः संप्रयच्छन्ति विमानं कामगं शुभम्। स च तेन विमानेन याति देवपुरं नरः। तत्र दिव्याप्सरोभिस् तु सेव्यमानः प्रमोदते। देवलोकावतीर्णस् तु सो ऽस्मिंल् लोके नराधिप। वेदवेदाङ्गतत्त्वज्ञो भोगवान् ब्राह्मणो भवेत्। चत्वरे वा सभायां वा विस्तीर्णे वा सभाङ्गणे। कृत्वाग्निकुण्डं विपुलं स्थण्डिलं वा युधिष्ठिर। तत्राग्निं चतुरो मासाञ् ज्वलयेद् यस् तु भक्तिमान्। समाप्तेषु च मासेषु पौष्यादिषु ततो द्विजान्। भोजयेत् पायसं मृष्टं मद्गतेनान्तरात्मना। दक्षिणां च यथाशक्ति ब्राह्मणेभ्यो निवेदयेत्। एवम् अग्निं तु यः कुर्यान् नित्यम् एवार्चयंस् तु माम्। तस्य पुण्यफलं यद् वै तन् निबोध युधिष्ठिर। तेनाहं शंकरश् चैव पितरो ह्य् अग्नयस् तथा। यास्यामः परमां प्रीतिं नात्र कार्या विचारणा। षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च। सो ऽस्मत् प्रीतिकरः श्रीमान् मम लोके महीयते। मम लोकावतीर्णश् च सो ऽस्मिंल् लोके महायशाः। वेदवेदाङ्गविद् विप्रो जायते राजपूजितः। यः करोति नरश्रेष्ठ भरणं ब्राह्मणस्य तु। श्रोत्रियस्याभिजातस्य दरिद्रस्य विशेषतः। तस्य पुण्यफलं यद् वै तन् निबोध युधिष्ठिर। गवां कोटिप्रदानेन यत् पुण्यं समुदाहृतम्। तत्पुण्यफलम् आप्नोति वर्षेणैकेन पाण्डव। काञ्चनेन विचित्रेण यानेनाम्बरशोभिना। स याति मामकं लोकं दिव्यस्त्रीगणसेवितः। गीयमानो वरस्त्रीभिर् वर्षाणां कोटिविंशतिम्। क्रीडित्वा मामके लोके तत्र देवैर् अभिष्टुतः। मानुष्यम् अवतीर्णस् तु वेदविद् ब्राह्मणो भवेत्। करकं कुण्डिकां वापि महद् वा जलभाजनम्। यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु। ब्रह्मकूर्चेन यत् पीते फलं प्रोक्तं यथाविधि। तत् पुण्यफलम् आप्नोति जलभाजनदो नरः। सुतृप्तः सुप्रभः सौम्यः प्रहृष्टेन्द्रियमानसः। हंससारसयुक्तेन विमानेन विराजता। स याति वारुणं लोकं दिव्यगन्धर्वसेवितः। पानीयं यः प्रयच्छेद् वै जीवानां जीवनं परम्। ग्रीष्मकेषु च मासेषु तस्य पुण्यफलं शृणु। कपिलाकोटिदानस्य यत् पुण्यं तु विधीयते। तत्पुण्यफलम् आप्नोति पानीयं यः प्रयच्छति। पूर्णचन्द्रप्रकाशेन विमानेन विराजता। स गच्छेच् चेन्द्रसदनं सेव्यमानो ऽप्सरोगणैः। त्रिंशत्कोटियुगं तत्र दिव्यगन्धर्वसेवितः। क्रीडित्वा मानुषे लोके चतुर्वेदी द्विजो भवेत्। शिरो ऽभ्यङ्गप्रदानेन तेजस्वी प्रियदर्शनः। सुभगो रूपवाञ् शूरः पण्डितश् च भवेद् द्विजः। वस्त्रदायी तु तेजस्वी सर्वत्र प्रियदर्शनः। सुखभोगपतिः श्रीमान् स्त्रीणां नित्यं मनोरमः। उपानहौ च छत्त्रं च यो ददाति नरोत्तमः। स याति नरमुख्येन काञ्चनेन विराजता। शक्रलोकं महातेजाः सेव्यमानो ऽप्सरोगणैः। काष्ठपादुकदो याति विमानैर् वृषनिर्मितैः। धर्मराजपुरं रम्यं सेव्यमानो ऽप्सरोत्तमैः। दन्तकाष्ठप्रदानेन प्रियवाक्यो भवेन् नरः। सुगन्धवदनः श्रीमान् मेधासौभाग्यसंयुतः। क्षीरं दधि घृतं वापि गुडं मधुरसं तथा। ये प्रयच्छन्ति विप्रेभ्यः परां भक्तिं गता नराः। ते वृषैर् अश्वयानैश् च श्वेतस्रग्दामभूषिताः। उपगीयमाना गन्धर्वैर् यान्तीश्वरपुरं नराः। तत्र दिव्याप्सरोभिस् तु सेव्यमाना यथासुखम्। षष्टिं वर्षसहस्राणि मोदन्ते देवसंनिभाः। ततः कालावतीर्णाश् च जायन्ते त्व् इह मानवाः। प्रभूतधनधान्याश् च भोगवन्तो नरोत्तमाः। वैशाखे मासि वैशाखे दिवसे पाण्डुनन्दन। वैवस्वतं समुद्दिश्य परां भक्तिम् उपागताः। अभ्यर्च्य विधिवद् विप्रांस् तिलान् गुडसमायुतान्। ये प्रयच्छन्ति विप्रेभ्यस् तेषां पुण्यफलं शृणु। गोप्रदानेन यत् पुण्यं विधिवत् पाण्डुनन्दन। तत् पुण्यं समनुप्राप्तो यमलोके महीयते। ततश् चापि च्युतः कालाद् इह राजा भविष्यति। तस्मिन्न् एव दिने विप्रान् भोजयित्वा सदक्षिणम्। तोयपूर्णानि दिव्यानि भाजनानि दिशन्ति ये। ते यान्त्य् आदित्यवर्णाभैर् विमानैर् वरुणालयम्। तत्र दिव्याङ्गनाभिस् तु रमन्ते कामकामिनः। ततो ऽवतीर्णाः कालेन ते चास्मिन् मानुषे पुनः। भोगवन्तो द्विजश्रेष्ठा भविष्यन्ति न संशयः। अनन्तराशी यश् चापि वर्तते व्रतवत् सदा। सत्यवाक् क्रोधरहितः शुचिः स्नानरतः सदा। स विमानेन दिव्येन याति शक्रपुरं नरः। तत्र दिव्याप्सरोभिस् तु वर्षकोटिं महातपाः। क्रीडित्वा मानुषे लोके जायते वेदविद् द्विजः। एकभुक्तेन यश् चापि वर्षम् एकं तु वर्तते। ब्रह्मचारी जितक्रोधः सत्यशौचसमन्वितः। स विमानेन दिव्येन याति शक्रपुरं नरः। दशकोटिसहस्राणि क्रीडित्वाप्सरसां गणैः। इह मानुष्यके लोके ब्राह्मणो वेदविद् भवेत्। चतुर्थकालं यो भुङ्क्ते ब्रह्मचारी जितेन्द्रियः। वर्तते चैकवर्षं तु तस्य पुण्यफलं शृणु। चित्रबर्हिणयुक्तेन विचित्रध्वजशोभिना। याति यानेन दिव्येन स महेन्द्रपुरं नरः। अकृशाभिर् वरस्त्रीभिः सेव्यमानो यथासुखम्। ततो द्वादशकोटिं स समाः सम्यक् प्रमोदते। शक्रलोकावतीर्णश् च लोके चास्मिन् नराधिप। भवेद् वै ब्राह्मणो विद्वान् क्षमावान् वेदपारगः। षष्ठकाले तु यो ऽश्नाति वर्षम् एकम् अकल्मषः। ब्रह्मचर्यव्रतैर् युक्तः शुचिः क्रोधविवर्जितः। तपोयुक्तस्य तस्याथ शृणुष्व फलम् उत्तमम्। अत्यादित्यप्रकाशेन विमानेनार्कसंनिभः। स याति मम लोकान् वै दिव्यनारीनिषेवितः। तत्र साध्यैर् मरुद्भिश् च पूज्यमानो यथासुखम्। पश्यन्न् एव सदा मां तु क्रीडत्य् अप्सरसां गणैः। पक्षोपवासं यश् चापि कुरुते मद्गतात्मना। समाप्ते तु व्रते तस्मिंस् तर्पयेच् छ्रोत्रियान् द्विजान्। सो ऽपि गच्छति दिव्येन विमानेन महातपाः। द्योतयन् प्रभया व्योम मम लोकं प्रपद्यते। स तत्र मोदते कामं कामरूपी यथासुखम्। त्रिंशत्कोटिसमा राजन् क्रीडित्वा तत्र देववत्। इह मानुष्यके लोके पूजनीयो द्विजो भवेत्। त्रयाणाम् अपि वेदानां साङ्गानां पारगो भवेत्। यश् च मासोपवासं वै कुरुते मद्गतात्मना। जितेन्द्रियो जितक्रोधो जितधीः स्नानतत्परः। समाप्ते नियमे तत्र भोजयित्वा द्विजोत्तमान्। दक्षिणां च ततो दद्यात् प्रहृष्टेनान्तरात्मना। स गच्छति महातेजा ब्रह्मलोकम् अनुत्तमम्। सिंहयुक्तेन यानेन दिव्यस्त्रीगणसेवितः। स तत्र ब्रह्मणो लोके दिव्यर्षिगणसेवितः। शतकोटिसमा राजन् यथाकामं प्रमोदते। ततः कालावतीर्णश् च सो ऽस्मिंल् लोके द्विजो भवेत्। षडङ्गविच् चतुर्वेदी त्रिंशज् जन्मान्य् अरोगवान्। यस् त्यक्त्वा सर्वकर्माणि शुचिः क्रोधविवर्जितः। महाप्रस्थानम् एकाग्रो याति मद्गतमानसः। स गच्छेद् इन्द्रसदनं विमानेन महातपाः। महामणिविचित्रेण सौवर्णेन विराजता। शतकोटिसमास् तत्र सुराधिपतिपूजितः। नाकपृष्ठे निवसति दिव्यस्त्रीगणसेवितः। शक्रलोकावतीर्णश् च मानुषेषूपजायते। राज्ञां राजा महातेजाः सर्वलोकार्चितः प्रभुः। प्रायोपवेशं यश् चापि कुरुते मद्गतात्मना। नमो ब्रह्मण्यदेवायेत्य् उक्त्वा मन्त्रं समाहितः। अन्तःस्वस्थो जितक्रोधस् तस्य पुण्यफलं शृणु। कामगः कामरूपी च बालसूर्यसमप्रभः। स विमानेन दिव्येन याति लोकान् अनामयान्। स्वर्गात् स्वर्गं महातेजा गत्वा चैव यथासुखम्। मम लोकेषु रमते यावद् आभूतसंप्लवम्। अग्निप्रवेशं यश् चापि कुरुते मद्गतात्मना। सो ऽपि यानेन दिव्येन मम लोकं प्रपद्यते। ततः सर्वगुणोपेतः पश्यन्न् अपि स मां सदा। त्रिंशत्कोटिसमा राजन् मोदते मम संनिधौ। ततो ऽवतीर्णः कालेन वेदविद् ब्राह्मणो भवेत्। कर्षणं साधयन् यस् तु मां प्रसन्नः शुचिव्रतः। नमो ब्रह्मण्यदेवायेत्य् एतं मन्त्रम् उदाहरन्। बालसूर्यप्रकाशेन विमानेन विराजता। मम लोकं समासाद्य षट्कोटिं तु प्रमोदते। मम लोकावतीर्णश् च सो ऽस्मिंल् लोके नृपो भवेत्। निवेशयति मन्मूर्त्या आत्मानं मद्गतः शुचिः। रुद्रदक्षिणमूर्त्यां वा चतुर्दश्यां विशेषतः। सिद्धैर् ब्रह्मर्षिभिश् चैव देवलोकैश् च पूजितः। गन्धर्वैर् भूतसंघैश् च गीयमानो महातपाः। प्रविशेत् स महातेजा मां वा शंकरम् एव वा। तस्यापुनर्भवं (सिच्) राजन् नात्र कार्या विचारणा। गोकृते स्त्रीकृते चैव गुरुविप्रकृते ऽपि वा। हन्यन्ते ये तु राजेन्द्र शक्रलोकं व्रजन्ति ते। तत्र जाम्बूनदमये विमाने कामगामिनि। मन्वन्तरं प्रमोदन्ते दिव्यनारीनिषेविताः। आश्रुतस्याप्रदानेन दत्तस्य हरणेन च। जन्मप्रभृति यद् दत्तं सर्वं नश्यति भारत। नागोप्रदास् तत्र पयः पिबन्ति। नाभूमिदा भूमिम् अथाश्नुवन्ति। यान् यान् कामान् ब्राह्मणेभ्यो ददाति। तांस् तान् कामान् स्वर्गलोके च भुङ्क्ते। यद् यद् इष्टतमं द्रव्यं न्यायेनोपार्जितं च यत्। तत् तद् गुणवते देयं तद् एवाक्षयम् इच्छता। अनुपोष्य त्रिरात्राणि तीर्थान्य् अनभिगम्य च। अदत्त्वा काञ्चनं गां च दरिद्रो नाम जायते। दानं यत् तत् फलं नैति श्रोत्रियाय न दीयते। श्रोत्रिया यत्र नाश्नन्ति न देवास् तत्र भुञ्जते। श्रोत्रियेभ्यः परं नास्ति परमं दैवतं महत्। निधानं चापि राजेन्द्र तस्माच् छ्रोत्रियभोजनात्। युधिष्ठिर उवाच। विप्रयोगे शरीरस्य सेन्द्रियस्य विशेषतः। भगवान् उवाच। अन्तरा वर्तमानस्य गतिः प्राणस्य कीदृशी। शुभाशुभकृतं सर्वं प्राप्नोतीह फलं नरः। न तु सर्वस्य भूतस्य पञ्चत्वं वापि विद्यते। पञ्चत्वं पाण्डवश्रेष्ठ भूरिभूतिकरं नृणाम्। तेषां पञ्च महायज्ञान् ये कुर्वन्ति द्विजोत्तमाः। पञ्चत्वं पञ्चभिर् भूतैर् वियोगं संप्रचक्षते। न जायते न म्रियते पुरुषः शाश्वतः सदा। प्रायेण मरणं नाम पापिनाम् एव पाण्डव। येषां तु न गतिः पुण्या तेषां मरणम् उच्यते। प्रायेणाकृतकृत्यास् तु मृत्योर् उद्विजते जनः। कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियम् इवातिथिम्। युधिष्ठिर उवाच। पञ्च यज्ञाः कथं देव क्रियन्ते ऽत्र द्विजातिभिः। भगवान् उवाच। तेषां नाम च देवेश वक्तुम् अर्हस्य् अशेषतः। शृणु पञ्च महायज्ञान् कीर्त्यमानान् युधिष्ठिर। यैर् एव ब्रह्मसालोक्यं लभ्यते गृहमेधिना। ऋषियज्ञं ब्रह्मयज्ञं भूतयज्ञं च पार्थिव। नृयज्ञं पितृयज्ञं च पञ्च यज्ञान् प्रचक्षते। तर्पणं ऋषियज्ञं स्यात् स्वाध्यायो ब्रह्मयज्ञकः। भूतयज्ञो बलिर् यज्ञो नृयज्ञो ऽतिथिपूजनम्। पितॄन् उद्दिश्य यत् कर्म पितृयज्ञः प्रकीर्तितः। हुतं चाप्य् अहुतं चैव तथा प्रहुतम् एव च। प्राशितं बलिदानं च पाकयज्ञान् प्रचक्षते। वैश्वदेवादयो होमा हुतम् इत्य् उच्यते बुधैः। अहुतं च भवेद् दत्तं प्रहुतं ब्राह्मणाशितम्। प्राणाग्निहोत्रहोमं च प्राशितं विधिवद् विदुः। बलिकर्म च राजेन्द्र पाकयज्ञाः प्रकीर्तिताः। के चित् पञ्च महायज्ञान् पाकयज्ञान् प्रचक्षते। अपरे ब्रह्मयज्ञादीन् महायज्ञविदो विदुः। सर्व एते महायज्ञाः सर्वथा परिकीर्तिताः। बुभुक्षितान् ब्राह्मणांस् तु यथाशक्ति न हापयेत्। अहन्य् अहनि ये त्व् एतान् अकृत्वा भुञ्जते स्वयम्। केवलं मलम् अश्नन्ति ते नरा न च संशयः। तस्मात् स्नात्वा द्विजो विद्वान् कुर्याद् एतान् दिने दिने। युधिष्ठिर उवाच। अतो ऽन्यथा तु भुञ्जन् वै प्रायश्चित्तीयते द्विजः। देवदेव नमस् ते ऽस्तु त्वद्भक्तस्य जनार्दन। भगवान् उवाच। वक्तुम् अर्हसि देवेश स्नानस्य च विधिं मम। शृणु पाण्डव तत् सर्वं पवित्रं पापनाशनम्। स्नात्वा येन विधानेन मुच्यन्ते किल्बिषाद् द्विजाः। मृदं च गोमयं चैव तिलान् दर्भांस् तथैव च। पुष्पाण्य् अपि यथान्यायम् आदाय तु जलं व्रजेत्। नद्यां सत्यां न च स्नायाद् अन्यत्र द्विजसत्तम। सति प्रभूते पयसि नाल्पे स्नायात् कदा चन। गत्वोदकसमीपं तु शुचौ देशे मनोहरे। ततो मृद्गोमयादीनि तत्र प्रोक्ष्य विनिक्षिपेत्। बहिः प्रक्षाल्य पादौ च द्विर् आचम्य प्रयत्नतः। प्रदक्षिणं समावृत्य नमस्कुर्यात् तु तज् जलम्। न च प्रक्षालयेत् तीर्थम् अद्भिर् विद्वान् कदा चन। न च पादेन वा हन्याद् धस्तेनान्येन तज् जलम्। सर्वदेवमया ह्य् आपो मन्मयाः पाण्डुनन्दन। तस्मात् तास् तु न हन्तव्यास् त्व् अद्भिः प्रक्षालयेत् स्थलम्। केवलं प्रथमं मज्जेन् नाङ्गानि विमृजेद् बुधः। तत् तु तीर्थं समासाद्य कुर्याद् आचमनं पुनः। गोकर्णाकृतिवत् कृत्वा करं त्रिः प्रपिबेज् जलम्। द्विस् तत् परिमृजेद् वक्त्रं पादाव् अभ्युक्ष्य चात्मनः। शीर्षण्यांस् तु ततः प्राणान् सकृद् एव तु संस्पृशेत्। बाहू द्वौ च ततः स्पृष्ट्वा हृदयं नाभिम् एव च। प्रत्यङ्गम् उदकं स्पृष्ट्वा मूर्धानं तु पुनः स्पृशेत्। आपः पुनान्त्व् इत्य् उक्त्वा च पुनर् आचमनं चरेत्। स्ॐकारा व्याहृतीर् वापि सदसस्पतिम् इत्य् ऋचम्। आचम्य मृत्तिकाः पश्चात् त्रिधा कृत्वा समालभेत्। ऋचेदं विष्णुर् इत्य् अङ्गम् उत्तमाधममध्यमम्। आलभ्य वारुणैः सूक्तैर् नमस्कृत्य जलं ततः। स्रवन्ती चेत् प्रतिस्रोतः प्रत्यर्कं चान्यवारिषु। मज्जेद् ओम् इत्य् उदाहृत्य न च प्रक्षोभयेज् जलम्। गोमयं च त्रिधा कृत्वा जले पूर्वं समालभेत्। सव्याहृतिं सप्रणवां गायत्रीं च जपेत् पुनः। पुनर् आचमनं कृत्वा मद्गतेनान्तरात्मना। आपो हि ष्ठेति तिसृभिर् दर्भपूतेन वारिणा। तथा तरत् समन्दीभिः सिञ्चेच् चतसृभिः क्रमात्। गोसूक्तेनाश्वसूक्तेन शुद्धवर्गेण चाप्य् अथ। वैष्णवैर् वारुणैः सूक्तैः सावित्रैर् इन्द्रदेवतैः। वामदेवेन चात्मानम् अन्यैर् मन्मयसामभिः। स्थित्वान्तःसलिले सूक्तं जपेद् वाचाघमर्षणम्। सव्याहृतिं सप्रणवां गायत्रीं वा ततो जपेत्। आ श्वासमोक्षात् प्रणवं जपेद् वा माम् अनुस्मरन्। उत्प्लुत्य तीर्थम् आसाद्य धौते शुक्ले च वाससी। शुद्धे चाच्छादयेत् कक्षे न कुर्यात् परिपाशके। पाशे निबद्धकक्ष्यो यत् कुरुते कर्म वैदिकम्। राक्षसा दानवा दैत्यास् तद् विलुम्पन्ति हर्षिताः। तस्मात् सर्वप्रयत्नेन कक्ष्यां पाशे न धारयेत्। ततः प्रक्षाल्य पादौ च हस्तौ चैव मृदा शनैः। आचम्य पुनर् आचामेत् ततः सावित्रिया द्विजः। जले जलगतः शुद्धः स्थल एव स्थले स्थितः। उभयत्र स्थितस् तस्माद् आचामेद् आत्मशुद्धये। दर्भेषु दर्भपाणिः सन् प्राङ्मुखः सुसमाहितः। प्राणायामांस् ततः कुर्यान् मद्गतेनान्तरात्मना। सहस्रकृत्वः सावित्रीं शतकृत्वस् तु वा जपेत्। समाप्ते तु जपे तस्मिन् सावित्र्या चाभिमन्त्र्य च। मन्देहानां विनाशाय रक्षसां विक्षिपेज् जलम्। उद्वर्गो ऽसीत्य् अथाचान्तः प्रायश्चित्तजलं क्षिपेत्। अथादाय सपुष्पाणि तोयान्य् अञ्जलिना द्विजः। प्रक्षिप्य प्रतिसूर्यं च व्योममुद्रां प्रकल्पयेत्। ततो द्वादशकृत्वस् तु सूर्यस्यैकाक्षरं जपेत्। ततः षडक्षरादीनि षट्कृत्वः परिवर्तयेत्। प्रदक्षिणं परामृश्य मुद्रया स्वमुखं तया। ऊर्ध्वबाहुस् ततो भूत्वा सूर्यम् ईक्षेत् समाहितः। तन्मण्डलस्थं मां ध्यायेत् तेजोमूर्तिं चतुर्भुजम्। उद् उ त्यं च जपेन् मन्त्रं चित्रं तच्चक्षुर् इत्य् अपि। सावित्रीं च यथाशक्ति जप्त्वा सूक्तं च मामकम्। मन्मयानि च सामानि पुरुषव्रतम् एव च। ततश् चालोकयेद् अर्कं हंसः शुचिषद् इत्य् ऋचा। प्रदक्षिणं समावृत्य नमस्कृत्य दिवाकरम्। ततस् तु तर्पयेद् अद्भिः ब्रह्माणं मां च शंकरम्। प्रजापतिं च देवांश् च तथा देवमुनीन् अपि। साङ्गान् अपि तथा वेदान् इतिहासान् क्रतूंस् तथा। पुराणानि च दिव्यानि कुलान्य् अप्सरसां तथा। ऋतून् संवत्सरांश् चैव कलाकाष्ठान्तकं तथा। भूतग्रामांश् च भूतानि सरितः सागरांस् तथा। शैलाञ् शैलस्थितान् देवान् ओषधीः सवनस्पतीः। तर्पयेद् उपवीती तु प्रत्येकं तृप्यताम् इति। अन्वारभ्य च सव्येन पाणिना दक्षिणेन तु। निवीती तर्पयेत् पश्चाद् ऋषीन् मन्त्रकृतस् तथा। मरीच्यादीन् ऋषींश् चैव नारदान्तान् समाहितः। प्राचीनावीत्य् अथैतांस् तु तर्पयेद् देवताः पितॄन्। ततस् तु कव्यवाड् अग्निं सोमं वैवस्वतं तथा। ततश् चार्यमणं चापि अग्निष्व् आत्तांस् तथैव च। सोमपांश् चैव दर्भैस् तु सतिलैर् एव वारिभिः। तृप्यध्वम् इति पश्चात् तु स्वपितॄंस् तर्पयेत् ततः। पितॄन् पितामहांश् चैव तथैव प्रपितामहान्। पितामहीं तथा चापि तथैव प्रपितामहीम्। तथा पितृष्वसॄश् चैव मातृष्वसॄस् तथैव च। मातरं चात्मनश् चैव तथा मातामहीम् अपि। मातुर् मातामहीं चैव गुरुम् आचार्यम् एव च। उपाध्यायान् सखीन् बन्धूञ् शिष्यर्त्विग्ज्ञातिपुत्रकान्। प्रमीतान् आनृशंस्यार्थं तर्पयेत् तान् अमत्सरः। तर्पयित्वा तथाचम्य स्नानवस्त्रं प्रपीडयेत्। वृद्धिं भृत्यजनस्याहुः स्नातकानां च तद्विदः। अतर्पयित्वा तान् पूर्वं स्नानवस्त्रं न पीडयेत्। पीडयेच् चेत् पुरा मोहाद् देवाः सर्षिगणास् तथा। पितरस् तु निराशाश् च शप्त्वा यान्ति यथागतम्। प्रक्षाल्य तु मृदा पादाव् आचम्य प्रयतः पुनः। दर्भेषु दर्भपाणिः सन् स्वाध्यायं तु समारभेत्। वेदम् आदौ समारभ्य ततोपरि पदक्रमान्। यद् अधीते स्वयं शक्त्या तत् स्वाध्यायं प्रचक्षते। ऋचं वाथ यजुर् वापि सामगाथाम् अथापि वा। इतिहासपुराणानि यथाशक्ति न हापयेत्। उत्थाय च नमस्कृत्वा दिशो दिग्देवता अपि। ब्रह्माणं च ततश् चाग्निं पृथिवीम् ओषधीस् तथा। वाचं वाचस्पतिं चैव मां चैव सरितस् तथा। नमस्कृत्वा तथाद्भिस् तु प्रणवादि च पूजयेत्। ततो नमो ऽद्भ्य इत्य् उक्त्वा नमस्कुर्यात् तु तज् जलम्। घृणिः सूर्यस् तथादित्यस् तान् प्रणम्य स्वमूर्धनि। ततस् त्व् आलोकयन्न् अर्कं प्रणवेन समाहितः। युधिष्ठिर उवाच। ततो माम् अर्चयेत् पुष्पैर् मत्प्रियैर् एव नित्यशः। त्वत्प्रियाणि प्रसूनानि त्वदधिष्ठानि माधव। भगवान् उवाच। सर्वाण्य् आचक्ष्व देवेश त्वद्भक्तस्य ममाच्युत। शृणुष्वावहितो राजन् पुष्पाणि प्रीतिकृन्ति मे। कुमुदं करवीरं च चणकं चम्पकं तथा। मल्लिकाजातिपुष्पं च नन्द्यावर्तं च नन्दिकम्। पलाशपुष्पपत्राणि दूर्वा भृङ्गकम् एव च। वनमाला च राजेन्द्र मत्प्रियाणि विशेषतः। सर्वेषाम् अपि पुष्पाणां सहस्रगुणम् उत्पलम्। तस्मात् पद्मं तथा राजन् पद्मात् तु शतपत्रकम्। तस्मात् सहस्रपत्रं तु पुण्डरीकं ततः परम्। पुण्डरीकसहस्रात् तु तुलसी गुणतो ऽधिका। बकपुष्पं ततस् तस्मात् सौवर्णं तु ततो ऽधिकम्। सौवर्णात् तु प्रसूनाच् च मत्प्रियं नास्ति पाण्डव। पुष्पालाभे तुलस्यास्तु पत्रैर् माम् अर्चयेद् बुधः। पत्रालाभे तु शाखाभिः शाखालाभे शिफाफलैः। शिफालाभे मृदा तत्र भक्तिमान् अर्चयेद् बुधः। वर्जनीयानि पुष्पाणि शृणु राजन् समाहितः। किङ्किणी मुनिपुष्पं च दुत्तूरं पाटलं तथा। तथातिमुक्तकं चैव पुंनागं नक्तमालिका। यौधिकं क्षीरिकापुष्पं निर्गुण्डी लाङ्गली जपा। कर्णिकारं तथाशोकं शल्मलीपुष्पम् एव च। ककुभाः कोविदाराश् च वैभीतकम् अथापि वा। कुरण्टकप्रसूनां च तिल्वकं लाङ्गली तथा। अङ्कोलं गिरिकर्णी च नीलान्य् एव च सर्वशः। एकवर्णानि चान्यानि सर्वाण्य् एव विवर्जयेत्। अर्कपुष्पाणि वर्ज्यानि चार्कपत्रस्थितानि च। व्याघातपिचुमन्दानि सर्वाण्य् एव विवर्जयेत्। अन्यैस् तु शुक्लपत्रैस् तु गन्धवद्भिर् नराधिप। युधिष्ठिर उवाच। अवर्ज्यैस् तैर् यथालाभं मद्भक्तो मां समर्चयेत्। कथं त्वम् अर्चनीयो ऽसि मूर्तयः कीदृशास् तु ते। वैखानसाः कथं ब्रूयुः कथं वा पाञ्चरात्रिकाः। भगवान् उवाच। शृणु पाण्डव तत् सर्वम् अर्चनाक्रमम् आत्मनः। स्थण्डिले पद्मकं कृत्वा चाष्टपत्रं सकर्णिकम्। अष्टाक्षरविधानेन ह्य् अथ वा द्वादशाक्षरैः। वैदिकैर् अथ वा मन्त्रैर् मम सूक्तेन वा पुनः। स्थापितं मां ततस् तस्मिन्न् अर्चयित्वा विचक्षणः। पुरुषं च ततः सत्यम् अच्युतं च युधिष्ठिर। अनिरुद्धं च मां प्राहुर् वैखानसविदो जनाः। अन्ये त्व् एवं विजानन्ति मां राजन् पाञ्चरात्रिकाः। वासुदेवं च राजेन्द्र संकर्षणम् अथापि वा। प्रद्युम्नं चानिरुद्धं च चतुर्मूर्तिं प्रचक्षते। एताश् चान्याश् च राजेन्द्र संज्ञाभेदेन मूर्तयः। युधिष्ठिर उवाच। विद्ध्य् अनर्थान्तरा एव माम् एवं चार्चयेद् बुधः। त्वद्भक्ताः कीदृशा देव कानि तेषां व्रतानि च। भगवान् उवाच। एतत् कथय देवेश त्वद्भक्तस्य ममाच्युत। अनन्यदेवताभक्ता ये मद्भक्तजनप्रियाः। माम् एव शरणं प्राप्तास् ते मद्भक्ताः प्रकीर्तिताः। स्वर्गाण्य् अपि यशस्यानि मत्प्रियाणि विशेषतः। मद्भक्तः पाण्डवश्रेष्ठ व्रतानीमानि धारयेत्। नान्यद् आच्छादयेद् वस्त्रं मद्भक्तो जलतारणे। स्वस्थस् तु न दिवा स्वप्यान् मधुमांसानि वर्जयेत्। प्रदक्षिणं व्रजेद् विप्रान् गाम् अश्वत्थं हुताशनम्। न धावेत् पतिते वर्षे नाग्रभिक्षां च लोपयेत्। प्रत्यक्षलवणं नाद्यात् सौभञ्जनकगृञ्जनौ। ग्रासमुष्टिं गवे दद्याद् धान्याम्लं चैव वर्जयेत्। तथा पर्युषितं चापि पक्वं परिगृहागतम्। अनिवेदितं च यद् द्रव्यं तत् प्रयत्नेन वर्जयेत्। विभीतककरञ्जानां छायां दूरं विवर्जयेत्। विप्रदेवपरीवादं न वदेत् पीडितो ऽपि सन्। सात्त्विका राजसाश् चापि तामसाश् चापि पाण्डव। माम् अर्चयन्ति मद्भक्तास् तेषाम् ईदृग्विधा गतिः। तामसास् तिमिरं यान्ति राजसा रज एव तत्। सात्त्विकाः सत्त्वसंपन्नाः सत्त्वम् एव प्रयान्ति ते। ये सिद्धाः सन्ति सांख्येन योगसत्त्वबलेन च। नभसादित्यचन्द्राभ्यां पश्यन्ति पदविस्तरम्। एकस्तम्भे नवद्वारे त्रिस्थूणे पञ्चधातुके। एतस्मिन् देहनगरे राजसस् तु सदा भवेत्। उदिते सवितर्य् अस्य क्रियायुक्तस्य धीमतः। चतुर्वेदविदश् चापि देहे षड् वृषलाः स्मृताः। क्षत्रियाः सप्त विज्ञेया वैश्यास् त्व् अष्टौ प्रकीर्तिताः। नियताः पाण्डवश्रेष्ठ शूद्राणाम् एकविंशतिः। कामः क्रोधश् च लोभश् च मोहश् च मद एव च। महामोहश् च इत्य् एते देहे षड् वृषलाः स्मृताः। गर्वः स्तम्भो ह्य् अहंकार ईर्ष्या च द्रोह एव च। पारुष्यं क्रूरता चेति सप्तैते क्षत्रियाः स्मृताः। तीक्ष्णता निकृतिर् माया शाठ्यं डम्भो ह्य् अनार्जवम्। पैशुन्यम् अनृतं चैव वैश्यास् त्व् अष्टौ प्रकीर्तिताः। तृष्णा बुभुक्षा निद्रा च आलस्यं चाघृणादया। आधिश् चापि विवादश् च प्रमादो हीनसत्त्वता। भयं विक्लबता जाड्यं पापकं मन्युर् एव च। आशा चाश्रद्दधानत्वम् अनवस्थाप्य् अयन्त्रणम्। आशौचं मलिनत्वं च शूद्रा ह्य् एते प्रकीर्तिताः। यस्मिन्न् एते न दृश्यन्ते स वै ब्राह्मण उच्यते। येषु येषु हि भावेषु यत्कालं वर्तते द्विजः। तत्तत्कालं स विज्ञेयः ब्राह्मणो ज्ञानदुर्बलः। प्राणान् आयम्य यत्कालं येन मां चापि चिन्तयेत्। तत्काले वै द्विजो ज्ञेयः शेषकालो ह्य् अथेतरः। तस्मात् तु सात्त्विको भूत्वा शुचिः क्रोधविवर्जितः। माम् अर्चयेत् तु सततं मत्प्रियत्वं यद् इच्छति। अलोलजिह्वः समुपस्थितो धृतिर्। निधाय चक्षुर् युगमात्रम् एव च। मनश् च वाचं च निगृह्य चञ्चलं। भयान् निवृत्तो मम भक्त उच्यते। ईदृशाध्यात्मिनो ये तु ब्राह्मणा नियतेन्द्रियाः। तेषां श्राद्धेषु तृप्यन्ति तेन तृप्ताः पितामहाः। धर्मो जयति नाधर्मः सत्यं जयति नानृतम्। क्षमा जयति न क्रोधः क्षमावान् ब्राह्मणो भवेत्। वैशंपायन उवाच। दानपुण्यफलं श्रुत्वा तपः पुण्यफलानि च। धर्मपुत्रः प्रहृष्टात्मा केशवं पुनर् अब्रवीत्। या चैषा कपिला देव पूर्वम् उत्पादिता विभो। होमधेनुः सदा पुण्या चतुर्वक्त्रेण माधव। सा कथं ब्राह्मणेभ्यो हि देया कस्मिन् दिने ऽपि वा। कीदृशाय च विप्राय दातव्या पुण्यलक्षणा। कति वा कपिलाः प्रोक्ताः स्वयम् एव स्वयंभुवा। कैर् वा देयाश् च ता देव श्रोतुम् इच्छामि तत्त्वतः। एवम् उक्तो हृषीकेशो धर्मपुत्रेण संसदि। अब्रवीत् कपिलासंख्यां तासां माहात्म्यम् एव च। शृणु पाण्डव तत्त्वेन पवित्रं पावनं परम्। यच् छ्रुत्वा पापकर्मापि नरः पापैः प्रमुच्यते। अग्निमध्योद्भवां दिव्याम् अग्निज्वालासमप्रभाम्। अग्निज्वालोज्ज्वलच्छृङ्गीं प्रदीप्ताङ्गारलोचनाम्। अग्निपुच्छाम् अग्निखुराम् अग्निरोमप्रभान्विताम्। ताम् आग्नेयीम् अग्निजिह्वाम् अग्निग्रीवां ज्वलत्प्रभाम्। भुञ्जते कपिलां ये तु शूद्रा लोभेन मोहिताः। पतितांस् तान् विजानीयाच् चण्डालसदृशा हि ते। न तेषां ब्राह्मणः कश् चिद् गृहे कुर्यात् प्रतिग्रहम्। दूराच् च परिहर्तव्या महापातकिनो ऽपि ते। सर्वकालं हि ते सर्वैर् वर्जिताः पितृदैवतैः। ते सदा ह्य् अप्रतिग्राह्या ह्य् असंभाष्याश् च पापिनः। पिबन्ति कपिलां यावत् तावत् तेषां पितामहाः। अमेध्यम् उपभुञ्जन्ति भूम्यां वै श्वसृगालवत्। कपिलाया घृतं क्षीरं दधि तक्रम् अथापि वा। ये शूद्रा उपभुञ्जन्ति तेषां गतिम् इमां शृणु। कपिलोपजीवी शूद्रस् तु मृतो गच्छति रौरवम्। क्लिश्यते रौरवे घोरे वर्षकोटिशतं वसन्। रौरवाच् च परिभ्रष्टो विष्ठायां जायते क्रिमिः। विष्ठागर्तेषु संविष्टो दुर्गन्धेषु सहस्रशः। तत्रैव जायमानो ऽसौ नोत्तारं तत्र विन्दति। ब्राह्मणश् चैव यस् तेषां गृहे कुर्यात् प्रतिग्रहम्। ततः प्रभृति तस्यापि पितरः स्युर् अमेध्यपाः। न तेन सार्धं संभाषेन् न चाप्य् एकासनं व्रजेत्। स नित्यं वर्जनीयो हि दूरात् तु ब्राह्मणाधमः। यस् तेन सह संभाषेद् एकशय्यां व्रजेत वा। प्राजापत्यं चरेत् कृच्छ्रं स च तेनैव शुध्यति। कपिलोपजीविनः शूद्राद् यः करोति प्रतिग्रहम्। प्रायश्चित्तं भवेत् तस्य विप्रस्यैतन् न संशयः। ब्रह्मकूर्चं तु कुर्वीत चान्द्रायणम् अथापि वा। मुच्यते किल्बिषात् तस्माद् एतेन ब्राह्मणो हि सः। कपिला ह्य् अग्निहोत्रार्थे यज्ञार्थे च स्वयंभुवा। सर्वतस् तेज उद्धृत्य ब्रह्मणा निर्मिता पुरा। पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम्। पुण्यानां परमं पुण्यं कपिला पाण्डुनन्दन। तपसां तप एवाग्र्यं व्रतानां व्रतम् उत्तमम्। दानानां परमं दानं निदानं ह्य् एतद् अक्षयम्। पृथिव्यां यानि तीर्थानि पुण्यान्य् आयतनानि च। पवित्राणि च रम्याणि सर्वलोकेषु पाण्डव। तेभ्यस् तेजः समुद्धृत्य ब्रह्मणा लोककर्तृणा। लोकनिस्तारणायैव निर्मिताः कपिलाः स्वयम्। सर्वतेजोमयी ह्य् एषा कपिला पाण्डुनन्दन। सदामृतमयी मेध्या शुचिः पावनम् उत्तमम्। क्षीरेण कपिलायास् तु दध्ना वै सघृतेन वा। होतव्यान्य् अग्निहोत्राणि सायं प्रातर् द्विजातिभिः। कपिलाया घृतेनापि दध्ना क्षीरेण वा पुनः। जुह्वते ये ऽग्निहोत्राणि ब्राह्मणा विधिवत् प्रभो। पूजयन्त्य् अतिथींश् चैव परां भक्तिम् उपागताः। शूद्रान्नाद् विरता नित्यं डम्भानृतविवर्जिताः। ते यान्त्य् आदित्यसंकाशैर् विमानैर् द्विजसत्तमाः। सूर्यमण्डलमध्येन ब्रह्मलोकम् अनुत्तमम्। ब्रह्मणो भवने दिव्ये कामगाः कामरूपिणः। ब्रह्मणा पूज्यमानास् तु मोदन्ते कल्पम् अक्षयम्। एवं हि कपिला राजन् पुण्या मन्त्रामृतारणिः। आदाव् एवाग्निमध्यात् तु मैत्रेयी ब्रह्मनिर्मिता। शृङ्गाग्रे कपिलायास् तु सर्वतीर्थानि पाण्डव। ब्रह्मणो हि नियोगेन निवसन्ति दिने दिने। प्रातर् उत्थाय यो मर्त्यः कपिलाशृङ्गमस्तकात्। च्युता आपस् तु शीर्षेण प्रयतो धारयेच् छुचिः। स तेन पुण्यतीर्थेन सहसा दग्धकिल्बिषः। वर्षत्रयकृतं पापं प्रदहत्य् अग्निवत् तृणम्। मूत्रेण कपिलायास् तु यस् तु प्रातर् उपस्पृशेत्। स्नानेन तेन पुण्येन नष्टपापः स मानवः। त्रिंशद्वर्षकृतात् पापान् मुच्यते नात्र संशयः। प्रातर् उत्थाय यो भक्त्या प्रयच्छेत् तृणमुष्टिकम्। तस्य नश्यति तत् पापं त्रिंशद्रात्रिकृतं नृप। प्रातर् उत्थाय मद्भक्त्या कुर्याद् यस् तां प्रदक्षिणम्। प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः। प्रदक्षिणेन चैकेन श्रद्धायुक्तस्य पाण्डव। दशरात्रकृतं पापं तस्य तन् नश्यति ध्रुवम्। कपिलापञ्चगव्येन यः स्नायात् तु शुचिर् नरः। स गङ्गाद्येषु तीर्थेषु स्नातो भवति पाण्डव। तेन स्नानेन तस्यापि श्रद्धायुक्तस्य पाण्डव। दशरात्रकृतं पापं तत्क्षणाद् एव नश्यति। दृष्ट्वा तु कपिलां भक्त्या श्रुत्वा हुम्भारवं तथा। व्यपोहति नरः पापम् अहोरात्रकृतं नृप। यत्र वा तत्र वा चाङ्गे कपिलां यः स्पृशेच् छुचिः। संवत्सरकृतं पापं विनाशयति पाण्डव। गोसहस्रं च यो दद्याद् एकां च कपिलां नरः। समं तस्य फलं प्राह ब्रह्मलोके पितामहः। यस् त्व् एकां कपिलां हन्यान् नरः किं चित् प्रमादतः। गोसहस्रं हतं तेन भवेन् नात्र विचारणा। यश् चैकां कपिलां दद्याच् छ्रोत्रियायाहिताग्नये। गवां शतसहस्रं तु दत्तं भवति पाण्डव। दशैव कपिलाः प्रोक्ताः स्वयम् एव स्वयंभुवा। यो दद्याच् छ्रोत्रियेभ्यो वै स्वर्गं गच्छति तच् छृणु। प्रथमा स्वर्णकपिला द्वितीया गौरपिङ्गला। तृतीया रक्तपिङ्गाक्षी चतुर्थी गलपिङ्गला। पञ्चमी बभ्रुवर्णाभा षष्ठी च श्वेतपिङ्गला। सप्तमी रक्तपिङ्गाक्षी अष्टमी खुरपिङ्गला। नवमी पाटला ज्ञेया दशमी पुच्छपिङ्गला। दशैताः कपिलाः प्रोक्तास् तारयन्ति नरान् सदा। मङ्गल्याश् च पवित्राश् च सर्वपापप्रणाशनाः। एवम् एव ह्य् अनड्वाहो दश प्रोक्ता नरेश्वर। ब्राह्मणो वाहयेत् तांस् तु नान्यो वर्णः कथं चन। न घातयेत् तु दण्डेन क्षेत्रे वाध्वनि वा द्विजः। वाहयेद् धुंकृतेनैव शाखया वा सपत्रया। न दण्डेन न यष्ट्या वा न पाशेन च वा पुनः। न क्षुत्तृष्णाश्रमश्रान्तान् वाहयेद् विकलेन्द्रियान्। अतृप्तेषु न भुञ्जीयात् पिबेत् पीतेषु चोदकम्। शुश्रूषोर् मातरश् चैताः पितरस् ते प्रकीर्तिताः। अह्नां पूर्वे त्रिभागे तु धुर्याणां वाहनं स्मृतम्। विश्रामेन् मध्यमे भागे भागे चान्ते यथासुखम्। यत्र वा त्वरया कृत्यं संशयो यत्र वाध्वनि। वाहयेत् तत्र धुर्यांस् तु न स पापेन लिप्यते। अन्यथा वाहयन् राजन् निरयं याति रौरवम्। रुधिरं पातयेत् तेषां यस् तु मोहान् नराधिप। ब्रह्महत्यासमं पापं तस्य स्यात् पाण्डुनन्दन। तेन पापेन पापात्मा निरयं यात्य् असंशयम्। नरकेषु च सर्वेषु समास्थित्वा शतं शतम्। इह मानुष्यके लोके बलीवर्दो भविष्यति। तस्मात् तु मुक्तिम् अन्विच्छन् दद्यात् तु कपिलां नरः। कपिलां वाहयेद् यस् तु वृषलो लोभमोहितः। तेन देवास् त्रयस्त्रिंशत् पितरश् चापि वाहिताः। स देवैः पितृभिर् नित्यं वध्यमानः सुदुर्मतिः। नरकान् नरकं घोरं गच्छेद् आप्रलयं नृप। ब्रह्मा रुद्रस् तथाग्निश् च कपिलानां गतिं गताः। तस्मात् ते तु न हन्तव्याः पूज्यास् ते तु विशेषतः। निःश्वसन्ति यदा श्रान्तास् तदा हन्युश् च तत् कुलम्। यावन्ति तेषां रोमाणि तावद् वर्षशतं नृप। नरके परिपच्यन्ते तत्र तद्वाहका नराः। कपिला सर्वयज्ञेषु दक्षिणार्थं विधीयते। तस्मात् ता दक्षिणा देया यज्ञेष्व् एव द्विजातिभिः। होमार्थं चाग्निहोत्रस्य यां प्रयच्छेत् प्रयत्नतः। श्रोत्रियाय दरिद्राय श्रान्तायामिततेजसे। तेन दानेन पूतात्मा सो ऽग्निलोके महीयते। यावन्ति चैव रोमाणि कपिलाङ्गे युधिष्ठिर। तावद् वर्षसहस्राणि नरः स्वर्गे च वर्तते। सुवर्णखुरशृङ्गीं च कपिलां यः प्रयच्छति। विषुवे चायने वापि सो ऽश्वमेधफलं लभेत्। तेनाश्वमेधतुल्येन मम लोकं स गच्छति। स्वर्णशृङ्गीं रूप्यखुरां सवत्सां कांस्यदोहिनीम्। वस्त्रैर् अलंकृतां पुष्टां गन्धैर् माल्यैश् च शोभिताम्। पवित्रं हि पवित्राणां सुवर्णम् इति मे मतिः। तस्मात् सुवर्णाभरणा दातव्या चाग्निहोत्रिणे। एवं दत्त्वा तु राजेन्द्र सप्तपूर्वान् परान् अपि। तारयिष्यति राजेन्द्र नात्र कार्या विचारणा। अग्निष्टोमसहस्रस्य वाजपेयसमं भवेत्। वाजपेयसहस्रस्य अश्वमेधं च तत्समम्। अश्वमेधसहस्रं च राजसूयं च तत्समम्। कपिलानां सहस्रेण विधिदत्तेन पाण्डव। राजसूयफलं प्राप्य मम लोके महीयते। न तस्य पुनरावृत्तिर् विद्यते कुरुपुंगव। प्रयच्छते यः कपिलां सवत्सां कांस्यदोहिनीम्। तैस् तैर् गुणैः कामदुघा च भूत्वा। नरं प्रदातारम् उपैति सा गौः। स्वकर्मभिश् चाप्य् अनुबध्यमानं। तीव्रान्धकारे नरके पतन्तम्। महार्णवे नौर् इव वायुनीता। दत्ता हि गौस् तारयते मनुष्यम्। पुत्रांश् च पौत्रांश् च कुलं च सर्वम्। आसप्तमं तारयते परत्र। यावन् मनुष्यान् पृथिवीं बिभर्ति। तावत् प्रदातारम् इतो ऽपरत्र। यथौषधं मन्त्रकृतं नरस्य। प्रयुक्तमात्रं विनिहन्ति रोगान्। तथैव दत्ता कपिला सुपात्रे। पापं नरस्याशु निहन्ति सर्वम्। यथैव दृष्ट्वा भुजगाः सुपर्णं। नश्यन्ति दूराद् विवशा भयार्ताः। तथैव दृष्ट्वा कपिलाप्रदानं। नश्यन्ति पापानि नरस्य शीघ्रम्। यथा त्वचं स्वां भुजगो विहाय। पुनर् नवं रूपम् उपैति पुण्यम्। तथैव मुक्तः पुरुषः स्वपापैर्। विराजते वै कपिलाप्रदानात्। यथान्धकारं भवने विलग्नं। दीप्तो हि निर्यातयति प्रदीपः। तथा नरः पापम् अपि प्रलीनं। निष्क्रामयेद् वै कपिलाप्रदानम्। यावन्ति रोमाणि भवन्ति तस्या। वत्सान्वितायाश् च शरीरजानि। तावत् प्रदाता युगवर्षकोटिं। स ब्रह्मलोके रमते मनुष्यः। यस्याहिताग्नेर् अतिथिप्रियस्य। शूद्रान्नदूरस्य जितेन्द्रियस्य। सत्यव्रतस्याध्ययनान्वितस्य। दत्ता हि गौस् तारयते परत्र। वैशंपायन उवाच। एवं श्रुत्वा परं पुण्यं कपिलादानम् उत्तमम्। धर्मपुत्रः प्रहृष्टात्मा केशवं पुनर् अब्रवीत्। देवदेवेश कपिला यदा विप्राय दीयते। कथं सर्वेषु चाङ्गेषु तस्यास् तिष्ठन्ति देवताः। याश् चैताः कपिलाः प्रोक्ता दश चैव त्वया मम। तासां कति सुरश्रेष्ठ कपिलाः पुण्यलक्षणाः। कथं वानुगृहीतास् ताः सुरैः पितृगणैर् अपि। केन युक्ताश् च वर्णेन श्रोतुं कौतूहलं हि मे। युधिष्ठिरेणैवम् उक्तः केशवः सत्यवाक् तदा। गुह्यानां परमं गुह्यं वक्तुम् एवोपचक्रमे। शृणु राजन् पवित्रं वै रहस्यं धर्मम् उत्तमम्। ग्रहणीयं सत्यम् इदं न श्राव्यं हेतुवादिनाम्। यदा वत्सस्य पादौ द्वौ प्रसवे शिरसा सह। दृश्येते दानकालं तम् आहुः कालविदो जनाः। अन्तरिक्षगतो वत्सो यावद् भूमिं न यास्यति। गौस् तावत् पृथिवी ज्ञेया तस्माद् देया तु तादृशी। यावन्ति धेन्वा रोमाणि सवत्साया युधिष्ठिर। यावन्त्यः सिकताश् चापि गर्भोदकपरिप्लुताः। तावद् वर्षसहस्राणि दाता स्वर्गे महीयते। सुवर्णाभरणां कृत्वा सवत्सां कपिलां तिलैः। प्रच्छाद्य तां तु दद्याद् वै सर्वरत्नैर् अलंकृताम्। ससमुद्रा मही तेन सशैलवनकानना। चतुरन्ता भवेद् दत्ता नात्र कार्या विचारणा। पृथिवीदानतुल्येन तेन दानेन मानवः। संसारसागरात् तीर्णो याति लोकं प्रजापतेः। ब्रह्महा यदि वा गोघ्नो भ्रूणहा गुरुतल्पगः। महापातकयुक्तो ऽपि दानेनानेन शुध्यति। इदं पठति यः पुण्यं कपिलादानम् उत्तमम्। प्रातर् उत्थाय मद्भक्त्या तस्य पुण्यफलं शृणु। मनसा कर्मणा वाचा मतिपूर्वं युधिष्ठिर। पापं रात्रिकृतं हन्याद् अस्याध्यायस्य पाठकः। इदम् आवर्तमानस् तु श्राद्धे यस् तर्पयेद् द्विजान्। तस्याप्य् अमृतम् अश्नन्ति पितरो ऽत्यन्तहर्षिताः। यश् चेदं शृणुयाद् भक्त्या मद्गतेनान्तरात्मना। तस्य रात्रिकृतं सर्वं पापम् आशु प्रणश्यति। अतः परं विशेषं तु कपिलानां ब्रवीमि ते। याश् चैताः कपिलाः प्रोक्ता दश राजन् मया तव। तासां चतस्रः प्रवराः पवित्राः पापनाशनाः। सुवर्णकपिला पुण्या तथा रक्ताक्षिपिङ्गला। पिङ्गलाक्षी च या गौश् च यद् वा पिङ्गलपिङ्गला। एताश् चतस्रः प्रवराः पुण्याः पापप्रणाशनाः। नमस्कृता वा स्पृष्टा वा घ्नन्ति पापं नरस्य तु। यस्यैताः कपिलाः सन्ति गृहे पापप्रणाशनाः। तत्र श्रीर् विजयः कीर्तिः स्थिता नित्यं युधिष्ठिर। एतासां प्रीतिम् आयाति क्षीरेण तु वृषध्वजः। दध्ना तु त्रिदशाः सर्वे घृतेन तु हुताशनः। पितरः पितामहाश् चैव तथैव प्रपितामहाः। सकृद् दत्तेन तुष्यन्ति वर्षकोटिं युधिष्ठिर। कपिलाया घृतं क्षीरं दधि पायसम् एव वा। श्रोत्रियेभ्यः सकृद् दत्त्वा सर्वपापैः प्रमुच्यते। उपवासं तु यत् कृत्वा अहोरात्रं जितेन्द्रियः। कपिलापञ्चगव्यं तु पीत्वा चान्द्रायणात् परम्। सौम्ये मुहूर्ते तत् प्राश्य शुद्धात्मा शुद्धमानसः। क्रोधानृतविनिर्मुक्तो मद्गतेनान्तरात्मना। कपिलापञ्चगव्येन समन्त्रेण पृथक् पृथक्। यो मत्प्रतिकृतिं वापि शंकराकृतिम् एव वा। स्नापयेद् विषुवे यस् तु सो ऽश्वमेधफलं लभेत्। स मुक्तपापः शुद्धात्मा यानेनाम्बरशोभिना। मम लोकं व्रजेन् मर्त्यो रुद्रलोकम् अथापि वा। ब्रह्मणा तु पुरा सृष्टा कपिला काञ्चनप्रभा। अग्निकुण्डात् परैर् मन्त्रैर् होमधेनुर् महाप्रभा। सृष्टमात्रां तु तां दृष्ट्वा देवा रुद्रादयो दिवि। सिद्धा ब्रह्मर्षयश् चैव वेदाः साङ्गाः सहाध्वराः। सागराः सरितश् चापि पर्वताः सबलाहकाः। गन्धर्वाप्सरसो यक्षाः पन्नगाश् चाप्य् उपस्थिताः। सर्वे विस्मयम् आपन्नाः शिखिमध्ये महाप्रभाम्। मन्त्रैश् च विविधैः सर्वैस् तुष्टुवुस् ताम् अनेकशः। कृताञ्जलिपुटाः सर्वे ताम्रशृङ्गीं त्रिलोचनाम्। शिरोभिः पतिता भूमौ सवत्साम् अमृतारणिम्। ऊचुः प्राञ्जलयः सर्वे चतुर्वक्त्रं पितामहम्। आज्ञापय महादेव किं ते कर्म प्रियं विभो। एवम् उक्तः सुरैः सर्वैर् ब्रह्मा वचनम् अब्रवीत्। भवन्तो ऽप्य् अनुगृह्णन्तु दोग्ध्रीम् एनां पयस्विनीम्। होमधेनुर् इयं ज्ञेया ह्य् अग्निं संतर्पयिष्यति। ततो ऽग्निस् तर्पितः सर्वान् भवतस् तर्पयिष्यति। प्रीताः क्षीरामृतेनास्या जातवीर्यपराक्रमाः। जयिष्यथ यथाकामं दानवान् सर्व एव तु। जातवीर्यबलैश्वर्याः सत्त्ववन्तो जितारयः। असंख्येयबलाः सर्वे पालयिष्यथ वै प्रजाः। पालिताश् च प्रजाः सर्वा भवद्भिर् इह धर्मतः। पूजयिष्यन्ति वो नित्यं यज्ञैर् विविधदक्षिणैः। एवम् उक्ताः सुराः सर्वे ब्रह्मणा परमेष्ठिना। ततः संहृष्टमनसः कपिलायै वरं ददुः। यस्माल् लोकहितायाद्य ब्रह्मणा त्वं विनिर्मिता। तस्मात् पूता पवित्रा च भव पापव्यपोहिनी। ये त्वां दृष्ट्वा नमस्यन्ति स्पृष्ट्वा चापि करैर् नराः। तेषां वर्षकृतं पापं त्वद्भक्तानां प्रणश्यति। अकामकृतम् अज्ञातम् अदृष्टं यच् च पातकम्। त्वां दृष्ट्वा ये नमस्यन्ति नराः सर्वंसहेति च। तेषां तद् विलयं याति तमः सूर्योदये यथा। इत्य् उक्त्वास्यै वरं दत्त्वा प्रययुस् ते यथागतम्। लोकनिस्तारणार्थाय सा च लोकांश् चचार ह। तस्याम् एव समुद्भूता ह्य् एताश् च कपिलानघ। विचरन्ति महीम् एनां लोकानुग्रहकारणात्। तस्मात् तु कपिला देया परत्र हितम् इच्छता। यथा च दीयते राजन् कपिला ह्य् अग्निहोत्रिणे। तथाग्रशृङ्गयोस् तस्या विष्णुर् इन्द्रश् च तिष्ठतः। चन्द्रवज्रधरौ चापि तिष्ठतः शृङ्गमूलयोः। शृङ्गमध्ये तथा ब्रह्मा ललाटे गोवृषध्वजः। कर्णयोर् अश्विनौ देवौ चक्षुषोः शशिभास्करौ। दन्तेषु मरुतो देवा जिह्वायां वाक् सरस्वती। रोमान्ते मुनयः सर्वे चर्मण्य् एव प्रजापतिः। निश्वासेषु स्थिता वेदाः सषडङ्गपदक्रमाः। नासापुटे स्थिता गन्धाः पुष्पाणि सुरभीणि च। अधरे वसवः सर्वे मुखे चाग्निः प्रतिष्ठितः। साध्या देवाः स्थिताः कक्षे ग्रीवायां पार्वती स्थिता। पृष्ठे च नक्षत्रगणाः ककुद्देशे नभःस्थलम्। अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम्। इष्टतुष्टमयी लक्ष्मीर् गोमये वसते सदा। नासिकायां तदा देवी ज्येष्ठा वसति भामिनी। श्रोणीतटस्थाः पितरो रमा लाङ्गूलम् आश्रिताः। पार्श्वयोर् उभयोः सर्वे विश्वे देवाः प्रतिष्ठिताः। तिष्ठत्य् उरसि तासां तु प्रीतः शक्तिधरो गुहः। जानुजङ्घोरुदेशेषु पञ्च तिष्ठन्ति वायवः। खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः। चत्वारः सागराः पूर्णास् तस्या एव पयोधराः। रतिर् मेधा क्षमा स्वाहा श्रद्धा शान्तिर् धृतिः स्मृतिः। कीर्तिर् दीप्तिः क्रिया कान्तिस् तुष्टिः पुष्टिश् च संततिः। दिशश् च विदिशश् चैव सेवन्ते कपिलां सदा। देवाः पितृगणाश् चापि गन्धर्वाप्सरसां गणाः। लोका द्वीपार्णवाश् चैव गङ्गाद्याः सरितस् तथा। ग्रहाः पितृगणाश् चापि वेदाः साङ्गाः सहाध्वरैः। वेदोक्तैर् विविधैर् मन्त्रैः स्तुवन्ति हृषितास् तथा। विद्याधराश् च ये सिद्धा भूतास् तारागणास् तथा। पुष्पवृष्टिं च वर्षन्ति प्रनृत्यन्ति च हर्षिताः। ब्रह्मणोत्पादिता देवी वह्निकुण्डान् महाप्रभा। नमस् ते कपिले पुण्ये सर्वदेवैर् नमस्कृते। कपिले ऽथ महासत्त्वे सर्वतीर्थमये शुभे। दातारं स्वजनोपेतं ब्रह्मलोकं नय स्वयम्। अहो रत्नम् इदं पुण्यं सर्वदुःखघ्नम् उत्तमम्। अहो धर्मार्जितं शुद्धम् इदम् अग्र्यं महाधनम्। इत्य् आकाशे स्थिता देवा जल्पन्ति च नमन्ति च। तस्याः प्रतिगृहीता च भुङ्क्ते यावद् द्विजोत्तमः। तावद् देवगणाः सर्वे कपिलाम् अर्चयन्ति च। स्वर्णशृङ्गी रौप्यखुरा गन्धैः पुष्पैश् च पूजिता। वस्त्राभ्याम् अहताभ्यां तु यावत् तिष्ठत्य् अलंकृता। तावद् यद् इच्छेत् कपिला मन्त्रपूता सुसंस्कृता। भूलोकवासिनः सर्वान् ब्रह्मलोकं नयेत् स्वयम्। भूर् अश्वः कनकं गावो रौप्यम् अन्नं तिला यवाः। दीयमानानि विप्राय प्रहृष्यन्ति दिने दिने। अथ त्व् अश्रोत्रियेभ्यो वै तानि दत्तानि पाण्डव। तथा निन्दन्त्य् अथात्मानम् अशुभं किं नु नः कृतम्। अहो रक्षःपिशाचैश् च लुप्यमानाः समन्ततः। यास्यामो निरयं शीघ्रम् इति शोचन्ति तानि वै। एतान्य् अपि द्विजेभ्यो वै श्रोत्रियेभ्यो विशेषतः। युधिष्ठिर उवाच। दीयमानानि वर्धन्ते दातारं तारयन्ति च। देवदेवेश दैत्यघ्न कालः को हव्यकव्ययोः। भगवान् उवाच। के तत्र पूजाम् अर्हन्ति वर्जनीयाश् च के द्विजाः। दैवं पूर्वाह्णिकं ज्ञेयं पैतृकं चापराह्णिकम्। कालहीनं च यद् दानं तद् दानं राक्षसं विदुः। अवघुष्टं च यद् भुक्तम् अनृतेन च भारत। परामृष्टं शुना वापि तद्भागं राक्षसं विदुः। यावन्तः पतिता विप्रा जडोन्मत्तादयो ऽपि च। दैवे च पित्र्ये ये चापि राजन् नार्हन्ति सत्क्रियाम्। क्लीबः प्लीही च कुष्ठी च राजयक्ष्मान्वितश् च यः। अपस्मारी च यश् चापि पित्र्ये नार्हति सत्क्रियाम्। चिकित्सका देवलका वृथा नियमधारिणः। सोमविक्रयिणश् चापि श्राद्धे नार्हन्ति सत्कृतिम्। एकोद्दिष्टस्य ये चान्नं भुञ्जते विधिवद् द्विजाः। चान्द्रायणम् अकृत्वा ते पुनर् नार्हन्ति सत्कृतिम्। गायका नर्तकाश् चैव प्लवका वादकास् तथा। कथका यौधिकाश् चैव श्राद्धे नार्हन्ति सत्कृतिम्। अनग्नयश् च ये विप्राः प्रेतनिर्यातकाश् च ये। स्तेनाश् चापि विकर्मस्था राजन् नार्हन्ति सत्कृतिम्। अपरिज्ञातपूर्वाश् च गणपुत्राश् च ये द्विजाः। पुत्रिकापुत्रकाश् चापि श्राद्धे नार्हन्ति सत्कृतिम्। ऋणकर्ता च यो विप्रो यश् च वाणिज्यको द्विजः। प्राणिविक्रयवृत्तिश् च श्राद्धे नार्हन्ति सत्कृतिम्। चीर्णव्रता गुणैर् युक्ता नित्यं स्वाध्यायतत्पराः। सावित्रीज्ञाः क्रियावन्तस् ते श्राद्धे सत्कृतिक्षमाः। श्राद्धस्य ब्राह्मणः कालः प्राप्तो दधि घृतं तदा। दर्भाः सुमनसः क्षेत्रं तत्काले श्राद्धदो भवेत्। चारित्रनियता राजन् कृशा ये कृशवृत्तयः। अर्थिनश् चोपगच्छन्ति तेभ्यो दत्तं महत् फलम्। तपस्विनश् च ये विप्रास् तथा भैक्षचराश् च ये। अर्थिनः के चिद् इच्छन्ति तेषां दत्तं महत् फलम्। एवं धर्मविदां श्रेष्ठ ज्ञात्वा सर्वात्मना तदा। श्रोत्रियाय दरिद्राय प्रयच्छानुपकारिणे। दानं यत् ते प्रियं किं चिच् छ्रोत्रियाणां च यत् प्रियम्। तत् प्रयच्छस्व धर्मज्ञ यद् इच्छसि तद् अक्षयम्। निरयं ये च गच्छन्ति तच् छृणुष्व युधिष्ठिर। गुर्वर्थं वा भयार्थं वा नो चेद् अन्यत्र पाण्डव। वदन्ति ये ऽनृतं विप्रास् ते वै निरयगामिनः। परदाराभिहर्तारः परदाराभिमर्शकाः। परदारप्रयोक्तारस् ते वै निरयगामिनः। सूचकाः संधिभेत्तारः परद्रव्योपजीविनः। अकृतज्ञाश् च मित्राणां ते वै निरयगामिनः। वर्णाश्रमाणां ये बाह्याः पाषण्डस्थाश् च पाण्डव। उपासते च तान् ये तु ते सर्वे नरकालयाः। वेदविक्रयिणश् चैव वेदानां चैव दूषकाः। वेदानां लेखकाश् चैव ते वै निरयगामिनः। रसविक्रयिणो राजन् विषविक्रयिणश् च ये। क्षीरविक्रयिणश् चापि ते वै निरयगामिनः। चण्डालेभ्यस् तु ये क्षीरं प्रयच्छन्ति नराधमाः। अर्थार्थम् अथ वा स्नेहात् ते वै निरयगामिनः। पशूनां दमकाश् चैव तथा नासानुवेधकाः। पुंस्त्वस्य हिंसकाश् चैव ते वै निरयगामिनः। अदातारः समर्था ये द्रव्याणां लोभकारणात्। दीनानाथान् न पश्यन्ति ते वै निरयगामिनः। क्षान्तान् दान्तान् कृशान् प्राज्ञान् दीर्घकालं सदोषितान्। त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः। बालानाम् अथ वृद्धानां श्रान्तानां चापि ये नराः। अदत्त्वाश्नन्ति ये मृष्टं ते वै निरयगामिनः। एते पूर्वर्षिभिः प्रोक्ता नरा निरयगामिनः। ये स्वर्गं समनुप्राप्तास् ताञ् शृणुष्व युधिष्ठिर। दानेन तपसा चैव सत्येन च दमेन च। ये धर्मम् अनुवर्तन्ते ते नराः स्वर्गगामिनः। शुश्रूषयाप्य् उपाध्यायाच् छ्रुतम् आदाय पाण्डव। ये प्रतिग्रहनिःस्नेहास् ते नराः स्वर्गगामिनः। मधुमांसासवेभ्यस् तु निवृत्ता वृत्तवत् तु ये। परदारनिवृत्ताश् च ते नराः स्वर्गगामिनः। मातरं पितरं चैव शुश्रूषन्ति च ये नराः। भ्रातॄणाम् अपि सस्नेहास् ते नराः स्वर्गगामिनः। ये तु भोजनकाले तु नियताश् चातिथिप्रियाः। द्वाररोधं न कुर्वन्ति ते नराः स्वर्गगामिनः। वैवाहिकं तु कन्यानां दरिद्राणां च ये नराः। कारयन्ति च कुर्वन्ति ते नराः स्वर्गगामिनः। रसानाम् अथ बीजानाम् ओषधीनां तथैव च। दातारः श्रद्धयोपेतास् ते नराः स्वर्गगामिनः। क्षेमाक्षेमं च मार्गेषु समानि विषमाणि च। अर्थिनां ये च वक्ष्यन्ति ते नराः स्वर्गगामिनः। पर्वद्वये चतुर्दश्याम् अष्टम्यां संध्ययोर् द्वयोः। आर्द्रायां जन्मनक्षत्रे विषुवे श्रवणे तथा। ये ग्राम्यधर्मविरतास् ते नराः स्वर्गगामिनः। हव्यकव्यविधानं च नरकस्वर्गगामिनौ। युधिष्ठिर उवाच। धर्माधर्मौ च कथितौ भूयः किं श्रोतुम् इच्छसि। इदं मे तत्त्वतो देव वक्तुम् अर्हस्य् अशेषतः। हिंसाम् अकृत्वा यो मर्त्यो ब्रह्महत्याम् अवाप्नुयात्। भगवान् उवाच। ब्राह्मणं स्वयम् आहूय भिक्षार्थं कृशवृत्तिनम्। ब्रूयान् नास्तीति यः पश्चात् तम् आहुर् ब्रह्मघातकम्। मध्यस्थस्येह विप्रस्य यो ऽनूचानस्य भारत। वृत्तिं हरति दुर्बुद्धिस् तम् आहुर् ब्रह्मघातकम्। गोकुलस्य तृषार्तस्य जलान्ते वसुधाधिप। उत्पादयति यो विघ्नं तम् आहुर् ब्रह्मघातकम्। यः प्रवृत्तां श्रुतिं सत्यां शास्त्रं वा मुनिभिः कृतम्। दूषयत्य् अनभिज्ञो यस् तं विद्याद् ब्रह्मघातकम्। आश्रमे वा वने वापि ग्रामे वा नगरे ऽपि वा। अग्निं यः प्रक्षिपेत् क्रुद्धस् तम् आहुर् ब्रह्मघातकम्। चक्षुषा वापि हीनस्य पङ्गोर् वापि जडस्य च। हरेद् वै यस् तु सर्वस्वं तं विद्याद् ब्रह्मघातकम्। क्रोधाद् वा यदि वा द्वेषाद् आक्रुष्टस् तर्जितो ऽपि वा। ऋतौ स्त्रियं वा नोपेयात् तम् आहुर् ब्रह्मघातकम्। यावत् सारो भवेद् धीरस् तन्नाशे यस्य दुःस्थितिः। युधिष्ठिर उवाच। तत् सर्वस्वं हरेद् यो वै तम् आहुर् ब्रह्मघातकम्। सर्वेषाम् अपि दानानां यत् तु दानं विशिष्यते। भगवान् उवाच। अभोज्यान्नाश् च ये विप्रास् तान् ब्रवीहि सुरोत्तम। अन्नम् एव प्रशंसन्ति देवा ब्रह्मपुरःसराः। अन्नेन सदृशं दानं न भूतं न भविष्यति। अन्नम् ऊर्जस्करं लोके अन्नात् प्राणाः प्रतिष्ठिताः। अभोज्यान्नान् इमान् राजन् वक्ष्यमाणान् निबोध मे। दीक्षितस्य कदर्यस्य बद्धस्य निकृतस्य च। अभिशस्तस्य षण्डस्य पाकभेदकरस्य च। चिकित्सकस्य सर्वस्य तथा चोच्छिष्टभोजिनः। उग्रान्नं सूतकान्नं च शूद्रोच्छेषणम् एव च। द्विषदन्नं न भोक्तव्यं पतितान्नं च यच् छ्रुतम्। तथा च पिशुनस्यान्नं यज्ञविक्रयिणस् तथा। शैलूषतन्तुवायान्नं कृतघ्नस्यान्नम् एव च। अम्बष्ठस्य निषादस्य रङ्गावतरकस्य च। सुवर्णकर्तुर् वैणस्य शस्त्रविक्रयिणस् तथा। सूतानां शौण्डिकानां च वैद्यस्य रजकस्य च। स्त्रीजितस्य नृशंसस्य तथा माहिषिकस्य च। अनिर्दशानां प्रेतानां गणिकानां तथैव च। वन्दिनो द्यूतकर्तुश् च तथा द्यूतविदाम् अपि। परिवित्तस्य यच् चान्नं परिवेत्तुस् तथैव च। यश् चाग्रदिधिषुर् विप्रो दिधिषूपपतिस् तथा। तयोर् अप्य् उभयोर् अन्नं राज्ञश् चापि विवर्जयेत्। राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम्। आयुः सुवर्णकारान्नं यशश् चर्मावकृन्तिनः। गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति। आयुश् चिकित्सकस्यान्नं शुक्लं तु वृषलीपतेः। विष्ठा वार्धुषिकस्यान्नं तस्मात् तत् परिवर्जयेत्। तेषां त्वगस्थिरोमाणि भुङ्क्ते यो ऽन्नं तु भक्षयेत्। अमात्यान्नम् अथैतेषां भुक्त्वा तु त्रियहं क्षिपेत्। मत्या भुक्त्वा सकृद् वापि प्राजापत्यं चरेद् द्विजः। दानानां च फलं यद् वै शृणु पाण्डव तत्त्वतः। जलदस् तृप्तिम् आप्नोति सुखम् अक्षयम् अन्नदः। तिलदस् तु प्रजाम् इष्टां दीपदश् चक्षुर् उत्तमम्। भूमिदो भूमिम् आप्नोति दीर्घम् आयुर् हिरण्यदः। गृहदो ऽग्र्याणि वेश्मानि रूप्यदो रूपम् उत्तमम्। वासोदश् चन्द्रसालोक्यम् अश्विसालोक्यम् अश्वदः। अनडुद्दः श्रियं जुष्टां गोदश् च ब्रध्नविष्टपम्। यानशय्याप्रदो भार्याम् ऐश्वर्यम् अभयप्रदः। धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसाम्यताम्। सर्वेषाम् एव दानानां ब्रह्मदानं विशिष्यते। हिरण्यभूगवाश्वाजवस्त्रशय्यासनादिषु। यो ऽर्चितं प्रतिगृह्णाति ददात्य् अर्चितम् एव च। ताव् उभौ गच्छतः स्वर्गं नरकं च विपर्यये। अनृतं न वदेद् इष्ट्वा तपस् तप्त्वा न विस्मयेत्। नार्तो ऽप्य् अपवदेद् विप्रान् न दत्त्वा परिकीर्तयेत्। यज्ञो ऽनृतेन क्षरति तपः क्षरति विस्मयात्। आयुर्विप्रापवादेन दानं तु परिकीर्तनात्। एकः प्रजायते जन्तुर् एक एव प्रमीयते। एको ऽनुभुङ्क्ते सुकृतम् एकश् चाप्नोति दुष्कृतम्। मृतं शरीरम् उत्सृज्य काष्ठलोष्टसमं क्षितौ। विमुखा बान्धवा यान्ति धर्मस् तम् अनुवर्तते। अनागतानि कार्याणि कर्तुं गणयते मनः। शरीरकं समुद्दिश्य स्मयते नूनम् अन्तकः। तस्माद् धर्मसहायो ऽस्तु धर्मं संचिनुयात् सदा। धर्मेण हि सहायेन तमस् तरति दुस्तरम्। येषां तटाकानि बहूदकानि। सभाश् च कूपाश् च प्रतिश्रयाश् च। अन्नप्रदानं मधुरा च वाणी। युधिष्ठिर उवाच। यमस्य ते निर्विषया भवन्ति। अनेकान्तं बहुद्वारं धर्मम् आहुर् मनीषिणः। भगवान् उवाच। किंलक्षणो ऽसौ भवति तन् मे ब्रूहि जनार्दन। शृणु राजन् समासेन धर्मशौचविधिक्रमम्। अहिंसा सत्यम् अस्तेयम् आनृशंस्यं दमः शमः। आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम्। ब्रह्मचर्यं तपः क्षान्तिर् मधुमांसस्य वर्जनम्। मर्यादायां स्थितिश् चैव शमः शौचस्य लक्षणम्। बाल्ये विद्यां निषेवेत यौवने दारसंग्रहम्। वार्धक्ये मौनम् आतिष्ठेत् सर्वदा धर्मम् आचरेत्। ब्राह्मणान् नावमन्येत गुरून् परिवदेन् न च। यतीनाम् अनुकूलः स्याद् एष धर्मः सनातनः। यतिर् गुरुर् द्विजातीनां वर्णानां ब्राह्मणो गुरुः। पतिर् एव गुरुः स्त्रीणां सर्वेषां पार्थिवो गुरुः। यद् गृहस्थार्जितं पापं ज्ञानतो ऽज्ञानतो ऽपि वा। निर्दहिष्यति तत् सर्वम् एकरात्रोषितो यतिः। दुर्वृत्ता वा सुवृत्ता वा ज्ञानिनो ऽज्ञानिनो ऽपि वा। गृहस्थैर् यतयः पूज्याः परत्र हितकाङ्क्षिभिः। एकदण्डी त्रिदण्डी वा शिखण्डी मुण्डितो ऽपि वा। काषायदण्डधारो ऽपि यतिः पूज्यो युधिष्ठिर। अपूजितो गृहस्थैर् वा तथा चाप्य् अवमानितः। यतिर् वाप्य् अतिथिर् वापि नरके पातयिष्यतः। तस्मात् तु यत्नतः पूज्या मद्भक्ता मत्परायणाः। मयि संन्यस्तकर्माणः परत्र हितकाङ्क्षिभिः। प्रहरेन् न द्विजान् प्राज्ञो गां न हन्यात् कदा चन। भ्रूणहत्यासमं चैतद् उभयं यो निषेवते। नाग्निं मुखेनोपधमेन् न च पादौ प्रतापयेत्। नाधः कुर्यात् कदा चित् तु न पृष्ठं परितापयेत्। नान्तरागमनं कुर्यान् न चामेध्यं विनिक्षिपेत्। उच्छिष्टो न स्पृशेद् अग्निम् आशौचस्थो न जातु चित्। श्वचण्डालादिभिः स्पृष्टो नाङ्गम् अग्नौ प्रतापयेत्। सर्वदेवमयो वह्निस् तस्माच् छुद्धः सदा स्पृशेत्। प्राप्तमूत्रपुरीषस् तु न स्पृशेद् वह्निम् आत्मवान्। यावत् तु धारयेद् वेगं तावद् अप्रयतो भवेत्। पचनाग्निं न गृह्णीयात् परवेश्मनि जातु चित्। तेन पक्वेन चान्नेन यत् कर्म कुरुते शुभम्। तच् छुभस्य फलस्यार्धम् अग्निदस्य भवेन् नृप। तस्माच् छुभतरं कर्म प्रकुर्याद् अविनाशितम्। प्रमादाद् यदि वाज्ञानात् तस्य नाशो भविष्यति। युधिष्ठिर उवाच। गृह्णीयात् तु मथित्वा वा श्रोत्रियागारतो ऽपि वा। कीदृशाः साधवो विप्राः केभ्यो दत्तं महत् फलम्। भगवान् उवाच। कीदृशेभ्यो हि दातव्यं तन् मे ब्रूहि जनार्दन। अक्रोधनाः सत्यपरा धर्मनित्या जितेन्द्रियाः। तादृशाः साधवो विप्रास् तेभ्यो दत्तं महत् फलम्। अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः। सर्वभूतहिता मैत्रास् तेभ्यो दत्तं महत् फलम्। अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः। स्वधर्मनिरता ये तु तेभ्यो दत्तं महत् फलम्। साङ्गांश् च चतुरो वेदान् यो ऽधीयीत दिने दिने। शूद्रान्नं यस्य देहे न तत्पात्रम् ऋषयो विदुः। प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः। तारयेत् तत् कुलं सर्वम् एको ऽपीह युधिष्ठिर। गाम् अश्वम् अन्नं वित्तं वा तद्विधे प्रतिपादयेत्। निशम्य च गुणोपेतं ब्राह्मणं साधुसंमतम्। युधिष्ठिर उवाच। दूराद् आहृत्य सत्कृत्य तं प्रयत्नेन पूजयेत्। धर्माधर्मविधिर् देव मम भीष्मेण भाषितः। भीष्मवाक्यात् सारभूतं वद धर्मं सुरेश्वर। भगवान् उवाच। अन्नेन धार्यते सर्वं जगद् एतच् चराचरम्। अन्नात् प्रभवति प्राणः प्रत्यक्षं नास्ति संशयः। कलत्रं पीडयित्वापि देशे काले च शक्तितः। दातव्यं भिक्षवे चान्नम् आत्मनो भूतिम् इच्छता। विप्रम् अध्वपरिश्रान्तं बालं वृद्धम् अथापि वा। अर्चयेद् गुरुवत् प्रीतो गृहस्थो गृहम् आगतम्। क्रोधम् उत्पतितं हित्वा सुशीलो वीतमत्सरः। अर्चयेद् अतिथिं प्रीतः परत्र हितभूतये। अतिथिं नावमन्येत नानृतां गिरम् ईरयेत्। न पृच्छेद् गोत्रचरणं नाधीतं वा कदा चन। चण्डालो वा श्वपाको वा काले यः कश् चिद् आगतः। अन्नेन पूजनीयः स परत्र हितम् इच्छता। पिधाय तु गृहद्वारं भुङ्क्ते ह्य् एकः प्रहृष्टवत्। स्वर्गद्वारपिधानं वै कृतं तेन युधिष्ठिर। पितॄन् देवान् ऋषीन् विप्रान् अतिथींश् च निराश्रयान्। यो नरः प्रीणयत्य् अन्नैस् तस्य पुण्यफलं महत्। कृत्वापि पापं बहुशो यो दद्याद् अन्नम् अर्थिने। ब्राह्मणाय विशेषेण सर्वपापैः प्रमुच्यते। अन्नदः प्राणदो लोके प्राणदः सर्वदो भवेत्। तस्माद् अन्नं विशेषेण दातव्यं भूतिम् इच्छता। अन्नं ह्य् अमृतम् इत्य् आहुर् अन्नं प्रजननं स्मृतम्। अन्नप्रणाशे सीदन्ति शरीरे पञ्च धातवः। बलं बलवतो नश्येद् अन्नहीनस्य देहिनः। तस्माद् अन्नं प्रदातव्यं श्रद्धयाश्रद्धयापि वा। आदत्ते हि रसं सर्वम् आदित्यः स्वगभस्तिभिः। वायुस् तस्मात् समादाय रसं मेघेषु धारयेत्। तत् तु मेघगतं भूमौ शक्रो वर्षति तादृशम्। तेन दिग्धा भवेद् देवी मही प्रीता च पाण्डव। तस्यां सस्यानि रोहन्ति यैर् जीवन्त्य् अखिलाः प्रजाः। मांसमेदोस्थिमज्जानां संभवस् तेभ्य एव हि। एवं सूर्यश् च पवनो मेघः शक्रस् तथैव च। एक एव स्मृतो राशिर् यतो भूतानि जज्ञिरे। भवनानि च दिव्यानि दिवि तेषां महात्मनाम्। नानासंस्थानरूपाणि नानाभूतयुतानि च। चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च। तरुणादित्यवर्णानि स्थावराणि चराणि च। अनेकशतसंख्यानि सान्तर्जलवनानि च। तत्र पुष्पफलोपेताः कामदाः सुरपादपाः। वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश् च सहस्रशः। घोषवन्ति च यानानि युक्तान्य् अथ सहस्रशः। भक्ष्यभोज्यमयाः शैला वासांस्य् आभरणानि च। क्षीरस्रवन्त्यः सरितस् तथा चैवान्नपर्वताः। प्रासादाः पाण्डराः शुभ्राः शय्याश् च कनकोज्ज्वलाः। युधिष्ठिर उवाच। अन्नदास् तत्र तिष्ठन्ति तस्माद् अन्नप्रदो भवेत्। अन्नदानफलं श्रुत्वा प्रीतो ऽस्मि मधुसूदन। भगवान् उवाच। भोजनस्य विधिं वक्तुं देवदेव त्वम् अर्हसि। भोजनस्य द्विजातीनां विधानं शृणु पाण्डव। स्नातः शुचिः शुचौ देशे निर्जने हुतपावकः। मण्डलं कारयित्वा तु चतुरश्रं द्विजोत्तमः। क्षत्रियश् चेत् ततो वृत्तं वैश्यो ऽर्धेन्दुसमाकृतिम्। आर्द्रपादस् तु भुञ्जीयात् प्राङ्मुखश् चासने शुचौ। पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेन वा पुनः। नैकवासास् तु भुञ्जीयान् न चान्तर्धाय वा द्विजः। न भिन्नपात्रे भुञ्जीत पर्णपृष्ठे तथैव च। अन्नं पूर्वं नमस्कुर्यात् प्रहृष्टेनान्तरात्मना। नान्यद् आलोकयेद् अन्नान् न जुगुप्सेत तत्परः। जुगुप्सितं च यच् चान्नं राक्षसा एव भुञ्जते। पाणिना जलम् उद्धृत्य कुर्याद् अन्नं प्रदक्षिणम्। अपेयं तद् विजानीयात् पीत्वा चान्द्रायणं चरेत्। परिवेषजलाद् अन्यत् पेयम् एतत् तु मन्त्रवत्। पञ्च प्राणाहुतीः कुर्यात् सम[]ं तु पृथक् पृथक्। यथा रसं न जानाति जिह्वा प्राणाहुतौ नृप। तथा समाहितः कुर्यात् प्राणाहुतिम् अतन्द्रितः। विदित्वान्नम् अथान्नादं पञ्च प्राणांश् च पाण्डव। यः कुर्याद् आहुतीः पञ्च तेनेष्टाः पञ्च वायवः। अतो ऽन्यथा तु भुञ्जानो ब्राह्मणो ज्ञानदुर्बलः। तेनान्नेनासुरान् प्रेतान् राक्षसांस् तर्पयिष्यति। वक्त्रप्रमाणान् पिण्डांश् च ग्रसेद् एकैकशः पुनः। वक्त्राधिकं तु यत् पिण्डम् आत्मोच्छिष्टं तद् उच्यते। पिण्डावशिष्टम् अन्यच् च वक्त्रनिःसृतम् एव च। अभोज्यं तद् विजानीयाद् भुक्त्वा चान्द्रायणं चरेत्। स्वम् उच्छिष्टं तु यो भुङ्क्ते यो भुङ्ते मुक्तभोजनम्। चान्द्रायणं चरेत् कृच्छ्रं प्राजापत्यम् अथापि वा। पिबतः पतिते तोये भोजने मुखनिःसृते। अभोज्यं तद् विजानीयाद् भुक्त्वा चान्द्रायणं चरेत्। पीतशेषं तु तन् नाम न पेयं पाण्डुनन्दन। पिबेद् यदि हि तन् मोहाद् द्विजश् चान्द्रायणं चरेत्। पानीयानि पिबेद् येन तत् पात्रं द्विजसत्तमः। अनुच्छिष्टं भवेत् तावद् यावद् भूमौ न निक्षिपेत्। मौनी वाप्य् अथ वामौनी प्रहृष्टः संयतेन्द्रियः। भुञ्जीत विधिवद् विप्रो न चोच्छिष्टं प्रदापयेत्। सदा चात्याशनं नाद्यान् नातिहीनं च कर्हि चित्। यथान्नेन व्यथा न स्यात् तथा भुञ्जीत नित्यशः। उदक्याम् अपि चण्डालं श्वानं वा रुरुम् एव वा। भुञ्जानो यदि वा पश्येत् तद् अन्नं च परित्यजेत्। भुञ्जानो ह्य् अत्यजन् मोहाद् द्विजश् चान्द्रायणं चरेत्। केशकीटावपन्नं च मुखमारुतवीजितम्। अभोज्यं तद् विजानीयाद् भुक्त्वा चान्द्रायणं चरेत्। उत्थाय च पुनः स्पृष्टं पादस्पृष्टं च लङ्घितम्। अन्नं तद् राक्षसं विद्यात् तस्मात् तत् परिवर्जयेत्। राक्षसोच्छिष्टभुग् विप्रः सप्त पूर्वान् परान् अपि। निरये रौरवे घोरे स्वपितॄन् पातयिष्यति। तस्मिन्न् आचमनं कुर्याद् यस्मिन् पात्रे स भुक्तवान्। यद्य् उत्तिष्ठत्य् अनाचान्तो भुक्तवान् आसनात् ततः। युधिष्ठिर उवाच। स्नानं सद्यः प्रकुर्वीत सो ऽन्यथाप्रयतो भवेत्। तृणमुष्टिविधानं च तृणमाहात्म्यम् एव च। इक्षोः सोमसमुद्भूतिं वक्तुम् अर्हसि मानद। भगवान् उवाच। पितरो वृषभा ज्ञेया गावो लोकस्य मातरः। तासां तु पूजया राजन् पूजिताः पितृमातरः। सभा प्रपा गृहं चापि देवतायतनानि च। शुध्यन्ति शकृदा यासां किं पूतम् अधिकं ततः। ग्रासमुष्टिं परगवे दद्यात् संवत्सरं तु यः। अकृत्वा स्वयम् आहारं व्रतं तत् सार्वकालिकम्। गावो मे मातरः सर्वाः पितरश् चैव गोवृषाः। ग्रासमुष्टिं मया दत्तां प्रतिगृह्णन्तु मातरः। इत्य् उक्त्वानेन मन्त्रेण सावित्र्या वा समाहितः। अभिमन्त्र्य ग्रासमुष्टिं तस्य पुण्यफलं शृणु। यत् कृतं दुष्कृतं तेन ज्ञानतो ऽज्ञानतो ऽपि वा। तस्य नश्यति तत् सर्वं दुःस्वप्नं च विनश्यति। तिलाः पवित्राः पापघ्ना नारायणसमुद्भवाः। तिलाञ् श्राद्धे प्रशंसन्ति दानम् एतद् अनुत्तमम्। तिलान् दद्यात् तिलान् भक्ष्यात् तिलान् प्रातर् उपस्पृशेत्। तिलं तिलम् इति ब्रूयात् तिलाः पापहरा हि ते। क्रीताः प्रतिगृहीता वा न विक्रेया द्विजातिभिः। भोजनाभ्यञ्जनाद् दानाद् यो ऽन्यत् तु कुरुते तिलैः। कृमिर् भूत्वा श्वविष्ठायां पितृभिः सह मज्जति। तिलान् न पीडयेद् विप्रो यन्त्रचक्रे स्वयं नृप। पीडयन् हि द्विजो मोहान् नरकं याति रौरवम्। इक्षुवंशोद्भवः सोमः सोमवंशोद्भवा द्विजाः। इक्षून् न पीडयेत् तस्माद् इक्षुघात्यात्मघातकः। इक्षुदण्डसहस्राणाम् एकैकेन युधिष्ठिर। ब्रह्महत्याम् अवाप्नोति ब्राह्मणो यन्त्रपीडकः। युधिष्ठिर उवाच। तस्मान् न पीडयेद् इक्षून् यन्त्रचक्रे द्विजोत्तमः। समुच्चयं तु धर्माणां भोज्याभोज्यं तथैव च। भगवान् उवाच। श्रुतं मया त्वत्प्रसादाद् आपद्धर्मं ब्रवीहि मे। दुर्भिक्षे राष्ट्रसंबाधे त्वाशौचे मृतसूतके। धर्मकाले ऽध्वनि तथा नियमो नैव लुप्यते। दूराध्वगमनात् खिन्नो द्विजालाभे ऽथ शूद्रतः। अकृतान्नं च यत् किं चिद् गृह्णीयाद् आत्मवृत्तये। आतुरो दुःखितो वापि भयार्तो वा बुभुक्षितः। भुञ्जन्न् अविधिना विप्रः प्रायश्चित्तीयते न च। निमन्त्रितस् तु यो विप्रो विधिवद् धव्यकव्ययोः। मांसान्य् अपि च भुञ्जानः प्रायश्चित्तीयते न च। अष्टौ तान्य् अव्रतघ्नानि आपो मूलं घृतं पयः। हविर् ब्राह्मणकामाय गुरोर् वचनम् औषधम्। अशक्तो विधिवत् कर्तुं प्रायश्चित्तानि यो नरः। विदुषां वचनेनापि दानेनापि विशुध्यति। अनृताव् ऋतुकाले वा दिवा रात्रौ तथापि वा। युधिष्ठिर उवाच। प्रोषितस् तु स्त्रियं गच्छेत् प्रायश्चित्तीयते न च। प्रशस्याः कीदृशा विप्रा निन्द्याश् चापि सुरेश्वर। भगवान् उवाच। अष्टकायाश् च कः कालस् तन् मे कथय सुव्रत। सत्यसन्धं द्विजं दृष्ट्वा स्थानाद् वेपति भास्करः। एष मे मण्डलं भित्त्वा याति ब्रह्म सनातनम्। कुलीनः कर्मकृद् वैद्यस् तथा चाप्य् आनृशंस्यवान्। ह्रीमान् ऋजुः सत्यवादी पात्रं सर्व इमे द्विजाः। एते चाग्रासनस्थास् तु भुञ्जानाः प्रथमं द्विजाः। तस्यां पङ्क्त्यां च ये चान्ये तान् पुनन्त्य् एव दर्शनात्। मद्भक्ता ये द्विजश्रेष्ठा मद्गता मत्परायणाः। तान् पङ्क्तिपावनान् विद्धि पूज्यांश् चैव विशेषतः। निन्द्याञ् शृणु द्विजान् राजन्न् अपि वा वेदपारगान्। ब्राह्मणच्छद्मना लोके चरतः पापकारिणः। अनग्निर् अनधीयानः प्रतिग्रहरुचिस् तु यः। यत्र कुत्र तु भुञ्जानस् तं विद्यात् पङ्क्तिदूषकम्। मृतसूतकपुष्टाङ्गो यश् च शूद्रान्नभुग् द्विजः। अहं चापि न जानामि गतिं तस्य नराधिप। शूद्रान्नरसपुष्टाङ्गो ह्य् अधीयानो ऽपि नित्यशः। जपतो जुह्वतो वापि गतिर् ऊर्ध्वा न विद्यते। आहिताग्निश् च यो विप्रः शूद्रान्नान् न निवर्तते। पञ्च तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयो ऽग्नयः। शूद्रप्रेषणकर्तुश् च ब्राह्मणस्य विशेषतः। भूमाव् अन्नं प्रदातव्यं श्वसृगालसमो हि सः। प्रेतभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः। अनुगच्छेन् नीयमानं त्रिरात्रम् अशुचिर् भवेत्। त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम्। प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति। अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजोत्तमाः। पदे पदे ऽश्वमेधस्य फलं ते प्राप्नुवन्ति हि। न तेषाम् अशुभं किं चित् पापं वाशुभकर्मणाम्। जलावगाहनाद् एव सद्यः शौचं विधीयते। शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि। निर्वृतेन न भोक्तव्यं विद्धि शूद्रान्नम् एव तत्। विप्राणां भोक्तुकामानाम् अत्यन्तं चान्नकाङ्क्षया। यो विघ्नं कुरुते मर्त्यस् ततो नान्यो ऽस्ति पापकृत्। सर्वे च वेदाः सह षड्भिर् अङ्गैः। सांख्यं पुराणं च कुले च जन्म। नैतानि सर्वाणि गतिर् भवन्ति। शीलव्यपेतस्य नृप द्विजस्य। ग्रहोपरागे विषुवे ऽयनान्ते। पित्र्ये मघासु स्वसुते च जाते। गयेषु पिण्डेषु च पाण्डुपुत्र। दत्तं भवेन् निष्कसहस्रतुल्यम्। वैशाखमासस्य च या तृतीया। नवम्य् असौ कार्तिकशुक्लपक्षे। नभस्यमासस्य च कृष्णपक्षे। त्रयोदशी पञ्चदशी च माघे। उपप्लवे चन्द्रमसो रवेश् च। श्राद्धस्य कालो ह्य् अयनद्वये च। यस् त्व् एकपङ्क्त्यां विषयं ददाति। स्नेहाद् भयाद् वा यदि वार्थहेतोः। क्रूरं दुराचारम् अनात्मवन्तं। ब्रह्मघ्नम् एनं मुनयो वदन्ति। इहैवैकस्य नामुत्र अमुत्रैकस्य नो इह। इह चामुत्र चैकस्य नामुत्रैकस्य नो इह। धनानि येषां विपुलानि सन्ति। नित्यं रमन्ते परलोकमूढाः। तेषाम् अयं शत्रुवरघ्नलोको। नान्यः सदा देहसुखे रतानाम्। ये योगयुक्तास् तपसि प्रसक्ताः। स्वाध्यायशीला जरयन्ति देहम्। जितेन्द्रिया भूतहिते निविष्टास्। तेषाम् असौ नायम् अरिघ्नलोकः। ये धर्मम् एव प्रथमं चरन्ति। धर्मेण लब्ध्वापि धनानि काले। दारान् अवाप्य क्रतुभिर् जयन्ते। तेषाम् अयं चैव परश् च लोकः। ये नैव विद्यां न तपो न दानं। न चापि मूढाः प्रजने यतन्ते। न चापि गच्छन्ति सुखानि भोगांस्। तेषाम् अयं चैव परश् च नास्ति। युधिष्ठिर उवाच। नारायण पुराणेश योगावास नमो ऽस्तु ते। श्रोतुम् इच्छामि कार्त्स्न्येन धर्मसारसमुच्चयम्। भगवान् उवाच। धर्मसारं महाराज मनुना प्रोक्तम् आदितः। प्रवक्ष्यामि मनुप्रोक्तं पौराणं श्रुतिसंहितम्। अग्निचित् कपिला सत्री राजा भिक्षुर् महोदधिः। दृष्टमात्राः पुनन्त्य् एते तस्मात् पश्येत तान् सदा। गौर् एकस्यैव दातव्या न बहूनां युधिष्ठिर। सा गौर् विक्रयम् आपन्ना दहत्य् आसप्तमं कुलम्। बहूनां न प्रदातव्या गौर् वस्त्रं शयनं स्त्रियः। तादृग्भूतं तु तद् दानं दातारं नोपतिष्ठति। आक्रम्य ब्राह्मणैर् भुक्तम् अनार्याणां तु वेश्मनि। गोभिश् च पुण्यं तत् तेषां राजसूयाद् विशिष्यते। मा ददात्व् इति यो ब्रूयाद् गव्यग्नौ ब्राह्मणेषु च। तिर्यग्योनिशतं गत्वा चण्डालेषूपजायते। ब्राह्मणस्वं तु देवस्वं दरिद्रस्य च यद् धनम्। गुरोश् चापि हृतं राजन् स्वर्गस्थम् अपि पातयेत्। धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः। द्वितीयं धर्मशास्त्राणि तृतीयं लोकसंग्रहः। आ समुद्राच् च यत् पूर्वाद् आ समुद्राच् च पश्चिमात्। हिमवद्विन्ध्ययोर् मध्यम् आर्यावर्तं प्रचक्षते। सरस्वतीदृषद्वत्योर् देवनद्योर् यद् अन्तरम्। तद् देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते। यस्मिन् देशे य आचारः पारंपर्यक्रमागतः। वर्णानां सान्तरालानां स सदाचार उच्यते। कुरुक्षेत्रं च मत्स्याश् च पाञ्चालाः शूरसेनयः। एते ब्रह्मर्षिदेशास् तु ब्रह्मावर्ताद् अनन्तराः। एतद्देशप्रसूतस्य सकाशाद् अग्रजन्मनः। स्वं चारित्रं तु गृह्णीयुः पृथिव्यां सर्वमानवाः। हिमवद्विन्ध्ययोर् मध्यं यत् प्राग् विशसनाद् अपि। प्रत्यग् एव प्रयागात् तु मध्यदेशः प्रकीर्तितः। कृष्णसारस् तु चरति मृगो यत्र स्वभावतः। स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस् ततः परम्। एतान् विज्ञाय देशांस् तु संश्रयेयुर् द्विजातयः। शूद्रस् तु यस्मिन् कस्मिन् वा निवसेद् वृत्तिकर्शितः। आचारप्रभवो धर्मो ह्य् अहिंसा सत्यम् एव च। दानं चैव यथाशक्ति नियमाश् च यमैः सह। वैदिकैः कर्मभिः पुण्यैर् निषेकादिर् द्विजन्मनाम्। कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च। गर्भहोमैर् जातकर्मनामचौलोपनायनैः। स्वाध्यायैस् तद्व्रतैश् चैव विवाहस्नातकव्रतैः। महायज्ञैश् च यज्ञैश् च ब्राह्मीयं क्रियते तनुः। धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा। विद्या तस्मिन् न वप्तव्या शुभं बीजम् इवोषरे। लौकिकं वैदिकं वापि तथाध्यात्मिकम् एव वा। यस्माज् ज्ञानम् इदं प्राप्तं तं पूर्वम् अभिवादयेत्। सव्येन सव्यं संगृह्य दक्षिणेन तु दक्षिणम्। न कुर्याद् एकहस्तेन गुरोः पादाभिवादनम्। निषेकादीनि कर्माणि यः करोति यथाविधि। अध्यापयति चैवैनं स विप्रो गुरुर् उच्यते। कृत्वोपनयनं वेदान् यो ऽध्यापयति नित्यशः। सकल्पान् सरहस्यांश् च स चोपाध्याय उच्यते। साङ्गांश् च वेदान् अध्याप्य शिक्षयित्वा व्रतानि च। विवृणोति च मन्त्रार्थान् आचार्यः सो ऽभिधीयते। उपाध्यायाद् दशाचार्य आचार्याणां शतं पिता। पितुः शतगुणं माता गौरवेणातिरिच्यते। तस्मात् तेषां वशे तिष्ठेत् तच्छुश्रूषापरो भवेत्। अवमानाद् धि तेषां तु नरकं स्याद् असंशयः। हीनाङ्गान् अतिरिक्ताङ्गान् विद्याहीनान् वयोधिकान्। रूपद्रविणहीनांश् च जातिहीनांश् च नाक्षिपेत्। शपता यत् कृतं पुण्यं शप्यमानं तु गच्छति। शप्यमानस्य यत् पापं शपन्तम् अनुगच्छति। नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम्। द्वेषं डम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत्। युधिष्ठिर उवाच। भगवंस् तव भक्तस्य मम धर्मजनप्रिय। भगवान् उवाच। धर्मं पुण्यतमं देव पृच्छतः कथयस्व मे। यद् एतद् अग्निहोत्रं वै सृष्टं वर्णत्रयस्य तु। मन्त्रवद् यद् धुतं सम्यग् विधिना चाप्य् उपासितम्। युधिष्ठिर उवाच। आहिताग्निं नयत्य् ऊर्ध्वं सपत्नीकं सबान्धवम्। कथं तद् ब्राह्मणैर् देव होतव्यं क्षत्रियैः कथम्। वैश्यैर् वा देवदेवेश कथं वा सुहुतं भवेत्। कस्मिन् काले ऽथ वा कस्य आधेयो ऽग्निः सुरोत्तम। आहितस्य कथं वापि सम्यग् आचरणं भवेत्। कत्य् अग्नयः किम् आत्मानः स्थानं किं कस्य वा विभो। कतरस्मिन् हुते स्थाने किं व्रजेद् आग्निहोत्रिकः। अग्निहोत्रनिमित्तं च किम् उत्पन्नं पुरानघ। कथम् एवाथ हूयन्ते प्रीयन्ते च सुराः कथम्। विधिवन् मन्त्रवद् भक्त्या पूजितास् त्व् अग्नयः कथम्। कां गतिं वदतां श्रेष्ठ नयन्ति ह्य् अग्निहोत्रिणः। दुर्हुताश् चापि भगवन्न् अविज्ञातास् त्रयो ऽग्नयः। किम् आहिताग्नेः कुर्वन्ति दुश्चीर्णा वापि केशव। उत्सन्नाग्निस् तु पापात्मा कां योनिं देव गच्छति। एतत् सर्वं समासेन भक्त्या ह्य् उपगतस्य मे। भगवान् उवाच। वक्तुम् अर्हसि सर्वज्ञ सर्वावास नमो ऽस्तु ते। शृणु राजन् महापुण्यम् इदं धर्मामृतं परम्। यत् तु तारयते युक्तान् ब्राह्मणान् अग्निहोत्रिणः। ब्रह्मत्वेनासृजं लोकान् अहम् आदौ महाद्युते। सृष्टो ऽग्निर् मुखतः पूर्वं लोकानां हितकाम्यया। यस्माद् अग्रे स भूतानां सर्वेषां निर्मितो मया। तस्माद् अग्नीत्य् अभिहितः पुराणज्ञैर् मनीषिणः। यस्मात् तु सर्वकृत्येषु पूर्वम् अस्मै प्रदीयते। आहुतिर् दीप्यमानाय तस्माद् अग्नीति कीर्त्यते। यस्माच् च नयति ह्य् अग्र्यां गतिं विप्रान् सुपूजितः। तस्माच् च नयनाद् राजन् वेदेष्व् अग्नीति कीर्त्यते। यस्माच् च दुर्हुतः सो ऽयम् अलं भक्षयितुं क्षणात्। यजमानं नरश्रेष्ठ क्रव्यादो ऽग्निस् ततः स्मृतः। सर्वभूतात्मको राजन् देवानाम् एष वै मुखम्। प्रथमं मन्मुखात् सृष्टो लोकार्थे पचनः प्रभुः। सृष्टमात्रो जगत् सर्वम् अत्तुम् ऐच्छत् पुरा खलु। ततः प्रशमितः सो ऽग्निर् उपास्यैव मया पुरा। सततोपासनात् सो ऽयम् औपासन इति स्मृतः। आहुतिः सर्वम् आख्यातं तस्मिन् वसति सो ऽनलः। आवसथ्य इति ख्यातस् तेनासौ ब्रह्मवादिभिः। तस्मिन् पञ्च महायज्ञा वर्तन्ते यस्य धर्मतः। सोममण्डलमध्येन गतिस् तस्य द्विजन्मनः। ते च सप्तर्षयः सिद्धाः संयतेन्द्रियबुद्धयः। गता ह्य् अमरसायुज्यम् एकाग्न्यर्चनतत्पराः। अपरे चावसथ्यं च पचनाग्निं प्रचक्षते। तस्मिन् पञ्च महायज्ञा वैश्वदेवश् च वर्तते। स्थालीपाक च गार्हं च सर्वे ह्य् अस्मिन् प्रतिष्ठिताः। गृह्यकर्मवहो यस्मात् तस्माद् गृहपतिस् तु सः। औपासनं चावसथ्यं सभ्यं पचनपावकम्। आहुर् ब्रह्मविदः के चिन् मतम् एतन् ममापि च। अग्निहोत्रप्रकारं तु शृणु राजन् समाहितः। त्रयाणां गुणनामानि वह्नीनाम् उच्यते मया। गृहाणां हि पतित्वं हि गृहपत्यम् इति स्मृतम्। गृहपत्यं तु यस्यासीत् तस्यासीद् गार्हपत्यता। यजमानं तु यस्मात् तु दक्षिणां तु गतिं नयेत्। दक्षिणाग्निं तम् आहुस् तं दक्षिणायतनं द्विजाः। आहुतिः सर्वम् आख्यातं हवनं हव्यवाहनम्। सर्वहव्यवहो वह्निर् गतश् चाहवनीयताम्। यस् त्व् आवसथ्यं जुहुयान् मूलाग्निं विधिवद् द्विजः। आवसथ्यं तु ये चाग्निं पचनाग्निं प्रचक्षते। तेषां स भागतो वह्निः सभ्य इत्य् अभिधीयते। आवसथ्यस् तु यो वह्निः प्रथमः स प्रजापतिः। ब्रह्मा च गार्हपत्यो ऽग्निस् तस्माद् एव तु सो भवेत्। दक्षिणाग्निस् त्व् अयं रुद्रः क्रोधात्मा चण्ड एव सः। अहम् आहवनीयो ऽग्निर् आ होमाद् यस्य वै मुखे। सभ्यो ऽग्निः पञ्चमो यस् तु स्कन्द एव नराधिप। पृथिवी गार्हपत्यो ऽग्निर् अन्तरिक्षं च दक्षिणः। स्वर्ग आहवनीयो ऽग्निर् एवम् अग्नित्रयं स्मृतम्। वृत्तो हि गार्हपत्यो ऽग्निर् यस्माद् वृत्ता च मेदिनी। अर्धचन्द्राकृतिः खं वै दक्षिणाग्निस् तथा भवेत्। चतुरश्रं ततः स्वर्गं निर्मलं यन् निरामयम्। तस्माद् आहवनीयो ऽग्निश् चतुरश्रो भवेन् नृप। जुहुयाद् गार्हपत्यं यो भुवं जयति स द्विजः। जुहोति दक्षिणाग्निं यः स जयत्य् अन्तरिक्षकम्। पृथिवीम् अन्तरिक्षं च दिवं चर्षिगणैः सह। जयत्य् आहवनीयं यो जुहुयाद् भक्तिमान् द्विजः। आभिमुख्येन होमस् तु यस्य यज्ञेषु वर्तते। तेनाप्य् आहवनीयत्वं गतो वह्निर् महाद्युतिः। आ होमाद् यो ऽग्निहोत्रेषु यज्ञे वा यत्र सर्वशः। यस्माद् अस्मिन् प्रवर्तन्ते ततो ह्य् आहवनीयता। यस् त्व् आवसथ्यं जुहुयान् मूलाग्निं विधिवद् द्विजः। स तु सप्तर्षिलोकेषु सपत्नीकः प्रमोदते। यश् चाप्य् उपासते सभ्यं विधिवत् प्रयतात्मवान्। जयेत् स वाङ्मयं सर्वं तथा त्व् ऋषिसभाम् अपि। अग्नीनाम् अथ वाग्नेस् तु यस्य होमः प्रदीयते। इष्टो भवति सर्वाग्नेर् अग्निहोत्रं च तद् भवेत्। त्रयाणां यजमानस्य चातुर्होत्रम् इति स्मृतम्। हो इत्य् एव विषादो वै विषादो दुःखम् उच्यते। दुःखं तापत्रयं प्रोक्तं तापं हि नरकं विदुः। तस्माद् वै त्रायते दुःखाद् यजमानं हुतो ऽनलः। तस्मात् तु विधिवत् प्रोक्तम् अग्निहोत्रम् इति श्रुतौ। तद् अग्निहोत्रं सृष्टं वै ब्रह्मणा लोककर्तृणा। वेदाश् चाप्य् अग्निहोत्रार्थं जज्ञिरे स्वयम् एव तु। अग्निहोत्रफला वेदा शीलवृत्तफलं श्रुतम्। रतिपुत्रफला दारा दानभोगफलं धनम्। त्रिवेदमन्त्रसंयोगाद् अग्निहोत्रं प्रवर्तते। ऋग्यजुःसामभिः पुण्यैः स्थाप्यते सूत्रसंयुतैः। वसन्ते ब्राह्मणस्य स्याद् आधेयो ऽग्निर् नराधिप। वसन्तो ब्राह्मणः प्रोक्तो वेदयोनिः स उच्यते। अग्न्याधेयं तु येनाथ वसन्ते क्रियते नृप। तस्य श्रीर् ब्रह्मवृद्धिश् च ब्राह्मणस्य विवर्धते। क्षत्रियस्याग्निर् आधेयो ग्रीष्मे श्रेष्ठः स वै नृप। येनाधानं तु वै ग्रीष्मे क्रियते तस्य वर्धते। श्रीः प्रजाः पशवश् चैव वित्तं तेजो बलं यशः। शरद्रात्रे ऽथ वैश्यस्य ह्य् आधानीयो हुताशनः। शरद्रात्रं स्वयं वैश्यो वैश्ययोनिः स उच्यते। शरद्य् आधानम् एवं वै क्रियते येन पाण्डव। तस्यापि श्रीः प्रजायुश् च पशवो ऽर्थश् च वर्धते। पशवः सर्व एवैते त्रिभिर् वेदैर् अलंकृताः। अग्निहोत्रात् प्रवर्तन्ते यैर् इदं ध्रियते जगत्। ग्राम्यारण्याश् च पशवस् तथा वृक्षास् तृणानि च। फलान्य् ओषधयश् चापि ह्य् अग्निहोत्रकृते हि ताः। रसाः स्नेहास् तथा गन्धा रत्नानि मणयस् तथा। काञ्चनानि च लोहानि ह्य् अग्निहोत्रकृते ऽभवन्। आयुर्वेदो धनुर्वेदो मीमांसा न्यायविस्तरः। धर्मशास्त्रं च तत् सर्वम् अग्निहोत्रकृते कृतम्। छन्दः शिक्षाश् च कल्पाश् च तथा व्याकरणं नृप। शास्त्रं ज्योतिर् निरुक्तं चाप्य् अग्निहोत्रकृते कृतम्। इतिहासपुराणं च गाथाश् चोपनिषत् तथा। आथर्वणानि कर्माणि चाग्निहोत्रकृते कृतम्। यच् चैतस्यां पृथिव्यां हि किं चिद् अस्ति चराचरम्। तत् सर्वम् अग्निहोत्रस्य कृते सृष्टं स्वयंभुवा। अग्निहोत्रस्य दर्शस्य पौर्णमासस्य चाप्य् अथ। यूपेष्टिपशुबन्धानां सोमपानक्रियावताम्। तिथिनक्षत्रयोगानां मुहूर्तकरणात्मनाम्। कालस्य वेदनार्थं तु ज्योतिर्ज्ञानं कृतं पुरा। ऋग्यजुःसाममन्त्राणां श्लोकतत्त्वार्थचिन्तनात्। प्रत्यापत्तिविकल्पानां छन्दो ज्ञानं प्रकल्पितम्। वर्णाक्षरपदार्थानां संधिलिङ्गं विवक्षितम्। नामधातुविवेकार्थं पुरा व्याकरणं कृतम्। यूपवेद्य् अध्वरार्थं तु प्रोक्षणश्रवणाय तु। यज्ञदैवतयोगार्थं शिक्षाज्ञानं प्रकल्पितम्। यज्ञपात्रपवित्रार्थं द्रव्यसंभारणाय च। सर्वयज्ञविकल्पाय पुराकल्पं प्रकल्पितम्। नामधातुविभक्तीनां तत्त्वार्थनियमाय च। सर्ववेदनिरुक्तानां निरुक्तम् ऋषिभिः कृतम्। वेद्यर्थं पृथिवी सृष्टा संभारार्थं तथैव च। इध्मार्थम् अथ यूपार्थं ब्रह्मा चक्रे वनस्पतिम्। ग्राम्यारण्याश् च पशवो जायन्ते यज्ञकारणात्। मन्त्राणां विनियोगं च प्रोषिता श्रावणं तथा। अनूयाजप्रयाजांश् च मरुतां शंसिनस् तथा। उद्गातॄंश् चैव साम्नां वै बलिप्रस्थानम् एव च। विष्णुक्रमाणां क्रमणं दक्षिणावभृथं तथा। त्रिकालम् अर्चनं चैव स्थानेषूपहृतं तथा। देवताग्रहणं मोक्षं हविषां श्रवणं तथा। नावबुध्यन्ति ये विप्रा निन्दन्ति च पशोर् वधम्। ते यान्ति नरकं घोरं रौरवं तमसावृतम्। शतवर्षसहस्राणि तत्र स्थित्वा नराधमाः। क्रिमिभिर् भक्ष्यमाणाश् च तिष्ठेयुः पूयशोणिते। यूपास् तु मन्त्रसंस्कारैर् एषां वै पशवस् तथा। यजमानेन सहिताः स्वर्गं यान्ति नरेश्वर। यावत् कालं हि यज्वा वै स्वर्गलोके महीयते। तावत् कालं प्रमोदन्ते पशवो ह्य् अध्वरे हताः। वृक्षा यूपत्वम् इच्छन्ति पशुत्वं पशवस् तथा। तृणानीच्छन्ति दर्भत्वम् ओषध्यश् च हविष्यताम्। सोमत्वं च लताः सर्वा वेदित्वं वै वसुंधरा। यस्मात् पशुत्वम् इच्छन्ति पशवः स्वर्गलिप्सया। तस्मात् पशुवधे हिंसा नास्ति यज्ञेषु पाण्डव। अहिंसा वैदिकं कर्म ब्रह्मकर्मेति तत् स्मृतम्। वेदोक्तं ये न कुर्वन्ति हिंसाबुद्ध्या क्रतुं द्विजाः। सद्यः शूद्रत्वम् आयान्ति प्रेत्य चण्डालताम् अपि। गावो यज्ञार्थम् उत्पन्ना दक्षिणार्थं तथैव च। सुवर्णं रजतं चैव पात्री कुम्भार्थम् एव च। दर्भाः संस्तरणार्थं तु रक्षसां रक्षणाय च। यजनार्थं द्विजाः सृष्टास् तारका दिवि देवताः। क्षत्रिया रक्षणार्थं तु वैश्या वार्तानिमित्ततः। शुश्रूषार्थं त्रयाणां तु शूद्राः सृष्टाः स्वयंभुवा। एवम् एतज् जगत् सर्वम् अग्निहोत्रकृते कृतम्। नावबुध्यन्ति ये चैतन् नरास् तु तमसा वृताः। ते यान्ति नरकं घोरं रौरवं नाम विश्रुतम्। रौरवाद् विप्रमुक्तास् तु क्रिमियोनिं व्रजन्ति ते। यथोक्तम् अग्निहोत्राणां शुश्रूषन्ति च ये द्विजाः। तैर् दत्तं सुहुतं चेष्टं दत्तम् अध्यापितं भवेत्। एवम् इष्टं च पूर्तं च यद् विप्रैः क्रियते नृप। तत् सर्वं सम्यग् आहृत्य चादित्ये स्थापयाम्य् अहम्। मया स्थापितम् आदित्ये लोकस्य सुकृतं हि तत्। धारयेत् तत् सहस्रांशुः सुकृतं ह्य् अग्निहोत्रिणाम्। यावत् कालं तु तिष्ठन्ति लोके चाप्य् अग्निहोत्रिणः। तावत् तेषां हि पुण्येन दीप्यन्ते रविणाम्बरे। स्वर्गे स्वर्गं गतानां तु वीर्याद् भवति वीर्यवान्। तत्र ते ह्य् उपयुञ्जन्ति ह्य् अग्निहोत्रस्य यत् फलम्। समानरूपा देवानां तिष्ठन्त्य् आभूतसंप्लवम्। वृथाग्निना च ये के चिद् दह्यन्ते ह्य् अग्निहोत्रिणः। न ते ऽग्निहोत्रिणां लोकं मनसापि व्रजन्ति वै। वीरघ्नास् ते दुराचाराः सुदरिद्रा नराधमाः। विकला व्याधिताश् चापि जायन्ते शूद्रयोनिषु। तस्माद् अप्रोषितैर् नित्यम् अग्निहोत्रं द्विजातिभिः। होतव्यं विधिवद् राजन्न् ऊर्ध्वम् इच्छन्ति ये गतिम्। आत्मवत् तत्र मन्तव्यम् अग्निहोत्रं युधिष्ठिर। न त्याज्यं क्षणम् अप्य् एतद् गृहीतव्यं द्विजातिभिः। वृद्धत्वे ऽप्य् अग्निहोत्रं वै गृह्णन्ति विधिवद् द्विजाः। शूद्रान्नाद् विरता दान्ताः संयतेन्द्रियबुद्धयः। पञ्चयज्ञपरा नित्यं क्रोधलोभविवर्जिताः। द्विकालम् अतिथींश् चैव पूजयन्ति च भक्तितः। ते ऽपि सूर्योदयप्रख्यैर् विमानैर् वायुवेगिभिः। मम लोके प्रमोदन्ते दृष्ट्वा मां च युधिष्ठिर। मन्वन्तरं च तत्रैकं मोदित्वा द्विजसत्तमाः। इह मानुष्यके लोके जायन्ते द्विजसत्तमाः। बालाहिताग्नयो ये च शूद्रान्नाद् विरताः सदा। क्रोधलोभविनिर्मुक्ताः प्रातःस्नानपरायणाः। यथोक्तम् अग्निहोत्रं वै जुह्वते विजितेन्द्रियाः। आतिथेयाः सदा सौम्या द्विकालं मत्परायणाः। ते यान्त्य् अपुनरावृत्तिं भित्त्वा चादित्यमण्डलम्। मम लोकं सपत्नीका यानैः सूर्योदयप्रभैः। तत्र बालार्कसंकाशाः कामगाः कामरूपिणः। ऐश्वर्यगुणसंपन्नाः क्रीडन्ति च यथासुखम्। इत्य् एषा ह्य् आहिताग्नीनां विभूतिः पाण्डुनन्दन। ये च देवश्रुतिं के चिन् निन्दमाना ह्य् अबुद्धयः। प्रमाणं न च कुर्वन्ति ते यान्ति ह्य् अक्षयं तमः। प्रमाणम् इतिहासं च वेदान् कुर्वन्ति ये द्विजाः। युधिष्ठिर उवाच। ते यान्त्य् अमरसायुज्यं नित्यम् आस्तिक्यबुद्धयः। चक्रायुध नमस् ते ऽस्तु देवेश गरुडध्वज। चान्द्रायणविधिं पुण्यम् आख्याहि भगवन् मम। भगवान् उवाच। शृणु पाण्डव तत्त्वेन सर्वपापप्रणाशनम्। पापिनो येन शुध्यन्ति तत् ते वक्ष्यामि सर्वशः। ब्राह्मणः क्षत्रियो वापि वैश्यो वा चरितव्रतः। यथावत् कर्तुकामो यस् तस्येयं प्रथमा क्रिया। शोधयेत् तु शरीरं स्वं पञ्चगव्येन यन्त्रितः। शरीरं कक्षपक्षान्तं ततः कुर्वीत पावनम्। शुद्धवासाः शुचिर् भूत्वा मौञ्जीं बध्नीत मेखलाम्। पालाशदण्डम् आदाय ब्रह्मचारिव्रते स्थितः। कृतोपवासः पूर्वं तु शुक्लप्रतिपदि द्विजः। नदीसंगमतीर्थेषु शुचौ देशे गृहे ऽपि वा। गोमयेनोपलिप्ते ऽथ स्थण्डिले ऽग्निं निधापयेत्। आघाराव् आज्यभागौ च प्रणवं व्याहृतीस् तथा। वारुणैश् चापि पञ्चैव हुत्वा सर्वान् यथाक्रमम्। सत्याय विष्णवे चेति ब्रह्मर्षिभ्यो ऽथ ब्रह्मणे। विश्वेभ्यश् चैव देवेभ्यः प्रजापतय एव च। षट्कृत्वो जुहुयात् पश्चात् प्रायश्चित्ताहुतिं द्विजः। ततः समापयेद् अग्निं शान्तिं कृत्वाथ पौष्टिकम्। प्रणम्याग्निं च सोमं च भस्म धृत्वा तथात्मनि। नदीं गत्वा विविक्तात्मा सोमाय वरुणाय च। आदित्याय नमस्कृत्वा ततः स्नायात् समाहितः। उत्तीर्योदकम् आचम्य त्व् आसीनः पूर्वतोमुखः। प्राणायामं ततः कृत्वा पवित्रैर् अभिषेचनम्। आचान्तस् त्व् अभिवीक्षेत चोर्ध्वबाहुर् दिवाकरम्। कृताञ्जलिपुटः पश्चात् कुर्याच् चैव प्रदक्षिणम्। नारायणं वा रुद्रं वा ब्रह्माणम् अथ वापि वा। वारुणं मन्त्रसूक्तं वा प्राग्भोजनम् अथापि वा। वीरघ्नम् ऋषभं वापि तथा चाप्य् अघमर्षणम्। गायत्रीं मम वा देवीं सावित्रीं वा जपेत् ततः। ततश् चाष्टादशं वापि सहस्रम् अथ वापरम्। ततो मध्याह्नकाले वै पायसं यावकं हि वा। पाचयित्वा प्रयत्नेन प्रयतः सुसमाहितः। पात्रं तु सुसमादाय सौवर्णं राजतं तु वा। ताम्रं वा मृन्मयं वापि औदुम्बरम् अथापि वा। वृक्षाणां याज्ञियानां तु पर्णैर् आर्द्रैर् अकुत्सितैः। पुटकेन तु गुप्तेन चरेद् भैक्षं समाहितः। ब्राह्मणानां गृहाणां तु सप्तानां नापरं व्रजेत्। गोदोहमात्रं तिष्ठेत् तु वाग्यतः संयतेन्द्रियः। न हसेच् च न वीक्षेच् च नाभिभाषेत वा स्त्रियम्। दृष्ट्वा मूत्रं पुरीषं च चण्डालं वा रजस्वलाम्। पतितं च तथा श्वानम् आदित्यम् अवलोकयेत्। यो हि पादुकम् आरुह्य सर्वदा प्रचरेद् द्विजः। तं दृष्ट्वा पापकर्माणम् आदित्यम् अवलोकयेत्। ततस् त्व् आवसथं प्राप्तो भिक्षां निक्षिप्य भूतले। प्रक्षाल्य पादाव् आ जान्वोर् हस्ताव् आकूर्परं पुनः। आचम्य वारिणा तेन वह्निं विप्रांश् च पूजयेत्। पञ्च सप्ताथ वा कुर्याद् भागान् भैक्षस्य तस्य वै। तेषाम् अन्यतमं पिण्डम् आदित्याय निवेदयेत्। ब्रह्मणे चाग्नये चैव सोमाय वरुणाय च। विश्वेभ्यश् चैव देवेभ्यो दद्याद् अन्नं यथाक्रमम्। अवशिष्टम् अथैकं तु वक्त्रमात्रं प्रकल्पयेत्। अङ्गुल्यग्रे स्थितं पिण्डं गायत्र्या चाभिमन्त्रयेत्। अङ्गुलीभिस् त्रिभिः पिण्डं प्राश्नीयात् प्राङ्मुखः शुचिः। यथा च वर्धते सोमो ह्रसते च यथा पुनः। तथा पिण्डाश् च वर्धन्ते हसन्ते च दिने दिने। त्रिकालं स्नानम् अस्योक्तं द्विकालम् अथ वा सकृत्। ब्रह्मचारी सदा वापि न च वस्त्रं प्रपीडयेत्। स्थाने न दिवसं तिष्ठेद् रात्रौ वीरासनं व्रजेत्। भवेत् स्थण्डिलशायी वाप्य् अथ वा वृक्षमूलिकः। वल्कलं यदि वा क्षौमं शाणं कार्पासकं तु वा। आच्छादनं भवेत् तस्य वस्त्रार्थं पाण्डुनन्दन। एवं चान्द्रायणे पूर्णे मासस्यान्ते प्रयत्नवान्। ब्राह्मणान् भोजयेद् भक्त्या दद्याच् चैव च दक्षिणाम्। चान्द्रायणेन चीर्णेन यत् कृतं तेन दुष्कृतम्। तत् सर्वं तत्क्षणाद् एव भस्मीभवति काष्ठवत्। ब्रह्महत्याथ गोहत्या सुवर्णस्तैन्यम् एव च। भ्रूणहत्या सुरापानं गुरोर् दारव्यतिक्रमः। एवम् अन्यानि पापानि पातकीयानि यानि च। चान्द्रायणेन नश्यन्ति वायुना पांसवो यथा। अनिर्दशाया गोः क्षीरम् औष्ट्रम् आविकम् एव च। मृतसूतकयोश् चान्नं भुक्त्वा चान्द्रायणं चरेत्। उपपातकिनश् चान्नं पतितान्नं तथैव च। शूद्रस्योच्छेषणं चैव भुक्त्वा चान्द्रायणं चरेत्। आकाशस्थं तु हस्तस्थम् आसनस्थं तथैव च। परहस्तस्थितं चैव भुक्त्वा चान्द्रायणं चरेत्। अथाग्रेदिधिषोर् अन्नं दिधिषूपपतेस् तथा। परिवेत्तुस् तथा चान्नं परिवित्तान्नम् एव च। कुण्डान्नं गोलकान्नं च देवलान्नं तथैव च। तथा पुरोहितस्यान्नं भुक्त्वा चान्द्रायणं चरेत्। सुरासवं विषं सर्पिर् लाक्षा लवणम् एव च। तैलं चापि च विक्रीणन् द्विजश् चान्द्रायणं चरेत्। एकोद्दिष्टं तु यो भुङ्क्ते दिनमध्यगतो ऽपि यः। भिन्नभाण्डे तु यो भुङ्क्ते द्विजश् चान्द्रायणं चरेत्। यो भुङ्क्ते ऽनुपनीतेन यो भुङ्क्ते च स्त्रिया सह। यो भुङ्क्ते कन्यया सार्धं द्विजश् चान्द्रायणं चरेत्। उच्छिष्टं स्थापयेद् विप्रो यो मोहाद् भोजनान्तरे। दद्याद् वा यदि संमोहाद् द्विजश् चान्द्रायणं चरेत्। तुम्बकोशातकं चैव पलण्डुं गृञ्जनं तथा। छत्त्राकं लघुनं चैव भुक्त्वा चान्द्रायणं चरेत्। तथा पर्युषितं चान्नं पक्वं परगृहागतम्। विपक्वं च तथा मांसं भुक्त्वा चान्द्रायणं चरेत्। उदक्यया शुना वापि चण्डालैर् वा द्विजोत्तमः। दृष्टम् अन्नं तु भुञ्जानो द्विजश् चान्द्रायणं चरेत्। एतत् पुरा विशुद्ध्यर्थम् ऋषिभिश् चरितं व्रतम्। पावनं सर्वपापानां पुण्यं पाण्डव चोदितम्। एतेन वसवो रुद्राश् चादित्याश् च दिवं गताः। एतद् आद्यं परं गुह्यं पवित्रं पावनं स्मृतम्। यथोक्तम् एतद् यः कुर्याद् द्विजः पापप्रणाशनम्। वैशंपायन उवाच। स दिवं याति पूतात्मा निर्मलादित्यसंनिभः। केशवेनैवम् उक्ते तु चान्द्रायणविधिक्रमे। युधिष्ठिर उवाच। अपृच्छत् पुनर् अन्यांश् च धर्मान् धर्मात्मजो नृप। सर्वभूतपते श्रीमन् सर्वभूतनमस्कृत। सर्वभूतहितं धर्मं सर्वज्ञ कथयस्व मे। भगवान् उवाच। यद् दरिद्रजनस्यापि स्वर्ग्यं सुखकरं भवेत्। सर्वपापप्रशमनं तच् छृणुष्व युधिष्ठिर। कार्त्तिकाद्यास् तु ये मासा द्वादशैव प्रकीर्तिताः। तेष्व् एकभुक्तनियमः सर्वेषाम् उच्यते मया। कार्त्तिके यस् तु वै मासे नन्दायां संयतेन्द्रियः। एकभुक्तेन मद्भक्तो मासम् एकं तु वर्तते। जलं वा न पिबेन् मासे नान्तरं भोजनात् परम्। आदित्यरूपं मां नित्यम् अर्चयन् सुसमाहितः। व्रतान्ते भोजयेद् विप्रान् दक्षिणां संप्रदाय च। क्रोधलोभविनिर्मुक्तस् तस्य पुण्यफलं शृणु। विधिवत् कपिलादाने यत् पुण्यं समुदाहृतम्। तत् पुण्यं समनुप्राप्य सूर्यलोके महीयते। ततश् चापि च्युतः कालात् पुरुषेषूपजायते। मार्गशीर्षं तु यो मासम् एकभुक्तेन वर्तते। कामं क्रोधं च लोभं च परित्यज्य यथाविधि। स्नात्वा चादित्यरूपं माम् अर्चयेन् नियतेन्द्रियः। जपन्न् एव तु गायत्रीं मामिकां वाग् यतः शुचिः। मासे परिसमाप्ते तु भोजयित्वा द्विजाञ् शुचीन्। तान् अर्चयति मद्भक्त्या तस्य पुण्यफलं शृणु। अग्निहोत्रे कृते पुण्यम् आहिताग्नेस् तु यद् भवेत्। तत् पुण्यफलम् आसाद्य यानेनाम्बरशोभिना। सप्तर्षिलोके चरति यथाकामं यथासुखम्। ततश् चापि च्युतः कालाद् धरिवर्षेषु जायते। तत्र प्रकामं क्रीडित्वा राजा पश्चाद् भविष्यति। पौषमासं क्षपेद् एवम् एकभुक्तेन यो नरः। अर्चयन्न् एव मां नित्यं मद्गतेनान्तरात्मना। अहिंसासत्यसहितः क्रोधहर्षविवर्जितः। एवं युक्तस्य राजेन्द्र शृणु यत् फलम् उत्तमम्। विप्रातिथ्यसहस्रेषु यत् पुण्यं समुदाहृतम्। तत् पुण्यं समनुप्राप्य शक्रलोके महीयते। अवकीर्णस् ततः कालाद् इलावर्षेषु जायते। तत्र स्थित्वा चिरं कालम् अस्मिन् विप्रो भविष्यति। माघमासं तथा यस् तु वर्तते चैकभुक्ततः। मदर्चनपरो भूत्वा डम्भक्रोधविवर्जितः। मामिकाम् अपि गायित्रीं संध्यायां तु जपेद् बुधः। दत्त्वा तु दक्षिणाम् अन्ते भोजयित्वा द्विजान् अपि। नमस्करोति तान् भक्त्या मद्गतेनान्तरात्मना। त्रिकालं स्नानयुक्तस्य तस्य पुण्यफलं शृणु। नीलकण्ठप्रयुक्तेन यानेनाम्बरशोभिना। पितृलोकं व्रजेच् छ्रीमान् सेव्यमानो ऽप्सरोगणैः। तत्र प्रकामं क्रीडित्वा भद्राश्वेषूपजायते। ततश् च्युतश् चतुर्वेदी विप्रो भवति भूतले। यः क्षपेत् फाल्गुनं मासम् एकभुक्तो जितेन्द्रियः। नमो ब्रह्मण्यदेवायेत्य् एतन् मन्त्रं जपेत् सदा। पायसं भोजयेद् विप्रान् व्रतान्ते संयतेन्द्रियः। मदर्चनपरो ऽक्रोधस् तस्य पुण्यफलं शृणु। विमानं सारसैर् युक्तम् आरूढः कामगामि च। नक्षत्रलोके रमते नक्षत्रसदृशाकृतिः। ततश् चापि च्युतः कालात् केतुमालेषु जायते। तत्र प्रकामं क्रीडित्वा मानुषेषु मुनिर् भवेत्। चैत्रमासं तु यो राजन्न् एकभुक्तेन वर्तते। ब्रह्मचारी तु मद्भक्त्या तस्य पुण्यफलं शृणु। यद् अग्निहोत्रिणः पुण्यं यथोक्तं व्रतचारिणः। तत् पुण्यफलम् आसाद्य चन्द्रलोके महीयते। ततो ऽवतीर्णो जायेत वर्षे रमणके पुनः। भुक्त्वा कामांस् ततस् तस्मिन्न् इह राजा भविष्यति। वैशाखं यस् तु वै मासम् एकभुक्तेन वर्तते। द्विजम् अग्रासने कृत्वा भुञ्जन् भूमौ च वाग्यतः। नमो ब्रह्मण्यदेवायेत्य् अर्चयित्वा दिवाकरम्। व्रतान्ते भोजयेद् विप्रांस् तस्य पुण्यफलं शृणु। फलं यद् विधिवत् प्रोक्तम् अग्निष्टोमातिरात्रयोः। तत् पुण्यं फलम् आसाद्य देवलोके महीयते। ततो हैमवते वर्षे जायते कालपर्ययात्। तत्र प्रकामं क्रीडित्वा विप्रः पश्चाद् भविष्यति। ज्येष्ठमासं तु यो राजन्न् एकभुक्तेन वर्तते। विप्रम् अग्रासने कृत्वा भूमौ भुञ्जन् यथाविधि। नमो ब्रह्मण्यदेवायेत्य् अर्चयन् मां समाहितः। डम्भानृतविनिर्मुक्तस् तस्य पुण्यफलं शृणु। चीर्णे चान्द्रायणे सम्यग् यत् पुण्यं समुदाहृतम्। तत् पुण्यफलम् आसाद्य देवलोके महीयते। अथोत्तरकुरुष्व् एव जायते निर्गतस् ततः। ततश् चापि च्युतः कालाद् इह लोके द्विजो भवेत्। आषाढमासं यो राजन्न् एकभुक्तेन वर्तते। ब्रह्मचारी जितक्रोधो मदर्चनपरायणः। विप्रम् अग्रासने कृत्वा भूमौ भुञ्जन् जितेन्द्रियः। कृत्वा त्रिषवणं स्नानम् अष्टाक्षरविधानतः। व्रतान्ते भोजयेद् विप्रान् पायसेन युधिष्ठिर। गुडोदनेन वा राजंस् तस्य पुण्यफलं शृणु। कपिलाशतदानस्य यत् पुण्यं पाण्डुनन्दन। तत् पुण्यफलम् आसाद्य देवलोके महीयते। ततो ऽवतीर्णः काले तु शाकद्वीपे प्रजायते। ततश् चापि च्युतः कालाद् इह विप्रो भविष्यति। श्रावणं यः क्षपेन् मासम् एकभुक्तेन वर्तते। नमो ब्रह्मण्यदेवायेत्य् उक्त्वा माम् अर्चयेत् सदा। विप्रम् अग्रासने कृत्वा भूमौ भुञ्जन् यथाविधि। पायसेनार्चयेद् विप्राञ् जितक्रोधो जितेन्द्रियः। लोभमोहविनिर्मुक्तस् तस्य पुण्यफलं शृणु। कपिलादानस्य यत् पुण्यं विधिदत्तस्य पाण्डव। तत् पुण्यं समनुप्राप्य शक्रलोके महीयते। ततश् चापि च्युतः कालात् कुशद्वीपे प्रजायते। तत्र प्रकामं क्रीडित्वा विप्रो भवति मानुषे। यस् तु भाद्रपदं मासम् एकभुक्तेन वर्तते। ब्रह्मचारी जितक्रोधः सत्यसंधो जितेन्द्रियः। विप्रम् अग्रासने कृत्वा पाकभेदविवर्जितः। नमो ब्रह्मण्यदेवायेत्य् उक्त्वास्य चरणौ स्पृशेत्। तिलान् वापि घृतं वापि व्रतान्ते दक्षिणां ददत्। मद्भक्तस्य नरश्रेष्ठ तस्य पुण्यफलं शृणु। यत् फलं विधिवत् प्रोक्तं राजसूयाश्वमेधयोः। तत् पुण्यफलम् आसाद्य शक्रलोके महीयते। ततश् चापि च्युतः कालाज् जायते धनदालये। तत्र प्रकामं क्रीडित्वा राजा भवति मानुषे। यश् चाप्य् आश्वयुजं मासम् एकभुक्तेन वर्तते। मद्गायत्रीं जपेद् भक्त्या मद्गतेनान्तरात्मना। द्विसंध्यं वा त्रिसंध्यं वा शतम् अष्टोत्तरं तु वा। विप्रम् अग्रासने कृत्वा संयतेन्द्रियमानसः। व्रतान्ते भोजयेद् विप्रांस् तस्य पुण्यफलं शृणु। अश्वमेधस्य यत् पुण्यं विधिवत् पाण्डुनन्दन। तत् पुण्यफलम् आसाद्य मम लोके महीयते। ततश् चापि च्युतः कालाच् छ्वेतद्वीपे प्रजायते। युधिष्ठिर उवाच। तत्र भुक्त्वा महाभोगान् अत्र विप्रपरो भवेत्। एवं संवत्सरं पूर्णम् एकभुक्तेन यः क्षिपेत्। भगवान् उवाच। तस्य पुण्यफलं यद् वै तन् ममाचक्ष्व केशव। शृणु पाण्डव सत्यं मे वचनं पुण्यम् उत्तमम्। यद् अकृत्वाथ वा कृत्वा नरः पापैः प्रमुच्यते। एकभुक्तेन वर्तेत नरः संवत्सरं तु यः। ब्रह्मचारी ह्य् अधःशायी जितक्रोधो जितेन्द्रियः। शुचिः स्नानरतो व्यग्रः सत्यवाग् अनसूयकः। अर्चयन्न् एव मां नित्यं मद्गतेनान्तरात्मना। संध्ययोस् तु जपेन् नित्यं मद्गायत्रीं समाहितः। नमो ब्रह्मण्यदेवायेत्य् असकृन् मां प्रणम्य च। विप्रम् अग्रासने कृत्वा यावकं भैक्षम् एव च। भुक्त्वा तु वाग्यतो भूमाव् आचान्तस्य द्विजन्मनः। नमो ऽस्तु वासुदेवायेत्य् उक्त्वा तु चरणौ स्पृशेत्। मासे मासे समाप्ते तु भोजयित्वा द्विजाञ् शुचीन्। संवत्सरे ततः पूर्णे दद्यात् तु व्रतदक्षिणाम्। नवनीतमयीं गां वा तिलधेनुम् अथापि वा। विप्रहस्तच्युतैस् तोयैः सहिरण्यैः समुक्षितः। तस्य पुण्यफलं राजन् कथ्यमानं मया शृणु। दशजन्मकृतं पापं ज्ञानतो ऽज्ञानतो ऽपि वा। युधिष्ठिर उवाच। तद् विनश्यति तस्याशु नात्र कार्या विचारणा। सर्वेषाम् उपवासानां यच् छ्रेयः सुमहत् फलम्। भगवान् उवाच। यच् च निःश्रेयसं लोके तद् भवान् वक्तुम् अर्हति। शृणु राजन् यथापूर्वं यथा गीतं तु नारदे। तथा ते कथयिष्यामि मद्भक्ताय युधिष्ठिर। यस् तु भक्त्या शुचिर् भूत्वा पञ्चम्यां मे नराधिप। उपवासव्रतं कुर्यात् त्रिकालं चार्चयंस् तु माम्। युधिष्ठिर उवाच। सर्वक्रतुफलं लब्ध्वा मम लोके महीयते। भगवन् देवदेवेश पञ्चमी नाम का तव। भगवान् उवाच। ताम् अहं श्रोतुम् इच्छामि कथयस्व ममाच्युत। पर्वद्वयं च द्वादश्यां श्रवणं च नराधिप। तत् पञ्चमीति विख्याता मत्प्रिया च विशेषतः। तस्मात् तु ब्राह्मणश्रेष्ठैर् मन्निवेशितबुद्धिभिः। उपवासस् तु कर्तव्यो मत्प्रियार्थं युधिष्ठिर। द्वादश्याम् एव वा कुर्याद् उपवासम् अशक्नुवन्। तेनाहं परमां प्रीतिं यास्यामि नरपुंगव। अहोरात्रेण द्वादश्यां मार्गशीर्षे तु केशवम्। उपोष्य पूजयेद् यो मां सो ऽश्वमेधफलं लभेत्। द्वादश्यां पुष्यमासे तु नाम्ना नारायणं तु माम्। उपोष्य पूजयेद् यो मां वाजपेयफलं लभेत्। द्वादश्यां माघमासे तु माम् उपोष्य तु माधवम्। पूजयेद् यः समाप्नोति राजसूयफलं लभेत्। द्वादश्यां फाल्गुने मासि गोविन्दाख्यम् उपोष्य माम्। अर्चयेद् यः समाप्नोति ह्य् अतिरात्रफलं नृप। द्वादश्यां मासि चैत्रे तु मां विष्णुं समुपोष्य यः। पूजयंस् तद् अवाप्नोति पौण्डरीकस्य यत् फलम्। द्वादश्यां मासि वैशाखे मधुसूदनसंज्ञितम्। उपोष्य पूजयेद् यो मां सो ऽग्निष्टोमस्य पाण्डव। द्वादश्यां ज्येष्ठमासे तु माम् उपोष्य त्रिविक्रमम्। अर्चयेद् यः समाप्नोति गवां मेधफलं नृप। आषाढे वामनाख्यं मां द्वादश्यां समुपोष्य च। नरमेधस्य स फलं प्राप्नोति भरतर्षभ। द्वादश्यां श्रावणे मासि श्रीधराख्यम् उपोष्य माम्। पूजयेद् यः समाप्नोति पञ्चयज्ञफलं नृप। मासे भाद्रपदे यो मां हृषीकेशाख्यम् अर्चयेत्। उपोष्य स समाप्नोति सौत्रामणिफलं नृप। द्वादश्याम् आश्वयुङ्मासे पद्मनाभम् उपोष्य माम्। अर्चयेद् यः समाप्नोति गोसहस्रफलं नृप। द्वादश्यां कार्त्तिके मासि मां दामोदरसंज्ञितम्। उपोष्य पूजयेद् यस् तु सर्वक्रतुफलं लभेत्। केवलेनोपवासेन द्वादश्यां पाण्डुनन्दन। यत् फलं पूर्वम् उद्दिष्टं तस्यार्धं लभते फलम्। श्रवणे ऽप्य् एवम् एवं मां यो ऽर्चयेद् भक्तिमान् नरः। मम सालोक्यम् आप्नोति नात्र कार्या विचारणा। मासे मासे समभ्यर्च्य क्रमशो माम् अतन्द्रितः। पूर्णे संवत्सरे कुर्यात् पुनः संवत्सरार्चनम्। एवं द्वादशवर्षं यो मद्भक्तो मत्परायणः। अविघ्नम् अर्चयानस् तु मम सालोक्यम् आप्नुयात्। अर्चयेत् प्रीतिमान् यो मां द्वादश्यां वेदसंहिताम्। स पूर्वोक्तफलं राजंल् लभते नात्र संशयः। गन्धं पुष्पं फलं तोयं पत्रं वा फलम् एव वा। द्वादश्यां मम यो दद्यात् ततो नान्यो ऽस्ति मत्प्रियः। एतेन विधिना सर्वे देवाः शक्रपुरोगमाः। वैशंपायन उवाच। मद्भक्ता नरशार्दूल स्वर्गभोगांस् तु भुञ्जते। एवं वदति देवेशे केशवे पाण्डुनन्दनः। युधिष्ठिर उवाच। कृताञ्जलिः स्तोत्रम् इदं भक्त्या धर्मात्मजो ऽब्रवीत्। सर्वलोकेश देवेश हृषीकेश नमो ऽस्तु ते। सहस्रशिरसे तुभ्यं सहस्राक्ष नमो नमः। त्रयीमय त्रयीनाथ त्रयीस्तुत नमो नमः। यज्ञात्मन् यज्ञसंभूत यज्ञनाथ नमो नमः। चतुर्मूर्ते चतुर्बाहो चतुर्व्यूह नमो नमः। लोकात्मंल् लोककृन् नाथ लोकावास नमो नमः। सृष्टिसंहारकर्त्रे ते नरसिंह नमो नमः। भक्तप्रिय नमस् ते ऽस्तु भक्तवत्सल ते नमः। ब्रह्मावास नमस् ते ऽस्तु ब्रह्मनाथ नमो नमः। रुद्ररूप नमस् ते ऽस्तु रुद्रकर्मरताय ते। पञ्चयज्ञ नमस् ते ऽस्तु सर्वयज्ञ नमो नमः। कृष्णप्रिय नमस् ते ऽस्तु कृष्ण नाथ नमो नमः। योगावास नमस् ते ऽस्तु योगनाथ नमो नमः। हयवक्त्र नमस् ते ऽस्तु चक्रपाणे नमो नमः। पञ्चभूत नमस् ते ऽस्तु पञ्चायुध नमो नमः। वैशंपायन उवाच। भक्तिगद्गदया वाचा स्तुवत्य् एवं युधिष्ठिरे। गृहीत्वा केशवो हस्ते प्रीतात्मा तं न्यवारयत्। निवार्य च पुनर् वाचा भक्तिनम्रं युधिष्ठिरम्। वक्तुम् एवं नरश्रेष्ठं धर्मपुत्रं प्रचक्रमे। भगवान् उवाच। अन्यवत् किम् इदं राजन् मां स्तौषि नरपुंगव। युधिष्ठिर उवाच। तिष्ठ पृच्छ यथापूर्वं धर्मान् एव युधिष्ठिर। भगवंस् त्वत्प्रसादात् तु स्मृत्वा स्मृत्वा पुनः पुनः। न शान्तिर् अस्ति देवेश नृत्यतीव च मे मनः। इदं च मम संप्रश्नं वक्तुम् अर्हसि माधव। भगवान् उवाच। कृष्णपक्षेषु द्वादश्यां पूजनीयः कथं भवान्। शृणु राजन् यथातत्त्वं तत् सर्वं कथयामि ते। फलं तु कृष्णद्वादश्याम् अर्चनायां फलं मम। एकादश्याम् उपोष्याथ द्वादश्याम् अर्चयेत् तु माम्। विप्रान् अपि यथालाभं भोजयेद् भक्तिमान् नरः। स गच्छेद् दक्षिणामूर्तिं मां वा नात्र विचारणा। वैशंपायन उवाच। चन्द्रसालोक्यम् अथ वा ग्रहनक्षत्रपूजितः। केशवेनैवम् आख्याते धर्मपुत्रः पुनः प्रभुम्। पप्रच्छ दानकालस्य विशेषं च विधिं नृप। युधिष्ठिर उवाच। देव किं फलम् आख्यातं दानस्य विषुवेषु च। भगवान् उवाच। सूर्येन्दूपप्लवे चैव दत्ते दाने च यत् फलम्। शृणुष्व राजन् विषुवे सोमार्कग्रहणेषु च। व्यतीपाते ऽयने चैव दानं स्याद् अक्षयं नृप। राजन् नयनयोर् मध्ये विषुवं संप्रचक्षते। समरात्रं दिने तत्र संध्यायां विषुवे नृप। ब्रह्माहं शंकरश् चापि तिष्ठामः सहिताः सकृत्। क्रियाकरणकार्याणाम् एकीभावत्वकारणात्। अस्माकम् एकीभूतानां निष्फलं तत् परं पदम्। तन् मुहूर्तं परं पुण्यं राजन् विषुवसंज्ञितम्। तद् एवाद्याक्षरं ब्रह्म परं ब्रह्मेति कीर्तितम्। तस्मिन् मुहूर्ते सर्वे ऽपि चिन्तयन्तः परं पदम्। देवाश् च पितरो रुद्रा वसवश् चाश्विनौ तथा। साध्या विश्वे च गन्धर्वाः सिद्धा ब्रह्मर्षयस् तथा। सूर्यादयो ग्रहाश् चैव सागराः सरितस् तथा। मरुतो ऽप्सरसो नागा यक्षराक्षसगुह्यकाः। एते चान्ये च राजेन्द्र विषुवे संयतेन्द्रियाः। सोपवासाः प्रयत्नेन भवन्ति ध्यानतत्पराः। अन्नं गावस् तिलान् भूमिं कन्यादानं तथैव च। गृहम् आच्छादनं धान्यं वाहनं शयनं तथा। यच् चान्यच् च मया प्रोक्तं तत् प्रयच्छ युधिष्ठिर। दीयते विषुवेष्व् एवं श्रोत्रियेभ्यो विशेषतः। तस्य दानस्य कौन्तेय क्षयो नैवोपपद्यते। वर्धते ऽहर् अहः पुण्यं तद् दानं कोटिसंमितम्। विषुवे स्नपनं यस् तु मम कुर्याद् धरस्य वा। अर्चनं च यथान्यायं तस्य पुण्यफलं शृणु। दशजन्मकृतं पापं तस्य सद्यो विनश्यति। दशानाम् अश्वमेधानाम् इष्टानां लभते फलम्। विमानं दिव्यम् आरूढः कामरूपी यथासुखम्। स याति मामकं लोकं रुद्रलोकम् अथापि वा। तत्रस्थैर् देवगन्धर्वैर् गीयमानो यथासुखम्। दिव्यवर्षसहस्राणि कोटिम् एकं तु मोदते। ततश् चापि च्युतः कालाद् इह लोके द्विजोत्तमः। चतुर्णाम् अपि वेदानां पारगो ब्रह्मविद् भवेत्। चन्द्रसूर्यग्रहे वापि मम वा शंकरस्य वा। गायत्रीं मामिकां वापि जपेद् यः शंकरस्य वा। शङ्खतूर्यनिनादैश् च कांस्यघण्टास्वनैर् अपि। कारयेत् तु ध्वनिं भक्त्या तस्य पुण्यफलं शृणु। गान्धर्वैर् होमजप्यैश् च शब्दैर् उत्कृष्टनादिभिः। दुर्बलो ऽपि भवेद् राहुः सोमश् च बलवान् भवेत्। सूर्येन्दूपप्लवे चैव श्रोत्रियेभ्यः प्रदीयते। तत् सहस्रसमं भूत्वा दातारम् उपतिष्ठति। महापातकयुक्तो ऽपि यद्य् अपि स्यान् नरो नृप। निर्लेपस् तत्क्षणाद् एव तेन दानेन जायते। चन्द्रसूर्यप्रकाशेन विमानेन विराजता। याति सोमपुरं रम्यं सेव्यमानो ऽप्सरोगणैः। यावद् ऋक्षाणि तिष्ठन्ति गगने शशिना सह। तावत् कालं स राजेन्द्र सोमलोके महीयते। ततश् चापि च्युतः कालाद् इह लोके युधिष्ठिर। युधिष्ठिर उवाच। वेदवेदाङ्गविद् विप्रः कोटीधनपतिर् भवेत्। भगवंस् तव गायत्री बुध्यते तु कथं नृभिः। किं वा तस्याः फलं देव ममाचक्ष्व सुरेश्वर। भगवान् उवाच। द्वादश्यां विषुवे चैव चन्द्रसूर्यग्रहे तथा। अयने श्रवणे चैव व्यतीपाते तथैव च। अश्वत्थदर्शने चैव तथा मद्दर्शने ऽपि च। जप्त्वा तु मम गायत्रीम् अथ वाष्टाक्षरं नृप। युधिष्ठिर उवाच। आर्जितं दुष्कृतं तस्य नाशयेन् नात्र संशयः। अश्वत्थदर्शनं चैव किं त्वद्दर्शनसंमितम्। एतत् कथय देवेश परं कौतूहलं हि मे। भगवान् उवाच। अहम् अश्वत्थरूपेण पालयामि जगत्त्रयम्। अश्वत्थो न स्थितो यत्र नाहं तत्र प्रतिष्ठितः। यत्राहं संस्थितो राजन्न् अश्वत्थश् चापि तत्र वै। यस् त्व् एनम् अर्चयेद् भक्त्या स मां साक्षात् समर्चति। यस् त्व् एनं प्रहरेत् कोपान् माम् एव प्रहरेत् तु सः। तस्मात् प्रदक्षिणं कुर्यान् न छिन्द्याद् एनम् अन्वहम्। व्रतस्य पारणं तीर्थम् आर्जवं तीर्थम् उच्यते। देवशुश्रूषणं तीर्थं गुरुशुश्रूषणं तथा। गुरुशुश्रूषणं तीर्थं तीर्थज्ञानस्य धारणम्। नराणां पोषणं तीर्थं गार्हस्थ्यं तीर्थम् उच्यते। आतिथेयं परं तीर्थम् अतिथिस् तीर्थम् उच्यते। ब्रह्मचर्यं परं तीर्थं त्रेताग्निस् तीर्थम् उच्यते। मूलं धर्मं तु विज्ञाय मनस् तत्रावधार्यताम्। गच्छ तीर्थानि कौन्तेय धर्मो धर्मेण वर्धते। द्विविधं तीर्थम् इत्य् आहुः स्थावरं जङ्गमं तथा। स्थावराज् जङ्गमं श्रेष्ठं ततो ज्ञानपरिग्रहः। कर्मणापि विशुद्धस्य पुरुषस्येह भारत। हृदये सर्वतीर्थानि तीर्थभूतः स उच्यते। गुरुतीर्थं परं ज्ञानम् अतस् तीर्थं न विद्यते। ज्ञानतीर्थं परं तीर्थं ब्रह्मतीर्थं सनातनम्। क्षमा तु परमं तीर्थं सर्वतीर्थेषु पाण्डव। क्षमावताम् अयं लोकः परश् चैव क्षमावताम्। मानितो ऽमानितो वापि पूजितो ऽपूजितो ऽपि वा। आकृष्टस् तर्जितो वापि क्षमावांस् तीर्थम् उच्यते। क्षमा दमः क्षमा दानं क्षमा यज्ञः क्षमा तपः। क्षमाहिंसा क्षमा धर्मः क्षमा चेन्द्रियनिग्रहः। क्षमा दया क्षमा यज्ञः क्षमयैतद् धृतं जगत्। क्षमावान् प्राप्नुयात् स्वर्गं क्षमावान् प्राप्नुयाद् यशः। क्षमावान् प्राप्नुयान् मोक्षं तस्मात् सा तीर्थम् उच्यते। आत्मा नदी भारतपुण्यतीर्थम्। आत्मा तीर्थं सर्वतीर्थप्रधानम्। आत्मा तु यज्ञः सततं मन्यते वै। स्वर्गो मोक्षः सर्वम् आत्मन्य् अधीनम्। आचारनैर्मल्यम् उपागतेन। सत्यप्रसन्नक्षमशीतलेन। ज्ञानाम्बुना स्नाति च यो हि नित्यं। युधिष्ठिर उवाच। किं तस्य भूयः सलिलेन कृत्यम्। भगवन् सर्वपापघ्नं प्रायश्चित्तम् अदुष्करम्। भगवान् उवाच। त्वद्भक्तस्य सुरश्रेष्ठ मम त्वं वक्तुम् अर्हसि। रहस्यम् इदम् अत्यर्थम् अश्राव्यं पापकर्मणाम्। अधार्मिकाणाम् अश्राव्यं प्रायश्चित्तं ब्रवीमि ते। पावनं ब्राह्मणं दृष्ट्वा मद्गतेनान्तरात्मना। नमो ब्रह्मण्यदेवायेत्य् अभिवादनम् आचरेत्। प्रदक्षिणं च त्रिः कुर्यात् पुनर् अष्टाक्षरेण तु। तेन तुष्टो नरश्रेष्ठ तत् पापं क्षपयाम्य् अहम्। यत्र कृष्टां वराहस्य मृत्तिकां शिरसा वहन्। प्राणायामशतं कृत्वा नरः पापैः प्रमुच्यते। दक्षिणावर्तशङ्खाद् वा कपिलाशृङ्गतो ऽपि वा। प्राक्स्रोतसं नदीं गत्वा ममायतनसंनिधौ। सलिलेन तु यः स्नायात् सकृद् एव रविग्रहे। तस्य यत् संचितं पापं तत्क्षणाद् एव नश्यति। मस्तकान् निःसृतैस् तोयैः कपिलाया युधिष्ठिर। गोमूत्रेणापि यः स्नायाद् रोहिण्या मम वा दिने। विप्रपादच्युतैर् वापि तोयैः पापं प्रणश्यति। नमस्येद् यस् तु मद्भक्त्या शिंशुमारं प्रजापतिम्। चतुर्दशाङ्गसंयुक्तं तस्य पापं प्रणश्यति। ततश् चतुर्दशाङ्गानि शृणु तस्य नराधिप। शिरो धर्मो हनुर् ब्रह्मा पुच्छाव् उत्तरदक्षिणौ। हृदयं तु भवेद् विष्णुर् हस्तौ स्यातां तथाश्विनौ। अग्निर् मध्यं भवेद् राजंल् लिङ्गं संवत्सरं भवेत्। मित्रावरुणकौ पादौ पुच्छमूलं हुताशनः। ततः पश्चाद् भवेद् इन्द्रस् ततः पश्चात् प्रजापतिः। अभयं च ततः पश्चात् स एव ध्रुवसंज्ञितः। एतान्य् अङ्गानि सर्वाणि शिंशुमारप्रजापतेः। पिबेत् तु पञ्चगव्यं यः पौर्णमास्याम् उपोष्य तु। तस्य नश्यति तत् सर्वं यत् पापं पूर्वसंचितम्। तथैव ब्रह्मकूर्चं तु समन्त्रं तु पृथक् पृथक्। मासि मासि पिबेद् यस् तु तस्य पापं प्रणश्यति। पापं च ब्रह्मकूर्चं च शृणु मन्त्रं च भारत। पालाशं पद्मपत्रं वा ताम्रं वाथ हिरण्मयम्। सादयित्वा तु गृह्णीयात् तत् तु पात्रम् उदाहृतम्। गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयम्। आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि। तेजो ऽसि शुक्रम् इत्य् आज्यं देवस्येति कुशोदकम्। आपो हि ष्ठेति संगृह्य यवचूर्णं यथाविधि। ब्रह्मणे च यथा हुत्वा समिद्धे च हुताशने। आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन तु। उद्धृत्य प्रणवेनैव पिबेत् तु प्रणवेन तु। महतापि स पापेन त्वचेवाहिर् विमुच्यते। भद्रं न इति यः पादं पठेद् ऋक्संहितां यथा। अन्तर्जले वाथादित्ये तस्य पापं प्रणश्यति। मम सूक्तं जपेद् यस् तु नित्यं मद्गतमानसः। युधिष्ठिर उवाच। न पापेन तु लिप्येत पद्मपत्रम् इवाम्भसा। कीदृशा ब्राह्मणाः पुण्या भावशुद्धाः सुरेश्वर। भगवान् उवाच। यत् कर्म सफलं नेति कथयस्व ममाच्युत। शृणु पाण्डव तत् सर्वं ब्राह्मणानां यथाक्रमम्। सफलं निष्फलं चैव तेषां कर्म ब्रवीमि ते। त्रिदण्डधारणं मौनं जटाधारणमुण्डनम्। वल्कलाजिनसंवासो व्रतचर्याभिषेचनम्। अग्निहोत्रं वने वासः स्वाध्यायं दानसत्क्रिया। सर्वाण्य् एतानि वै मिथ्या यदि भावो न निर्मलः। अग्निहोत्रं वृथा राजन् वृथा वेदास् तथैव च। शीलेन देवास् तुष्यन्ति श्रुतयस् तत्र कारणम्। क्षान्तं दान्तं जितक्रोधं जितात्मानं जितेन्द्रियम्। तम् अग्र्यं ब्राह्मणं मन्ये शेषाः शूद्रा इति स्मृताः। अग्निहोत्रव्रतपरान् स्वाध्यायनिरताञ् शुचीन्। उपवासरतान् दान्तांस् तान् देवा ब्राह्मणान् विदुः। न जातिः पूज्यते राजन् गुणाः कल्याणकारणाः। चण्डालम् अपि वृत्तस्थं तं देवा ब्राह्मणं विदुः। मनःशौचं कर्मशौचं कुलशौचं च भारत। शरीरशौचं वाक्शौचं शौचं पञ्चविधं स्मृतम्। पञ्चस्व् एतेषु शौचेषु हृदि शौचं विशिष्यते। हृदयस्य तु शौचेन स्वर्गं गच्छन्ति मानवाः। अग्निहोत्रपरिभ्रष्टः प्रसक्तः क्रयविक्रये। वर्णसंकरकर्ता च ब्राह्मणो वृषलैः समः। यस्य वेदश्रुतिर् नष्टा कर्षकश् चापि यो द्विजः। विकर्मसेवी कौन्तेय स वै वृषल उच्यते। वृषो हि धर्मो विज्ञेयस् तस्य यः कुरुते लयम्। वृषलं तं विदुर् देवा निकृष्टं श्वपचाद् अपि। स्तुतिभिर् ब्रह्मपूताभिर् यः शूद्रं स्तौति मानवः। न च मां स्तौति पापात्मा स माम् आक्रोशयेद् भृशम्। श्वदृतौ तु यथा क्षीरं ब्रह्म वै वृषले तथा। दुष्टताम् एति तत् सर्वं शुना लीढं हविर् यथा। अङ्गानि वेदाश् चत्वारो मीमांसा न्यायविस्तरः। धर्मशास्त्रं पुराणं च विद्या ह्य् एताश् चतुर्दश। यान्य् उक्तानि मया सम्यग् विद्यास्थानानि भारत। उत्पन्नानि पवित्राणि पावनार्थं तथैव च। तस्मात् तानि न शूद्रस्य स्प्रष्टव्यानि युधिष्ठिर। सर्वं तच् छूद्रसंस्पृष्टम् अपवित्रं न संशयः। लोके त्रीण्य् अपवित्राणि पञ्चामेध्यानि भारत। श्वा च शूद्रः श्वपाकश् चेत्य् अपवित्राणि पाण्डव। देवलः कुक्कुटो यूप उदक्या वृषलीपतिः। पञ्चैते स्युर् अमेध्याश् च स्प्रष्टव्या न कथं चन। स्पृष्ट्वैतान् अष्ट वै विप्रः सचेलो जलम् आविशेत्। मद्भक्ताञ् शूद्रसामान्यान् अवमन्यन्ति ये नराः। नरकेष्व् एव तिष्ठन्ति वर्षकोटिं नराधमाः। चण्डालम् अपि मद्भक्तं नावमन्येत बुद्धिमान्। अवमत्य पतन्त्य् एव रौरवे नरके नराः। मम भक्तस्य भक्तेषु प्रीतिर् अभ्यधिका नृप। तस्मान् मद्भक्तभक्ताश् च पूजनीया विशेषतः। कीटपक्षिमृगाणां च मयि संन्यस्तचेतसाम्। उर्ध्वाम् एव गतिं विद्धि किं पुनर् ज्ञानिनां नृणाम्। पत्रं वाप्य् अथ वा पुष्पं फलं वा जलम् एव वा। ददाति मम शूद्रो ऽपि शिरसा धारयामि तत्। विप्रान् एवार्चयेद् भक्त्या शूद्रः प्रायेण मत्प्रियः। तेषां तेनैव रूपेण पूजां गृह्णामि भारत। वेदोक्तेनैव मार्गेण सर्वभूतहृदि स्थितम्। माम् अर्चयन्ति ते विप्रा मत्सायुज्यं व्रजन्ति ते। मद्भक्तानां हितायैव प्रादुर्भावः कृतो मया। प्रादुर्भावाकृतिः का चिद् अर्चनीया युधिष्ठिर। आसाम् अन्यतमां मूर्तिं यो मद्भक्त्या समर्चति। तेनैव परितुष्टो ऽहं भविष्यामि न संशयः। मृदा च मणिरत्नैश् च ताम्रेण रजतेन वा। कृत्वा प्रतिकृतिं कुर्याद् अर्चनां काञ्चनेन वा। पुण्यं दशगुणं विद्याद् एतेषाम् उत्तरोत्तरम्। जयकामो ऽर्चयेद् राजा विद्याकामो द्विजोत्तमः। वैश्यो वा धनकामस् तु शूद्रः पुण्यफलप्रियः। सर्वकामाः स्त्रियो वापि सर्वान् कामान् अवाप्नुयुः। युधिष्ठिर उवाच। कीदृशानां तु शूद्राणां नानुगृह्णासि चार्चनम्। भगवान् उवाच। उद्वेगस् तव कस्मात् तु तन् मे ब्रूहि सुरेश्वर। अव्रतेनाप्य् अभक्तेन स्पृष्टां शूद्रेण चार्चनाम्। तां वर्जयामि यत्नेन श्वपाकविहिताम् इव। नन्व् अहं शंकरश् चापि गावो विप्रास् तथैव च। अश्वत्थो मम रूपाणि सत्यम् एतद् युधिष्ठिर। एतत् त्रयं हि मद्भक्तो नावमन्येत कर्हि चित्। अवमानितम् एतत् तु दहत्य् आसप्तमं कुलम्। अश्वत्थो ब्राह्मणा गावो मन्मयास् तारयन्ति ह। युधिष्ठिर उवाच। तस्माद् एतत् प्रयत्नेन त्रयं पूजय पाण्डव। ब्राह्मणेनैव देहेन शूद्रत्वं कथम् आप्नुयात्। भगवान् उवाच। ब्रह्म वा नश्यति कथं वक्तुं देव त्वम् अर्हसि। कूपस्नानं तु यो विप्रः कुर्याद् द्वादशवार्षिकम्। स तेनैव शरीरेण शूद्रत्वं यात्य् असंशयम्। यस् तु राजाश्रयेणैव जीवेद् द्वीदशवार्षिकम्। स शूद्रत्वं व्रजेद् विप्रो वेदानां पारगो ऽपि सन्। पत्तने नगरे वापि यो द्वादशसमा वसेत्। स शूद्रत्वं वसेद् विप्रो नात्र कार्या विचारणा। उत्पादयति यः पुत्रं शूद्रायां कामतो द्विजः। तस्य कायगतं ब्रह्म सद्य एव विनश्यति। मद्यपी स्त्रीमुखं मोहाद् आस्वादयति यो नरः। तस्य कायगतं ब्रह्म सद्य एव विनश्यति। यः सोमलतिकां विप्रः केवलं भक्षयेद् वृथा। तस्य कायगतं ब्रह्म सद्य एव विनश्यति। मैथुनं कुरुते यस् तु जिह्वायां ब्राह्मणो नृप। तस्य कायगतं ब्रह्म सद्य एव विनश्यति। विप्रत्वं दुर्लभं प्राप्य दुर्मार्गैर् एवमादिभिः। विनाशयन्ति ये तत् तु ताञ् शोचामि युधिष्ठिर। तस्मात् सर्वप्रयत्नेन मत्प्रियो यो युधिष्ठिर। जातिभ्रंशकरं कर्म न कुर्याद् ईदृशं द्विजः। युधिष्ठिर उवाच। देशान्तरगते विप्रे संयुक्ते कालधर्मणा। भगवान् उवाच। शरीरनाशे संप्राप्ते कथं प्रेतविकल्पना। श्रूयताम् आहिताग्नेस् तु तथा भूतस्य संस्क्रिया। पालाशवृन्तैः प्रतिमा कर्तव्या कल्पचोदिता। त्रीणि षष्टिशतान्य् आहुर् अस्थीन्य् अस्य नराधिप। तेषां विकल्पना कार्या यथाशास्त्रविनिश्चयम्। अशीत्यर्धं शिरसि च ग्रीवायां दश एव च। बाह्वोश् चापि शतं दद्याद् अङ्गुलीषु पुनर् दश। उरसि त्रिंशतं दद्याज् जठरे चापि विंशतिम्। वृषणे द्वादशार्धं तु शिश्ने चाष्टार्धम् एव च। दद्यात् तु शतम् ऊर्वोस् तु षष्ठ्यर्धं जानुजङ्घयोः। दश दद्याच् चरणयोर् एषा प्रेतस्य निष्कृतिः। युधिष्ठिर उवाच। विशेषतीर्थं सर्वेषाम् अशक्तानाम् अनुग्रहात्। भगवान् उवाच। भक्तानां तारणार्थं वै वक्तुम् अर्हसि धर्मतः। प्रवरं सर्वतीर्थानां सत्यं गायन्ति सामगाः। सत्यस्य वचनं तीर्थम् अहिंसा तीर्थम् उच्यते। तपस् तीर्थं दया तीर्थं शीलं तीर्थं युधिष्ठिर। अल्पसंतोषणं तीर्थं नारी तीर्थं पतिव्रता। संतुष्टो ब्राह्मणस् तीर्थं ज्ञानं वा तीर्थम् उच्यते। मद्भक्तः सततं तीर्थं शंकरस्य विशेषतः। यतयस् तीर्थम् इत्य् एव विद्वांसस् तीर्थम् उच्यते। शरण्यः पुरुषस् तीर्थम् अन्नदस् तीर्थम् उच्यते। त्रैलोक्ये ऽस्मिन् निरुद्विग्नो न बिभेमि कुतश् चन। न दिवा यदि वा रात्राव् उद्वेगः शूद्रलङ्घनात्। न भयं देवदैत्येभ्यो रक्षोभ्यश् चैव मे नृप। शूद्रवक्त्राच् च्युतं ब्रह्म भयं तु मम सुव्रत। तस्मात् सप्रणवं शूद्रो मन्नामापि न कीर्तयेत्। प्रणवं हि परं ब्रह्म नित्यं ब्रह्मविदो विदुः। द्विजशुश्रूषणं धर्मं शूद्राणां भक्तितो मयि। तेन गच्छन्ति ते स्वर्गं चिन्तयन्तो हि मां सदा। द्विजशुश्रूषया शूद्रः परं श्रेयो ऽधिगच्छति। द्विजशुश्रूषणाद् अन्यन् नास्ति शूद्रस्य निष्कृतिः। रागो द्वेषश् च मोहश् च पारुष्यं च नृशंसता। शाठ्यं च दीर्घवैरित्वम् अतिमानम् अनार्जवम्। अनृतं चापवादश् च पैशुन्यम् अतिलोभता। हिंसा स्तेयं मृषावादो वञ्चना रोषलोभता। अबुद्धिता च नास्तिक्यं भयम् आलस्यम् एव च। अशौचं चाकृतज्ञत्वं डम्भता स्तम्भ एव च। निकृतिश् चाप्य् अविज्ञानं जातके शूद्रम् आविशेत्। दृष्ट्वा पितामहः शूद्रम् अभिभूतं तु तामसैः। द्विजशुश्रूषणं धर्मं शूद्राणां तु प्रयुक्तवान्। नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तितः। पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति। तद् अहं भक्त्युपहृतं मूर्ध्ना गृह्णामि शूद्रतः। अन्त्यजो वापि यः कश् चित् सर्वपापसमन्वितः। यदि मां सततं ध्यायेत् सर्वपापैः प्रमुच्यते। विद्याविनयसंपन्ना ब्राह्मणा वेदपारगाः। मयि भक्तिं न कुर्वन्ति चण्डालसदृशा हि ते। वृथा दत्तं वृथा जप्तं वृथा चेष्टं वृथा हुतम्। वृथातिथ्यं च तत् तस्य यो न भक्तो मम द्विजः। यत् कृतं च हुतं चापि यद् इष्टं दत्तम् एव च। अभक्तिमत् कृतं सर्वं राक्षसा एव भुञ्जते। स्थावरे जङ्गमे वापि सर्वभूतेषु पाण्डव। समत्वेन यदा कुर्यान् मद्भक्तो मित्रशत्रुषु। आनृशंस्यम् अहिंसा च दया सत्यम् अथार्जवम्। अद्रोहश् चैव भूतानां मद्भक्तानां व्रतं नृप। नम इत्य् एव यो ब्रूयान् मद्भक्तः श्रद्धयान्वितः। तस्याक्षयो भवेल् लोकः श्वपाकस्यापि पाण्डव। किं पुनर् ये यजन्ते मां याजका विधिपूर्वकम्। मद्भक्ता मद्गतप्राणाः कथयन्तश् च मां सदा। बहुवर्षसहस्राणि तपस् तप्यति यो नरः। नासौ पदम् अवाप्नोति मद्भक्तैर् यद् अवाप्यते। माम् एव तस्माद् राजेन्द्र ध्याहि नित्यम् अतन्द्रितः। अवाप्स्यसि ततः सिद्धिं द्रक्ष्यसे परमं पदम्। अपार्थकं प्रभाषन्ते शूद्रा भागवता इति। न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः। द्वादशाक्षरतत्त्वज्ञश् चतुर्व्यूहविभागवित्। अच्छिद्रः पञ्चकालज्ञः स वै भागवतः स्मृतः। ऋग्वेदेनैव मां होता यजुषाध्वर्युर् एव च। सामवेदेन चोद्गाता पुण्येनाभिष्टुवन्ति माम्। अथर्वशिरसा चैव नित्यम् आथर्वणा द्विजाः। स्तुवन्ति सततं ये मां ते ऽपि भागवताः स्मृताः। वेदाधीनाः सदा यज्ञा यज्ञाधीनास् तु देवताः। देवता ब्राह्मणाधीनास् तस्माद् विप्रास् तु देवताः। अनाश्रित्योच्छ्रयं नास्ति मुख्यम् आश्रयम् आश्रयेत्। रुद्रं समाश्रिता देवा रुद्रो ब्राह्मणम् आश्रितः। ब्रह्मा माम् आश्रितो राजन् नाहं कं चिद् उपाश्रितः। ममाश्रयो न कश् चित् तु सर्वेषाम् आश्रयो ह्य् अहम्। एवम् एतन् मया प्रोक्तं रहस्यम् इदम् उत्तमम्। धर्मप्रियस्य ते राजन् नित्यम् एवं समाचर। इदं पवित्रम् आख्यानं पुण्यं वेदेन संमितम्। यः पठेन् मामकं धर्मम् अहन्य् अहनि पाण्डव। धर्मो विवर्धते तस्य बुद्धिश् चापि प्रसीदति। पापक्षयम् उपैत्य् एव कल्याणं च विवर्धते। एतत् पुण्यं पवित्रं च पापनाशनम् उत्तमम्। श्रोतव्यं श्रद्धया युक्तैः श्रोत्रियैश् च विशेषतः। श्रावयेद् यस् त्व् इदं भक्त्या प्रयतो ऽथ शृणोति वा। स गच्छेन् मम सायुज्यं नात्र कार्या विचारणा। यश् चेदं श्रावयेच् छ्राद्धे मद्भक्तो मत्परायणः। वैशंपायन उवाच। पितरस् तस्य तृप्यन्ति यावदाभूतसंप्लवम्। श्रुत्वा भागवतान् धर्मान् साक्षाद् विष्णोर् जगद्गुरोः। प्रहृष्टमनसो भूत्वा चिन्तयन्तो ऽद्भुताः कथाः। ऋषयः पाण्डवाश् चैव प्रणेमुस् तं जनार्दनम्। पूजयाम् आस गोविन्दं धर्मपुत्रः पुनः पुनः। देवा ब्रह्मर्षयः सिद्धा गन्धर्वाप्सरसस् तथा। भूता यक्षा ग्रहाश् चैव गुह्यका भुजगास् तथा। वालखिल्या महात्मानो योगिनस् तत्त्वदर्शिनः। तथा भागवताश् चापि पञ्चकालम् उपासकाः। कौतूहलसमायुक्ता भगवन् भक्तिम् आगताः। श्रुत्वा तु परमं पुण्यं वैष्णवं धर्मशासनम्। विमुक्तपापाः पूतास् ते संवृत्तास् तत्क्षणेन तु। प्रणम्य शिरसा विष्णुं प्रतिनन्द्य च तां कथाम्। द्रष्टारो द्वारकायां वै वयं सर्वे जगद्गुरुम्। इति प्रहृष्टमनसो ययुर् देवगणैः सह। सर्वे ऋषिगणा राजन् ययुः स्वं स्वं निवेशनम्। गतेषु तेषु सर्वेषु केशवः केशिहा तदा। सस्मार दारुकं राजन् स च सात्यकिना सह। समीपस्थो ऽभवत् सूतो याहि देवेति चाब्रवीत्। ततो विषण्णवदनाः पाण्डवाः पुरुषोत्तमम्। अञ्जलिं मूर्ध्नि संधाय नेत्रैर् अश्रुपरिप्लुतैः। पिबन्तः सततं कृष्णं नोचुर् आर्ततरास् तदा। कृष्णो ऽपि भगवान् देवः पृथाम् आमन्त्र्य चार्तवत्। धृतराष्ट्रं च गान्धारीं विदुरं द्रौपदीं तथा। कृष्णद्वैपायनं व्यासम् ऋषीन् अन्यांश् च मन्त्रिणः। सुभद्राम् आत्मजयुताम् उत्तरां स्पृश्य पाणिना। निर्गत्य वेश्मनस् तस्माद् आरुरोह महारथम्। वाजिभिः सैन्यसुग्रीवमेघपुष्पबलाहकैः। युक्तं च ध्वजभूतेन पतगेन्द्रेण धीमता। अन्वारुरोह चाप्य् एनं प्रेम्णा राजा युधिष्ठिरः। अपास्य चाशु यन्तारं दारुकं सूतसत्तमम्। अभीशून् प्रतिजग्राह स्वयं कुरुपतिस् तदा। उपारुह्यार्जुनश् चापि चामरव्यजनं शुभम्। रुक्मदण्डं बृहन् मूर्ध्नि दुधावाभिप्रदक्षिणम्। छत्त्रं शतशलाकं च दिव्यमाल्योपशोभितम्। वैडूर्यमणिदण्डं च चामीकरविभूषितम्। दधार तरसा भीमः छत्त्रं तच् छार्ङ्गधन्विनः। भीमसेनार्जुनौ चापि यमौ चाप्य् अरिसूदनौ। पृष्ठतो ऽनुययुः कृष्णं मा शब्द इति हर्षिताः। त्रियोजने व्यतीते तु परिष्वज्य च पाण्डवान्। विसृज्य कृष्णस् तान् सर्वान् प्रणतान् द्वारकां ययौ। तथा प्रणम्य गोविन्दं तदा प्रभृति पाण्डवाः। कपिलाद्यानि दानानि ददुर् धर्मपरायणाः। मधुसूदनवाक्यानि स्मृत्वा स्मृत्वा पुनः पुनः। मनसा पूजयाम् आसुर् हृदयस्थानि पाण्डवाः। युधिष्ठिरस् तु धर्मात्मा हृदि कृत्वा जनार्दनम्। तद्भक्तस् तन्मना युक्तस् तद्याजी तत्परो ऽभवत्। एवम् एतत् पुरावृत्तं वैष्णवं धर्मशासनम्। मया ते कथितं राजन् पवित्रं पापनाशनम्। तच् छृणुष्व महाराज विष्णुप्रोक्तं कुरूद्वह। तेन गच्छसि नान्येन तद् विष्णोः परमं पदम्।
evam etat tadā vṛttaṃ tasya yajñe mahātmanaḥ. paśyatāṃ cāpi nas tatra nakulo 'ntarhitas tadā. sa cāpi bhagavān kṛṣṇaḥ śaṅkhacakragadādharaḥ. yajñiyo yajñanāthaś ca puṇḍarīko janārdanaḥ. vāsudevo harir viṣṇur ananto bhaktavatsalaḥ. ā samāpter jagannātho yajñaṃ rakṣitavān hariḥ. rakṣitvā sa mahābāhur jagāma dvārakāṃ purīm. etat puṇyaṃ mahārāja śṛṇvatāṃ bhuktimuktidam. śrotā ca śrāvako yaś ca sa yāti paramāṃ gatim. janamejayaḥ. aśvamedhe purā vṛtte keśavaṃ keśisūdanam. vaiśaṃpāyanaḥ. dharmasaṃśayam uddiśya kim apṛcchat pitāmahaḥ. paścimenāśvamedhena yadā snāto yudhiṣṭhiraḥ. tadā rājan namaskṛtya keśavaṃ punar abravīt. bhagavan vaiṣṇavā dharmāḥ kiṃphalāḥ kiṃparāyaṇāḥ. kiṃ dharmam adhikṛtyātha bhavatotpāditāḥ purā. yadi te 'ham anugrāhyaḥ priyo 'smi madhusūdana. śrotavyā yadi me kṛṣṇa tan me kathaya suvrata. pavitrāḥ kila te dharmāḥ sarvapāpapraṇāśanāḥ. sarvadharmottamāḥ puṇyā bhagavaṃs tvanmukhodgatāḥ. yāñ śrutvā brahmahā goghno mātṛhā gurutalpagaḥ. pākabhedī kṛtaghnaś ca surāpo brahmavikrayī. mitraviśvāsaghātī ca vīrahā bhrūṇahā tathā. tapovikrayiṇaś caiva dānavikrayiṇas tathā. ātmavikrayiṇo mūḍhā jīved yaś ca vikarmabhiḥ. pāpāḥ śaṭhā naikṛtikā ḍāmbhikā dūṣakās tathā. rasabhedakarā ye ca ye ca syur brahmaghātakāḥ. śūdrapreṣyakarāś corā viprā ye ca purohitāḥ. nikṣepahāriṇaḥ strīghnās tathā ye pāradārikāḥ. ete cānye ca pāpās te mucyante te 'pi kilbiṣāt. tān ācakṣva suraśreṣṭha tvadbhaktasya mamācyuta. ity evaṃ kathite deve dharmaputreṇa saṃsadi. vasiṣṭhādyās tapoyuktā munayas tattvadarśinaḥ. śrotukāmāḥ paraṃ guhyaṃ vaiṣṇavaṃ dharmam uttamam. yudhiṣṭhiraḥ. tathā bhāgavatāś caiva tatas taṃ paryavārayan. tattvatas tu bhavān eva pādamūlam upāgatam. yadi jānāsi māṃ bhaktaṃ snigdhaṃ vā bhaktavatsala. dharmaguhyāni sarvāṇi vettum icchāmi tattvataḥ. dharmān kathaya deveśa yady anugrahabhāg aham. śrutā me mānavā dharmā vāsiṣṭhāḥ kāśyapās tathā. gārgīyā gautamīyāś ca tathā gopālakasya ca. parāśarakṛtāḥ pūrvaṃ maitreyasya ca dhīmataḥ. aumā māheśvarāś caiva nandidharmāś ca pāvanāḥ. brahmaṇā kathitā ye ca kaumārāś ca śrutā mayā. dhūmrāyaṇakṛtā dharmāḥ kāṇḍavaiśvānarā api. bhārgavyā yājñavalkyāś ca mārkaṇḍeyakṛtās tathā. bhāradvājakṛtā ye ca bṛhaspatikṛtāś ca ye. kuṇeś ca kuṇibāhoś ca viśvāmitrakṛtāś ca ye. sumantujaiminikṛtāḥ śākuneyās tathaiva ca. pulastyapulahodgītāḥ pāvakīyās tathaiva ca. agastyagītā maudgalyāḥ śāṇḍilyāś caiva pāvanāḥ. vālakhilyakṛtā ye ca ye ca saptarṣibhiḥ kṛtāḥ. āpastambakṛtā dharmāḥ śaṅkhasya likhitasya ca. prājāpatyās tathā yāmyā māhendrāś ca śrutā mayā. vaiyyāghrā vyāsagītāś ca vibhāṇḍakakṛtāś ca ye. nāradīyāḥ śrutā dharmāḥ kāpotāś ca śrutā mayā. tathā viduravākyāni bhṛgor aṅgirasas tathā. krauñcā mṛdaṅgagītāś ca sauryā hārītakāś ca ye. ye piśaṅgakṛtāś cāpi kautupā haṃsapālakāḥ. uddālakakṛtā dharmā auśanasyās tathaiva ca. vaiśaṃpāyanagītāś ca ye cānye 'py evamādayaḥ. etebhyaḥ sarvadharmebhyo deva tvanmukhaniḥsṛtāḥ. pāvanatvāt pavitratvād viśiṣṭā iti me matiḥ. tasmād dhi tvāṃ prapannasya tvadbhaktasya ca bhāvataḥ. vaiśaṃpāyanaḥ. yuṣmadīyān varān dharmān puṇyān kathaya me 'cyuta. evaṃ pṛṣṭas tu dharmajño dharmaputreṇa keśavaḥ. uvāca dharmān sūkṣmārthān dharmaputrasya harṣitaḥ. evaṃ te yasya kaunteya yatno dharmeṣu suvrata. tvatsamo durlabho loke na kaś cid iha vidyate. dharmaḥ śruto vā dṛṣṭo vā kathito vā kṛto 'pi vā. anumodito vā rājendra punātīha naraṃ sadā. dharmaḥ pitā ca mātā ca dharmo nāthaḥ suhṛt tathā. dharmo bhrātā sakhā caiva dharmaḥ svāmī paraṃtapa. dharmād arthaś ca kāmaś ca dharmād bhogāḥ sukhāni ca. dharmād aiśvaryam evāgryaṃ dharmāt svargagatiḥ parā. dharmo yaḥ sevitaḥ śuddhas trāyate mahato bhayāt. dharmād dvijatvaṃ devatvaṃ dharmaḥ prāpayate naram. yadā ca kṣīyate pāpaṃ kālena puruṣasya tu. tadā saṃjāyate buddhir dharmaṃ kartuṃ yudhiṣṭhira. janmāntarasahasrais tu manuṣyatvaṃ hi durlabham. tad gatvāpīha yo dharmaṃ na karoti sa vañcitaḥ. kutsitā ye daridrāś ca virūpā vyādhitās tathā. parapreṣyāś ca mūrkhāś ca na tair dharmaḥ kṛtaḥ purā. ye ca dīrghāyuṣaḥ śūrāḥ paṇḍitā bhoginas tathā. nīrogā rūpasaṃpannās tair dharmaḥ sukṛtaḥ purā. evaṃ dharmaḥ kṛtaḥ śuddho nayate gatim uttamām. adharmaṃ sevamānas tu tiryag yonyāṃ pataty asau. idaṃ rahasyaṃ kaunteya śṛṇu dharmam anuttamam. kathayiṣye paraṃ dharmaṃ mama bhaktasya pāṇḍava. iṣṭas tvam asi me 'tyarthaṃ prapannaś cāpi māṃ sadā. paramārtham api brūmaḥ kiṃ punar dharmasaṃhitām. idaṃ me mānuṣaṃ janma kṛtam ātmani māyayā. dharmasaṃsthāpanārthāya duṣṭānāṃ śāsanāya ca. mānuṣyaṃ bhāvam āpannaṃ ye māṃ gṛhṇanty avajñayā. saṃsarantīha te mūḍhās tiryag yoniṣv anekaśaḥ. ye ca māṃ sarvabhūtasthaṃ paśyanti jñānacakṣuṣā. madbhaktāṃs tān sadā yuktān matsamīpaṃ nayāmy aham. madbhaktā na vinaśyanti madbhaktā vītakalmaṣāḥ. madbhaktānāṃ tu mānuṣye saphalaṃ janma pāṇḍava. api pāpeṣv abhiratā madbhaktāḥ pāṇḍunandana. mucyante pāpakaiḥ sarvaiḥ padmapatram ivāmbhasā. janmāntarasahasreṣu tapasā bhāvitātmanām. bhaktir utpadyate tāta manuṣyāṇāṃ na saṃśayaḥ. yac ca rūpaṃ paraṃ guhyaṃ kūṭastham acalaṃ dhruvam. na dṛśyate tathā devair madbhaktair dṛśyate yathā. aparaṃ yac ca me rūpaṃ prādurbhāveṣu dṛśyate. tad arcayanti sarvārthaiḥ sarvabhūtāni pāṇḍava. kalpakoṭisahasreṣu vyatīteṣv āgateṣu ca. darśayāmīha tad rūpaṃ tat prapaśyanti me surāḥ. sthityutpattivyayakaraṃ yo māṃ jñātvā prapadyate. anugṛhṇāmy ahaṃ taṃ vai saṃsārān mocayāmi ca. aham ādir hi devānāṃ sṛṣṭā brahmādayo mayā. prakṛtiṃ svām avaṣṭabhya jagat sarvaṃ sṛjāmy aham. tamomūlo 'ham avyakto rajo madhye pratiṣṭhitaḥ. ūrdhvaṃ sattvaviśālo 'haṃ brahmādistambasaṃjñitaḥ. mūrdhānaṃ me divaṃ viddhi candrādityau ca locane. devāgnir brāhmaṇā vaktraṃ mārutaḥ śvasanaś ca me. diśo me bāhavaś cāṣṭau nakṣatrāṇi ca bhūṣaṇam. antarikṣam uro viddhi sarvabhūtāvakāśakam. mārgo meghānilābhyāṃ tu yan mamodaram avyayam. pṛthivīmaṇḍalaṃ yad vai dvīpārṇavanagair yutam. sarvasaṃdhāraṇopetaṃ pādau mama yudhiṣṭhira. sthito hy ekaguṇaḥ khe 'haṃ dviguṇaś cāsmi mārute. triguṇo 'gnau sthito 'haṃ vai salile tu caturguṇaḥ. śabdādyā ye guṇāḥ pañca mahābhūteṣu pañcasu. tanmātrasaṃsthitaḥ so 'haṃ pṛthivyāṃ pañcadhā sthitaḥ. ahaṃ sahasraśīrṣas tu sahasravadanekṣaṇaḥ. sahasrabāhūdaradṛk sahasroruḥ sahasrapāt. dhṛtvorvīṃ sarvataḥ samyag atyatiṣṭhad daśāṅgulam. sarvabhūtātmabhūtasthaḥ sarvavyāpī tato hy aham. acintyo 'ham ananto 'ham ajaro 'ham ajo hy aham. anadyo 'ham avadhyo 'ham aprameyo 'ham avyayaḥ. nirguṇo 'ham agūḍhātmā nirdvandvo nirmamo nṛpa. niṣkalo nirvikāro 'haṃ nidānam amṛtasya tu. sudhā cāhaṃ svadhā cāhaṃ svāhā cāhaṃ narādhipa. tejasā tapasā cāhaṃ bhūtagrāmaṃ caturvidham. snehapāśaguṇair baddhvā dhārayāmy ātmamāyayā. caturāśramadharmo 'haṃ cāturhotraphalāśanaḥ. caturmūrtiś caturvyūhaś caturāśramabhāvanaḥ. saṃhṛtyāhaṃ jagat sarvaṃ kṛtvā vai garbham ātmanaḥ. śayāmi divyayogena pralayeṣu yudhiṣṭhira. sahasrayugaparyantāṃ brāhmīṃ rātriṃ mahārṇave. sthitvā sṛjāmi bhūtāni jaṅgamāni sthirāṇi ca. kalpe kalpe ca bhūtāni saṃharāmi sṛjāmi ca. na ca māṃ tāni jānanti māyayā mohitāni me. mama caivāndhakārasya mārgitavyasya nityaśaḥ. praśāntasyeva dīpasya gatir naivopalabhyate. na tad asti kva cid rājan yatrāhaṃ na pratiṣṭhitaḥ. na ca tad vidyate bhūtaṃ mayi yan na pratiṣṭhitam. yāvanmātraṃ bhaved bhūtaṃ sthūlaṃ sūkṣmam idaṃ jagat. jīvabhūto hy ahaṃ tasmiṃs tāvanmātraṃ pratiṣṭhitam. kiṃ cātra bahunoktena satyam eva bravīmi te. yad bhūtaṃ yad bhaviṣyac ca tat sarvam aham eva tu. mayā sṛṣṭāni bhūtāni manmayāni ca bhārata. mām eva na vijānanti māyayā mohitāni me. evaṃ sarvaṃ jagad idaṃ sadevāsuramānuṣam. mattaḥ prabhavate rājan mayy eva pravilīyate. vaiśaṃpāyana uvāca. evam ātmodbhavaṃ sarvaṃ jagad uddiśya keśavaḥ. bhagavān uvāca. dharmān dharmātmajasyātha puṇyān akathayat prabhuḥ. śṛṇu pāṇḍava tattvena pavitraṃ pāpanāśanam. kathyamānaṃ mayā puṇyaṃ dharmaśāstraphalaṃ mahat. yaḥ śṛṇoti śucir bhūtvā ekacittas tapoyutaḥ. svargyaṃ yaśasyam āyuṣyaṃ dharmyaṃ jñeyaṃ yudhiṣṭhira. śraddadhānasya tasyeha yat pāpaṃ pūrvasaṃcitam. vaiśaṃpāyana uvāca. vinaśyaty āśu tat sarvaṃ madbhaktasya viśeṣataḥ. evaṃ śrutvā vacaḥ puṇyaṃ satyaṃ keśavabhāṣitam. prahṛṣṭamanaso bhūtvā cintayanto 'dbhutaṃ param. devā brahmarṣayaḥ sarve gandharvāpsarasas tathā. bhūtā yakṣagrahāś caiva guhyakā bhujagās tathā. vālakhilyā mahātmāno yoginas tattvadarśinaḥ. tathā bhāgavatāś cāpi pañcakālam upāsakāḥ. kautūhalasamāyuktāḥ prahṛṣṭendriyamānasāḥ. śrotukāmāḥ paraṃ dharmaṃ vaiṣṇavaṃ dharmaśāsanāt. hṛdi kartuṃ ca tad vākyaṃ praṇemuḥ śirasā natāḥ. tatas te vāsudevena dṛṣṭāḥ saumyena cakṣuṣā. vimuktapāpān ālokya praṇamya śirasā harim. papraccha keśavaṃ dharmaṃ dharmaputraḥ pratāpavān. kīdṛśī brāhmaṇasyātha kṣatriyasyāpi kīdṛśī. vaiśyasya kīdṛśī deva gatiḥ śūdrasya kīdṛśī. kathaṃ badhyeta pāśena brāhmaṇas tu yamālaye. kṣatriyo vātha vaiśyo vā śūdro vā badhyate katham. vaiśaṃpāyana uvāca. etat karmaphalaṃ brūhi lokanātha namo 'stu te. pṛṣṭo 'tha keśavo hy evaṃ dharmaputreṇa dhīmatā. uvāca saṃsāragatiṃ cāturvarṇyasya karmajām. bhagavān uvāca. śṛṇu varṇakrameṇaiva dharmaṃ dharmabhṛtāṃ vara. nāsti kiṃ cin naraśreṣṭha duṣkṛtaṃ brāhmaṇasya tu. ye sthitāḥ syuḥ sadādhyātme saṃdhyāṃ ye cāpy upāsate. yaiś ca pūrṇāhutiḥ prāptā vidhivaj juhvate ca ye. vaiśvadevaṃ ca ye kuryuḥ pūjayanty atithīṃś ca ye. nityaṃ svādhyāyaśīlāś ca japayajñaparāś ca ye. sāyaṃprātar hutāśāś ca śūdrabhojanavarjitāḥ. ḍambhānṛtavimuktāś ca svadāraniratāś ca ye. pañcayajñaratā ye ca ye 'gnihotram upāsate. dahanti duṣkṛtaṃ yeṣāṃ hūyamānāgnayas trayaḥ. naṣṭaduṣkṛtakarmāṇo brahmalokaṃ vrajanti te. brahmaloke punaḥ kāmaṃ gandharvair brahmagāyakaiḥ. udgīyamānāḥ prayataiḥ pūjyamānāḥ svayaṃbhuvā. brahmaloke pramodante yāvad ābhūtasaṃplavam. kṣatriyo 'pi sthito rājye svadharmaparipālakaḥ. samyak prajāḥ pālayitā ṣaḍbhāganirataḥ sadā. yajñadānarato dhīraḥ svadāranirataḥ sadā. śāstrānusārī tattvajñaḥ prajākāryaparāyaṇaḥ. viprebhyaḥ kāmado nityaṃ bhṛtyānāṃ bharaṇe rataḥ. satyasaṃdhaḥ śucir nityaṃ lobhaḍambhavivarjitaḥ. kṣatriyo 'py uttamāṃ yāti gatiṃ devaniṣevitām. tatra divyāpsarobhis tu gandharvaiś ca viśeṣataḥ. sevyamāno mahātejāḥ krīḍate śakrapūjitaḥ. caturyugāni vai triṃśat krīḍitvā tatra devavat. iha mānuṣaloke tu caturvedī dvijo bhavet. kṛṣigopālanirato dharmānveṣaṇatatparaḥ. dānadharme 'pi nirato vipraśuśrūṣakas tathā. satyasaṃdhaḥ śucir nityaṃ lobhaḍambhavivarjitaḥ. ṛjuḥ svadāranirato hiṃsādrohavivarjitaḥ. vaṇigdharmān namuñcan vai devabrāhmaṇapūjakaḥ. vaiśyaḥ svargatim āpnoti pūjyamāno 'psarogaṇaiḥ. caturyugāni vai triṃśat krīḍitvā daśa pañca ca. iha mānuṣyaloke ca rājā bhavati vīryavān. suvarṇakoṭyaḥ pañcāśad ratnānāṃ ca śataṃ tathā. hastyaśvarathasaṃyuktān mahābhogāṃś ca sevate. trayāṇām api varṇānāṃ śuśrūṣānirataḥ sadā. viśeṣatas tu viprāṇāṃ dāsavad yas tu tiṣṭhati. ayācitapradātā ca satyaśaucasamanvitaḥ. gurudevārcanarataḥ paradāravivarjitaḥ. parapīḍām akṛtvaiva bhṛtyavargaṃ bibharti yaḥ. śūdro 'pi svargam āpnoti jīvānām abhayapradaḥ. sa svargaloke krīḍitvā varṣakoṭiṃ mahātapāḥ. iha mānuṣaloke tu vaiśyo dhanapatir bhavet. evaṃ dharmāt paraṃ nāsti mahat saṃsāramokṣaṇam. na ca dharmāt paraṃ kiṃ cit pāpakarmavyapohanam. tasmād dharmaḥ sadā kāryo mānuṣyaṃ prāpya durlabham. na hi dharmānuraktānāṃ loke kiṃ cin na durlabham. svayaṃbhuvihito dharmo yo yasyeha nareśvara. sa tena kṣapayet pāpaṃ samyag ācaritena ca. sahajaṃ yad bhavet karma na tat tyājyaṃ hi kena cit. sa eva tasya dharmo hi tena siddhiṃ sa gacchati. viguṇo 'pi svadharmas tu pāpakarma vyapohati. yudhiṣṭhira uvāca. evam eva tu dharmo 'pi kṣīyate pāpavardhanāt. bhagavan devadeveśa śrotuṃ kautūhalaṃ hi me. bhagavān uvāca. śubhasyāpy aśubhasyāpi kṣayavṛddhī yathākramam. śṛṇu pārthiva tat sarvaṃ dharmaṃ sūkṣmaṃ sanātanam. durvijñeyatamaṃ nityam atra bhagnā mahājanāḥ. yathaiva śītam udakam uṣṇena bahunāvṛtam. bhavet tu tatkṣaṇād uṣṇaṃ śītatvaṃ ca vinaśyati. yathoṣṇaṃ vā bhaved alpaṃ śītena bahunāvṛtam. śītalaṃ tad bhavet sarvam uṣṇatvaṃ ca vinaśyati. evaṃ tu yad bhaved bhūri sukṛtaṃ vātha duṣkṛtam. tad alpaṃ kṣapayec chīghraṃ nātra kāryā vicāraṇā. samatve sati rājendra tayoḥ sukṛtapāpayoḥ. gūhitasya bhaved vṛddhiḥ kīrtitasya bhavet kṣayaḥ. khyāpanenānutāpena prāyaḥ pāpaṃ vinaśyati. tathā kṛtas tu rājendra dharmo naśyati mānada. tāv ubhau gūhitau samyag vṛddhiṃ yātau na saṃśayaḥ. tasmāt sarvaprayatnena na pāpaṃ gūhayed budhaḥ. tasmād etat prayatnena kīrtayet kṣayakāraṇāt. tasmāt saṃkīrtayet pāpaṃ satyaṃ dharmaṃ ca gūhayet. vaiśaṃpāyana uvāca. evaṃ śrutvā vacas tasya dharmaputro 'cyutasya tu. yudhiṣṭhira uvāca. papraccha punar apy anyān dharmān dharmātmajo harim. vṛthā ca kati janmāni vṛthā dānāni yāni ca. vṛthā ca jīvitaṃ keṣāṃ narāṇāṃ puruṣottama. kīdṛśāsu vyavasthāsu dānaṃ dattaṃ janārdana. iha loke 'nubhavati puruṣaḥ puruṣottama. garbhasthe kiṃ samaśnāti kiṃ bālye vāpi keśava. yauvanasthe 'pi kiṃ kṛṣṇa vārdhake vāpi kiṃ bhavet. sāttvikaṃ kīdṛśaṃ dānaṃ rājasaṃ kīdṛśaṃ bhavet. tāmasaṃ kīdṛśaṃ deva tarpayiṣyati kiṃ prabho. uttamaṃ kīdṛśaṃ dānaṃ madhyamaṃ kīdṛśaṃ bhavet. adhamaṃ kīdṛśaṃ dānaṃ teṣāṃ vā vada kiṃ phalam. kiṃ dānaṃ nayati hy ūrdhvaṃ kiṃ gatiṃ madhyamāṃ bhavet. gatiṃ jaghanyām atha vā devadeva bravīhi me. etad icchāmi vijñātuṃ paraṃ kautūhalaṃ hi me. tvadīyaṃ vacanaṃ satyaṃ puṇyaṃ ca madhusūdana. vaiśaṃpāyana uvāca. evaṃ dharmaṃ prayatnena pṛṣṭaḥ pāṇḍusutena vai. uvāca vāsudevo 'tha dharmān dharmātmajasya ca. śṛṇu rājan yathānyāyaṃ vacanaṃ tathyam uttamam. kathyamānaṃ mayā puṇyaṃ sarvapāpavyapohanam. vṛthā ca daśa janmāni catvāri ca narādhipa. vṛthā dānāni pañcāśat pañcaiva ca yathākramam. vṛthā ca jīvitaṃ yeṣāṃ te ca ṣaṭ parikīrtitāḥ. anukrameṇa sarvāṇi tāni vakṣyāmi pārthiva. dharmaghnānāṃ vṛthā janma lubdhānāṃ pāpināṃ tathā. vṛthā pākaṃ ca ye 'śnanti paradāraratāś ca ye. pākabhedakarā ye ca ye ca syuḥ satyavarjitāḥ. mṛṣṭam aśnāti yaś caiko dṛśyamānas tu bāndhavaiḥ. pitaraṃ mātaraṃ caiva upādhyāyaṃ guruṃ tathā. mātulaṃ mātulānīṃ ca yo nihanyāc chapeta vā. brāhmaṇaś caiva yo bhūtvā saṃdhyopāsanavarjitaḥ. nirbrahmo niḥsvadhaś caiva śūdrāṇām annabhug dvijaḥ. mama vā śaṃkarasyāpi brahmaṇo vā yudhiṣṭhira. atha vā brāhmaṇānāṃ tu ye na bhaktā narādhamāḥ. vṛthā janmāny athaiteṣāṃ pāpināṃ viddhi pāṇḍava. aśraddhayā ca yad dattam avamānena vāpi yat. ḍambhārtham api yad dattaṃ yat pāṣaṇḍihṛtaṃ nṛpa. śūdrācārāya yad dattaṃ yad dattvā cānukīrtitam. roṣayuktaṃ tu yad dattaṃ yad dattam anuśocitam. ḍambhārjitaṃ ca yad dattaṃ yac ca vāpy anṛtārjitam. brāhmaṇasvaṃ ca yad dattaṃ cauryeṇāpy ārjitaṃ ca yat. abhiśastāhṛtaṃ yat tu yad dattaṃ patite dvije. nirbrahmābhihṛtaṃ yat tu yad dhṛtaṃ sarvayācakaiḥ. vrātyais tu yad dhṛtaṃ dānam ārūḍhapatitaiś ca yat. yad dattaṃ svairiṇībhartuḥ śvaśurān anuvartine. yad grāmayācakahṛtaṃ yat kṛtaghnahṛtaṃ tathā. upapātakine dattaṃ vedavikrayiṇe ca yat. strījitāya ca yad dattaṃ vyālagrāhihṛtaṃ ca yat. purohitāya yad dattaṃ cikitsakahṛtaṃ ca yat. yad vaṇikkarmiṇe dattaṃ kṣudramantropajīvine. yac chūdrajīvine dattaṃ yac ca devalakāya ca. devadravyāśine yac ca yad dattaṃ citrakarmiṇe. raṅgopajīvine dattaṃ yac ca māṃsopajīvine. sevakāya ca yad dattaṃ yad dattaṃ brāhmaṇabruve. agnihīne ca yad dattaṃ dattaṃ vārdhuṣikāya ca. yad anācāriṇe dattaṃ yat tu dattam anagnaye. asaṃdhyopāsine dattaṃ yac chūdragrāmavāsine. yan mithyāliṅgine dattaṃ dattaṃ sarvāśine ca yat. nāstikāya ca yad dattaṃ dharmavikrayiṇe ca yat. cārakāya ca yad dattaṃ yad dattaṃ kūṭasākṣiṇe. grāmakūṭāya yad dattaṃ dānaṃ pārthivapuṃgava. vṛthā bhavati tat sarvaṃ nātra kāryā vicāraṇā. vipranāmadharā hy ete lolupā brāhmaṇādhamāḥ. nātmānaṃ tārayanty ete na dātāraṃ yudhiṣṭhira. etebhyo dattamātrāṇi dānāni ca bahūny api. vṛthā bhavanti rājendra bhasmany ājyāhutir yathā. eteṣu yat phalaṃ kiṃ cid bhaviṣyati kathaṃ cana. rākṣasāś ca piśācāś ca tad vilumpanti harṣitāḥ. vṛthā hy etāni dattāni kathitāni samāsataḥ. jīvitaṃ tu vṛthā yeṣāṃ tac chṛṇuṣva yudhiṣṭhira. ye māṃ na pratipadyante śaṃkaraṃ vā narādhamāḥ. brāhmaṇān vā mahīdevān vṛthā jīvanti te narāḥ. hetuśāstreṣu ye saktāḥ kudṛṣṭipatham āśritāḥ. vedān nindanty anācārā vṛthā jīvanti te narāḥ. kuśalaiḥ kṛtaśāstrāṇi paṭhitvā ye narādhamāḥ. viprān nindanti yajñāṃś ca vṛthā jīvanti te narāḥ. ye ca durgāṃ kumāraṃ vā vāyum agniṃ jalaṃ ravim. pitaraṃ mātaraṃ caiva gurum indraṃ niśākaram. mūḍhā nindanty anācārā vṛthā jīvanti te narāḥ. vidyamāne dhane yas tu dānadharmavivarjitaḥ. mṛṣṭam aśnāti yaś caiko vṛthā jīvati so 'pi ca. vṛthā jīvitam ākhyātaṃ dānakālaṃ bravīmi te. tamoniviṣṭacittena dattaṃ dānaṃ tu yad bhavet. sa tasya phalam aśnāti naro garbhagato nṛpa. īrṣyāmātsaryasaṃyukto ḍambhārthaṃ cārthakāraṇāt. dadāti dānaṃ yo martyo bālabhāve tad aśnute. bhoktuṃ bhogaṃ na śaktas tu vyādhibhiḥ pīḍito bhṛśam. dadāti dānaṃ yo martyo vṛddhabhāve tad aśnute. śraddhāyuktaḥ śuciḥ snātaḥ prasannendriyamānasaḥ. dadāti dānaṃ yo martyo yauvane sa tad aśnute. svayaṃ nītvā tu yad dānaṃ bhaktyā pātre pradīyate. tat sārvakālikaṃ viddhi dānam āmaraṇāntikam. sāttvikaṃ rājasaṃ caiva tāmasaṃ ca yudhiṣṭhira. dānaṃ dānaphalaṃ caiva gatiṃ ca trividhāṃ śṛṇu. dānaṃ dātavyam ity eva matiṃ kṛtvā dvijāya vai. upakāraviyuktāya yad dattaṃ tad dhi sāttvikam. śrotriyāya daridrāya bahubhṛtyāya pāṇḍava. dīyate yat prahṛṣṭena tat sāttvikam udāhṛtam. vedākṣaravihīnāya yat tu pūrvopakāriṇe. samṛddhāya ca yad dattaṃ tad dānaṃ rājasaṃ smṛtam. saṃbandhine ca yad dattaṃ pramattāya ca pāṇḍava. phalārthibhir apātrāya tad dānaṃ rājasaṃ smṛtam. vaiśvadevavihīnāya dānam aśrotriyāya ca. dīyate taskarāyāpi tad dānaṃ tāmasaṃ smṛtam. saroṣam avadhūtaṃ ca kleśayuktam avajñayā. sevakāya ca yad dattaṃ tat tāmasam udāhṛtam. devāḥ pitṛgaṇāś caiva munayaś cāgnayas tathā. sāttvikaṃ dānam aśnanti tuṣyanti ca nareśvara. dānavā daityasaṃghāś ca grahā yakṣāḥ sarākṣasāḥ. rājasaṃ dānam aśnanti varjitaṃ pitṛdaivataiḥ. piśācāḥ pretasaṃghāś ca kaśmalā ye malīmasāḥ. tāmasaṃ dānam aśnanti gatiṃ ca trividhāṃ śṛṇu. sāttvikānāṃ tu dānānām uttamaṃ phalam ucyate. madhyamaṃ rājasānāṃ tu tāmasānāṃ tu paścimam. abhigamyopanītānāṃ dānānām uttamaṃ phalam. madhyamaṃ tu samāhūya jaghanyaṃ yācate phalam. ayācitapradātā yaḥ sa yāti gatim uttamām. samāhūya tu yo dadyān madhyamāṃ sa gatiṃ vrajet. yācito yaś ca vai dadyāj jaghanyāṃ sa gatiṃ vrajet. uttamā daivikā jñeyā madhyamā mānuṣī gatiḥ. gatiṃ jaghanyāṃ tiryakṣu gatir eṣā tridhā smṛtā. pātrabhūteṣu vipreṣu susthiteṣv āhitāgniṣu. yat tu nikṣipyate dānam akṣayyaṃ saṃprakīrtitam. śrotriyāṇāṃ daridrāṇāṃ bharaṇaṃ kuru pārthiva. samṛddhānāṃ dvijātīnāṃ kuryāt teṣāṃ ca rakṣaṇam. daridrān vṛttihīnāṃś ca pradānaiḥ suṣṭhu pūjaya. āturasyauṣadhaiḥ kāryaṃ nīrujasya kim auṣadhaiḥ. pāpaṃ pratigrahītāraṃ pradātur upagacchati. pratigrahītur yat puṇyaṃ pradātāram upaiti tat. tasmād dānaṃ sadā kāryaṃ paratra hitam icchatā. vedavidyāvadāteṣu sadā śūdrānnavarjiṣu. prayatnena vidhātavyo mahādānamayo nidhiḥ. yeṣāṃ dārāḥ pratīkṣante sahasrasyeva lambhanam. bhuktaśeṣasya bhaktasya tān nimantraya pāṇḍava. āmantrya tu nirāśāni na kartavyāni bhārata. kulāni sudaridrāṇāṃ teṣām āśā hatā bhavet. madbhaktā ye naraśreṣṭha madgatā matparāyaṇāḥ. madyājino manniyamās tān prayatnena pūjayet. teṣāṃ tu pāvanāyāhaṃ nityam eva yudhiṣṭhira. ubhe saṃdhye 'pi tiṣṭhāmi hy askannaṃ tad vrataṃ mama. tasmād aṣṭākṣaraṃ mantraṃ madbhaktair vītakalmaṣaiḥ. saṃdhyākāleṣu japtavyaṃ satataṃ cātmaśuddhaye. anyeṣām api viprāṇāṃ kilbiṣaṃ hi praṇaśyati. ubhe saṃdhye 'py upāsīta tasmād vipro viśuddhaye. daive śrāddhe ca vipraḥ sa niyoktavyo 'jugupsayā. jugupsitas tu yaḥ śrāddhaṃ dahaty agnir ivendhanam. bhārataṃ mānavo dharmo vedāḥ sāṅgāś cikitsitam. ājñāsiddhāni catvāri na hantavyāni hetubhiḥ. na brāhmaṇān parīkṣeta daive karmaṇi dharmavit. mahān bhavet parīvādo brāhmaṇānāṃ parīkṣaṇe. brāhmaṇānāṃ parīvādaṃ yaḥ kuryāt puruṣādhamaḥ. rāsabhānāṃ śunāṃ yoniṃ gacchet puruṣadūṣakaḥ. śvatvaṃ prāpnoti ninditvā parīvādāt kharo bhavet. kṛmir bhavaty abhibhavāt kīṭo bhavati matsarī. durvṛttā vā suvṛttā vā prākṛtā vā susaṃskṛtāḥ. brāhmaṇā nāvamantavyā bhasmacchannā ivāgnayaḥ. kṣatriyaṃ caiva sarpaṃ ca brāhmaṇaṃ ca bahuśrutam. nāvamanyeta medhāvī kṛśān api kadā cana. etat trayaṃ hi puruṣaṃ nirdahed avamānitam. tasmād etat prayatnena nāvamanyeta buddhimān. yathā sarvāsv avasthāsu pāvako daivataṃ mahat. tathā sarvāsv avasthāsu brāhmaṇo daivataṃ mahat. vyaṅgāḥ kāṇāś ca kubjāś ca vāmanāṅgās tathaiva ca. sarve daive niyoktavyā vyāmiśrā vedapāragaiḥ. manyuṃ notpādayet teṣāṃ na cāriṣṭān samācaret. manyupraharaṇā viprā na viprāḥ śastrapāṇayaḥ. manyunā ghnanti te śatrūn vajreṇendra ivāsurān. brāhmaṇo hi mahad daivaṃ jātimātreṇa jāyate. īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye. kiṃ punar ye ca kaunteya saṃdhyāṃ nityam upāsate. yasyāsyena samaśnanti havyāni tridivaukasaḥ. kavyāni caiva pitaraḥ kiṃ bhūtam adhikaṃ tathā. utpattir eva viprasya mūrtir dharmasya śāśvatī. sa hi dharmārtham utpanno brahmabhūyāya kalpate. svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca. ānṛśaṃsyād brāhmaṇasya bhuñjate hītare janāḥ. tasmāt te nāvamantavyā madbhaktā hi dvijāḥ sadā. āraṇyakopaniṣadi ye tu paśyanti māṃ dvijāḥ. nigūḍhaṃ niṣkalāvasthaṃ tān prayatnena pūjaya. svagṛhe vā pravāse vā divārātram athāpi vā. śraddhayā brāhmaṇāḥ pūjyā madbhaktā ye ca pāṇḍava. nāsti viprasamaṃ daivaṃ nāsti viprasamo guruḥ. nāsti viprāt paro bandhur nāsti viprāt paro nidhiḥ. nāsti viprāt paraṃ tīrthaṃ na puṇyaṃ brāhmaṇāt param. na pavitraṃ paraṃ viprān na dvijāt pāvanaṃ param. nāsti viprāt paro dharmo nāsti viprāt parā gatiḥ. pāpakarmasamākṣiptaṃ patantaṃ narake naram. trāyate dānam apy ekaṃ pātrabhūte kṛtaṃ dvije. bālāhitāgnayo ye ca śāntāḥ śūdrānnavarjitāḥ. mām arcayanti madbhaktās tebhyo dattam ihākṣayam. pradānaiḥ pūjito vipro vandito vāpi saṃstutaḥ. saṃbhāṣito vā dṛṣṭo vā madbhakto divam unnayet. ye paṭhanti namasyanti dhyāyanti puruṣottamam. tān spṛṣṭvā vātha vā dṛṣṭvā naraḥ pāpaiḥ pramucyate. madbhaktā madgataprāṇā madgatā matparāyaṇāḥ. bījayoniviśuddhā ye śrotriyāḥ saṃyatendriyāḥ. śūdrānnaviratā nityaṃ te punantīha darśanāt. svayaṃ nītvā viśeṣeṇa dānaṃ teṣāṃ gṛheṣv atha. nivāpayet tu yad bhaktyā tad dānaṃ koṭisaṃmitam. jāgrataḥ svapato vāpi pravāseṣu gṛheṣv atha. hṛdaye na praṇaśyāmi yasya viprasya bhāvataḥ. saṃpūjito vā dṛṣṭo vā spṛṣṭo vāpi dvijottamaḥ. saṃbhāṣito vā rājendra punāty eva naraṃ sadā. evaṃ sarvāsv avasthāsu sarvadānāni pāṇḍava. vaiśaṃpāyana uvāca. madbhaktebhyaḥ pradattāni svargamārgapradāni vai. śrutvaiva sāttvikaṃ dānaṃ rājasaṃ tāmasaṃ tathā. pṛthak pṛthak tv eva gatiṃ phalaṃ cāpi pṛthak pṛthak. avitṛptaḥ prahṛṣṭātmā puṇyaṃ dharmāmṛtaṃ punaḥ. yudhiṣṭhiro dharmarataḥ keśavaṃ punar abravīt. bījayoniviśuddhānāṃ lakṣaṇāni vadasva me. bījadoṣeṇa lokeśa jāyante ca kathaṃ narāḥ. ācāradoṣaṃ deveśa vaktum arhasy aśeṣataḥ. brāhmaṇānāṃ viśeṣaṃ ca guṇadoṣau ca keśava. cāturvarṇasya kṛtsnasya vartamānāḥ pratigrahe. kena viprā viśeṣeṇa tarante tārayanti ca. bhagavān uvāca. etān kathaya deveśa tvadbhaktasya namo 'stu te. śṛṇu rājan yathāvṛttaṃ bījayoniśubhāśubham. yena tiṣṭhati loko 'yaṃ vinaśyati ca pāṇḍava. aviplutabrahmacaryo yas tu vipro yathāvidhi. subījaṃ nāma vijñeyaṃ tasya bījaṃ śubhaṃ bhavet. kanyā cākṣatayoniḥ syāt kulīnā pitṛmātṛtaḥ. brāhmādiṣu vivāheṣu pariṇītā yathāvidhi. sā praśastā varārohā tasyā yoniḥ praśasyate. manasā karmaṇā vācā yā bhavet svairacāriṇī. sā kulaghnīti vijñeyā tasyāṃ jātaḥ śvapācakaḥ. daive pitrye tathā dāne bhojane sahabhāṣaṇe. śayane sahasaṃbandhe na yogyā duṣṭayonijāḥ. na tasmād duṣṭayonyāṃ tu garbham utpādayed budhaḥ. mohena kurute yas tu kulaṃ hanti tripūruṣam. kānīnaś ca sahoḍhaś ca tathobhau kuṇḍagolakau. ārūḍhapatitāj jātaḥ patitasyāpi yaḥ sutaḥ. ṣaḍ ete viśvacaṇḍālā nikṛṣṭāḥ śvapacād api. yo yatra tatra vā retaḥ siktvā śūdrāsu vā caret. kāmacārī sa pāpātmā bījaṃ tasyāśubhaṃ bhavet. aśubhaṃ tad bhaved bījaṃ śuddhāṃ yoniṃ na cārhati. dūṣayaty api tāṃ yoniṃ śunā līḍhaṃ havir yathā. śūdrayonau pated bījaṃ hāhāśabdaṃ dvijanmanaḥ. kuryāt purīṣagarteṣu patito 'smīti duḥkhitaḥ. mām adhaḥ pātayaty eṣa pāpātmā kāmamohitaḥ. adhogatiṃ vrajet kṣipram iti śaptvā patet tu tat. ātmā hi śuklam uddiṣṭaṃ daivataṃ paramaṃ mahat. tasmāt sarvaprayatnena nirundhyāc chuklam ātmanaḥ. āyus tejo balaṃ vīryaṃ prajñā śrīś ca mahad yaśaḥ. puṇyaṃ ca matpriyatvaṃ ca labhate brahmacaryayā. aviplutabrahmacaryair gṛhasthāśramam āśritaiḥ. pañcayajñaparair dharmaḥ sthāpyate pṛthivītale. sāyaṃ prātas tu ye saṃdhyāṃ samyaṅ nityam upāsate. nāvaṃ vedamayīṃ kṛtvā tarante tārayanti ca. yo japet pāvanīṃ devīṃ gāyatrīṃ vedamātaram. na sīdet pratigṛhṇānaḥ pṛthivīṃ ca sasāgarām. ye cāsya duḥsthitāḥ ke cid grahāḥ sūryādayo divi. te cāsya saumyā jāyante śivāḥ śubhakarās tathā. yatra yatra sthitāś caiva dāruṇāḥ piśitāśanāḥ. ghorarūpā mahākāyā dharṣayanti na taṃ dvijam. punantīha pṛthivyāṃ ca cīrṇavedavratā narāḥ. caturṇām api vedānāṃ sā ca rājan garīyasī. acīrṇavratavedā ye vikarmapatham āśritāḥ. brāhmaṇā nāmamātreṇa te 'pi pūjyā yudhiṣṭhira. kiṃ punar yas tu saṃdhye dve nityam evopatiṣṭhati. śīlam adhyayanaṃ dānaṃ śaucaṃ mārdavam ārjavam. tasmād vedād viśiṣṭāni manur āha prajāpatiḥ. bhūr bhuvaḥ svar iti brahma yo vedaparamaṃ dvijaḥ. svadāranirato dāntaḥ sa vidvān sa ca bhūsuraḥ. saṃdhyām upāsate viprā nityam eva dvijottamāḥ. te yānti naraśārdūla brahmalokaṃ na saṃśayaḥ. sāvitrīmātrasāro 'pi varo vipraḥ suyantritaḥ. nāyantritaś caturvedī sarvāśī sarvavikrayī. sāvitrīṃ caiva vedāṃś ca tulayātolayan purā. sadevarṣigaṇāś caiva sarve brahmapuraḥsarāḥ. caturṇām api vedānāṃ sā hi rājan garīyasī. yathā vikasite puṣpe madhu gṛhṇati ṣaṭpadāḥ. samutsṛjya rasaṃ sarvaṃ nirarthakam asāravat. evaṃ gṛhītā sāvitrī sarvavede ca pāṇḍava. tasmāt tu sarvavedānāṃ sāvitrī prāṇa ucyate. nirjīvā hītare vedā vinā sāvitriyā nṛpa. nāyantritaś caturvedī śīlabhraṣṭaḥ sa kutsitaḥ. śīlavṛttasamāyuktaḥ sāvitrīpāṭhako varaḥ. sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām. yudhiṣṭhira uvāca. sāvitrīṃ japa kaunteya sarvapāpapraṇāśinīm. trailokyanātha he kṛṣṇa sarvabhūtātmako hy asi. nānāyogapara śreṣṭha tuṣyase kena karmaṇā. bhagavān uvāca. yadi bhārasahasraṃ tu guggulvādi pradhūpayet. karoti cen namaskāram upahāraṃ ca kārayet. stauti yaḥ stutibhir māṃ ca ṛgyajuḥsāmabhiḥ sadā. na toṣayati ced viprān nāhaṃ tuṣyāmi bhārata. brāhmaṇe pūjite nityaṃ pūjito 'smi na saṃśayaḥ. ākruṣṭe cāham ākruṣṭo bhavāmi bharatarṣabha. parā mayi gatis teṣāṃ pūjayanti ca māṃ hi te. yad ahaṃ dvijarūpeṇa vasāmi vasudhātale. yas tān pūjayati prājño madgatenāntarātmanā. tam ahaṃ svena rūpeṇa paśyāmi narapuṃgava. kubjāḥ kāṇā vāmanāś ca daridrā vyādhitās tathā. nāvamānyā dvijāḥ prājñair mama rūpā hi te dvijāḥ. ye ke cit sāgarāntāyāṃ pṛthivyāṃ dvijasattamāḥ. mama rūpaṃ hi teṣv evam arciteṣv arcito 'smy aham. bahavas tu na jānanti narā jñānabahiṣkṛtāḥ. yathāhaṃ dvijarūpeṇa vasāmi vasudhātale. avamanyanti ye viprān svadharmāt pātayanti te. preṣaṇaiḥ preṣayante ca śuśrūṣāṃ kārayanti ca. mṛtāś cātra paratremān yamadūtā mahābalāḥ. nikṛntanti yathākāmaṃ sūtramārgeṇa śilpinaḥ. ākrośaparivādābhyāṃ ye ramante dvijātiṣu. tān mṛtān yamalokasthān nipātya pṛthivītale. ākramyorasi pādena krūraḥ saṃraktalocanaḥ. agnivarṇais tu saṃdaṃśair yamo jihvāṃ samuddharet. ye ca viprān nirīkṣante pāpāḥ pāpena cakṣuṣā. abrahmaṇyāḥ śruter bāhyā nityaṃ brahmadviṣo narāḥ. teṣāṃ ghorā mahākāyā vakratuṇḍā mahābalāḥ. uddharanti muhūrtena khagāś cakṣur yamājñayā. yaḥ prahāraṃ dvijendrāya dadyāt kuryāc ca śoṇitam. asthibhaṅgaṃ ca yaḥ kuryāt prāṇair vā viprayojayet. so 'nupūrvyeṇa yātīmān narakān ekaviṃśatim. śūlam āropito gatvā jvalane paripacyate. bahuvarṣasahasrāṇi pacyamānas tv avākśirāḥ. nāvamucyeta durmedhā na tasya kṣīyate gatiḥ. brāhmaṇāyāvicāryaivaṃ vrajan vai vadhakāṅkṣayā. śatavarṣasahasrāṇi tāmisre paripacyate. utpādya śoṇitaṃ gātrāt saṃrambhān matipūrvakam. sa paryāyeṇa yātīmān narakān ekaviṃśatim. tasmān nākuśalaṃ brūyān na śuṣkāṃ giram īrayet. na brūyāt paruṣāṃ vāṇīṃ na caivaitān atikramet. ye viprāñ śraddhayā vācā pūjayanti narottamāḥ. arcitaś ca tataś caiva tair bhavāmi na saṃśayaḥ. tarjayanti ca ye viprān krośayanti ca bhārata. ākruṣṭas tarjitaś cāhaṃ tair bhavāmi na saṃśayaḥ. yaś candanaiś cāgarudhūpadīpair. abhyarcayet kāṣṭhamayīṃ mamārcām. tenārcito naiva bhavāmi samyag. viprārcanād asmi samarcito 'ham. vipraprasādād dharaṇīdharo 'haṃ. vipraprasādād asurāñ jayāmi. vipraprasādāc ca sadakṣiṇo 'haṃ. yudhiṣṭhira uvāca. vipraprasādād ajito 'ham asmi. devadeveśa daityaghna paraṃ kautūhalaṃ hi me. etat kathaya sarvajña tvadbhaktasya ca keśava. mānuṣasya ca lokasya dharmalokasya cāntaram. kīdṛśaṃ kiṃpramāṇaṃ vā kim adhiṣṭhānam eva ca. taranti mānuṣā deva kenopāyena mādhava. tvagasthimāṃsanirmukte pañcabhūtavivarjite. kathayasva mahādeva sukhaduḥkham aśeṣataḥ. jīvasya karmalokeṣu karmabhis tu śubhāśubhaiḥ. anubaddhasya taiḥ pāśair nīyamānasya dāruṇaiḥ. mṛtyudūtair durādharṣair ghorair ghoraparākramaiḥ. vadhyasyākṣipyamāṇasya vidrutasya yamājñayā. puṇyapāpakṛtaṃ tiṣṭhet sukhaduḥkham aśeṣataḥ. yamadūtair durādharṣair nīyate vā kathaṃ punaḥ. kiṃ vā tatra gatā deva karma kurvanti mānavāḥ. kathaṃ dharmaparā yānti devatādvijapūjakāḥ. kathaṃ vā pāpakarmāṇo yānti pretapuraṃ narāḥ. kiṃ rūpaṃ kiṃ pramāṇaṃ vā varṇaḥ ko vāsya keśava. bhagavān uvāca. jīvasya gacchato nityaṃ yamalokaṃ bravīhi me. śṛṇu rājan yathāvṛttaṃ yan māṃ tvaṃ paripṛcchasi. tat te 'haṃ kathayiṣyāmi madbhaktasya nareśvara. ṣaḍaśītisahasrāṇi yojanānāṃ yudhiṣṭhira. mānuṣyasya ca lokasya yamalokasya cāntaram. na tatra vṛkṣacchāyā vā na taṭākaṃ saro 'pi vā. na vāpyo dīrghikā vāpi na kūpo vā yudhiṣṭhira. na maṇṭapaṃ sabhā vāpi na prapā na niketanam. na parvato nadī vāpi na bhūmer vivaraṃ kva cit. na grāmo vāśramo vāpi nodyānaṃ vā vanāni ca. na kiṃ cid āśrayasthānaṃ pathi tasmin yudhiṣṭhira. jantor hi prāptakālasya vedanārtasya vai bhṛśam. karaṇais tyaktadehasya prāṇaiḥ kaṇṭhagataiḥ punaḥ. śarīrāc cālyate jīvo hy avaśo mātariśvanā. nirgato vāyubhūtas tu ṣaṭkośāt tu kalevarāt. śarīram anyat tadrūpaṃ tadvarṇaṃ tatpramāṇakam. adṛśyaṃ tat praviṣṭas tu so 'py adṛṣṭena kena cit. so 'ntarātmā dehavatām aṣṭāṅgo yas tu saṃcaret. chedanād bhedanād dāhāt tāḍanād vā na naśyati. nānārūpadharair ghoraiḥ pracaṇḍaiś caṇḍasādhanaiḥ. nīyamāno durādharṣair yamadūtair yamājñayā. putradāramayaiḥ pāśaiḥ saṃniruddho 'vaśo balāt. svakarmabhiś cānugataḥ kṛtaiḥ sukṛtaduṣkṛtaiḥ. ākrandamānaḥ karuṇaṃ bandhubhir duḥkhapīḍitaiḥ. tyaktvā bandhujanaṃ sarvaṃ nirapekṣas tu gacchati. mātṛbhiḥ pitṛbhiś cāpi bhrātṛbhir mātulais tathā. dāraiḥ putrair vayasyaiś ca rudadbhis tyajyate punaḥ. adṛśyamānas tair dīnair aśrupūrṇamukhekṣaṇaiḥ. svaśarīraṃ parityajya vāyubhūtas tu gacchati. andhakāram apāraṃ taṃ mahāghoraṃ tamovṛtam. duḥkhāntaṃ duṣpratāraṃ ca durgamaṃ pāpakarmaṇām. duḥsahāyaṃ durantaṃ ca durnirīkṣaṃ durāsadam. durāpam atiduḥkhaṃ ca pāpiṣṭhānāṃ narottama. ṛṣibhiḥ kathyamānaṃ tat pāraṃparyeṇa pārthiva. trāsaṃ janayati prāyaḥ śrūyamāṇaṃ kathāsv api. avaśyaṃ caiva gantavyaṃ tadadhvānaṃ yudhiṣṭhira. prāptakālena saṃtyajya bandhūn bhogān dhanāni ca. jarāyujair aṇḍajaiś ca svedajair udbhijjais tathā. jaṅgamaiḥ sthirajaiś caiva gantavyaṃ yamasādanam. devāsurair manuṣyādyair vaivasvatavaśānugaiḥ. strīpuṃnapuṃsakaiś cāpi pṛthivyāṃ jīvasaṃjñitaiḥ. madhyamair yuvabhir vāpi bālair vṛddhais tathaiva ca. jātamātraiś ca garbhasthair gantavyaḥ sa mahāpathaḥ. pūrvāhṇe vāparāhṇe vā saṃdhyākāle 'tha vā punaḥ. pradoṣe vārdharātre vā pratyūṣe vāpy upasthite. pravāsasthair vanasthair vā parvatasthair jalasthitaiḥ. kṣetrasthair vā nabhaḥsthair vā gṛhamadhyagatair api. bhuñjadbhir vā pibadbhir vā khādadbhir vā narottama. āsīnair vā sthitair vāpi śayanīyagatair api. jāgradbhir vā prasuptair vā gantavyas tu mahāpathaḥ. mṛtyudūtair durādharṣaiḥ pracaṇḍaiś caṇḍaśāsanaiḥ. ākṣipyamāṇā hy avaśāḥ prayānti yamasādanam. kva cid bhītaiḥ kva cit trastaiḥ praskhaladbhiḥ kva cit kva cit. krandadbhir vedanārtais tu gantavyaṃ yamasādanam. nirbhartsyamānair udvignair vidhūtair bhayavihvalaiḥ. tudyamānaśarīraiś ca gantavyaṃ tarjanaiḥ sadā. kaṇṭakākīrṇamārgeṇa taptavālukapāṃsunā. dahyamānais tu gantavyaṃ narair dānavivarjitaiḥ. kāṣṭhopalaśilāghātair daṇḍolmukakaśāṅkuśaiḥ. hanyamānair yamapuraṃ gantavyaṃ dharmavarjitaiḥ. medaḥśoṇitapūyārdrair vaktragātraiś ca savraṇaiḥ. dagdhakṣatajakīrṇaiś ca gantavyaṃ jīvaghātakaiḥ. krandadbhiś ca rudadbhiś ca krośadbhiś cāpi visvanam. vedanārtaiś ca kūjadbhir vikrośadbhiś ca visvaram. vedanārtaiḥ patadbhiś ca gantavyaṃ jīvaghātakaiḥ. bhagnapādoruhastāṅgair bhagnadantaśirodharaiḥ. chinnakaṇṭhoṣṭhanāsaiś ca gantavyaṃ jīvaghātakaiḥ. śaktibhir bhiṇḍipālaiś ca śaṅkutomarasāyakaiḥ. tudyamānais tu śūlāgrair gantavyaṃ jīvaghātakaiḥ. śvabhir vyāghrair vṛkaiḥ kākair bhakṣyamāṇāḥ samantataḥ. tudyamānāś ca gacchanti rākṣasair māṃsakhādibhiḥ. mahiṣaiś ca mṛgaiś cāpi sūkaraiḥ pṛṣatais tathā. bhakṣyamāṇais tadadhvānaṃ gantavyaṃ māṃsakhādibhiḥ. sūcīsutīkṣṇatuṇḍābhir makṣikābhiḥ samantataḥ. tudyamānais tu gantavyaṃ pāpiṣṭhair bālaghātakaiḥ. visrabdhaṃ svāminaṃ mitraṃ striyaṃ vā ghnanti ye narāḥ. śastrair nirbhidyamānais tair gantavyaṃ yamasādanam. ghātayanti ca ye jīvān duḥkham āpādayanti ca. rākṣasaiś ca śvabhiś caiva bhakṣyamāṇā vrajanti te. ye haranti ca vastrāṇi śayyāḥ prāvaraṇāni ca. te yānti vidrutā nagnāḥ piśācā iva tatpatham. gāś ca dhānyaṃ hiraṇyaṃ ca balāt kṣetragṛhaṃ tathā. ye haranti durātmānaḥ parasvaṃ pāpakāriṇaḥ. pāṣāṇair ulmukair daṇḍaiḥ kāṣṭhaghātaiś ca jharjharaiḥ. hanyamānaiḥ kṣatākīrṇair gantavyaṃ tair yamālayam. brahmasvaṃ ye harantīha narā narakanirbhayāḥ. ākrośantīha vā nityaṃ praharanti ca ye dvijān. śuṣkakaṇṭhā nibaddhās te chinnajihvākṣināsikāḥ. pūyaśoṇitadurgandhā bhakṣyante kākajambukaiḥ. caṇḍālair bhīṣaṇaiś caṇḍais tudyamānāḥ samantataḥ. krośantaḥ karuṇaṃ ghoraṃ gacchanti yamasādanam. tatra cāpi gatāḥ pāpā viṣṭhākūpeṣv anekaśaḥ. jīvanto varṣakoṭīs tu kliśyante vedanārditāḥ. tataś ca muktāḥ kālena loke cāsmin narādhamāḥ. viṣṭhākrimitvaṃ gacchanti janmakoṭiśataṃ nṛpa. vidyamānadhanair yas tu lobhaḍambhānṛtānvitaiḥ. śrotriyebhyo na dattāni dānāni kurupuṃgava. grīvāpāśanibaddhās te hanyamānāś ca rākṣasaiḥ. kṣutpipāsāśramārtās tu yānti pretapuraṃ narāḥ. adattadānā gacchanti śuṣkakaṇṭhāsyatālukāḥ. annaṃ pānīyasahitaṃ prārthayantaḥ punaḥ punaḥ. svāmin bubhukṣātṛṣṇārtā gantuṃ naivādya śaknumaḥ. mamānnaṃ dīyatāṃ svāmin pānīyaṃ dīyatāṃ mama. vaiśaṃpāyana uvāca. iti bruvantas tair dūtair yāpayanti yamālayam. tac chrutvā vacanaṃ viṣṇoḥ papāta bhuvi pāṇḍavaḥ. niḥsaṃjño 'pi bhayatrasto mūrchayā samabhiplutaḥ. tato labdhvā śanaiḥ saṃjñāṃ samāśvasto 'cyutena saḥ. netre prakṣālya toyena bhūyaḥ keśavam abravīt. bhīto 'smy ahaṃ mahādeva śrutvā mārgasya vistaram. bhagavān uvāca. kenopāyena tanmārgaṃ taranti puruṣāḥ sukham. iha ye dhārmikā loke jīvaghātavivarjitāḥ. guruśuśrūṣaṇe yuktā devabrāhmaṇapūjakāḥ. asmān mānuṣyakāl lokāt sabhāryāḥ sahabāndhavāḥ. yam adhvānaṃ tu gacchanti yathāvat taṃ nibodha me. brāhmaṇebhyaḥ pradānāni nānārūpāṇi pārthiva. ye prayacchanti vidvadbhyas te sukhaṃ yānti tatpatham. annaṃ ye ca prayacchanti brāhmaṇebhyaḥ susaṃskṛtam. śrotriyebhyo viśeṣeṇa prītyā paramayā yutāḥ. te vimānair mahātmāno yānti citrair yamālayam. sevyamānā varastrībhir apsarobhir mahāpatham. ye ca nityaṃ prabhāṣante satyaṃ niṣkalmaṣaṃ vacaḥ. te 'pi yānty amalābhrābhair vimānais taṃ yamālayam. kapilādyāni puṇyāni gopradānāni ye narāḥ. brāhmaṇebhyaḥ prayacchanti śrotriyebhyo viśeṣataḥ. te yānty amalavarṇābhair vimānair vṛṣayojitaiḥ. vaivasvatapuraṃ prāpya apsarobhir niṣevitāḥ. upānahau ca chattraṃ ca śayanāny āsanāni ca. viprebhyo ye prayacchanti vastrāṇy ābharaṇāni ca. te yānty aśvair vṛṣair vāpi kuñjarair apy alaṃkṛtāḥ. dharmarājapuraṃ ramyaṃ sauvarṇacchattraśobhitāḥ. ye ca bhakṣyāṇi dāsyanti bhojyaṃ peyaṃ tathaiva ca. snigdhānnāny api viprebhyaḥ śraddhayā parayā yutāḥ. te yānti kāñcanair yānaiḥ sukhaṃ vaivasvatālayam. varastrībhir yathākāmaṃ sevyamānāḥ sahasraśaḥ. ye ca kṣīraṃ prayacchanti ghṛtaṃ dadhi guḍaṃ madhu. brāhmaṇebhyaḥ prayatnena śraddadhānāḥ susaṃskṛtāḥ. cakravākaprayuktais tu yānai rukmamayaiḥ śubhaiḥ. yānti gandharvavāditraiḥ sevyamānā yamālayam. ye phalāni prayacchanti puṣpāṇi surabhīṇi ca. haṃsayuktair vimānais tu yānti dharmapuraṃ narāḥ. ye prayacchanti viprebhyo vicitrānnaṃ ghṛtāplutam. te vrajanty amalābhrābhair vimānair vāyuvegibhiḥ. puraṃ tat pretanāthasya nānājanasamākulam. pānīyaṃ ye prayacchanti sarvabhūtaprajīvanam. te sutṛptāḥ sukhaṃ yānti vimānair haṃsacoditaiḥ. ye tilāṃs tiladhenuṃ vā ghṛtadhenum athāpi vā. śrotriyebhyaḥ prayacchanti saumyabhāvasamanvitāḥ. somamaṇḍalasaṃkāśair yānais te yānti nirmalaiḥ. gīyamānais tu gandharvair vaivasvatapuraṃ nṛpa. yeṣāṃ vāpyaś ca kūpāś ca taṭākāni sarāṃsi ca. dīrghikāḥ puṣkariṇyaś ca sajalāś ca jalāśayāḥ. yānais te yānti candrābhair divyaghaṇṭānināditaiḥ. cāmarais tālavṛntaiś ca vījyamānā mahāprabhāḥ. nityatṛptā mahātmāno gacchanti yamasādanam. yeṣāṃ devagṛhāṇīha citrāṇy āyatanāni ca. manoharāṇi kāntāni darśanīyāni bhānti ca. te vrajanty amalābhrābhair vimānair vāyuvegibhiḥ. puraṃ tat pretanāthasya nānājanasamākulam. vaivasvataṃ ca paśyanti sukhacittaṃ sukhasthitam. yamena pūjitā yānti devasālokyatāṃ tataḥ. devān uddiśya lokeṣu prapāsu karakoddhṛtam. śītalaṃ salilaṃ ramyaṃ tṛṣitebhyo diśanti ye. te tu tṛptiṃ parāṃ prāpya sukhaṃ yānti mahāpatham. kāṣṭhapādukadā yānti tadadhvānaṃ sukhaṃ narāḥ. sauvarṇamaṇipīṭheṣu pādau kṛtvā rathottame. ārāmān vṛkṣaṣaṇḍāṃś ca ropayanti ca ye narāḥ. saṃvardhayanti cāvyagrāḥ phalapuṣpopaśobhitān. vṛkṣacchāyāsu ramyāsu śītalāsu svalaṃkṛtāḥ. yānti te vāhanair divyaiḥ pūjyamānā muhur muhuḥ. sevyamānāḥ surūpābhir uttamābhiḥ prayatnataḥ. strībhiḥ kanakavarṇābhir yathākāmaṃ yathāsukham. aśvayānaṃ tu goyānaṃ hastiyānam athāpi vā. ye prayacchanti viprebhyo vimānaiḥ kanakopamaiḥ. suvarṇaṃ rajataṃ vāpi vidrumaṃ mauktikaṃ tathā. ye prayacchanti te yānti vimānaiḥ kāñcanojjvalaiḥ. te vrajanti varastrībhiḥ sevyamānā yathāsukham. bhūmidā yānti taṃ lokaṃ sarvakāmaiḥ sutarpitāḥ. uditādityasaṃkāśair vimānair vṛṣayojitaiḥ. kanyāṃ ye ca prayacchanti viprāya śrotriyāya ca. divyakanyāvṛtā yānti vimānais te yamālayam. sugandhān gandhasaṃyogān puṣpāṇi surabhīṇi ca. prayacchanti dvijāgrebhyo bhaktyā paramayā yutāḥ. sugandhāḥ suṣṭhuveṣāś ca suprabhāḥ sragvibhūṣaṇāḥ. yānti dharmapuraṃ yānair vicitrair apy alaṃkṛtāḥ. dīpadā yānti yānaiś ca dyotayanto diśo daśa. ādityasadṛśākārair dīpyamānā ivāgnayaḥ. gṛhāvasathadātāro grahaiḥ kāñcanavedikaiḥ. vrajanti bālasūryābhair dharmarājapuraṃ narāḥ. jalabhājanadātāraḥ kuṇḍikākarakapradāḥ. pūjyamānā varastrībhir yānti tṛptā mahāgajaiḥ. pādābhyaṅgaṃ śirobhyaṅgaṃ pānaṃ pādodakaṃ tathā. ye prayacchanti viprebhyas te yānty aśvair yamālayam. viśrāmayanti ye viprāñ śrāntān adhvani karśitān. cakravākaprayuktena yānti yānena te 'pi ca. svāgatena ca yo viprān pūjayed āsanena ca. sa gacchati tadadhvānaṃ sukhaṃ paramanirvṛtaḥ. namo brahmaṇyadeveti yo māṃ dṛṣṭvābhivādayet. vratavat prayato nityaṃ sa sukhaṃ yāti tatpatham. namaḥ sarvasabhābhyaś cety abhikhyāya dine dine. namaskaroti gobhyo yaḥ sa sukhaṃ yāti tatpatham. namo 'stu priyadattāyety evaṃvādī dine dine. bhūmim ākramate prātaḥ śayanād utthitaś ca yaḥ. sarvakāmaiḥ sa tṛptātmā sarvabhūṣaṇabhūṣitaḥ. yāti yānena divyena sukhaṃ vaivasvatālayam. anantarāśino ye tu ḍambhāhaṃkāravarjitāḥ. te 'pi sārasayuktena yānti yānena vai sukham. ye cāpy ekena bhuktena vartante ḍambhavarjitāḥ. haṃsayuktair vimānais tu sukhaṃ yānti yamālayam. caturthena ca bhuktena vartante ye jitendriyāḥ. yānti te dharmanagaraṃ yānair barhiṇayojitaiḥ. tṛtīyadivaseneha bhuñjate ye jitendriyāḥ. te 'pi hastirathaṃ yānti tatpathaṃ kanakojjvalaiḥ. ṣaṣṭhāhnakāliko yas tu varṣam ekaṃ tu vartate. kāmakrodhavinirmuktaḥ śucir nityaṃ jitendriyaḥ. sa yāti kuñjarasthas tu jayaśabdaravair yutaḥ. pakṣopavāsino yānti yānaiḥ śārdūlayojitaiḥ. dharmarājapuraṃ ramyaṃ divyastrīgaṇasevitam. ye ca māsopavāsaṃ vai kurvate saṃyatendriyāḥ. te 'pi sūryodayaprakhyair yānti yānair yamālayam. agnipraveśaṃ yaś cāpi kurute madgatātmanā. sa yāty agniprakāśena vimānena yamālayam. prāṇāṃs tyajati yo vipro māṃ prapanno hy anāśakaḥ. sa bālārkaprakāśena vrajed yānena tatpatham. praviṣṭo 'ntarjale yas tu prāṇāṃs tyajati mānavaḥ. somamaṇḍalakalpena yāti yānena tatpatham. svaśarīraṃ hi gṛdhrāṇāṃ manmanā yaḥ prayacchati. sa yāti rathamukhyena kāñcanena yamālayam. gokṛte strīkṛte caiva hatā viprakṛte 'pi ca. te yānty amarakanyābhiḥ sevyamānā raviprabhāḥ. ye ca kurvanti madbhaktās tīrthayātrāṃ jitendriyāḥ. te panthānaṃ mahātmāno yānair yānti sunirvṛtāḥ. ye yajanti dvijaśreṣṭhāḥ kratubhir bhūridakṣiṇaiḥ. haṃsasārasasaṃyuktair yānais te yānti tatpatham. parapīḍām akṛtvaiva bhṛtyān bibhrati ye narāḥ. tatpathaṃ te sukhaṃ yānti vimānaiḥ kāñcanojjvalaiḥ. ye samāḥ sarvabhūteṣu jīvānām abhayapradāḥ. krodhalobhavinirmuktā nigṛhītendriyās tathā. pūrṇacandrapratīkāśair vimānais te mahāprabhāḥ. yānti vaivasvatapuraṃ devagandharvasevitāḥ. ye mām ekāntabhāvena devaṃ tryambakam eva ca. pūjayanti namasyanti stuvanti ca dine dine. dharmarājapuraṃ yānti yānais te 'rkasamaprabhaiḥ. pūjitās tatra dharmeṇa svayaṃ mālyādibhiḥ śubhaiḥ. yānty eva mama lokaṃ vā rudralokam athāpi vā. vaiśaṃpāyana uvāca. śrutvā yamapurādhvānaṃ jīvānāṃ gamanaṃ tathā. dharmaputraḥ prahṛṣṭātmā keśavaṃ punar abravīt. devadeveśa daityaghna ṛṣisaṃghair abhiṣṭuta. bhavān bhavakaraḥ śrīmān sahasrādityasaprabha. sarvasaṃbhava sarvajña sarvadharmapravartaka. sarvadānaphalaṃ saumya kathayasva mamācyuta. dānaṃ deyaṃ kathaṃ kṛṣṇa kīdṛśāya dvijāya vai. kīdṛśaṃ vā tapaḥ kṛtvā tatphalaṃ kutra bhujyate. evam ukto hṛṣīkeśo dharmaputreṇa dhīmatā. uvāca dharmaputrāya puṇyān dharmān mahodayān. śṛṇuṣvāvahito rājan pūtaṃ pāpaghnam uttamam. sarvadānaphalaṃ saumya na śrāvyaṃ pāpakarmaṇām. yac chrutvā puruṣaḥ strī vā naṣṭapāpaḥ samāhitaḥ. tatkṣaṇāt pūtatāṃ yāti pāpakarmarato 'pi vā. ekāham api kaunteya bhūmāv utpāditaṃ jalam. sapta tārayate pūrvān vitṛṣṇā yatra gaur bhavet. pānīyaṃ paramaṃ loke jīvānāṃ jīvanaṃ smṛtam. pānīyasya pradānena tṛptir bhavati pāṇḍava. pānīyasya guṇā divyāḥ paraloke sukhāvahāḥ. tatra puṣpodakī nāma nadī paramapāvanī. kāmān dadāti rājendra toyadānaṃ yamālaye. śītalaṃ salilaṃ tasyā akṣayyam amṛtopamam. śītatoyapradātṝṇāṃ bhaven nityaṃ sukhāvahā. ye cāpy atoyadātāraḥ pūyas teṣāṃ vidhīyate. praṇaśyaty ambupānena bubhukṣā ca yudhiṣṭhira. tṛṣitasya na cānnena pipāsāpi praṇaśyati. tasmāt toyaṃ sadā deyaṃ tṛṣitebhyo vijānatā. agner mūrtiḥ kṣiter yonir amṛtasya ca saṃbhavaḥ. ato 'mbhaḥ sarvabhūtānāṃ mūlam ity ucyate budhaiḥ. adbhiḥ sarvāṇi bhūtāni jīvanti prabhavanti ca. tasmāt sarveṣu dāneṣu toyadānaṃ viśiṣyate. sarvadānatapoyajñair yat prāpyaṃ phalam uttamam. tat sarvaṃ toyadānena prāpyate nātra saṃśayaḥ. ye prayacchanti viprebhyas tv annadānaṃ susaṃskṛtam. tais tu dattā svayaṃ prāṇā bhavanti bharatarṣabha. annād raktaṃ ca śuklaṃ ca anne jīvaḥ pratiṣṭhitaḥ. indriyāṇi ca buddhiś ca puṣṇanty annena nityaśaḥ. annahīnāni sīdanti sarvabhūtāni pāṇḍava. tejo balaṃ ca vīryaṃ ca sattvaṃ rūpaṃ dyutir dhṛtiḥ. jñānaṃ medhā tathāyuś ca sarvam anne pratiṣṭhitam. devamānavatiryakṣu sarvalokeṣu sarvadā. sarvakālaṃ hi sarveṣām anne prāṇāḥ pratiṣṭhitāḥ. annaṃ prajāpate rūpam annaṃ prajananaṃ smṛtam. sarvabhūtamayaṃ cānnaṃ jīvaś cānnamayaṃ smṛtam. annenādhiṣṭhitaḥ prāṇa apāno vyāna eva ca. udānaś ca samānaś ca dhārayanti śarīriṇām. śayanotthānagamanaṃ grahaṇākarṣaṇāni ca. sarvasattvakṛtaṃ karma cānnād eva pravartate. caturvidhāni bhūtāni jaṅgamāni sthirāṇi ca. annād bhavanti rājendra sṛṣṭir eṣā prajāpateḥ. vidyāsthānāni sarvāṇi sarvayajñāś ca pāvanāḥ. annād yasmāt pravartante tasmād annaṃ paraṃ smṛtam. devā rudrādayaḥ sarve pitaro 'py agnayas tathā. yasmād annena tuṣyanti tasmād annaṃ viśiṣyate. yasmād annāt prajāḥ sarvāḥ kalpe kalpe 'sṛjat prabhuḥ. tasmād annāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati. yasmād annāt pravartante dharmārthau kāma eva ca. tasmād annāt paraṃ dānaṃ nāmutreha ca pāṇḍava. yakṣarakṣograhā nāgā bhūtā daityāś ca dānavāḥ. tuṣyanty annena yasmāt tu tasmād annaṃ paraṃ bhavet. parānnam upabhuñjāno yat karma kurute śubham. tacchubhasyaikabhāgas tu kartur bhavati bhārata. annadasya trayo bhāgā bhavanti puruṣarṣabha. tasmād annaṃ pradātavyaṃ brāhmaṇebhyo viśeṣataḥ. brāhmaṇāya daridrāya yo 'nnaṃ saṃvatsaraṃ nṛpa. śrotriyāya prayacched vai pākabhedavivarjitaḥ. ḍambhānṛtavimuktas tu parāṃ bhaktim upāgataḥ. svadharmeṇārjitaphalaṃ tasya puṇyaphalaṃ śṛṇu. śataṃ varṣasahasrāṇi kāmagaḥ kāmarūpadhṛk. modate 'maralokasthaḥ pūjyamāno 'psarogaṇaiḥ. tataś cāpi cyutaḥ kālān naraloke dvijo bhavet. agrabhikṣāṃ ca yo dadyād daridrāya dvijātaye. ṣaṇmāsād vārṣikaṃ śrāddhaṃ tasya puṇyaphalaṃ śṛṇu. gosahasrapradānena yat puṇyaṃ samudāhṛtam. tat puṇyaphalam āpnoti naro vai nātra saṃśayaḥ. atha saṃvatsaraṃ dadyād agrabhaikṣyam ayācate. pracchādyaiva svayaṃ nītvā tasya puṇyaphalaṃ śṛṇu. kapilānāṃ sahasrais tu yad deyaṃ puṇyam ucyate. tat sarvam akhilaṃ prāpya śakraloke mahīyate. sa śakrabhavane ramye varṣakoṭiśataṃ nṛpa. yathākāmaṃ mahātejāḥ krīḍaty apsarasāṃ gaṇaiḥ. agrānnaṃ yas tu vai dadyād dvijāya niyatavrataḥ. daśavarṣāṇi rājendra tasya puṇyaphalaṃ śṛṇu. kapilāśatasahasrasya vidhidattasya yat phalam. tat puṇyaphalam āsādya puraṃdarapuraṃ vrajet. sa śakrabhavane ramye kāmarūpī yathāsukham. śatakoṭisamā rājan krīḍate 'marapūjitaḥ. śakralokāvatīrṇaś ca iha loke mahādyutiḥ. caturvedī dvijaḥ śrīmāñ jāyate rājapūjitaḥ. adhvaśrāntāya viprāya kṣudhitāyānnakāṅkṣiṇe. deśakālābhiyātāya dīyate pāṇḍunandana. yācate 'nnaṃ na dadyād yo vidyamāne dhanāgame. sa lubdho narakaṃ yāti kṛmīṇāṃ kālasūtrakam. sa tatra narake ghore lobhamohitacetanaḥ. daśavarṣasahasrāṇi kliśyate vedanārditaḥ. tasmāc ca narakān muktaḥ kālena mahatā hi saḥ. daridro mānuṣo loke caṇḍāleṣv api jāyate. yas tu pāṃsulapādaś ca dūrādhvaśramakarśitaḥ. kṣutpipāsāśramaḥ śrānta ārtaḥ khinnagatir dvijaḥ. pṛcchan vai hy annadātāraṃ gṛham abhyetya yācayet. taṃ pūjayet tu yatnena so 'tithiḥ svargasaṃkramaḥ. tasmiṃs tuṣṭe naraśreṣṭha tuṣṭāḥ syuḥ sarvadevatāḥ. na tathā haviṣā homair na puṣpair nānulepanaiḥ. agnayaḥ pārtha tuṣyanti yathā hy atithipūjanāt. kapilāyāṃ tu dattāyāṃ vidhivaj jyeṣṭhapuṣkare. na tat phalam avāpnoti yat phalaṃ viprabhojanāt. dvijapādodakaklinnā yāvat tiṣṭhati medinī. tāvat puṣkaraparṇena pibanti pitaro jalam. devamālyāpanayanaṃ dvijocchiṣṭāpamārjanam. śrāntasaṃvāhanaṃ caiva tathā pādāvasecanam. pratiśrayapradānaṃ ca tathā śayyāsanasya ca. ekaikaṃ pāṇḍavaśreṣṭha gopradānād viśiṣyate. pādodakaṃ pādaghṛtaṃ dīpam annaṃ pratiśrayam. ye prayacchanti viprebhyo nopasarpanti te yamam. viprātithye kṛte rājan bhaktyā śuśrūṣite 'pi ca. devāḥ śuśrūṣitāḥ sarve trayastriṃśad bhavanti te. abhyāgato jñātapūrvo hy ajñāto 'tithir ucyate. tayoḥ pūjāṃ dvijaḥ kuryād iti paurāṇikī śrutiḥ. pādābhyaṅgānnapānais tu yo 'tithiṃ pūjayen naraḥ. pūjitas tena rājendra bhavāmīha na saṃśayaḥ. śīghraṃ pāpād vinirmukto mayā cānugrahīkṛtaḥ. vimānenendukalpena mama lokaṃ sa gacchati. abhyāgataṃ śrāntam anuvrajanti. devāś ca sarve pitaro 'gnayaś ca. tasmin dvije pūjite pūjitāḥ syur. gate nirāśāḥ pitaro vrajanti. atithir yasya bhagnāśo gṛhāt pratinivartate. pitaras tasya nāśnanti daśa varṣāṇi pañca ca. varjitaḥ pitṛbhir lubdhaḥ sa devair agnibhiḥ saha. nirayaṃ rauravaṃ gatvā daśa varṣāṇi pacyate. tataś cāpi cyutaḥ kālād iha cocchiṣṭabhug bhavet. vaiśvadevāntike prāptam atithiṃ yo na pūjayet. sa caṇḍālatvam āpnoti sadya eva na saṃśayaḥ. nirvāsayati yo vipraṃ deśakālāgataṃ gṛhāt. patitas tatkṣaṇād eva jāyate nātra saṃśayaḥ. narake raurave ghore varṣakoṭiṃ sa pacyate. tataś cāpi cyutaḥ kālād iha loke narādhamaḥ. śvā vai dvādaśa janmāni jāyate kṣutpipāsitaḥ. caṇḍālo 'py atithiḥ prāpto deśakāle 'nnakāṅkṣayā. abhyudgamya gṛhasthena pūjanīyaś ca sarvadā. anarcayitvā yo 'śnāti lobhamohavicetanaḥ. sa caṇḍālatvam āpnoti daśa janmāni pāṇḍava. nirāśam atithiṃ kṛtvā bhuñjāno yaḥ prahṛṣṭavān. na jānāty ātmanātmānaṃ viṣṭhākūpe nipātitam. moghaṃ dhruvaṃ prorṇayati mogham asya tu pacyate. mogham annaṃ sadāśnāti yo 'tithiṃ na ca pūjayet. sāṅgopāṅgāṃs tu yo vedān paṭhatīha dine dine. na cātithiṃ pūjayati vṛthā bhavati sa dvijaḥ. pākayajñamahāyajñaiḥ somasaṃsthābhir eva ca. ye yajanti na cārcanti gṛheṣv atithim āgatam. teṣāṃ yaśobhikāmānāṃ dattam iṣṭaṃ ca yad bhavet. vṛthā bhavati tat sarvam āśayā hi tayā hatam. deśakālaṃ ca pātraṃ ca svaśaktiṃ ca nirīkṣya ca. alpaṃ samaṃ mahad vāpi kuryād ātithyam ātmavān. sumukhaḥ suprasannātmā dhīmān atithim āgatam. svāgatenāsanenādbhir annādyena ca pūjayet. hitaḥ priyo vā dveṣyo vā mūrkhaḥ paṇḍita eva vā. prāpto yo vaiśvadevānte so 'tithiḥ svargasaṃkramaḥ. kṣutpipāsāśramārtāya deśakālāgatāya ca. satkṛtyānnaṃ pradātavyaṃ yajñasya phalam icchatā. bhojayed ātmanaḥ śreṣṭhān vidhivad dhavyakavyayoḥ. annaṃ prāṇo manuṣyāṇām annadaḥ prāṇado bhavet. tasmād annaṃ viśeṣeṇa dātavyaṃ bhūtim icchatā. annadaḥ sarvakāmais tu sutṛptaḥ suṣṭhv alaṃkṛtaḥ. pūrṇacandraprakāśena vimānena virājatā. sevyamāno varastrībhir mama lokaṃ sa gacchati. krīḍitvā tu tatas tasmin varṣakoṭiṃ yathāmaraḥ. tataś cāpi cyutaḥ kālād iha loke mahāyaśāḥ. vedaśāstrārthatattvajño bhogavān brāhmaṇo bhavet. yathāśraddhaṃ tu yaḥ kuryān manuṣyeṣu prajāyate. mahādhanapatiḥ śrīmān vedavedāṅgapāragaḥ. sarvaśāstrārthatattvajño bhogavān brāhmaṇo bhavet. sarvātithyaṃ tu yaḥ kuryād varṣam ekam akalmaṣaḥ. dharmārjitadhano bhūtvā pāpabhedavivarjitaḥ. devān iva svayaṃ viprān arcayitvā pitṝn api. viprānagrāśanāśī yas tasya puṇyaphalaṃ śṛṇu. varṣeṇaikena yāvanti piṇḍān aśnanti vai dvijāḥ. tāvad varṣāṇi rājendra mama loke mahīyate. tataś cāpi cyutaḥ kālād iha loke mahāyaśāḥ. vedaśāstrārthatattvajño bhogavān brāhmaṇo bhavet. sarvātithyaṃ ca yaḥ kuryād yathāśraddhaṃ nareśvara. akālaniyamenāpi satyavādī jitendriyaḥ. satyasaṃdho jitakrodhaḥ śākhādharmavivarjitaḥ. adharmabhīrur dharmiṣṭho māyāmātsaryavarjitaḥ. śraddadhānaḥ śucir nityaṃ pākabhedavivarjitaḥ. sa vimānena divyena divyarūpī mahāyaśāḥ. puraṃdarapuraṃ yāti gīyamāno 'psarogaṇaiḥ. manvantaraṃ tu tatraiva krīḍitvā devapūjitaḥ. mānuṣyalokam āgamya bhogavān brāhmaṇo bhavet. daśa janmāni vipratvam āpnuyād rājapūjitaḥ. bhagavān uvāca. jātismaraś ca bhavati yatra tatropajāyate. ataḥ paraṃ pravakṣyāmi bhūmidānam anuttamam. yaḥ prayacchati viprāya bhūmiṃ ramyāṃ sadakṣiṇām. śrotriyāya daridrāya sāgnihotrāya pāṇḍava. sa sarvakāmatṛptātmā sarvaratnavibhūṣitaḥ. sarvapāpavinirmukto dīpyamāno 'rkavat sadā. bālasūryaprakāśena vicitradhvajaśobhinā. yāti yānena divyena mama lokaṃ mahāyaśāḥ. tatra divyāṅganābhis tu sevyamāno yathāsukham. kāmagaḥ kāmarūpī ca krīḍaty apsarasāṃ gaṇaiḥ. yāvad bibharti lokān vai bhūmiḥ kurukulodvaha. tāvad bhūmipradaḥ kāmaṃ mama loke mahīyate. na hi bhūmipradānād vai dānam anyad viśiṣyate. na cāpi bhūmiharaṇāt pāpam anyad viśiṣyate. dānāny anyāni hīyante kālena kurupuṃgava. bhūmidānasya puṇyasya kṣayo naivopapadyate. brāhmaṇāya daridrāya bhūmiṃ dattāṃ tu yo naraḥ. na hiṃsati naravyāghra tasya puṇyaphalaṃ śṛṇu. saptadvīpasamudrāntā ratnadhānyasamākulā. sa śailavanadurgāḍhyā tena dattā mahī bhavet. bhūmiṃ dṛṣṭvā dīyamānāṃ śrotriyāyāgnihotriṇe. sarvabhūtāni manyante māṃ dadātīti harṣavat. suvarṇamaṇiratnāni dhanadhānyavasūni ca. sarvadānāni vai rājan dadāti vasudhāṃ dadan. sāgarān saritaḥ śailān samāni viṣamāṇi ca. sarvagandharasāṃś caiva dadāti vasudhāṃ dadan. oṣadhīḥ phalasaṃpannā nānāpuṣpaphalānvitāḥ. kamalotpalaṣaṇḍāṃś ca dadāti vasudhāṃ dadan. dharmaṃ kāmaṃ tathārthaṃ ca vedān yajñāṃs tathaiva ca. svargamārgagatiṃ caiva dadāti vasudhāṃ dadan. agniṣṭomādibhir yajñair ye yajante sadakṣiṇaiḥ. na tat phalaṃ labhante te bhūmidānasya yat phalam. śrotriyāya mahīṃ dattvā yo na hiṃsati pāṇḍava. tad dānaṃ kathayiṣyanti yāval lokāḥ pratiṣṭhitāḥ. tāvat svargopabhogānāṃ bhoktāraḥ pāṇḍunandana. sasyapūrṇāṃ mahīṃ yas tu śrotriyāya prayacchati. pitaras tasya tṛpyanti yāvad ābhūtasaṃplavam. mama rudrasya savitus tridaśānāṃ tathaiva ca. prītaye viddhi rājendra bhūmir dattā dvijāya vai. tena puṇyena pūtātmā dātā bhūmer yudhiṣṭhira. mama sālokyam āyāti nātra kāryā vicāraṇā. yat kiṃ cit kurute pāpaṃ puruṣo vṛttikarśitaḥ. sa ca gokarṇamātreṇa bhūmidānena śudhyati. māsopavāse yat puṇyaṃ kṛcchre cāndrāyaṇe 'pi ca. bhūmigokarṇamātreṇa tat puṇyaṃ tu vidhīyate. sarvatīrthābhiṣeke ca yat puṇyaṃ samudāhṛtam. yudhiṣṭhira uvāca. bhūmigokarṇamātreṇa tat puṇyaṃ tu vidhīyate. devadeva namas te 'stu vāsudeva sureśvara. bhagavān uvāca. gokarṇasya pramāṇaṃ vai vaktum arhasi tattvataḥ. śṛṇu gokarṇamātrasya pramāṇaṃ pāṇḍunandana. triṃśaddaṇḍapramāṇena pramitaṃ sarvatodiśam. pratyak prāg api rājendra tat tathā dakṣiṇottaram. gokarṇaṃ tadvidaḥ prāhuḥ pramāṇaṃ dharaṇer nṛpa. savṛṣaṃ gośataṃ yatra sukhaṃ tiṣṭhaty ayantritam. savatsaṃ kuruśārdūla tac ca gokarṇam ucyate. kiṃkarā mṛtyudaṇḍāś ca kumbhīpākāś ca dāruṇāḥ. ghorāś ca vāruṇāḥ pāśā nopasarpanti bhūmidam. nirayā rauravādyāś ca tathā vaitaraṇī nadī. tīvrāś ca yātanāḥ kaṣṭā nopasarpanti bhūmidam. citraguptaḥ kaliḥ kālaḥ kṛtānto mṛtyur eva ca. yamaś ca bhagavān sākṣāt pūjayanti mahīpradam. rudraḥ prajāpatiḥ śakraḥ surā ṛṣigaṇās tathā. ahaṃ ca prītimān rājan pūjayāmo mahīpradam. kṛśabhṛtyasya kṛśagoḥ kṛśāśvasya kṛśātitheḥ. bhūmir deyā naraśreṣṭha sa nidhiḥ pāralaukikaḥ. sīdamānakuṭumbāya śrotriyāyāgnihotriṇe. vratasthāya daridrāya bhūmir deyā narādhipa. yathā hi dhātrī kṣīreṇa putraṃ vardhayati svayam. dātāram anugṛhṇāti dattā hy evaṃ vasuṃdharā. yathā bibharti gaur vatsaṃ sṛjantī kṣīram ātmanaḥ. tathā sarvaguṇopetā bhūmir vahati bhūmidam. yathā bījāni rohanti jalasiktāni bhūpate. tathā kāmāḥ prarohanti bhūmidasya dine dine. yathodayas tu sūryasya tamaḥ sarvaṃ vyapohati. tathā pāpaṃ narasyeha bhūmidānaṃ vyapohati. dātā daśānugṛhṇāti yo hared daśa hanti ca. atītānāgatānīha kulāni kurupuṃgava. āśrutya bhūmidānaṃ tu dattvā yo vā haret punaḥ. sa baddho vāruṇaiḥ pāśaiḥ kṣipyate pūyaśoṇite. svadattāṃ paradattāṃ vā yo hareta vasuṃdharām. na tasya narakād ghorād vidyate niṣkṛtiḥ kva cit. brāhmaṇasya hate kṣetre hanyād dvādaśa pūrvajān. sa gacchet kṛmiyoniṃ ca na ca mucyeta jātu saḥ. dattvā bhūmiṃ dvijendrāya yas tām evopajīvati. gavāṃ śatasahasrasya hantuḥ sa labhate phalam. so 'dhaḥśirās tu pāpātmā kumbhīpākeṣu pacyate. divyair varṣasahasrais tu kumbhīpākād viniḥsṛtaḥ. iha loke bhavet sa śvā śatajanmāni pāṇḍava. dattvā bhūmiṃ dvijendrāṇāṃ yas tām evopajīvati. sa mūḍho yāti duṣṭātmā narakān ekaviṃśatim. narakebhyo vinirmuktaḥ śunāṃ yoniṃ sa gacchati. halakṛṣṭā mahī deyā sabījā sasyamālinī. atha vā sodakā deyā daridrāya dvijātaye. evaṃ dattā mahī rājan prahṛṣṭenāntarātmanā. sarvān kāmān avāpnoti manasā cintitāni ca. bahubhir vasudhā dattā dīyate ca narādhipaiḥ. yasya yasya yadā bhūmis tasya tasya tadā phalam. yaḥ prayacchati kanyāṃ vai surūpāṃ śrotriyāya vai. sa brahmadevo rājendra tasya puṇyaphalaṃ śṛṇu. balīvardasahasrāṇāṃ dattānāṃ dhuryavāhinām. yat phalaṃ labhate rājan kanyādānena tat phalam. gavāṃ śatasahasrasya samyag dattasya yat phalam. tat phalaṃ samavāpnoti yaḥ prayacchati kanyakām. yāvanti caiva romāṇi kanyāyāḥ kurupuṃgava. tāvad varṣasahasrāṇi mama loke mahīyate. tataś cāpi cyutaḥ kālād iha loke sa jāyate. ṣaḍaṅgavic caturvedī sarvalokārcito dvijaḥ. yaḥ suvarṇaṃ daridrāya brāhmaṇāya prayacchati. śrotriyāya daridrāya bahuputrāya pāṇḍava. vimuktaḥ sarvapāpebhyo bālasūryasamaprabhaḥ. vimānaṃ divyam ārūḍhaḥ kāmagaḥ kāmabhogavān. varṣakoṭiṃ mahātejā mama loke pramodate. tataḥ kālāvatīrṇaś ca sosmiṃl loke hi jāyate. vedavedāṅgavid vipraḥ koṭīdhanapatir bhavet. yaś ca rūpyaṃ prayacched vai daridrāya dvijāya vai. kṛśavṛtte kṛśagave sa muktaḥ sarvakilbiṣaiḥ. pūrṇacandraprakāśena vimānena virājatā. kāmarūpī yathā kāmaṃ svargaloke mahīyate. tato 'vatīrṇaḥ kālena loke cāsmin mahāyaśāḥ. sarvalokārcitaḥ śrīmān rājā bhavati vīryavān. tilaparvatakaṃ yas tu śrotriyāya prayacchati. viśeṣeṇa daridrāya tasyāpi śṛṇu yat phalam. puṇyaṃ vṛṣāyutotsarge yat proktaṃ pāṇḍunandana. tat puṇyaṃ samanuprāpya tatkṣaṇād virajo bhavet. yathā tvaco bhujaṅgo vai tyaktvā śuddhatanur bhavet. tathā tilapradānād vai pāpaṃ tyaktvā viśudhyati. tilaṣaṇḍaṃ prayuñjāno jāmbūnadavibhūṣitam. vimānaṃ divyam ārūḍhaḥ pitṛloke mahīyate. ṣaṣṭivarṣasahasrāṇi kāmarūpī mahāyaśāḥ. tilapradātā ramate pitṛloke yathāsukham. yaḥ prayacchati viprāya tiladhenuṃ narādhipa. śrotriyāya daridrāya śṛṇu tasyāpi yat phalam. gosahasrapradānena yat puṇyaṃ samudāhṛtam. tat puṇyaphalam āpnoti tiladhenuprado naraḥ. tilānāṃ kuḍavair yas tu tiladhenuṃ prayacchati. tāvat koṭisamā rājan svargaloke mahīyate. aṣṭāḍhakatilaiḥ kṛtvā tiladhenuṃ narādhipa. dvātriṃśan niṣkasaṃyuktaṃ viṣuve yaḥ prayacchati. madbhaktyā madgatātmā vai tasya puṇyaphalaṃ śṛṇu. kanyādānasahasrasya vidhidattasya yat phalam. tat puṇyaṃ samanuprāpto mama loke mahīyate. mama lokāvatīrṇaś ca so 'smiṃl loke 'bhijāyate. ṛgyajuḥsāmavedānāṃ pārago brāhmaṇarṣabhaḥ. gāṃ tu yas tu daridrāya śrotriyāya prayacchati. prasannāṃ kṣīriṇīṃ puṇyāṃ savatsāṃ kāṃsyadohinīm. yat kiṃ cid duṣkṛtaṃ karma tasya pūrvakṛtaṃ nṛpa. tat sarvaṃ tatkṣaṇād eva vinaśyati na saṃśayaḥ. yānaṃ ca vṛṣasaṃyuktaṃ dīpyamānaṃ svalaṃkṛtam. ārūḍhaḥ kāmagaṃ divyaṃ golokam adhigacchati. yāvanti caiva romāṇi tasyā gos tu narādhipa. tāvad varṣasahasrāṇi gavāṃ loke mahīyate. golokād avatīrṇas tu loke 'smin brāhmaṇo bhavet. satrayājī vadānyaś ca sarvarājabhir arcitaḥ. tilaṃ gāvaḥ suvarṇaṃ cāpy annaṃ kanyā vasuṃdharā. tārayantīha dattāni brāhmaṇebhyo mahābhuja. brāhmaṇaṃ vṛttasaṃpannam āhitāgnim alolupam. tarpayed vidhivad rājan sa nidhiḥ pāralaukikaḥ. āhitāgniṃ daridraṃ ca śrotriyaṃ ca jitendriyam. śūdrānnavarjitaṃ caiva dvijaṃ yatnena pūjayet. āhitāgniḥ sadā pātram agnihotraś ca vedavit. pātrāṇām api tat pātraṃ śūdrānnaṃ yasya nodare. yac ca vedamayaṃ pātraṃ yac ca pātraṃ tapomayam. asaṃkīrṇaṃ ca yat pātraṃ tat pātraṃ tārayiṣyati. nityaṃ svādhyāyaniratās tv aprakīrṇendriyāś ca ye. pañcayajñaratā nityaṃ pūjitās tārayanti te. ye kṣāntidāntāḥ śrutipūrṇakarṇā. jitendriyā prāṇivadhe nivṛttāḥ. pratigrahe saṃkucitā gṛhasthās. te brāhmaṇās tārayituṃ samarthāḥ. nityodakī nityayajñopavītī. nityasvādhyāyī vṛṣalānnavarjī. ṛtau gacchan vidhivac cāpi juhvan. sa brāhmaṇas tārayituṃ samarthaḥ. brāhmaṇo yas tu madbhakto madyājī matparāyaṇaḥ. mayi saṃnyastakarmā ca sa vipras tārayed dhruvam. dvādaśākṣaratattvajñaś caturvyūhavibhāgavit. vaiśaṃpāyana uvāca. acchidrapañcakālajñaḥ sa vipras tārayiṣyati. vāsudevena dāneṣu kathiteṣu yathākramam. avitṛptas tu dharmeṣu keśavaṃ punar abravīt. deva dharmāmṛtam idaṃ śṛṇvato 'pi paraṃtapa. na vidyate suraśreṣṭha mama tṛptir hi mādhava. anaḍutsaṃpradānasya yat phalaṃ tu vidhīyate. tat phalaṃ kathayasveha tava bhaktasya me 'cyuta. yāni cānyāni dānāni tvayā noktāni kāni cit. tāny ācakṣva suraśreṣṭha teṣāṃ cānukramāt phalam. bhagavān uvāca. pavitratvāt supuṇyatvāt pāvanatvāt tathaiva ca. śṛṇu dharmāmṛtaṃ śreṣṭhaṃ dattasyānaḍuhaḥ phalam. daśadhenusamo 'naḍvān eko 'pi kurupuṃgava. medomāṃsavipuṣṭāṅgo nīrogaḥ kopavarjitaḥ. yuvā bhadraḥ suśīlaś ca sarvadoṣavivarjitaḥ. dhuraṃ dhārayate kṣipraṃ datto viprāya pāṇḍava. sa tena puṇyadānena varṣakoṭiṃ yudhiṣṭhira. yathākāmaṃ mahātejā gavāṃ loke mahīyate. yaś ca dadyād anaḍuhau dvau yuktau ca dhuraṃdharau. suvṛttāya daridrāya śrotriyāya viśeṣataḥ. tasya yat puṇyam ākhyātaṃ tac chṛṇuṣva yudhiṣṭhira. sahasragopradānena yat proktaṃ phalam uttamam. tat puṇyaphalam āpnoti yāti lokān sa māmakān. yāvanti caiva romāṇi tayor anaḍuhor nṛpa. tāvad varṣasahasrāṇi mama loke mahīyate. daridrāyaiva dātavyaṃ na samṛddhāya pāṇḍava. varṣāṇāṃ hi taṭākeṣu phalaṃ naiva payodhiṣu. yas tu dadyād anaḍuhaṃ daridrāya dvijātaye. sa tena puṇyadānena pūtātmā kurupuṃgava. vimānaṃ divyam ārūḍho divyarūpī yathāsukham. mama lokeṣu ramate yāvad ābhūtasaṃplavam. gṛhaṃ dīpaprabhāyuktaṃ śayyāsanavibhūṣitam. bhājanopaskarair yuktaṃ dhānyapūrṇam alaṃkṛtam. dāsīgobhūmisaṃyuktaṃ saphalaṃ sarvasādhanaiḥ. brāhmaṇāya daridrāya śrotriyāya yudhiṣṭhira. dadyāt sadakṣiṇaṃ yas tu tasya puṇyaphalaṃ śṛṇu. devāḥ pitṛgaṇāś caiva agnayo ṛṣayas tathā. prayacchanti prahṛṣṭā vai yānam ādityasaṃnibham. tena gacchec chriyā yukto brahmalokam anuttamam. strīsahasrāvṛte divye bhavane tatra kāñcane. modate brahmalokastho yāvad ābhūtasaṃplavam. śayyāṃ prastaraṇopetāṃ yaḥ prayacchati pāṇḍava. arcayitvā dvijaṃ bhaktyā vastramālyānulepanaiḥ. bhojayitvā vicitrānnaṃ tasya puṇyaphalaṃ śṛṇu. dhenudānasya yat puṇyaṃ vidhidattasya pāṇḍava. tat puṇyaṃ tam anuprāpya pitṛloke mahīyate. śilpam adhyayanaṃ vāpi vidyāmantrauṣadhāni ca. yaḥ prayacchati viprāya tasya puṇyaphalaṃ śṛṇu. āhitāgnisahasrasya pūjitasyaiva yat phalam. tat puṇyaphalam āpnoti yas tu vidyāṃ prayacchati. chandobhiḥ saṃprayuktena vimānena virājatā. saptarṣilokān vrajati pūjyate brahmavādibhiḥ. caturyugāni vai triṃśat krīḍitvā tatra devavat. iha mānuṣyake loke vipro bhavati vedavit. viśrāmayati yo vipraṃ śrāntam adhvani karśitam. vinaśyati tadā pāpaṃ tasya varṣakṛtaṃ nṛpa. atha prakṣālayet pādau tasya toyena bhaktimān. daśavarṣakṛtaṃ pāpaṃ vyapohati na saṃśayaḥ. ghṛtena vātha tailena pādau tasya tu pūjayet. tad dvādaśasamārūḍhaṃ pāpam āśu vyapohati. dhenukāñcanadattasya yac ca puṇyam udāhṛtam. tat puṇyaphalam āpnoti yas tv evaṃ vipram arcayet. svāgatena ca yo vipraṃ pūjayed āsanena ca. pratyutthānena vā rājan sa devānāṃ priyo bhavet. svāgatenāgnayo rājann āsanena śatakratuḥ. pratyutthānena pitaraḥ prītiṃ yānty atithipriyāḥ. agniśakrapitṝṇāṃ ca teṣāṃ prītyā narādhipa. saṃvatsarakṛtaṃ pāpaṃ tasya sadyo vinaśyati. yaḥ prayacchati viprāya āsanaṃ mālyabhūṣitam. sa yāti maṇicitreṇa rathenendraniketanam. puraṃdarapure tatra divyanārīvibhūṣitaḥ. ṣaṣṭiṃ varṣasahasrāṇi krīḍaty apsarasāṃ gaṇaiḥ. vāhanaṃ yaḥ prayaccheta brāhmaṇāya yudhiṣṭhira. sa yāti ratnacitreṇa vāhanena surālayam. sa tatra kāmaṃ krīḍitvā sevyamāno 'psarogaṇaiḥ. iha rājā bhaved rājan nātra kāryā vicāraṇā. pādapaṃ pallavākīrṇaṃ puṣpitaṃ phalitaṃ tathā. gandhamālyair athābhyarcya vastrābharaṇabhūṣitam. yaḥ prayacchati viprāya śrotriyāya sadakṣiṇam. bhojayitvā yathākāmaṃ tasya puṇyaphalaṃ śṛṇu. jāmbūnadavicitreṇa vimānena virājatā. puraṃdarapuraṃ yāti jayaśabdaravair yutaḥ. tataḥ śakrapure ramye tasya kalpakapādapaḥ. dadāti cepsitaṃ sarvaṃ manasā yad yad icchati. yāvanti tasya patrāṇi puṣpāṇi ca phalāni ca. tāvad varṣasahasrāṇi svargaloke mahīyate. śakralokāvatīrṇaś ca mānuṣyaṃ lokam āgataḥ. rathāśvagajasaṃpūrṇaṃ puraṃ rājyaṃ ca rakṣati. sthāpayitvā tu madbhaktyā yo matpratikṛtiṃ naraḥ. ālayaṃ vidhivat kṛtvā pūjākarma ca kārayet. svayaṃ vā pūjayed bhaktyā tasya puṇyaphalaṃ śṛṇu. aśvamedhasahasrasya yat puṇyaṃ samudāhṛtam. tat phalaṃ samavāpnoti matsālokyaṃ prapadyate. na jāne nirgamaṃ tasya mama lokād yudhiṣṭhira. devālaye vipragṛhe govāṭe catvare 'pi vā. prajvālayati yo dīpaṃ tasya puṇyaphalaṃ śṛṇu. āruhya kāñcanaṃ yānaṃ dyotayan sarvatodiśam. gacched ādityalokaṃ sa sevyamānaḥ surottamaiḥ. tatra prakāmaṃ krīḍitvā varṣakoṭiṃ mahātapāḥ. iha loke bhaved vipro vedavedāṅgapāragaḥ. devālayeṣu vā rājan brāhmaṇāvasatheṣu vā. catvare vā catuṣke vā rātrau vā yadi vā divā. nānāgandharvavādyāni dharmaśrāvaṇikāni ca. yas tu kārayate bhaktyā madgatenāntarātmanā. tasya devā naraśreṣṭha pitaraś cāpi harṣitāḥ. suprītāḥ saṃprayacchanti vimānaṃ kāmagaṃ śubham. sa ca tena vimānena yāti devapuraṃ naraḥ. tatra divyāpsarobhis tu sevyamānaḥ pramodate. devalokāvatīrṇas tu so 'smiṃl loke narādhipa. vedavedāṅgatattvajño bhogavān brāhmaṇo bhavet. catvare vā sabhāyāṃ vā vistīrṇe vā sabhāṅgaṇe. kṛtvāgnikuṇḍaṃ vipulaṃ sthaṇḍilaṃ vā yudhiṣṭhira. tatrāgniṃ caturo māsāñ jvalayed yas tu bhaktimān. samāpteṣu ca māseṣu pauṣyādiṣu tato dvijān. bhojayet pāyasaṃ mṛṣṭaṃ madgatenāntarātmanā. dakṣiṇāṃ ca yathāśakti brāhmaṇebhyo nivedayet. evam agniṃ tu yaḥ kuryān nityam evārcayaṃs tu mām. tasya puṇyaphalaṃ yad vai tan nibodha yudhiṣṭhira. tenāhaṃ śaṃkaraś caiva pitaro hy agnayas tathā. yāsyāmaḥ paramāṃ prītiṃ nātra kāryā vicāraṇā. ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca. so 'smat prītikaraḥ śrīmān mama loke mahīyate. mama lokāvatīrṇaś ca so 'smiṃl loke mahāyaśāḥ. vedavedāṅgavid vipro jāyate rājapūjitaḥ. yaḥ karoti naraśreṣṭha bharaṇaṃ brāhmaṇasya tu. śrotriyasyābhijātasya daridrasya viśeṣataḥ. tasya puṇyaphalaṃ yad vai tan nibodha yudhiṣṭhira. gavāṃ koṭipradānena yat puṇyaṃ samudāhṛtam. tatpuṇyaphalam āpnoti varṣeṇaikena pāṇḍava. kāñcanena vicitreṇa yānenāmbaraśobhinā. sa yāti māmakaṃ lokaṃ divyastrīgaṇasevitaḥ. gīyamāno varastrībhir varṣāṇāṃ koṭiviṃśatim. krīḍitvā māmake loke tatra devair abhiṣṭutaḥ. mānuṣyam avatīrṇas tu vedavid brāhmaṇo bhavet. karakaṃ kuṇḍikāṃ vāpi mahad vā jalabhājanam. yaḥ prayacchati viprāya tasya puṇyaphalaṃ śṛṇu. brahmakūrcena yat pīte phalaṃ proktaṃ yathāvidhi. tat puṇyaphalam āpnoti jalabhājanado naraḥ. sutṛptaḥ suprabhaḥ saumyaḥ prahṛṣṭendriyamānasaḥ. haṃsasārasayuktena vimānena virājatā. sa yāti vāruṇaṃ lokaṃ divyagandharvasevitaḥ. pānīyaṃ yaḥ prayacched vai jīvānāṃ jīvanaṃ param. grīṣmakeṣu ca māseṣu tasya puṇyaphalaṃ śṛṇu. kapilākoṭidānasya yat puṇyaṃ tu vidhīyate. tatpuṇyaphalam āpnoti pānīyaṃ yaḥ prayacchati. pūrṇacandraprakāśena vimānena virājatā. sa gacchec cendrasadanaṃ sevyamāno 'psarogaṇaiḥ. triṃśatkoṭiyugaṃ tatra divyagandharvasevitaḥ. krīḍitvā mānuṣe loke caturvedī dvijo bhavet. śiro 'bhyaṅgapradānena tejasvī priyadarśanaḥ. subhago rūpavāñ śūraḥ paṇḍitaś ca bhaved dvijaḥ. vastradāyī tu tejasvī sarvatra priyadarśanaḥ. sukhabhogapatiḥ śrīmān strīṇāṃ nityaṃ manoramaḥ. upānahau ca chattraṃ ca yo dadāti narottamaḥ. sa yāti naramukhyena kāñcanena virājatā. śakralokaṃ mahātejāḥ sevyamāno 'psarogaṇaiḥ. kāṣṭhapādukado yāti vimānair vṛṣanirmitaiḥ. dharmarājapuraṃ ramyaṃ sevyamāno 'psarottamaiḥ. dantakāṣṭhapradānena priyavākyo bhaven naraḥ. sugandhavadanaḥ śrīmān medhāsaubhāgyasaṃyutaḥ. kṣīraṃ dadhi ghṛtaṃ vāpi guḍaṃ madhurasaṃ tathā. ye prayacchanti viprebhyaḥ parāṃ bhaktiṃ gatā narāḥ. te vṛṣair aśvayānaiś ca śvetasragdāmabhūṣitāḥ. upagīyamānā gandharvair yāntīśvarapuraṃ narāḥ. tatra divyāpsarobhis tu sevyamānā yathāsukham. ṣaṣṭiṃ varṣasahasrāṇi modante devasaṃnibhāḥ. tataḥ kālāvatīrṇāś ca jāyante tv iha mānavāḥ. prabhūtadhanadhānyāś ca bhogavanto narottamāḥ. vaiśākhe māsi vaiśākhe divase pāṇḍunandana. vaivasvataṃ samuddiśya parāṃ bhaktim upāgatāḥ. abhyarcya vidhivad viprāṃs tilān guḍasamāyutān. ye prayacchanti viprebhyas teṣāṃ puṇyaphalaṃ śṛṇu. gopradānena yat puṇyaṃ vidhivat pāṇḍunandana. tat puṇyaṃ samanuprāpto yamaloke mahīyate. tataś cāpi cyutaḥ kālād iha rājā bhaviṣyati. tasminn eva dine viprān bhojayitvā sadakṣiṇam. toyapūrṇāni divyāni bhājanāni diśanti ye. te yānty ādityavarṇābhair vimānair varuṇālayam. tatra divyāṅganābhis tu ramante kāmakāminaḥ. tato 'vatīrṇāḥ kālena te cāsmin mānuṣe punaḥ. bhogavanto dvijaśreṣṭhā bhaviṣyanti na saṃśayaḥ. anantarāśī yaś cāpi vartate vratavat sadā. satyavāk krodharahitaḥ śuciḥ snānarataḥ sadā. sa vimānena divyena yāti śakrapuraṃ naraḥ. tatra divyāpsarobhis tu varṣakoṭiṃ mahātapāḥ. krīḍitvā mānuṣe loke jāyate vedavid dvijaḥ. ekabhuktena yaś cāpi varṣam ekaṃ tu vartate. brahmacārī jitakrodhaḥ satyaśaucasamanvitaḥ. sa vimānena divyena yāti śakrapuraṃ naraḥ. daśakoṭisahasrāṇi krīḍitvāpsarasāṃ gaṇaiḥ. iha mānuṣyake loke brāhmaṇo vedavid bhavet. caturthakālaṃ yo bhuṅkte brahmacārī jitendriyaḥ. vartate caikavarṣaṃ tu tasya puṇyaphalaṃ śṛṇu. citrabarhiṇayuktena vicitradhvajaśobhinā. yāti yānena divyena sa mahendrapuraṃ naraḥ. akṛśābhir varastrībhiḥ sevyamāno yathāsukham. tato dvādaśakoṭiṃ sa samāḥ samyak pramodate. śakralokāvatīrṇaś ca loke cāsmin narādhipa. bhaved vai brāhmaṇo vidvān kṣamāvān vedapāragaḥ. ṣaṣṭhakāle tu yo 'śnāti varṣam ekam akalmaṣaḥ. brahmacaryavratair yuktaḥ śuciḥ krodhavivarjitaḥ. tapoyuktasya tasyātha śṛṇuṣva phalam uttamam. atyādityaprakāśena vimānenārkasaṃnibhaḥ. sa yāti mama lokān vai divyanārīniṣevitaḥ. tatra sādhyair marudbhiś ca pūjyamāno yathāsukham. paśyann eva sadā māṃ tu krīḍaty apsarasāṃ gaṇaiḥ. pakṣopavāsaṃ yaś cāpi kurute madgatātmanā. samāpte tu vrate tasmiṃs tarpayec chrotriyān dvijān. so 'pi gacchati divyena vimānena mahātapāḥ. dyotayan prabhayā vyoma mama lokaṃ prapadyate. sa tatra modate kāmaṃ kāmarūpī yathāsukham. triṃśatkoṭisamā rājan krīḍitvā tatra devavat. iha mānuṣyake loke pūjanīyo dvijo bhavet. trayāṇām api vedānāṃ sāṅgānāṃ pārago bhavet. yaś ca māsopavāsaṃ vai kurute madgatātmanā. jitendriyo jitakrodho jitadhīḥ snānatatparaḥ. samāpte niyame tatra bhojayitvā dvijottamān. dakṣiṇāṃ ca tato dadyāt prahṛṣṭenāntarātmanā. sa gacchati mahātejā brahmalokam anuttamam. siṃhayuktena yānena divyastrīgaṇasevitaḥ. sa tatra brahmaṇo loke divyarṣigaṇasevitaḥ. śatakoṭisamā rājan yathākāmaṃ pramodate. tataḥ kālāvatīrṇaś ca so 'smiṃl loke dvijo bhavet. ṣaḍaṅgavic caturvedī triṃśaj janmāny arogavān. yas tyaktvā sarvakarmāṇi śuciḥ krodhavivarjitaḥ. mahāprasthānam ekāgro yāti madgatamānasaḥ. sa gacched indrasadanaṃ vimānena mahātapāḥ. mahāmaṇivicitreṇa sauvarṇena virājatā. śatakoṭisamās tatra surādhipatipūjitaḥ. nākapṛṣṭhe nivasati divyastrīgaṇasevitaḥ. śakralokāvatīrṇaś ca mānuṣeṣūpajāyate. rājñāṃ rājā mahātejāḥ sarvalokārcitaḥ prabhuḥ. prāyopaveśaṃ yaś cāpi kurute madgatātmanā. namo brahmaṇyadevāyety uktvā mantraṃ samāhitaḥ. antaḥsvastho jitakrodhas tasya puṇyaphalaṃ śṛṇu. kāmagaḥ kāmarūpī ca bālasūryasamaprabhaḥ. sa vimānena divyena yāti lokān anāmayān. svargāt svargaṃ mahātejā gatvā caiva yathāsukham. mama lokeṣu ramate yāvad ābhūtasaṃplavam. agnipraveśaṃ yaś cāpi kurute madgatātmanā. so 'pi yānena divyena mama lokaṃ prapadyate. tataḥ sarvaguṇopetaḥ paśyann api sa māṃ sadā. triṃśatkoṭisamā rājan modate mama saṃnidhau. tato 'vatīrṇaḥ kālena vedavid brāhmaṇo bhavet. karṣaṇaṃ sādhayan yas tu māṃ prasannaḥ śucivrataḥ. namo brahmaṇyadevāyety etaṃ mantram udāharan. bālasūryaprakāśena vimānena virājatā. mama lokaṃ samāsādya ṣaṭkoṭiṃ tu pramodate. mama lokāvatīrṇaś ca so 'smiṃl loke nṛpo bhavet. niveśayati manmūrtyā ātmānaṃ madgataḥ śuciḥ. rudradakṣiṇamūrtyāṃ vā caturdaśyāṃ viśeṣataḥ. siddhair brahmarṣibhiś caiva devalokaiś ca pūjitaḥ. gandharvair bhūtasaṃghaiś ca gīyamāno mahātapāḥ. praviśet sa mahātejā māṃ vā śaṃkaram eva vā. tasyāpunarbhavaṃ (sic) rājan nātra kāryā vicāraṇā. gokṛte strīkṛte caiva guruviprakṛte 'pi vā. hanyante ye tu rājendra śakralokaṃ vrajanti te. tatra jāmbūnadamaye vimāne kāmagāmini. manvantaraṃ pramodante divyanārīniṣevitāḥ. āśrutasyāpradānena dattasya haraṇena ca. janmaprabhṛti yad dattaṃ sarvaṃ naśyati bhārata. nāgopradās tatra payaḥ pibanti. nābhūmidā bhūmim athāśnuvanti. yān yān kāmān brāhmaṇebhyo dadāti. tāṃs tān kāmān svargaloke ca bhuṅkte. yad yad iṣṭatamaṃ dravyaṃ nyāyenopārjitaṃ ca yat. tat tad guṇavate deyaṃ tad evākṣayam icchatā. anupoṣya trirātrāṇi tīrthāny anabhigamya ca. adattvā kāñcanaṃ gāṃ ca daridro nāma jāyate. dānaṃ yat tat phalaṃ naiti śrotriyāya na dīyate. śrotriyā yatra nāśnanti na devās tatra bhuñjate. śrotriyebhyaḥ paraṃ nāsti paramaṃ daivataṃ mahat. nidhānaṃ cāpi rājendra tasmāc chrotriyabhojanāt. yudhiṣṭhira uvāca. viprayoge śarīrasya sendriyasya viśeṣataḥ. bhagavān uvāca. antarā vartamānasya gatiḥ prāṇasya kīdṛśī. śubhāśubhakṛtaṃ sarvaṃ prāpnotīha phalaṃ naraḥ. na tu sarvasya bhūtasya pañcatvaṃ vāpi vidyate. pañcatvaṃ pāṇḍavaśreṣṭha bhūribhūtikaraṃ nṛṇām. teṣāṃ pañca mahāyajñān ye kurvanti dvijottamāḥ. pañcatvaṃ pañcabhir bhūtair viyogaṃ saṃpracakṣate. na jāyate na mriyate puruṣaḥ śāśvataḥ sadā. prāyeṇa maraṇaṃ nāma pāpinām eva pāṇḍava. yeṣāṃ tu na gatiḥ puṇyā teṣāṃ maraṇam ucyate. prāyeṇākṛtakṛtyās tu mṛtyor udvijate janaḥ. kṛtakṛtyāḥ pratīkṣante mṛtyuṃ priyam ivātithim. yudhiṣṭhira uvāca. pañca yajñāḥ kathaṃ deva kriyante 'tra dvijātibhiḥ. bhagavān uvāca. teṣāṃ nāma ca deveśa vaktum arhasy aśeṣataḥ. śṛṇu pañca mahāyajñān kīrtyamānān yudhiṣṭhira. yair eva brahmasālokyaṃ labhyate gṛhamedhinā. ṛṣiyajñaṃ brahmayajñaṃ bhūtayajñaṃ ca pārthiva. nṛyajñaṃ pitṛyajñaṃ ca pañca yajñān pracakṣate. tarpaṇaṃ ṛṣiyajñaṃ syāt svādhyāyo brahmayajñakaḥ. bhūtayajño balir yajño nṛyajño 'tithipūjanam. pitṝn uddiśya yat karma pitṛyajñaḥ prakīrtitaḥ. hutaṃ cāpy ahutaṃ caiva tathā prahutam eva ca. prāśitaṃ balidānaṃ ca pākayajñān pracakṣate. vaiśvadevādayo homā hutam ity ucyate budhaiḥ. ahutaṃ ca bhaved dattaṃ prahutaṃ brāhmaṇāśitam. prāṇāgnihotrahomaṃ ca prāśitaṃ vidhivad viduḥ. balikarma ca rājendra pākayajñāḥ prakīrtitāḥ. ke cit pañca mahāyajñān pākayajñān pracakṣate. apare brahmayajñādīn mahāyajñavido viduḥ. sarva ete mahāyajñāḥ sarvathā parikīrtitāḥ. bubhukṣitān brāhmaṇāṃs tu yathāśakti na hāpayet. ahany ahani ye tv etān akṛtvā bhuñjate svayam. kevalaṃ malam aśnanti te narā na ca saṃśayaḥ. tasmāt snātvā dvijo vidvān kuryād etān dine dine. yudhiṣṭhira uvāca. ato 'nyathā tu bhuñjan vai prāyaścittīyate dvijaḥ. devadeva namas te 'stu tvadbhaktasya janārdana. bhagavān uvāca. vaktum arhasi deveśa snānasya ca vidhiṃ mama. śṛṇu pāṇḍava tat sarvaṃ pavitraṃ pāpanāśanam. snātvā yena vidhānena mucyante kilbiṣād dvijāḥ. mṛdaṃ ca gomayaṃ caiva tilān darbhāṃs tathaiva ca. puṣpāṇy api yathānyāyam ādāya tu jalaṃ vrajet. nadyāṃ satyāṃ na ca snāyād anyatra dvijasattama. sati prabhūte payasi nālpe snāyāt kadā cana. gatvodakasamīpaṃ tu śucau deśe manohare. tato mṛdgomayādīni tatra prokṣya vinikṣipet. bahiḥ prakṣālya pādau ca dvir ācamya prayatnataḥ. pradakṣiṇaṃ samāvṛtya namaskuryāt tu taj jalam. na ca prakṣālayet tīrtham adbhir vidvān kadā cana. na ca pādena vā hanyād dhastenānyena taj jalam. sarvadevamayā hy āpo manmayāḥ pāṇḍunandana. tasmāt tās tu na hantavyās tv adbhiḥ prakṣālayet sthalam. kevalaṃ prathamaṃ majjen nāṅgāni vimṛjed budhaḥ. tat tu tīrthaṃ samāsādya kuryād ācamanaṃ punaḥ. gokarṇākṛtivat kṛtvā karaṃ triḥ prapibej jalam. dvis tat parimṛjed vaktraṃ pādāv abhyukṣya cātmanaḥ. śīrṣaṇyāṃs tu tataḥ prāṇān sakṛd eva tu saṃspṛśet. bāhū dvau ca tataḥ spṛṣṭvā hṛdayaṃ nābhim eva ca. pratyaṅgam udakaṃ spṛṣṭvā mūrdhānaṃ tu punaḥ spṛśet. āpaḥ punāntv ity uktvā ca punar ācamanaṃ caret. soṃkārā vyāhṛtīr vāpi sadasaspatim ity ṛcam. ācamya mṛttikāḥ paścāt tridhā kṛtvā samālabhet. ṛcedaṃ viṣṇur ity aṅgam uttamādhamamadhyamam. ālabhya vāruṇaiḥ sūktair namaskṛtya jalaṃ tataḥ. sravantī cet pratisrotaḥ pratyarkaṃ cānyavāriṣu. majjed om ity udāhṛtya na ca prakṣobhayej jalam. gomayaṃ ca tridhā kṛtvā jale pūrvaṃ samālabhet. savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ ca japet punaḥ. punar ācamanaṃ kṛtvā madgatenāntarātmanā. āpo hi ṣṭheti tisṛbhir darbhapūtena vāriṇā. tathā tarat samandībhiḥ siñcec catasṛbhiḥ kramāt. gosūktenāśvasūktena śuddhavargeṇa cāpy atha. vaiṣṇavair vāruṇaiḥ sūktaiḥ sāvitrair indradevataiḥ. vāmadevena cātmānam anyair manmayasāmabhiḥ. sthitvāntaḥsalile sūktaṃ japed vācāghamarṣaṇam. savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ vā tato japet. ā śvāsamokṣāt praṇavaṃ japed vā mām anusmaran. utplutya tīrtham āsādya dhaute śukle ca vāsasī. śuddhe cācchādayet kakṣe na kuryāt paripāśake. pāśe nibaddhakakṣyo yat kurute karma vaidikam. rākṣasā dānavā daityās tad vilumpanti harṣitāḥ. tasmāt sarvaprayatnena kakṣyāṃ pāśe na dhārayet. tataḥ prakṣālya pādau ca hastau caiva mṛdā śanaiḥ. ācamya punar ācāmet tataḥ sāvitriyā dvijaḥ. jale jalagataḥ śuddhaḥ sthala eva sthale sthitaḥ. ubhayatra sthitas tasmād ācāmed ātmaśuddhaye. darbheṣu darbhapāṇiḥ san prāṅmukhaḥ susamāhitaḥ. prāṇāyāmāṃs tataḥ kuryān madgatenāntarātmanā. sahasrakṛtvaḥ sāvitrīṃ śatakṛtvas tu vā japet. samāpte tu jape tasmin sāvitryā cābhimantrya ca. mandehānāṃ vināśāya rakṣasāṃ vikṣipej jalam. udvargo 'sīty athācāntaḥ prāyaścittajalaṃ kṣipet. athādāya sapuṣpāṇi toyāny añjalinā dvijaḥ. prakṣipya pratisūryaṃ ca vyomamudrāṃ prakalpayet. tato dvādaśakṛtvas tu sūryasyaikākṣaraṃ japet. tataḥ ṣaḍakṣarādīni ṣaṭkṛtvaḥ parivartayet. pradakṣiṇaṃ parāmṛśya mudrayā svamukhaṃ tayā. ūrdhvabāhus tato bhūtvā sūryam īkṣet samāhitaḥ. tanmaṇḍalasthaṃ māṃ dhyāyet tejomūrtiṃ caturbhujam. ud u tyaṃ ca japen mantraṃ citraṃ taccakṣur ity api. sāvitrīṃ ca yathāśakti japtvā sūktaṃ ca māmakam. manmayāni ca sāmāni puruṣavratam eva ca. tataś cālokayed arkaṃ haṃsaḥ śuciṣad ity ṛcā. pradakṣiṇaṃ samāvṛtya namaskṛtya divākaram. tatas tu tarpayed adbhiḥ brahmāṇaṃ māṃ ca śaṃkaram. prajāpatiṃ ca devāṃś ca tathā devamunīn api. sāṅgān api tathā vedān itihāsān kratūṃs tathā. purāṇāni ca divyāni kulāny apsarasāṃ tathā. ṛtūn saṃvatsarāṃś caiva kalākāṣṭhāntakaṃ tathā. bhūtagrāmāṃś ca bhūtāni saritaḥ sāgarāṃs tathā. śailāñ śailasthitān devān oṣadhīḥ savanaspatīḥ. tarpayed upavītī tu pratyekaṃ tṛpyatām iti. anvārabhya ca savyena pāṇinā dakṣiṇena tu. nivītī tarpayet paścād ṛṣīn mantrakṛtas tathā. marīcyādīn ṛṣīṃś caiva nāradāntān samāhitaḥ. prācīnāvīty athaitāṃs tu tarpayed devatāḥ pitṝn. tatas tu kavyavāḍ agniṃ somaṃ vaivasvataṃ tathā. tataś cāryamaṇaṃ cāpi agniṣv āttāṃs tathaiva ca. somapāṃś caiva darbhais tu satilair eva vāribhiḥ. tṛpyadhvam iti paścāt tu svapitṝṃs tarpayet tataḥ. pitṝn pitāmahāṃś caiva tathaiva prapitāmahān. pitāmahīṃ tathā cāpi tathaiva prapitāmahīm. tathā pitṛṣvasṝś caiva mātṛṣvasṝs tathaiva ca. mātaraṃ cātmanaś caiva tathā mātāmahīm api. mātur mātāmahīṃ caiva gurum ācāryam eva ca. upādhyāyān sakhīn bandhūñ śiṣyartvigjñātiputrakān. pramītān ānṛśaṃsyārthaṃ tarpayet tān amatsaraḥ. tarpayitvā tathācamya snānavastraṃ prapīḍayet. vṛddhiṃ bhṛtyajanasyāhuḥ snātakānāṃ ca tadvidaḥ. atarpayitvā tān pūrvaṃ snānavastraṃ na pīḍayet. pīḍayec cet purā mohād devāḥ sarṣigaṇās tathā. pitaras tu nirāśāś ca śaptvā yānti yathāgatam. prakṣālya tu mṛdā pādāv ācamya prayataḥ punaḥ. darbheṣu darbhapāṇiḥ san svādhyāyaṃ tu samārabhet. vedam ādau samārabhya tatopari padakramān. yad adhīte svayaṃ śaktyā tat svādhyāyaṃ pracakṣate. ṛcaṃ vātha yajur vāpi sāmagāthām athāpi vā. itihāsapurāṇāni yathāśakti na hāpayet. utthāya ca namaskṛtvā diśo digdevatā api. brahmāṇaṃ ca tataś cāgniṃ pṛthivīm oṣadhīs tathā. vācaṃ vācaspatiṃ caiva māṃ caiva saritas tathā. namaskṛtvā tathādbhis tu praṇavādi ca pūjayet. tato namo 'dbhya ity uktvā namaskuryāt tu taj jalam. ghṛṇiḥ sūryas tathādityas tān praṇamya svamūrdhani. tatas tv ālokayann arkaṃ praṇavena samāhitaḥ. yudhiṣṭhira uvāca. tato mām arcayet puṣpair matpriyair eva nityaśaḥ. tvatpriyāṇi prasūnāni tvadadhiṣṭhāni mādhava. bhagavān uvāca. sarvāṇy ācakṣva deveśa tvadbhaktasya mamācyuta. śṛṇuṣvāvahito rājan puṣpāṇi prītikṛnti me. kumudaṃ karavīraṃ ca caṇakaṃ campakaṃ tathā. mallikājātipuṣpaṃ ca nandyāvartaṃ ca nandikam. palāśapuṣpapatrāṇi dūrvā bhṛṅgakam eva ca. vanamālā ca rājendra matpriyāṇi viśeṣataḥ. sarveṣām api puṣpāṇāṃ sahasraguṇam utpalam. tasmāt padmaṃ tathā rājan padmāt tu śatapatrakam. tasmāt sahasrapatraṃ tu puṇḍarīkaṃ tataḥ param. puṇḍarīkasahasrāt tu tulasī guṇato 'dhikā. bakapuṣpaṃ tatas tasmāt sauvarṇaṃ tu tato 'dhikam. sauvarṇāt tu prasūnāc ca matpriyaṃ nāsti pāṇḍava. puṣpālābhe tulasyāstu patrair mām arcayed budhaḥ. patrālābhe tu śākhābhiḥ śākhālābhe śiphāphalaiḥ. śiphālābhe mṛdā tatra bhaktimān arcayed budhaḥ. varjanīyāni puṣpāṇi śṛṇu rājan samāhitaḥ. kiṅkiṇī munipuṣpaṃ ca duttūraṃ pāṭalaṃ tathā. tathātimuktakaṃ caiva puṃnāgaṃ naktamālikā. yaudhikaṃ kṣīrikāpuṣpaṃ nirguṇḍī lāṅgalī japā. karṇikāraṃ tathāśokaṃ śalmalīpuṣpam eva ca. kakubhāḥ kovidārāś ca vaibhītakam athāpi vā. kuraṇṭakaprasūnāṃ ca tilvakaṃ lāṅgalī tathā. aṅkolaṃ girikarṇī ca nīlāny eva ca sarvaśaḥ. ekavarṇāni cānyāni sarvāṇy eva vivarjayet. arkapuṣpāṇi varjyāni cārkapatrasthitāni ca. vyāghātapicumandāni sarvāṇy eva vivarjayet. anyais tu śuklapatrais tu gandhavadbhir narādhipa. yudhiṣṭhira uvāca. avarjyais tair yathālābhaṃ madbhakto māṃ samarcayet. kathaṃ tvam arcanīyo 'si mūrtayaḥ kīdṛśās tu te. vaikhānasāḥ kathaṃ brūyuḥ kathaṃ vā pāñcarātrikāḥ. bhagavān uvāca. śṛṇu pāṇḍava tat sarvam arcanākramam ātmanaḥ. sthaṇḍile padmakaṃ kṛtvā cāṣṭapatraṃ sakarṇikam. aṣṭākṣaravidhānena hy atha vā dvādaśākṣaraiḥ. vaidikair atha vā mantrair mama sūktena vā punaḥ. sthāpitaṃ māṃ tatas tasminn arcayitvā vicakṣaṇaḥ. puruṣaṃ ca tataḥ satyam acyutaṃ ca yudhiṣṭhira. aniruddhaṃ ca māṃ prāhur vaikhānasavido janāḥ. anye tv evaṃ vijānanti māṃ rājan pāñcarātrikāḥ. vāsudevaṃ ca rājendra saṃkarṣaṇam athāpi vā. pradyumnaṃ cāniruddhaṃ ca caturmūrtiṃ pracakṣate. etāś cānyāś ca rājendra saṃjñābhedena mūrtayaḥ. yudhiṣṭhira uvāca. viddhy anarthāntarā eva mām evaṃ cārcayed budhaḥ. tvadbhaktāḥ kīdṛśā deva kāni teṣāṃ vratāni ca. bhagavān uvāca. etat kathaya deveśa tvadbhaktasya mamācyuta. ananyadevatābhaktā ye madbhaktajanapriyāḥ. mām eva śaraṇaṃ prāptās te madbhaktāḥ prakīrtitāḥ. svargāṇy api yaśasyāni matpriyāṇi viśeṣataḥ. madbhaktaḥ pāṇḍavaśreṣṭha vratānīmāni dhārayet. nānyad ācchādayed vastraṃ madbhakto jalatāraṇe. svasthas tu na divā svapyān madhumāṃsāni varjayet. pradakṣiṇaṃ vrajed viprān gām aśvatthaṃ hutāśanam. na dhāvet patite varṣe nāgrabhikṣāṃ ca lopayet. pratyakṣalavaṇaṃ nādyāt saubhañjanakagṛñjanau. grāsamuṣṭiṃ gave dadyād dhānyāmlaṃ caiva varjayet. tathā paryuṣitaṃ cāpi pakvaṃ parigṛhāgatam. aniveditaṃ ca yad dravyaṃ tat prayatnena varjayet. vibhītakakarañjānāṃ chāyāṃ dūraṃ vivarjayet. vipradevaparīvādaṃ na vadet pīḍito 'pi san. sāttvikā rājasāś cāpi tāmasāś cāpi pāṇḍava. mām arcayanti madbhaktās teṣām īdṛgvidhā gatiḥ. tāmasās timiraṃ yānti rājasā raja eva tat. sāttvikāḥ sattvasaṃpannāḥ sattvam eva prayānti te. ye siddhāḥ santi sāṃkhyena yogasattvabalena ca. nabhasādityacandrābhyāṃ paśyanti padavistaram. ekastambhe navadvāre tristhūṇe pañcadhātuke. etasmin dehanagare rājasas tu sadā bhavet. udite savitary asya kriyāyuktasya dhīmataḥ. caturvedavidaś cāpi dehe ṣaḍ vṛṣalāḥ smṛtāḥ. kṣatriyāḥ sapta vijñeyā vaiśyās tv aṣṭau prakīrtitāḥ. niyatāḥ pāṇḍavaśreṣṭha śūdrāṇām ekaviṃśatiḥ. kāmaḥ krodhaś ca lobhaś ca mohaś ca mada eva ca. mahāmohaś ca ity ete dehe ṣaḍ vṛṣalāḥ smṛtāḥ. garvaḥ stambho hy ahaṃkāra īrṣyā ca droha eva ca. pāruṣyaṃ krūratā ceti saptaite kṣatriyāḥ smṛtāḥ. tīkṣṇatā nikṛtir māyā śāṭhyaṃ ḍambho hy anārjavam. paiśunyam anṛtaṃ caiva vaiśyās tv aṣṭau prakīrtitāḥ. tṛṣṇā bubhukṣā nidrā ca ālasyaṃ cāghṛṇādayā. ādhiś cāpi vivādaś ca pramādo hīnasattvatā. bhayaṃ viklabatā jāḍyaṃ pāpakaṃ manyur eva ca. āśā cāśraddadhānatvam anavasthāpy ayantraṇam. āśaucaṃ malinatvaṃ ca śūdrā hy ete prakīrtitāḥ. yasminn ete na dṛśyante sa vai brāhmaṇa ucyate. yeṣu yeṣu hi bhāveṣu yatkālaṃ vartate dvijaḥ. tattatkālaṃ sa vijñeyaḥ brāhmaṇo jñānadurbalaḥ. prāṇān āyamya yatkālaṃ yena māṃ cāpi cintayet. tatkāle vai dvijo jñeyaḥ śeṣakālo hy athetaraḥ. tasmāt tu sāttviko bhūtvā śuciḥ krodhavivarjitaḥ. mām arcayet tu satataṃ matpriyatvaṃ yad icchati. alolajihvaḥ samupasthito dhṛtir. nidhāya cakṣur yugamātram eva ca. manaś ca vācaṃ ca nigṛhya cañcalaṃ. bhayān nivṛtto mama bhakta ucyate. īdṛśādhyātmino ye tu brāhmaṇā niyatendriyāḥ. teṣāṃ śrāddheṣu tṛpyanti tena tṛptāḥ pitāmahāḥ. dharmo jayati nādharmaḥ satyaṃ jayati nānṛtam. kṣamā jayati na krodhaḥ kṣamāvān brāhmaṇo bhavet. vaiśaṃpāyana uvāca. dānapuṇyaphalaṃ śrutvā tapaḥ puṇyaphalāni ca. dharmaputraḥ prahṛṣṭātmā keśavaṃ punar abravīt. yā caiṣā kapilā deva pūrvam utpāditā vibho. homadhenuḥ sadā puṇyā caturvaktreṇa mādhava. sā kathaṃ brāhmaṇebhyo hi deyā kasmin dine 'pi vā. kīdṛśāya ca viprāya dātavyā puṇyalakṣaṇā. kati vā kapilāḥ proktāḥ svayam eva svayaṃbhuvā. kair vā deyāś ca tā deva śrotum icchāmi tattvataḥ. evam ukto hṛṣīkeśo dharmaputreṇa saṃsadi. abravīt kapilāsaṃkhyāṃ tāsāṃ māhātmyam eva ca. śṛṇu pāṇḍava tattvena pavitraṃ pāvanaṃ param. yac chrutvā pāpakarmāpi naraḥ pāpaiḥ pramucyate. agnimadhyodbhavāṃ divyām agnijvālāsamaprabhām. agnijvālojjvalacchṛṅgīṃ pradīptāṅgāralocanām. agnipucchām agnikhurām agniromaprabhānvitām. tām āgneyīm agnijihvām agnigrīvāṃ jvalatprabhām. bhuñjate kapilāṃ ye tu śūdrā lobhena mohitāḥ. patitāṃs tān vijānīyāc caṇḍālasadṛśā hi te. na teṣāṃ brāhmaṇaḥ kaś cid gṛhe kuryāt pratigraham. dūrāc ca parihartavyā mahāpātakino 'pi te. sarvakālaṃ hi te sarvair varjitāḥ pitṛdaivataiḥ. te sadā hy apratigrāhyā hy asaṃbhāṣyāś ca pāpinaḥ. pibanti kapilāṃ yāvat tāvat teṣāṃ pitāmahāḥ. amedhyam upabhuñjanti bhūmyāṃ vai śvasṛgālavat. kapilāyā ghṛtaṃ kṣīraṃ dadhi takram athāpi vā. ye śūdrā upabhuñjanti teṣāṃ gatim imāṃ śṛṇu. kapilopajīvī śūdras tu mṛto gacchati rauravam. kliśyate raurave ghore varṣakoṭiśataṃ vasan. rauravāc ca paribhraṣṭo viṣṭhāyāṃ jāyate krimiḥ. viṣṭhāgarteṣu saṃviṣṭo durgandheṣu sahasraśaḥ. tatraiva jāyamāno 'sau nottāraṃ tatra vindati. brāhmaṇaś caiva yas teṣāṃ gṛhe kuryāt pratigraham. tataḥ prabhṛti tasyāpi pitaraḥ syur amedhyapāḥ. na tena sārdhaṃ saṃbhāṣen na cāpy ekāsanaṃ vrajet. sa nityaṃ varjanīyo hi dūrāt tu brāhmaṇādhamaḥ. yas tena saha saṃbhāṣed ekaśayyāṃ vrajeta vā. prājāpatyaṃ caret kṛcchraṃ sa ca tenaiva śudhyati. kapilopajīvinaḥ śūdrād yaḥ karoti pratigraham. prāyaścittaṃ bhavet tasya viprasyaitan na saṃśayaḥ. brahmakūrcaṃ tu kurvīta cāndrāyaṇam athāpi vā. mucyate kilbiṣāt tasmād etena brāhmaṇo hi saḥ. kapilā hy agnihotrārthe yajñārthe ca svayaṃbhuvā. sarvatas teja uddhṛtya brahmaṇā nirmitā purā. pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam. puṇyānāṃ paramaṃ puṇyaṃ kapilā pāṇḍunandana. tapasāṃ tapa evāgryaṃ vratānāṃ vratam uttamam. dānānāṃ paramaṃ dānaṃ nidānaṃ hy etad akṣayam. pṛthivyāṃ yāni tīrthāni puṇyāny āyatanāni ca. pavitrāṇi ca ramyāṇi sarvalokeṣu pāṇḍava. tebhyas tejaḥ samuddhṛtya brahmaṇā lokakartṛṇā. lokanistāraṇāyaiva nirmitāḥ kapilāḥ svayam. sarvatejomayī hy eṣā kapilā pāṇḍunandana. sadāmṛtamayī medhyā śuciḥ pāvanam uttamam. kṣīreṇa kapilāyās tu dadhnā vai saghṛtena vā. hotavyāny agnihotrāṇi sāyaṃ prātar dvijātibhiḥ. kapilāyā ghṛtenāpi dadhnā kṣīreṇa vā punaḥ. juhvate ye 'gnihotrāṇi brāhmaṇā vidhivat prabho. pūjayanty atithīṃś caiva parāṃ bhaktim upāgatāḥ. śūdrānnād viratā nityaṃ ḍambhānṛtavivarjitāḥ. te yānty ādityasaṃkāśair vimānair dvijasattamāḥ. sūryamaṇḍalamadhyena brahmalokam anuttamam. brahmaṇo bhavane divye kāmagāḥ kāmarūpiṇaḥ. brahmaṇā pūjyamānās tu modante kalpam akṣayam. evaṃ hi kapilā rājan puṇyā mantrāmṛtāraṇiḥ. ādāv evāgnimadhyāt tu maitreyī brahmanirmitā. śṛṅgāgre kapilāyās tu sarvatīrthāni pāṇḍava. brahmaṇo hi niyogena nivasanti dine dine. prātar utthāya yo martyaḥ kapilāśṛṅgamastakāt. cyutā āpas tu śīrṣeṇa prayato dhārayec chuciḥ. sa tena puṇyatīrthena sahasā dagdhakilbiṣaḥ. varṣatrayakṛtaṃ pāpaṃ pradahaty agnivat tṛṇam. mūtreṇa kapilāyās tu yas tu prātar upaspṛśet. snānena tena puṇyena naṣṭapāpaḥ sa mānavaḥ. triṃśadvarṣakṛtāt pāpān mucyate nātra saṃśayaḥ. prātar utthāya yo bhaktyā prayacchet tṛṇamuṣṭikam. tasya naśyati tat pāpaṃ triṃśadrātrikṛtaṃ nṛpa. prātar utthāya madbhaktyā kuryād yas tāṃ pradakṣiṇam. pradakṣiṇīkṛtā tena pṛthivī nātra saṃśayaḥ. pradakṣiṇena caikena śraddhāyuktasya pāṇḍava. daśarātrakṛtaṃ pāpaṃ tasya tan naśyati dhruvam. kapilāpañcagavyena yaḥ snāyāt tu śucir naraḥ. sa gaṅgādyeṣu tīrtheṣu snāto bhavati pāṇḍava. tena snānena tasyāpi śraddhāyuktasya pāṇḍava. daśarātrakṛtaṃ pāpaṃ tatkṣaṇād eva naśyati. dṛṣṭvā tu kapilāṃ bhaktyā śrutvā humbhāravaṃ tathā. vyapohati naraḥ pāpam ahorātrakṛtaṃ nṛpa. yatra vā tatra vā cāṅge kapilāṃ yaḥ spṛśec chuciḥ. saṃvatsarakṛtaṃ pāpaṃ vināśayati pāṇḍava. gosahasraṃ ca yo dadyād ekāṃ ca kapilāṃ naraḥ. samaṃ tasya phalaṃ prāha brahmaloke pitāmahaḥ. yas tv ekāṃ kapilāṃ hanyān naraḥ kiṃ cit pramādataḥ. gosahasraṃ hataṃ tena bhaven nātra vicāraṇā. yaś caikāṃ kapilāṃ dadyāc chrotriyāyāhitāgnaye. gavāṃ śatasahasraṃ tu dattaṃ bhavati pāṇḍava. daśaiva kapilāḥ proktāḥ svayam eva svayaṃbhuvā. yo dadyāc chrotriyebhyo vai svargaṃ gacchati tac chṛṇu. prathamā svarṇakapilā dvitīyā gaurapiṅgalā. tṛtīyā raktapiṅgākṣī caturthī galapiṅgalā. pañcamī babhruvarṇābhā ṣaṣṭhī ca śvetapiṅgalā. saptamī raktapiṅgākṣī aṣṭamī khurapiṅgalā. navamī pāṭalā jñeyā daśamī pucchapiṅgalā. daśaitāḥ kapilāḥ proktās tārayanti narān sadā. maṅgalyāś ca pavitrāś ca sarvapāpapraṇāśanāḥ. evam eva hy anaḍvāho daśa proktā nareśvara. brāhmaṇo vāhayet tāṃs tu nānyo varṇaḥ kathaṃ cana. na ghātayet tu daṇḍena kṣetre vādhvani vā dvijaḥ. vāhayed dhuṃkṛtenaiva śākhayā vā sapatrayā. na daṇḍena na yaṣṭyā vā na pāśena ca vā punaḥ. na kṣuttṛṣṇāśramaśrāntān vāhayed vikalendriyān. atṛpteṣu na bhuñjīyāt pibet pīteṣu codakam. śuśrūṣor mātaraś caitāḥ pitaras te prakīrtitāḥ. ahnāṃ pūrve tribhāge tu dhuryāṇāṃ vāhanaṃ smṛtam. viśrāmen madhyame bhāge bhāge cānte yathāsukham. yatra vā tvarayā kṛtyaṃ saṃśayo yatra vādhvani. vāhayet tatra dhuryāṃs tu na sa pāpena lipyate. anyathā vāhayan rājan nirayaṃ yāti rauravam. rudhiraṃ pātayet teṣāṃ yas tu mohān narādhipa. brahmahatyāsamaṃ pāpaṃ tasya syāt pāṇḍunandana. tena pāpena pāpātmā nirayaṃ yāty asaṃśayam. narakeṣu ca sarveṣu samāsthitvā śataṃ śatam. iha mānuṣyake loke balīvardo bhaviṣyati. tasmāt tu muktim anvicchan dadyāt tu kapilāṃ naraḥ. kapilāṃ vāhayed yas tu vṛṣalo lobhamohitaḥ. tena devās trayastriṃśat pitaraś cāpi vāhitāḥ. sa devaiḥ pitṛbhir nityaṃ vadhyamānaḥ sudurmatiḥ. narakān narakaṃ ghoraṃ gacched āpralayaṃ nṛpa. brahmā rudras tathāgniś ca kapilānāṃ gatiṃ gatāḥ. tasmāt te tu na hantavyāḥ pūjyās te tu viśeṣataḥ. niḥśvasanti yadā śrāntās tadā hanyuś ca tat kulam. yāvanti teṣāṃ romāṇi tāvad varṣaśataṃ nṛpa. narake paripacyante tatra tadvāhakā narāḥ. kapilā sarvayajñeṣu dakṣiṇārthaṃ vidhīyate. tasmāt tā dakṣiṇā deyā yajñeṣv eva dvijātibhiḥ. homārthaṃ cāgnihotrasya yāṃ prayacchet prayatnataḥ. śrotriyāya daridrāya śrāntāyāmitatejase. tena dānena pūtātmā so 'gniloke mahīyate. yāvanti caiva romāṇi kapilāṅge yudhiṣṭhira. tāvad varṣasahasrāṇi naraḥ svarge ca vartate. suvarṇakhuraśṛṅgīṃ ca kapilāṃ yaḥ prayacchati. viṣuve cāyane vāpi so 'śvamedhaphalaṃ labhet. tenāśvamedhatulyena mama lokaṃ sa gacchati. svarṇaśṛṅgīṃ rūpyakhurāṃ savatsāṃ kāṃsyadohinīm. vastrair alaṃkṛtāṃ puṣṭāṃ gandhair mālyaiś ca śobhitām. pavitraṃ hi pavitrāṇāṃ suvarṇam iti me matiḥ. tasmāt suvarṇābharaṇā dātavyā cāgnihotriṇe. evaṃ dattvā tu rājendra saptapūrvān parān api. tārayiṣyati rājendra nātra kāryā vicāraṇā. agniṣṭomasahasrasya vājapeyasamaṃ bhavet. vājapeyasahasrasya aśvamedhaṃ ca tatsamam. aśvamedhasahasraṃ ca rājasūyaṃ ca tatsamam. kapilānāṃ sahasreṇa vidhidattena pāṇḍava. rājasūyaphalaṃ prāpya mama loke mahīyate. na tasya punarāvṛttir vidyate kurupuṃgava. prayacchate yaḥ kapilāṃ savatsāṃ kāṃsyadohinīm. tais tair guṇaiḥ kāmadughā ca bhūtvā. naraṃ pradātāram upaiti sā gauḥ. svakarmabhiś cāpy anubadhyamānaṃ. tīvrāndhakāre narake patantam. mahārṇave naur iva vāyunītā. dattā hi gaus tārayate manuṣyam. putrāṃś ca pautrāṃś ca kulaṃ ca sarvam. āsaptamaṃ tārayate paratra. yāvan manuṣyān pṛthivīṃ bibharti. tāvat pradātāram ito 'paratra. yathauṣadhaṃ mantrakṛtaṃ narasya. prayuktamātraṃ vinihanti rogān. tathaiva dattā kapilā supātre. pāpaṃ narasyāśu nihanti sarvam. yathaiva dṛṣṭvā bhujagāḥ suparṇaṃ. naśyanti dūrād vivaśā bhayārtāḥ. tathaiva dṛṣṭvā kapilāpradānaṃ. naśyanti pāpāni narasya śīghram. yathā tvacaṃ svāṃ bhujago vihāya. punar navaṃ rūpam upaiti puṇyam. tathaiva muktaḥ puruṣaḥ svapāpair. virājate vai kapilāpradānāt. yathāndhakāraṃ bhavane vilagnaṃ. dīpto hi niryātayati pradīpaḥ. tathā naraḥ pāpam api pralīnaṃ. niṣkrāmayed vai kapilāpradānam. yāvanti romāṇi bhavanti tasyā. vatsānvitāyāś ca śarīrajāni. tāvat pradātā yugavarṣakoṭiṃ. sa brahmaloke ramate manuṣyaḥ. yasyāhitāgner atithipriyasya. śūdrānnadūrasya jitendriyasya. satyavratasyādhyayanānvitasya. dattā hi gaus tārayate paratra. vaiśaṃpāyana uvāca. evaṃ śrutvā paraṃ puṇyaṃ kapilādānam uttamam. dharmaputraḥ prahṛṣṭātmā keśavaṃ punar abravīt. devadeveśa kapilā yadā viprāya dīyate. kathaṃ sarveṣu cāṅgeṣu tasyās tiṣṭhanti devatāḥ. yāś caitāḥ kapilāḥ proktā daśa caiva tvayā mama. tāsāṃ kati suraśreṣṭha kapilāḥ puṇyalakṣaṇāḥ. kathaṃ vānugṛhītās tāḥ suraiḥ pitṛgaṇair api. kena yuktāś ca varṇena śrotuṃ kautūhalaṃ hi me. yudhiṣṭhireṇaivam uktaḥ keśavaḥ satyavāk tadā. guhyānāṃ paramaṃ guhyaṃ vaktum evopacakrame. śṛṇu rājan pavitraṃ vai rahasyaṃ dharmam uttamam. grahaṇīyaṃ satyam idaṃ na śrāvyaṃ hetuvādinām. yadā vatsasya pādau dvau prasave śirasā saha. dṛśyete dānakālaṃ tam āhuḥ kālavido janāḥ. antarikṣagato vatso yāvad bhūmiṃ na yāsyati. gaus tāvat pṛthivī jñeyā tasmād deyā tu tādṛśī. yāvanti dhenvā romāṇi savatsāyā yudhiṣṭhira. yāvantyaḥ sikatāś cāpi garbhodakapariplutāḥ. tāvad varṣasahasrāṇi dātā svarge mahīyate. suvarṇābharaṇāṃ kṛtvā savatsāṃ kapilāṃ tilaiḥ. pracchādya tāṃ tu dadyād vai sarvaratnair alaṃkṛtām. sasamudrā mahī tena saśailavanakānanā. caturantā bhaved dattā nātra kāryā vicāraṇā. pṛthivīdānatulyena tena dānena mānavaḥ. saṃsārasāgarāt tīrṇo yāti lokaṃ prajāpateḥ. brahmahā yadi vā goghno bhrūṇahā gurutalpagaḥ. mahāpātakayukto 'pi dānenānena śudhyati. idaṃ paṭhati yaḥ puṇyaṃ kapilādānam uttamam. prātar utthāya madbhaktyā tasya puṇyaphalaṃ śṛṇu. manasā karmaṇā vācā matipūrvaṃ yudhiṣṭhira. pāpaṃ rātrikṛtaṃ hanyād asyādhyāyasya pāṭhakaḥ. idam āvartamānas tu śrāddhe yas tarpayed dvijān. tasyāpy amṛtam aśnanti pitaro 'tyantaharṣitāḥ. yaś cedaṃ śṛṇuyād bhaktyā madgatenāntarātmanā. tasya rātrikṛtaṃ sarvaṃ pāpam āśu praṇaśyati. ataḥ paraṃ viśeṣaṃ tu kapilānāṃ bravīmi te. yāś caitāḥ kapilāḥ proktā daśa rājan mayā tava. tāsāṃ catasraḥ pravarāḥ pavitrāḥ pāpanāśanāḥ. suvarṇakapilā puṇyā tathā raktākṣipiṅgalā. piṅgalākṣī ca yā gauś ca yad vā piṅgalapiṅgalā. etāś catasraḥ pravarāḥ puṇyāḥ pāpapraṇāśanāḥ. namaskṛtā vā spṛṣṭā vā ghnanti pāpaṃ narasya tu. yasyaitāḥ kapilāḥ santi gṛhe pāpapraṇāśanāḥ. tatra śrīr vijayaḥ kīrtiḥ sthitā nityaṃ yudhiṣṭhira. etāsāṃ prītim āyāti kṣīreṇa tu vṛṣadhvajaḥ. dadhnā tu tridaśāḥ sarve ghṛtena tu hutāśanaḥ. pitaraḥ pitāmahāś caiva tathaiva prapitāmahāḥ. sakṛd dattena tuṣyanti varṣakoṭiṃ yudhiṣṭhira. kapilāyā ghṛtaṃ kṣīraṃ dadhi pāyasam eva vā. śrotriyebhyaḥ sakṛd dattvā sarvapāpaiḥ pramucyate. upavāsaṃ tu yat kṛtvā ahorātraṃ jitendriyaḥ. kapilāpañcagavyaṃ tu pītvā cāndrāyaṇāt param. saumye muhūrte tat prāśya śuddhātmā śuddhamānasaḥ. krodhānṛtavinirmukto madgatenāntarātmanā. kapilāpañcagavyena samantreṇa pṛthak pṛthak. yo matpratikṛtiṃ vāpi śaṃkarākṛtim eva vā. snāpayed viṣuve yas tu so 'śvamedhaphalaṃ labhet. sa muktapāpaḥ śuddhātmā yānenāmbaraśobhinā. mama lokaṃ vrajen martyo rudralokam athāpi vā. brahmaṇā tu purā sṛṣṭā kapilā kāñcanaprabhā. agnikuṇḍāt parair mantrair homadhenur mahāprabhā. sṛṣṭamātrāṃ tu tāṃ dṛṣṭvā devā rudrādayo divi. siddhā brahmarṣayaś caiva vedāḥ sāṅgāḥ sahādhvarāḥ. sāgarāḥ saritaś cāpi parvatāḥ sabalāhakāḥ. gandharvāpsaraso yakṣāḥ pannagāś cāpy upasthitāḥ. sarve vismayam āpannāḥ śikhimadhye mahāprabhām. mantraiś ca vividhaiḥ sarvais tuṣṭuvus tām anekaśaḥ. kṛtāñjalipuṭāḥ sarve tāmraśṛṅgīṃ trilocanām. śirobhiḥ patitā bhūmau savatsām amṛtāraṇim. ūcuḥ prāñjalayaḥ sarve caturvaktraṃ pitāmaham. ājñāpaya mahādeva kiṃ te karma priyaṃ vibho. evam uktaḥ suraiḥ sarvair brahmā vacanam abravīt. bhavanto 'py anugṛhṇantu dogdhrīm enāṃ payasvinīm. homadhenur iyaṃ jñeyā hy agniṃ saṃtarpayiṣyati. tato 'gnis tarpitaḥ sarvān bhavatas tarpayiṣyati. prītāḥ kṣīrāmṛtenāsyā jātavīryaparākramāḥ. jayiṣyatha yathākāmaṃ dānavān sarva eva tu. jātavīryabalaiśvaryāḥ sattvavanto jitārayaḥ. asaṃkhyeyabalāḥ sarve pālayiṣyatha vai prajāḥ. pālitāś ca prajāḥ sarvā bhavadbhir iha dharmataḥ. pūjayiṣyanti vo nityaṃ yajñair vividhadakṣiṇaiḥ. evam uktāḥ surāḥ sarve brahmaṇā parameṣṭhinā. tataḥ saṃhṛṣṭamanasaḥ kapilāyai varaṃ daduḥ. yasmāl lokahitāyādya brahmaṇā tvaṃ vinirmitā. tasmāt pūtā pavitrā ca bhava pāpavyapohinī. ye tvāṃ dṛṣṭvā namasyanti spṛṣṭvā cāpi karair narāḥ. teṣāṃ varṣakṛtaṃ pāpaṃ tvadbhaktānāṃ praṇaśyati. akāmakṛtam ajñātam adṛṣṭaṃ yac ca pātakam. tvāṃ dṛṣṭvā ye namasyanti narāḥ sarvaṃsaheti ca. teṣāṃ tad vilayaṃ yāti tamaḥ sūryodaye yathā. ity uktvāsyai varaṃ dattvā prayayus te yathāgatam. lokanistāraṇārthāya sā ca lokāṃś cacāra ha. tasyām eva samudbhūtā hy etāś ca kapilānagha. vicaranti mahīm enāṃ lokānugrahakāraṇāt. tasmāt tu kapilā deyā paratra hitam icchatā. yathā ca dīyate rājan kapilā hy agnihotriṇe. tathāgraśṛṅgayos tasyā viṣṇur indraś ca tiṣṭhataḥ. candravajradharau cāpi tiṣṭhataḥ śṛṅgamūlayoḥ. śṛṅgamadhye tathā brahmā lalāṭe govṛṣadhvajaḥ. karṇayor aśvinau devau cakṣuṣoḥ śaśibhāskarau. danteṣu maruto devā jihvāyāṃ vāk sarasvatī. romānte munayaḥ sarve carmaṇy eva prajāpatiḥ. niśvāseṣu sthitā vedāḥ saṣaḍaṅgapadakramāḥ. nāsāpuṭe sthitā gandhāḥ puṣpāṇi surabhīṇi ca. adhare vasavaḥ sarve mukhe cāgniḥ pratiṣṭhitaḥ. sādhyā devāḥ sthitāḥ kakṣe grīvāyāṃ pārvatī sthitā. pṛṣṭhe ca nakṣatragaṇāḥ kakuddeśe nabhaḥsthalam. apāne sarvatīrthāni gomūtre jāhnavī svayam. iṣṭatuṣṭamayī lakṣmīr gomaye vasate sadā. nāsikāyāṃ tadā devī jyeṣṭhā vasati bhāminī. śroṇītaṭasthāḥ pitaro ramā lāṅgūlam āśritāḥ. pārśvayor ubhayoḥ sarve viśve devāḥ pratiṣṭhitāḥ. tiṣṭhaty urasi tāsāṃ tu prītaḥ śaktidharo guhaḥ. jānujaṅghorudeśeṣu pañca tiṣṭhanti vāyavaḥ. khuramadhyeṣu gandharvāḥ khurāgreṣu ca pannagāḥ. catvāraḥ sāgarāḥ pūrṇās tasyā eva payodharāḥ. ratir medhā kṣamā svāhā śraddhā śāntir dhṛtiḥ smṛtiḥ. kīrtir dīptiḥ kriyā kāntis tuṣṭiḥ puṣṭiś ca saṃtatiḥ. diśaś ca vidiśaś caiva sevante kapilāṃ sadā. devāḥ pitṛgaṇāś cāpi gandharvāpsarasāṃ gaṇāḥ. lokā dvīpārṇavāś caiva gaṅgādyāḥ saritas tathā. grahāḥ pitṛgaṇāś cāpi vedāḥ sāṅgāḥ sahādhvaraiḥ. vedoktair vividhair mantraiḥ stuvanti hṛṣitās tathā. vidyādharāś ca ye siddhā bhūtās tārāgaṇās tathā. puṣpavṛṣṭiṃ ca varṣanti pranṛtyanti ca harṣitāḥ. brahmaṇotpāditā devī vahnikuṇḍān mahāprabhā. namas te kapile puṇye sarvadevair namaskṛte. kapile 'tha mahāsattve sarvatīrthamaye śubhe. dātāraṃ svajanopetaṃ brahmalokaṃ naya svayam. aho ratnam idaṃ puṇyaṃ sarvaduḥkhaghnam uttamam. aho dharmārjitaṃ śuddham idam agryaṃ mahādhanam. ity ākāśe sthitā devā jalpanti ca namanti ca. tasyāḥ pratigṛhītā ca bhuṅkte yāvad dvijottamaḥ. tāvad devagaṇāḥ sarve kapilām arcayanti ca. svarṇaśṛṅgī raupyakhurā gandhaiḥ puṣpaiś ca pūjitā. vastrābhyām ahatābhyāṃ tu yāvat tiṣṭhaty alaṃkṛtā. tāvad yad icchet kapilā mantrapūtā susaṃskṛtā. bhūlokavāsinaḥ sarvān brahmalokaṃ nayet svayam. bhūr aśvaḥ kanakaṃ gāvo raupyam annaṃ tilā yavāḥ. dīyamānāni viprāya prahṛṣyanti dine dine. atha tv aśrotriyebhyo vai tāni dattāni pāṇḍava. tathā nindanty athātmānam aśubhaṃ kiṃ nu naḥ kṛtam. aho rakṣaḥpiśācaiś ca lupyamānāḥ samantataḥ. yāsyāmo nirayaṃ śīghram iti śocanti tāni vai. etāny api dvijebhyo vai śrotriyebhyo viśeṣataḥ. yudhiṣṭhira uvāca. dīyamānāni vardhante dātāraṃ tārayanti ca. devadeveśa daityaghna kālaḥ ko havyakavyayoḥ. bhagavān uvāca. ke tatra pūjām arhanti varjanīyāś ca ke dvijāḥ. daivaṃ pūrvāhṇikaṃ jñeyaṃ paitṛkaṃ cāparāhṇikam. kālahīnaṃ ca yad dānaṃ tad dānaṃ rākṣasaṃ viduḥ. avaghuṣṭaṃ ca yad bhuktam anṛtena ca bhārata. parāmṛṣṭaṃ śunā vāpi tadbhāgaṃ rākṣasaṃ viduḥ. yāvantaḥ patitā viprā jaḍonmattādayo 'pi ca. daive ca pitrye ye cāpi rājan nārhanti satkriyām. klībaḥ plīhī ca kuṣṭhī ca rājayakṣmānvitaś ca yaḥ. apasmārī ca yaś cāpi pitrye nārhati satkriyām. cikitsakā devalakā vṛthā niyamadhāriṇaḥ. somavikrayiṇaś cāpi śrāddhe nārhanti satkṛtim. ekoddiṣṭasya ye cānnaṃ bhuñjate vidhivad dvijāḥ. cāndrāyaṇam akṛtvā te punar nārhanti satkṛtim. gāyakā nartakāś caiva plavakā vādakās tathā. kathakā yaudhikāś caiva śrāddhe nārhanti satkṛtim. anagnayaś ca ye viprāḥ pretaniryātakāś ca ye. stenāś cāpi vikarmasthā rājan nārhanti satkṛtim. aparijñātapūrvāś ca gaṇaputrāś ca ye dvijāḥ. putrikāputrakāś cāpi śrāddhe nārhanti satkṛtim. ṛṇakartā ca yo vipro yaś ca vāṇijyako dvijaḥ. prāṇivikrayavṛttiś ca śrāddhe nārhanti satkṛtim. cīrṇavratā guṇair yuktā nityaṃ svādhyāyatatparāḥ. sāvitrījñāḥ kriyāvantas te śrāddhe satkṛtikṣamāḥ. śrāddhasya brāhmaṇaḥ kālaḥ prāpto dadhi ghṛtaṃ tadā. darbhāḥ sumanasaḥ kṣetraṃ tatkāle śrāddhado bhavet. cāritraniyatā rājan kṛśā ye kṛśavṛttayaḥ. arthinaś copagacchanti tebhyo dattaṃ mahat phalam. tapasvinaś ca ye viprās tathā bhaikṣacarāś ca ye. arthinaḥ ke cid icchanti teṣāṃ dattaṃ mahat phalam. evaṃ dharmavidāṃ śreṣṭha jñātvā sarvātmanā tadā. śrotriyāya daridrāya prayacchānupakāriṇe. dānaṃ yat te priyaṃ kiṃ cic chrotriyāṇāṃ ca yat priyam. tat prayacchasva dharmajña yad icchasi tad akṣayam. nirayaṃ ye ca gacchanti tac chṛṇuṣva yudhiṣṭhira. gurvarthaṃ vā bhayārthaṃ vā no ced anyatra pāṇḍava. vadanti ye 'nṛtaṃ viprās te vai nirayagāminaḥ. paradārābhihartāraḥ paradārābhimarśakāḥ. paradāraprayoktāras te vai nirayagāminaḥ. sūcakāḥ saṃdhibhettāraḥ paradravyopajīvinaḥ. akṛtajñāś ca mitrāṇāṃ te vai nirayagāminaḥ. varṇāśramāṇāṃ ye bāhyāḥ pāṣaṇḍasthāś ca pāṇḍava. upāsate ca tān ye tu te sarve narakālayāḥ. vedavikrayiṇaś caiva vedānāṃ caiva dūṣakāḥ. vedānāṃ lekhakāś caiva te vai nirayagāminaḥ. rasavikrayiṇo rājan viṣavikrayiṇaś ca ye. kṣīravikrayiṇaś cāpi te vai nirayagāminaḥ. caṇḍālebhyas tu ye kṣīraṃ prayacchanti narādhamāḥ. arthārtham atha vā snehāt te vai nirayagāminaḥ. paśūnāṃ damakāś caiva tathā nāsānuvedhakāḥ. puṃstvasya hiṃsakāś caiva te vai nirayagāminaḥ. adātāraḥ samarthā ye dravyāṇāṃ lobhakāraṇāt. dīnānāthān na paśyanti te vai nirayagāminaḥ. kṣāntān dāntān kṛśān prājñān dīrghakālaṃ sadoṣitān. tyajanti kṛtakṛtyā ye te vai nirayagāminaḥ. bālānām atha vṛddhānāṃ śrāntānāṃ cāpi ye narāḥ. adattvāśnanti ye mṛṣṭaṃ te vai nirayagāminaḥ. ete pūrvarṣibhiḥ proktā narā nirayagāminaḥ. ye svargaṃ samanuprāptās tāñ śṛṇuṣva yudhiṣṭhira. dānena tapasā caiva satyena ca damena ca. ye dharmam anuvartante te narāḥ svargagāminaḥ. śuśrūṣayāpy upādhyāyāc chrutam ādāya pāṇḍava. ye pratigrahaniḥsnehās te narāḥ svargagāminaḥ. madhumāṃsāsavebhyas tu nivṛttā vṛttavat tu ye. paradāranivṛttāś ca te narāḥ svargagāminaḥ. mātaraṃ pitaraṃ caiva śuśrūṣanti ca ye narāḥ. bhrātṝṇām api sasnehās te narāḥ svargagāminaḥ. ye tu bhojanakāle tu niyatāś cātithipriyāḥ. dvārarodhaṃ na kurvanti te narāḥ svargagāminaḥ. vaivāhikaṃ tu kanyānāṃ daridrāṇāṃ ca ye narāḥ. kārayanti ca kurvanti te narāḥ svargagāminaḥ. rasānām atha bījānām oṣadhīnāṃ tathaiva ca. dātāraḥ śraddhayopetās te narāḥ svargagāminaḥ. kṣemākṣemaṃ ca mārgeṣu samāni viṣamāṇi ca. arthināṃ ye ca vakṣyanti te narāḥ svargagāminaḥ. parvadvaye caturdaśyām aṣṭamyāṃ saṃdhyayor dvayoḥ. ārdrāyāṃ janmanakṣatre viṣuve śravaṇe tathā. ye grāmyadharmaviratās te narāḥ svargagāminaḥ. havyakavyavidhānaṃ ca narakasvargagāminau. yudhiṣṭhira uvāca. dharmādharmau ca kathitau bhūyaḥ kiṃ śrotum icchasi. idaṃ me tattvato deva vaktum arhasy aśeṣataḥ. hiṃsām akṛtvā yo martyo brahmahatyām avāpnuyāt. bhagavān uvāca. brāhmaṇaṃ svayam āhūya bhikṣārthaṃ kṛśavṛttinam. brūyān nāstīti yaḥ paścāt tam āhur brahmaghātakam. madhyasthasyeha viprasya yo 'nūcānasya bhārata. vṛttiṃ harati durbuddhis tam āhur brahmaghātakam. gokulasya tṛṣārtasya jalānte vasudhādhipa. utpādayati yo vighnaṃ tam āhur brahmaghātakam. yaḥ pravṛttāṃ śrutiṃ satyāṃ śāstraṃ vā munibhiḥ kṛtam. dūṣayaty anabhijño yas taṃ vidyād brahmaghātakam. āśrame vā vane vāpi grāme vā nagare 'pi vā. agniṃ yaḥ prakṣipet kruddhas tam āhur brahmaghātakam. cakṣuṣā vāpi hīnasya paṅgor vāpi jaḍasya ca. hared vai yas tu sarvasvaṃ taṃ vidyād brahmaghātakam. krodhād vā yadi vā dveṣād ākruṣṭas tarjito 'pi vā. ṛtau striyaṃ vā nopeyāt tam āhur brahmaghātakam. yāvat sāro bhaved dhīras tannāśe yasya duḥsthitiḥ. yudhiṣṭhira uvāca. tat sarvasvaṃ hared yo vai tam āhur brahmaghātakam. sarveṣām api dānānāṃ yat tu dānaṃ viśiṣyate. bhagavān uvāca. abhojyānnāś ca ye viprās tān bravīhi surottama. annam eva praśaṃsanti devā brahmapuraḥsarāḥ. annena sadṛśaṃ dānaṃ na bhūtaṃ na bhaviṣyati. annam ūrjaskaraṃ loke annāt prāṇāḥ pratiṣṭhitāḥ. abhojyānnān imān rājan vakṣyamāṇān nibodha me. dīkṣitasya kadaryasya baddhasya nikṛtasya ca. abhiśastasya ṣaṇḍasya pākabhedakarasya ca. cikitsakasya sarvasya tathā cocchiṣṭabhojinaḥ. ugrānnaṃ sūtakānnaṃ ca śūdroccheṣaṇam eva ca. dviṣadannaṃ na bhoktavyaṃ patitānnaṃ ca yac chrutam. tathā ca piśunasyānnaṃ yajñavikrayiṇas tathā. śailūṣatantuvāyānnaṃ kṛtaghnasyānnam eva ca. ambaṣṭhasya niṣādasya raṅgāvatarakasya ca. suvarṇakartur vaiṇasya śastravikrayiṇas tathā. sūtānāṃ śauṇḍikānāṃ ca vaidyasya rajakasya ca. strījitasya nṛśaṃsasya tathā māhiṣikasya ca. anirdaśānāṃ pretānāṃ gaṇikānāṃ tathaiva ca. vandino dyūtakartuś ca tathā dyūtavidām api. parivittasya yac cānnaṃ parivettus tathaiva ca. yaś cāgradidhiṣur vipro didhiṣūpapatis tathā. tayor apy ubhayor annaṃ rājñaś cāpi vivarjayet. rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam. āyuḥ suvarṇakārānnaṃ yaśaś carmāvakṛntinaḥ. gaṇānnaṃ gaṇikānnaṃ ca lokebhyaḥ parikṛntati. āyuś cikitsakasyānnaṃ śuklaṃ tu vṛṣalīpateḥ. viṣṭhā vārdhuṣikasyānnaṃ tasmāt tat parivarjayet. teṣāṃ tvagasthiromāṇi bhuṅkte yo 'nnaṃ tu bhakṣayet. amātyānnam athaiteṣāṃ bhuktvā tu triyahaṃ kṣipet. matyā bhuktvā sakṛd vāpi prājāpatyaṃ cared dvijaḥ. dānānāṃ ca phalaṃ yad vai śṛṇu pāṇḍava tattvataḥ. jaladas tṛptim āpnoti sukham akṣayam annadaḥ. tiladas tu prajām iṣṭāṃ dīpadaś cakṣur uttamam. bhūmido bhūmim āpnoti dīrgham āyur hiraṇyadaḥ. gṛhado 'gryāṇi veśmāni rūpyado rūpam uttamam. vāsodaś candrasālokyam aśvisālokyam aśvadaḥ. anaḍuddaḥ śriyaṃ juṣṭāṃ godaś ca bradhnaviṣṭapam. yānaśayyāprado bhāryām aiśvaryam abhayapradaḥ. dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasāmyatām. sarveṣām eva dānānāṃ brahmadānaṃ viśiṣyate. hiraṇyabhūgavāśvājavastraśayyāsanādiṣu. yo 'rcitaṃ pratigṛhṇāti dadāty arcitam eva ca. tāv ubhau gacchataḥ svargaṃ narakaṃ ca viparyaye. anṛtaṃ na vaded iṣṭvā tapas taptvā na vismayet. nārto 'py apavaded viprān na dattvā parikīrtayet. yajño 'nṛtena kṣarati tapaḥ kṣarati vismayāt. āyurviprāpavādena dānaṃ tu parikīrtanāt. ekaḥ prajāyate jantur eka eva pramīyate. eko 'nubhuṅkte sukṛtam ekaś cāpnoti duṣkṛtam. mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ kṣitau. vimukhā bāndhavā yānti dharmas tam anuvartate. anāgatāni kāryāṇi kartuṃ gaṇayate manaḥ. śarīrakaṃ samuddiśya smayate nūnam antakaḥ. tasmād dharmasahāyo 'stu dharmaṃ saṃcinuyāt sadā. dharmeṇa hi sahāyena tamas tarati dustaram. yeṣāṃ taṭākāni bahūdakāni. sabhāś ca kūpāś ca pratiśrayāś ca. annapradānaṃ madhurā ca vāṇī. yudhiṣṭhira uvāca. yamasya te nirviṣayā bhavanti. anekāntaṃ bahudvāraṃ dharmam āhur manīṣiṇaḥ. bhagavān uvāca. kiṃlakṣaṇo 'sau bhavati tan me brūhi janārdana. śṛṇu rājan samāsena dharmaśaucavidhikramam. ahiṃsā satyam asteyam ānṛśaṃsyaṃ damaḥ śamaḥ. ārjavaṃ caiva rājendra niścitaṃ dharmalakṣaṇam. brahmacaryaṃ tapaḥ kṣāntir madhumāṃsasya varjanam. maryādāyāṃ sthitiś caiva śamaḥ śaucasya lakṣaṇam. bālye vidyāṃ niṣeveta yauvane dārasaṃgraham. vārdhakye maunam ātiṣṭhet sarvadā dharmam ācaret. brāhmaṇān nāvamanyeta gurūn parivaden na ca. yatīnām anukūlaḥ syād eṣa dharmaḥ sanātanaḥ. yatir gurur dvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ. patir eva guruḥ strīṇāṃ sarveṣāṃ pārthivo guruḥ. yad gṛhasthārjitaṃ pāpaṃ jñānato 'jñānato 'pi vā. nirdahiṣyati tat sarvam ekarātroṣito yatiḥ. durvṛttā vā suvṛttā vā jñānino 'jñānino 'pi vā. gṛhasthair yatayaḥ pūjyāḥ paratra hitakāṅkṣibhiḥ. ekadaṇḍī tridaṇḍī vā śikhaṇḍī muṇḍito 'pi vā. kāṣāyadaṇḍadhāro 'pi yatiḥ pūjyo yudhiṣṭhira. apūjito gṛhasthair vā tathā cāpy avamānitaḥ. yatir vāpy atithir vāpi narake pātayiṣyataḥ. tasmāt tu yatnataḥ pūjyā madbhaktā matparāyaṇāḥ. mayi saṃnyastakarmāṇaḥ paratra hitakāṅkṣibhiḥ. praharen na dvijān prājño gāṃ na hanyāt kadā cana. bhrūṇahatyāsamaṃ caitad ubhayaṃ yo niṣevate. nāgniṃ mukhenopadhamen na ca pādau pratāpayet. nādhaḥ kuryāt kadā cit tu na pṛṣṭhaṃ paritāpayet. nāntarāgamanaṃ kuryān na cāmedhyaṃ vinikṣipet. ucchiṣṭo na spṛśed agnim āśaucastho na jātu cit. śvacaṇḍālādibhiḥ spṛṣṭo nāṅgam agnau pratāpayet. sarvadevamayo vahnis tasmāc chuddhaḥ sadā spṛśet. prāptamūtrapurīṣas tu na spṛśed vahnim ātmavān. yāvat tu dhārayed vegaṃ tāvad aprayato bhavet. pacanāgniṃ na gṛhṇīyāt paraveśmani jātu cit. tena pakvena cānnena yat karma kurute śubham. tac chubhasya phalasyārdham agnidasya bhaven nṛpa. tasmāc chubhataraṃ karma prakuryād avināśitam. pramādād yadi vājñānāt tasya nāśo bhaviṣyati. yudhiṣṭhira uvāca. gṛhṇīyāt tu mathitvā vā śrotriyāgārato 'pi vā. kīdṛśāḥ sādhavo viprāḥ kebhyo dattaṃ mahat phalam. bhagavān uvāca. kīdṛśebhyo hi dātavyaṃ tan me brūhi janārdana. akrodhanāḥ satyaparā dharmanityā jitendriyāḥ. tādṛśāḥ sādhavo viprās tebhyo dattaṃ mahat phalam. amāninaḥ sarvasahā dṛṣṭārthā vijitendriyāḥ. sarvabhūtahitā maitrās tebhyo dattaṃ mahat phalam. alubdhāḥ śucayo vaidyā hrīmantaḥ satyavādinaḥ. svadharmaniratā ye tu tebhyo dattaṃ mahat phalam. sāṅgāṃś ca caturo vedān yo 'dhīyīta dine dine. śūdrānnaṃ yasya dehe na tatpātram ṛṣayo viduḥ. prajñāśrutābhyāṃ vṛttena śīlena ca samanvitaḥ. tārayet tat kulaṃ sarvam eko 'pīha yudhiṣṭhira. gām aśvam annaṃ vittaṃ vā tadvidhe pratipādayet. niśamya ca guṇopetaṃ brāhmaṇaṃ sādhusaṃmatam. yudhiṣṭhira uvāca. dūrād āhṛtya satkṛtya taṃ prayatnena pūjayet. dharmādharmavidhir deva mama bhīṣmeṇa bhāṣitaḥ. bhīṣmavākyāt sārabhūtaṃ vada dharmaṃ sureśvara. bhagavān uvāca. annena dhāryate sarvaṃ jagad etac carācaram. annāt prabhavati prāṇaḥ pratyakṣaṃ nāsti saṃśayaḥ. kalatraṃ pīḍayitvāpi deśe kāle ca śaktitaḥ. dātavyaṃ bhikṣave cānnam ātmano bhūtim icchatā. vipram adhvapariśrāntaṃ bālaṃ vṛddham athāpi vā. arcayed guruvat prīto gṛhastho gṛham āgatam. krodham utpatitaṃ hitvā suśīlo vītamatsaraḥ. arcayed atithiṃ prītaḥ paratra hitabhūtaye. atithiṃ nāvamanyeta nānṛtāṃ giram īrayet. na pṛcched gotracaraṇaṃ nādhītaṃ vā kadā cana. caṇḍālo vā śvapāko vā kāle yaḥ kaś cid āgataḥ. annena pūjanīyaḥ sa paratra hitam icchatā. pidhāya tu gṛhadvāraṃ bhuṅkte hy ekaḥ prahṛṣṭavat. svargadvārapidhānaṃ vai kṛtaṃ tena yudhiṣṭhira. pitṝn devān ṛṣīn viprān atithīṃś ca nirāśrayān. yo naraḥ prīṇayaty annais tasya puṇyaphalaṃ mahat. kṛtvāpi pāpaṃ bahuśo yo dadyād annam arthine. brāhmaṇāya viśeṣeṇa sarvapāpaiḥ pramucyate. annadaḥ prāṇado loke prāṇadaḥ sarvado bhavet. tasmād annaṃ viśeṣeṇa dātavyaṃ bhūtim icchatā. annaṃ hy amṛtam ity āhur annaṃ prajananaṃ smṛtam. annapraṇāśe sīdanti śarīre pañca dhātavaḥ. balaṃ balavato naśyed annahīnasya dehinaḥ. tasmād annaṃ pradātavyaṃ śraddhayāśraddhayāpi vā. ādatte hi rasaṃ sarvam ādityaḥ svagabhastibhiḥ. vāyus tasmāt samādāya rasaṃ megheṣu dhārayet. tat tu meghagataṃ bhūmau śakro varṣati tādṛśam. tena digdhā bhaved devī mahī prītā ca pāṇḍava. tasyāṃ sasyāni rohanti yair jīvanty akhilāḥ prajāḥ. māṃsamedosthimajjānāṃ saṃbhavas tebhya eva hi. evaṃ sūryaś ca pavano meghaḥ śakras tathaiva ca. eka eva smṛto rāśir yato bhūtāni jajñire. bhavanāni ca divyāni divi teṣāṃ mahātmanām. nānāsaṃsthānarūpāṇi nānābhūtayutāni ca. candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca. taruṇādityavarṇāni sthāvarāṇi carāṇi ca. anekaśatasaṃkhyāni sāntarjalavanāni ca. tatra puṣpaphalopetāḥ kāmadāḥ surapādapāḥ. vāpyo vīthyaḥ sabhāḥ kūpā dīrghikāś ca sahasraśaḥ. ghoṣavanti ca yānāni yuktāny atha sahasraśaḥ. bhakṣyabhojyamayāḥ śailā vāsāṃsy ābharaṇāni ca. kṣīrasravantyaḥ saritas tathā caivānnaparvatāḥ. prāsādāḥ pāṇḍarāḥ śubhrāḥ śayyāś ca kanakojjvalāḥ. yudhiṣṭhira uvāca. annadās tatra tiṣṭhanti tasmād annaprado bhavet. annadānaphalaṃ śrutvā prīto 'smi madhusūdana. bhagavān uvāca. bhojanasya vidhiṃ vaktuṃ devadeva tvam arhasi. bhojanasya dvijātīnāṃ vidhānaṃ śṛṇu pāṇḍava. snātaḥ śuciḥ śucau deśe nirjane hutapāvakaḥ. maṇḍalaṃ kārayitvā tu caturaśraṃ dvijottamaḥ. kṣatriyaś cet tato vṛttaṃ vaiśyo 'rdhendusamākṛtim. ārdrapādas tu bhuñjīyāt prāṅmukhaś cāsane śucau. pādābhyāṃ dharaṇīṃ spṛṣṭvā pādenaikena vā punaḥ. naikavāsās tu bhuñjīyān na cāntardhāya vā dvijaḥ. na bhinnapātre bhuñjīta parṇapṛṣṭhe tathaiva ca. annaṃ pūrvaṃ namaskuryāt prahṛṣṭenāntarātmanā. nānyad ālokayed annān na jugupseta tatparaḥ. jugupsitaṃ ca yac cānnaṃ rākṣasā eva bhuñjate. pāṇinā jalam uddhṛtya kuryād annaṃ pradakṣiṇam. apeyaṃ tad vijānīyāt pītvā cāndrāyaṇaṃ caret. pariveṣajalād anyat peyam etat tu mantravat. pañca prāṇāhutīḥ kuryāt sama[]ṃ tu pṛthak pṛthak. yathā rasaṃ na jānāti jihvā prāṇāhutau nṛpa. tathā samāhitaḥ kuryāt prāṇāhutim atandritaḥ. viditvānnam athānnādaṃ pañca prāṇāṃś ca pāṇḍava. yaḥ kuryād āhutīḥ pañca teneṣṭāḥ pañca vāyavaḥ. ato 'nyathā tu bhuñjāno brāhmaṇo jñānadurbalaḥ. tenānnenāsurān pretān rākṣasāṃs tarpayiṣyati. vaktrapramāṇān piṇḍāṃś ca grased ekaikaśaḥ punaḥ. vaktrādhikaṃ tu yat piṇḍam ātmocchiṣṭaṃ tad ucyate. piṇḍāvaśiṣṭam anyac ca vaktraniḥsṛtam eva ca. abhojyaṃ tad vijānīyād bhuktvā cāndrāyaṇaṃ caret. svam ucchiṣṭaṃ tu yo bhuṅkte yo bhuṅte muktabhojanam. cāndrāyaṇaṃ caret kṛcchraṃ prājāpatyam athāpi vā. pibataḥ patite toye bhojane mukhaniḥsṛte. abhojyaṃ tad vijānīyād bhuktvā cāndrāyaṇaṃ caret. pītaśeṣaṃ tu tan nāma na peyaṃ pāṇḍunandana. pibed yadi hi tan mohād dvijaś cāndrāyaṇaṃ caret. pānīyāni pibed yena tat pātraṃ dvijasattamaḥ. anucchiṣṭaṃ bhavet tāvad yāvad bhūmau na nikṣipet. maunī vāpy atha vāmaunī prahṛṣṭaḥ saṃyatendriyaḥ. bhuñjīta vidhivad vipro na cocchiṣṭaṃ pradāpayet. sadā cātyāśanaṃ nādyān nātihīnaṃ ca karhi cit. yathānnena vyathā na syāt tathā bhuñjīta nityaśaḥ. udakyām api caṇḍālaṃ śvānaṃ vā rurum eva vā. bhuñjāno yadi vā paśyet tad annaṃ ca parityajet. bhuñjāno hy atyajan mohād dvijaś cāndrāyaṇaṃ caret. keśakīṭāvapannaṃ ca mukhamārutavījitam. abhojyaṃ tad vijānīyād bhuktvā cāndrāyaṇaṃ caret. utthāya ca punaḥ spṛṣṭaṃ pādaspṛṣṭaṃ ca laṅghitam. annaṃ tad rākṣasaṃ vidyāt tasmāt tat parivarjayet. rākṣasocchiṣṭabhug vipraḥ sapta pūrvān parān api. niraye raurave ghore svapitṝn pātayiṣyati. tasminn ācamanaṃ kuryād yasmin pātre sa bhuktavān. yady uttiṣṭhaty anācānto bhuktavān āsanāt tataḥ. yudhiṣṭhira uvāca. snānaṃ sadyaḥ prakurvīta so 'nyathāprayato bhavet. tṛṇamuṣṭividhānaṃ ca tṛṇamāhātmyam eva ca. ikṣoḥ somasamudbhūtiṃ vaktum arhasi mānada. bhagavān uvāca. pitaro vṛṣabhā jñeyā gāvo lokasya mātaraḥ. tāsāṃ tu pūjayā rājan pūjitāḥ pitṛmātaraḥ. sabhā prapā gṛhaṃ cāpi devatāyatanāni ca. śudhyanti śakṛdā yāsāṃ kiṃ pūtam adhikaṃ tataḥ. grāsamuṣṭiṃ paragave dadyāt saṃvatsaraṃ tu yaḥ. akṛtvā svayam āhāraṃ vrataṃ tat sārvakālikam. gāvo me mātaraḥ sarvāḥ pitaraś caiva govṛṣāḥ. grāsamuṣṭiṃ mayā dattāṃ pratigṛhṇantu mātaraḥ. ity uktvānena mantreṇa sāvitryā vā samāhitaḥ. abhimantrya grāsamuṣṭiṃ tasya puṇyaphalaṃ śṛṇu. yat kṛtaṃ duṣkṛtaṃ tena jñānato 'jñānato 'pi vā. tasya naśyati tat sarvaṃ duḥsvapnaṃ ca vinaśyati. tilāḥ pavitrāḥ pāpaghnā nārāyaṇasamudbhavāḥ. tilāñ śrāddhe praśaṃsanti dānam etad anuttamam. tilān dadyāt tilān bhakṣyāt tilān prātar upaspṛśet. tilaṃ tilam iti brūyāt tilāḥ pāpaharā hi te. krītāḥ pratigṛhītā vā na vikreyā dvijātibhiḥ. bhojanābhyañjanād dānād yo 'nyat tu kurute tilaiḥ. kṛmir bhūtvā śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati. tilān na pīḍayed vipro yantracakre svayaṃ nṛpa. pīḍayan hi dvijo mohān narakaṃ yāti rauravam. ikṣuvaṃśodbhavaḥ somaḥ somavaṃśodbhavā dvijāḥ. ikṣūn na pīḍayet tasmād ikṣughātyātmaghātakaḥ. ikṣudaṇḍasahasrāṇām ekaikena yudhiṣṭhira. brahmahatyām avāpnoti brāhmaṇo yantrapīḍakaḥ. yudhiṣṭhira uvāca. tasmān na pīḍayed ikṣūn yantracakre dvijottamaḥ. samuccayaṃ tu dharmāṇāṃ bhojyābhojyaṃ tathaiva ca. bhagavān uvāca. śrutaṃ mayā tvatprasādād āpaddharmaṃ bravīhi me. durbhikṣe rāṣṭrasaṃbādhe tvāśauce mṛtasūtake. dharmakāle 'dhvani tathā niyamo naiva lupyate. dūrādhvagamanāt khinno dvijālābhe 'tha śūdrataḥ. akṛtānnaṃ ca yat kiṃ cid gṛhṇīyād ātmavṛttaye. āturo duḥkhito vāpi bhayārto vā bubhukṣitaḥ. bhuñjann avidhinā vipraḥ prāyaścittīyate na ca. nimantritas tu yo vipro vidhivad dhavyakavyayoḥ. māṃsāny api ca bhuñjānaḥ prāyaścittīyate na ca. aṣṭau tāny avrataghnāni āpo mūlaṃ ghṛtaṃ payaḥ. havir brāhmaṇakāmāya guror vacanam auṣadham. aśakto vidhivat kartuṃ prāyaścittāni yo naraḥ. viduṣāṃ vacanenāpi dānenāpi viśudhyati. anṛtāv ṛtukāle vā divā rātrau tathāpi vā. yudhiṣṭhira uvāca. proṣitas tu striyaṃ gacchet prāyaścittīyate na ca. praśasyāḥ kīdṛśā viprā nindyāś cāpi sureśvara. bhagavān uvāca. aṣṭakāyāś ca kaḥ kālas tan me kathaya suvrata. satyasandhaṃ dvijaṃ dṛṣṭvā sthānād vepati bhāskaraḥ. eṣa me maṇḍalaṃ bhittvā yāti brahma sanātanam. kulīnaḥ karmakṛd vaidyas tathā cāpy ānṛśaṃsyavān. hrīmān ṛjuḥ satyavādī pātraṃ sarva ime dvijāḥ. ete cāgrāsanasthās tu bhuñjānāḥ prathamaṃ dvijāḥ. tasyāṃ paṅktyāṃ ca ye cānye tān punanty eva darśanāt. madbhaktā ye dvijaśreṣṭhā madgatā matparāyaṇāḥ. tān paṅktipāvanān viddhi pūjyāṃś caiva viśeṣataḥ. nindyāñ śṛṇu dvijān rājann api vā vedapāragān. brāhmaṇacchadmanā loke carataḥ pāpakāriṇaḥ. anagnir anadhīyānaḥ pratigraharucis tu yaḥ. yatra kutra tu bhuñjānas taṃ vidyāt paṅktidūṣakam. mṛtasūtakapuṣṭāṅgo yaś ca śūdrānnabhug dvijaḥ. ahaṃ cāpi na jānāmi gatiṃ tasya narādhipa. śūdrānnarasapuṣṭāṅgo hy adhīyāno 'pi nityaśaḥ. japato juhvato vāpi gatir ūrdhvā na vidyate. āhitāgniś ca yo vipraḥ śūdrānnān na nivartate. pañca tasya praṇaśyanti ātmā brahma trayo 'gnayaḥ. śūdrapreṣaṇakartuś ca brāhmaṇasya viśeṣataḥ. bhūmāv annaṃ pradātavyaṃ śvasṛgālasamo hi saḥ. pretabhūtaṃ tu yaḥ śūdraṃ brāhmaṇo jñānadurbalaḥ. anugacchen nīyamānaṃ trirātram aśucir bhavet. trirātre tu tataḥ pūrṇe nadīṃ gatvā samudragām. prāṇāyāmaśataṃ kṛtvā ghṛtaṃ prāśya viśudhyati. anāthaṃ brāhmaṇaṃ pretaṃ ye vahanti dvijottamāḥ. pade pade 'śvamedhasya phalaṃ te prāpnuvanti hi. na teṣām aśubhaṃ kiṃ cit pāpaṃ vāśubhakarmaṇām. jalāvagāhanād eva sadyaḥ śaucaṃ vidhīyate. śūdraveśmani vipreṇa kṣīraṃ vā yadi vā dadhi. nirvṛtena na bhoktavyaṃ viddhi śūdrānnam eva tat. viprāṇāṃ bhoktukāmānām atyantaṃ cānnakāṅkṣayā. yo vighnaṃ kurute martyas tato nānyo 'sti pāpakṛt. sarve ca vedāḥ saha ṣaḍbhir aṅgaiḥ. sāṃkhyaṃ purāṇaṃ ca kule ca janma. naitāni sarvāṇi gatir bhavanti. śīlavyapetasya nṛpa dvijasya. grahoparāge viṣuve 'yanānte. pitrye maghāsu svasute ca jāte. gayeṣu piṇḍeṣu ca pāṇḍuputra. dattaṃ bhaven niṣkasahasratulyam. vaiśākhamāsasya ca yā tṛtīyā. navamy asau kārtikaśuklapakṣe. nabhasyamāsasya ca kṛṣṇapakṣe. trayodaśī pañcadaśī ca māghe. upaplave candramaso raveś ca. śrāddhasya kālo hy ayanadvaye ca. yas tv ekapaṅktyāṃ viṣayaṃ dadāti. snehād bhayād vā yadi vārthahetoḥ. krūraṃ durācāram anātmavantaṃ. brahmaghnam enaṃ munayo vadanti. ihaivaikasya nāmutra amutraikasya no iha. iha cāmutra caikasya nāmutraikasya no iha. dhanāni yeṣāṃ vipulāni santi. nityaṃ ramante paralokamūḍhāḥ. teṣām ayaṃ śatruvaraghnaloko. nānyaḥ sadā dehasukhe ratānām. ye yogayuktās tapasi prasaktāḥ. svādhyāyaśīlā jarayanti deham. jitendriyā bhūtahite niviṣṭās. teṣām asau nāyam arighnalokaḥ. ye dharmam eva prathamaṃ caranti. dharmeṇa labdhvāpi dhanāni kāle. dārān avāpya kratubhir jayante. teṣām ayaṃ caiva paraś ca lokaḥ. ye naiva vidyāṃ na tapo na dānaṃ. na cāpi mūḍhāḥ prajane yatante. na cāpi gacchanti sukhāni bhogāṃs. teṣām ayaṃ caiva paraś ca nāsti. yudhiṣṭhira uvāca. nārāyaṇa purāṇeśa yogāvāsa namo 'stu te. śrotum icchāmi kārtsnyena dharmasārasamuccayam. bhagavān uvāca. dharmasāraṃ mahārāja manunā proktam āditaḥ. pravakṣyāmi manuproktaṃ paurāṇaṃ śrutisaṃhitam. agnicit kapilā satrī rājā bhikṣur mahodadhiḥ. dṛṣṭamātrāḥ punanty ete tasmāt paśyeta tān sadā. gaur ekasyaiva dātavyā na bahūnāṃ yudhiṣṭhira. sā gaur vikrayam āpannā dahaty āsaptamaṃ kulam. bahūnāṃ na pradātavyā gaur vastraṃ śayanaṃ striyaḥ. tādṛgbhūtaṃ tu tad dānaṃ dātāraṃ nopatiṣṭhati. ākramya brāhmaṇair bhuktam anāryāṇāṃ tu veśmani. gobhiś ca puṇyaṃ tat teṣāṃ rājasūyād viśiṣyate. mā dadātv iti yo brūyād gavyagnau brāhmaṇeṣu ca. tiryagyoniśataṃ gatvā caṇḍāleṣūpajāyate. brāhmaṇasvaṃ tu devasvaṃ daridrasya ca yad dhanam. guroś cāpi hṛtaṃ rājan svargastham api pātayet. dharmaṃ jijñāsamānānāṃ pramāṇaṃ paramaṃ śrutiḥ. dvitīyaṃ dharmaśāstrāṇi tṛtīyaṃ lokasaṃgrahaḥ. ā samudrāc ca yat pūrvād ā samudrāc ca paścimāt. himavadvindhyayor madhyam āryāvartaṃ pracakṣate. sarasvatīdṛṣadvatyor devanadyor yad antaram. tad devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate. yasmin deśe ya ācāraḥ pāraṃparyakramāgataḥ. varṇānāṃ sāntarālānāṃ sa sadācāra ucyate. kurukṣetraṃ ca matsyāś ca pāñcālāḥ śūrasenayaḥ. ete brahmarṣideśās tu brahmāvartād anantarāḥ. etaddeśaprasūtasya sakāśād agrajanmanaḥ. svaṃ cāritraṃ tu gṛhṇīyuḥ pṛthivyāṃ sarvamānavāḥ. himavadvindhyayor madhyaṃ yat prāg viśasanād api. pratyag eva prayāgāt tu madhyadeśaḥ prakīrtitaḥ. kṛṣṇasāras tu carati mṛgo yatra svabhāvataḥ. sa jñeyo yajñiyo deśo mlecchadeśas tataḥ param. etān vijñāya deśāṃs tu saṃśrayeyur dvijātayaḥ. śūdras tu yasmin kasmin vā nivased vṛttikarśitaḥ. ācāraprabhavo dharmo hy ahiṃsā satyam eva ca. dānaṃ caiva yathāśakti niyamāś ca yamaiḥ saha. vaidikaiḥ karmabhiḥ puṇyair niṣekādir dvijanmanām. kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca. garbhahomair jātakarmanāmacaulopanāyanaiḥ. svādhyāyais tadvrataiś caiva vivāhasnātakavrataiḥ. mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ. dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā. vidyā tasmin na vaptavyā śubhaṃ bījam ivoṣare. laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā. yasmāj jñānam idaṃ prāptaṃ taṃ pūrvam abhivādayet. savyena savyaṃ saṃgṛhya dakṣiṇena tu dakṣiṇam. na kuryād ekahastena guroḥ pādābhivādanam. niṣekādīni karmāṇi yaḥ karoti yathāvidhi. adhyāpayati caivainaṃ sa vipro gurur ucyate. kṛtvopanayanaṃ vedān yo 'dhyāpayati nityaśaḥ. sakalpān sarahasyāṃś ca sa copādhyāya ucyate. sāṅgāṃś ca vedān adhyāpya śikṣayitvā vratāni ca. vivṛṇoti ca mantrārthān ācāryaḥ so 'bhidhīyate. upādhyāyād daśācārya ācāryāṇāṃ śataṃ pitā. pituḥ śataguṇaṃ mātā gauraveṇātiricyate. tasmāt teṣāṃ vaśe tiṣṭhet tacchuśrūṣāparo bhavet. avamānād dhi teṣāṃ tu narakaṃ syād asaṃśayaḥ. hīnāṅgān atiriktāṅgān vidyāhīnān vayodhikān. rūpadraviṇahīnāṃś ca jātihīnāṃś ca nākṣipet. śapatā yat kṛtaṃ puṇyaṃ śapyamānaṃ tu gacchati. śapyamānasya yat pāpaṃ śapantam anugacchati. nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam. dveṣaṃ ḍambhaṃ ca mānaṃ ca krodhaṃ taikṣṇyaṃ ca varjayet. yudhiṣṭhira uvāca. bhagavaṃs tava bhaktasya mama dharmajanapriya. bhagavān uvāca. dharmaṃ puṇyatamaṃ deva pṛcchataḥ kathayasva me. yad etad agnihotraṃ vai sṛṣṭaṃ varṇatrayasya tu. mantravad yad dhutaṃ samyag vidhinā cāpy upāsitam. yudhiṣṭhira uvāca. āhitāgniṃ nayaty ūrdhvaṃ sapatnīkaṃ sabāndhavam. kathaṃ tad brāhmaṇair deva hotavyaṃ kṣatriyaiḥ katham. vaiśyair vā devadeveśa kathaṃ vā suhutaṃ bhavet. kasmin kāle 'tha vā kasya ādheyo 'gniḥ surottama. āhitasya kathaṃ vāpi samyag ācaraṇaṃ bhavet. katy agnayaḥ kim ātmānaḥ sthānaṃ kiṃ kasya vā vibho. katarasmin hute sthāne kiṃ vrajed āgnihotrikaḥ. agnihotranimittaṃ ca kim utpannaṃ purānagha. katham evātha hūyante prīyante ca surāḥ katham. vidhivan mantravad bhaktyā pūjitās tv agnayaḥ katham. kāṃ gatiṃ vadatāṃ śreṣṭha nayanti hy agnihotriṇaḥ. durhutāś cāpi bhagavann avijñātās trayo 'gnayaḥ. kim āhitāgneḥ kurvanti duścīrṇā vāpi keśava. utsannāgnis tu pāpātmā kāṃ yoniṃ deva gacchati. etat sarvaṃ samāsena bhaktyā hy upagatasya me. bhagavān uvāca. vaktum arhasi sarvajña sarvāvāsa namo 'stu te. śṛṇu rājan mahāpuṇyam idaṃ dharmāmṛtaṃ param. yat tu tārayate yuktān brāhmaṇān agnihotriṇaḥ. brahmatvenāsṛjaṃ lokān aham ādau mahādyute. sṛṣṭo 'gnir mukhataḥ pūrvaṃ lokānāṃ hitakāmyayā. yasmād agre sa bhūtānāṃ sarveṣāṃ nirmito mayā. tasmād agnīty abhihitaḥ purāṇajñair manīṣiṇaḥ. yasmāt tu sarvakṛtyeṣu pūrvam asmai pradīyate. āhutir dīpyamānāya tasmād agnīti kīrtyate. yasmāc ca nayati hy agryāṃ gatiṃ viprān supūjitaḥ. tasmāc ca nayanād rājan vedeṣv agnīti kīrtyate. yasmāc ca durhutaḥ so 'yam alaṃ bhakṣayituṃ kṣaṇāt. yajamānaṃ naraśreṣṭha kravyādo 'gnis tataḥ smṛtaḥ. sarvabhūtātmako rājan devānām eṣa vai mukham. prathamaṃ manmukhāt sṛṣṭo lokārthe pacanaḥ prabhuḥ. sṛṣṭamātro jagat sarvam attum aicchat purā khalu. tataḥ praśamitaḥ so 'gnir upāsyaiva mayā purā. satatopāsanāt so 'yam aupāsana iti smṛtaḥ. āhutiḥ sarvam ākhyātaṃ tasmin vasati so 'nalaḥ. āvasathya iti khyātas tenāsau brahmavādibhiḥ. tasmin pañca mahāyajñā vartante yasya dharmataḥ. somamaṇḍalamadhyena gatis tasya dvijanmanaḥ. te ca saptarṣayaḥ siddhāḥ saṃyatendriyabuddhayaḥ. gatā hy amarasāyujyam ekāgnyarcanatatparāḥ. apare cāvasathyaṃ ca pacanāgniṃ pracakṣate. tasmin pañca mahāyajñā vaiśvadevaś ca vartate. sthālīpāka ca gārhaṃ ca sarve hy asmin pratiṣṭhitāḥ. gṛhyakarmavaho yasmāt tasmād gṛhapatis tu saḥ. aupāsanaṃ cāvasathyaṃ sabhyaṃ pacanapāvakam. āhur brahmavidaḥ ke cin matam etan mamāpi ca. agnihotraprakāraṃ tu śṛṇu rājan samāhitaḥ. trayāṇāṃ guṇanāmāni vahnīnām ucyate mayā. gṛhāṇāṃ hi patitvaṃ hi gṛhapatyam iti smṛtam. gṛhapatyaṃ tu yasyāsīt tasyāsīd gārhapatyatā. yajamānaṃ tu yasmāt tu dakṣiṇāṃ tu gatiṃ nayet. dakṣiṇāgniṃ tam āhus taṃ dakṣiṇāyatanaṃ dvijāḥ. āhutiḥ sarvam ākhyātaṃ havanaṃ havyavāhanam. sarvahavyavaho vahnir gataś cāhavanīyatām. yas tv āvasathyaṃ juhuyān mūlāgniṃ vidhivad dvijaḥ. āvasathyaṃ tu ye cāgniṃ pacanāgniṃ pracakṣate. teṣāṃ sa bhāgato vahniḥ sabhya ity abhidhīyate. āvasathyas tu yo vahniḥ prathamaḥ sa prajāpatiḥ. brahmā ca gārhapatyo 'gnis tasmād eva tu so bhavet. dakṣiṇāgnis tv ayaṃ rudraḥ krodhātmā caṇḍa eva saḥ. aham āhavanīyo 'gnir ā homād yasya vai mukhe. sabhyo 'gniḥ pañcamo yas tu skanda eva narādhipa. pṛthivī gārhapatyo 'gnir antarikṣaṃ ca dakṣiṇaḥ. svarga āhavanīyo 'gnir evam agnitrayaṃ smṛtam. vṛtto hi gārhapatyo 'gnir yasmād vṛttā ca medinī. ardhacandrākṛtiḥ khaṃ vai dakṣiṇāgnis tathā bhavet. caturaśraṃ tataḥ svargaṃ nirmalaṃ yan nirāmayam. tasmād āhavanīyo 'gniś caturaśro bhaven nṛpa. juhuyād gārhapatyaṃ yo bhuvaṃ jayati sa dvijaḥ. juhoti dakṣiṇāgniṃ yaḥ sa jayaty antarikṣakam. pṛthivīm antarikṣaṃ ca divaṃ carṣigaṇaiḥ saha. jayaty āhavanīyaṃ yo juhuyād bhaktimān dvijaḥ. ābhimukhyena homas tu yasya yajñeṣu vartate. tenāpy āhavanīyatvaṃ gato vahnir mahādyutiḥ. ā homād yo 'gnihotreṣu yajñe vā yatra sarvaśaḥ. yasmād asmin pravartante tato hy āhavanīyatā. yas tv āvasathyaṃ juhuyān mūlāgniṃ vidhivad dvijaḥ. sa tu saptarṣilokeṣu sapatnīkaḥ pramodate. yaś cāpy upāsate sabhyaṃ vidhivat prayatātmavān. jayet sa vāṅmayaṃ sarvaṃ tathā tv ṛṣisabhām api. agnīnām atha vāgnes tu yasya homaḥ pradīyate. iṣṭo bhavati sarvāgner agnihotraṃ ca tad bhavet. trayāṇāṃ yajamānasya cāturhotram iti smṛtam. ho ity eva viṣādo vai viṣādo duḥkham ucyate. duḥkhaṃ tāpatrayaṃ proktaṃ tāpaṃ hi narakaṃ viduḥ. tasmād vai trāyate duḥkhād yajamānaṃ huto 'nalaḥ. tasmāt tu vidhivat proktam agnihotram iti śrutau. tad agnihotraṃ sṛṣṭaṃ vai brahmaṇā lokakartṛṇā. vedāś cāpy agnihotrārthaṃ jajñire svayam eva tu. agnihotraphalā vedā śīlavṛttaphalaṃ śrutam. ratiputraphalā dārā dānabhogaphalaṃ dhanam. trivedamantrasaṃyogād agnihotraṃ pravartate. ṛgyajuḥsāmabhiḥ puṇyaiḥ sthāpyate sūtrasaṃyutaiḥ. vasante brāhmaṇasya syād ādheyo 'gnir narādhipa. vasanto brāhmaṇaḥ prokto vedayoniḥ sa ucyate. agnyādheyaṃ tu yenātha vasante kriyate nṛpa. tasya śrīr brahmavṛddhiś ca brāhmaṇasya vivardhate. kṣatriyasyāgnir ādheyo grīṣme śreṣṭhaḥ sa vai nṛpa. yenādhānaṃ tu vai grīṣme kriyate tasya vardhate. śrīḥ prajāḥ paśavaś caiva vittaṃ tejo balaṃ yaśaḥ. śaradrātre 'tha vaiśyasya hy ādhānīyo hutāśanaḥ. śaradrātraṃ svayaṃ vaiśyo vaiśyayoniḥ sa ucyate. śarady ādhānam evaṃ vai kriyate yena pāṇḍava. tasyāpi śrīḥ prajāyuś ca paśavo 'rthaś ca vardhate. paśavaḥ sarva evaite tribhir vedair alaṃkṛtāḥ. agnihotrāt pravartante yair idaṃ dhriyate jagat. grāmyāraṇyāś ca paśavas tathā vṛkṣās tṛṇāni ca. phalāny oṣadhayaś cāpi hy agnihotrakṛte hi tāḥ. rasāḥ snehās tathā gandhā ratnāni maṇayas tathā. kāñcanāni ca lohāni hy agnihotrakṛte 'bhavan. āyurvedo dhanurvedo mīmāṃsā nyāyavistaraḥ. dharmaśāstraṃ ca tat sarvam agnihotrakṛte kṛtam. chandaḥ śikṣāś ca kalpāś ca tathā vyākaraṇaṃ nṛpa. śāstraṃ jyotir niruktaṃ cāpy agnihotrakṛte kṛtam. itihāsapurāṇaṃ ca gāthāś copaniṣat tathā. ātharvaṇāni karmāṇi cāgnihotrakṛte kṛtam. yac caitasyāṃ pṛthivyāṃ hi kiṃ cid asti carācaram. tat sarvam agnihotrasya kṛte sṛṣṭaṃ svayaṃbhuvā. agnihotrasya darśasya paurṇamāsasya cāpy atha. yūpeṣṭipaśubandhānāṃ somapānakriyāvatām. tithinakṣatrayogānāṃ muhūrtakaraṇātmanām. kālasya vedanārthaṃ tu jyotirjñānaṃ kṛtaṃ purā. ṛgyajuḥsāmamantrāṇāṃ ślokatattvārthacintanāt. pratyāpattivikalpānāṃ chando jñānaṃ prakalpitam. varṇākṣarapadārthānāṃ saṃdhiliṅgaṃ vivakṣitam. nāmadhātuvivekārthaṃ purā vyākaraṇaṃ kṛtam. yūpavedy adhvarārthaṃ tu prokṣaṇaśravaṇāya tu. yajñadaivatayogārthaṃ śikṣājñānaṃ prakalpitam. yajñapātrapavitrārthaṃ dravyasaṃbhāraṇāya ca. sarvayajñavikalpāya purākalpaṃ prakalpitam. nāmadhātuvibhaktīnāṃ tattvārthaniyamāya ca. sarvavedaniruktānāṃ niruktam ṛṣibhiḥ kṛtam. vedyarthaṃ pṛthivī sṛṣṭā saṃbhārārthaṃ tathaiva ca. idhmārtham atha yūpārthaṃ brahmā cakre vanaspatim. grāmyāraṇyāś ca paśavo jāyante yajñakāraṇāt. mantrāṇāṃ viniyogaṃ ca proṣitā śrāvaṇaṃ tathā. anūyājaprayājāṃś ca marutāṃ śaṃsinas tathā. udgātṝṃś caiva sāmnāṃ vai baliprasthānam eva ca. viṣṇukramāṇāṃ kramaṇaṃ dakṣiṇāvabhṛthaṃ tathā. trikālam arcanaṃ caiva sthāneṣūpahṛtaṃ tathā. devatāgrahaṇaṃ mokṣaṃ haviṣāṃ śravaṇaṃ tathā. nāvabudhyanti ye viprā nindanti ca paśor vadham. te yānti narakaṃ ghoraṃ rauravaṃ tamasāvṛtam. śatavarṣasahasrāṇi tatra sthitvā narādhamāḥ. krimibhir bhakṣyamāṇāś ca tiṣṭheyuḥ pūyaśoṇite. yūpās tu mantrasaṃskārair eṣāṃ vai paśavas tathā. yajamānena sahitāḥ svargaṃ yānti nareśvara. yāvat kālaṃ hi yajvā vai svargaloke mahīyate. tāvat kālaṃ pramodante paśavo hy adhvare hatāḥ. vṛkṣā yūpatvam icchanti paśutvaṃ paśavas tathā. tṛṇānīcchanti darbhatvam oṣadhyaś ca haviṣyatām. somatvaṃ ca latāḥ sarvā veditvaṃ vai vasuṃdharā. yasmāt paśutvam icchanti paśavaḥ svargalipsayā. tasmāt paśuvadhe hiṃsā nāsti yajñeṣu pāṇḍava. ahiṃsā vaidikaṃ karma brahmakarmeti tat smṛtam. vedoktaṃ ye na kurvanti hiṃsābuddhyā kratuṃ dvijāḥ. sadyaḥ śūdratvam āyānti pretya caṇḍālatām api. gāvo yajñārtham utpannā dakṣiṇārthaṃ tathaiva ca. suvarṇaṃ rajataṃ caiva pātrī kumbhārtham eva ca. darbhāḥ saṃstaraṇārthaṃ tu rakṣasāṃ rakṣaṇāya ca. yajanārthaṃ dvijāḥ sṛṣṭās tārakā divi devatāḥ. kṣatriyā rakṣaṇārthaṃ tu vaiśyā vārtānimittataḥ. śuśrūṣārthaṃ trayāṇāṃ tu śūdrāḥ sṛṣṭāḥ svayaṃbhuvā. evam etaj jagat sarvam agnihotrakṛte kṛtam. nāvabudhyanti ye caitan narās tu tamasā vṛtāḥ. te yānti narakaṃ ghoraṃ rauravaṃ nāma viśrutam. rauravād vipramuktās tu krimiyoniṃ vrajanti te. yathoktam agnihotrāṇāṃ śuśrūṣanti ca ye dvijāḥ. tair dattaṃ suhutaṃ ceṣṭaṃ dattam adhyāpitaṃ bhavet. evam iṣṭaṃ ca pūrtaṃ ca yad vipraiḥ kriyate nṛpa. tat sarvaṃ samyag āhṛtya cāditye sthāpayāmy aham. mayā sthāpitam āditye lokasya sukṛtaṃ hi tat. dhārayet tat sahasrāṃśuḥ sukṛtaṃ hy agnihotriṇām. yāvat kālaṃ tu tiṣṭhanti loke cāpy agnihotriṇaḥ. tāvat teṣāṃ hi puṇyena dīpyante raviṇāmbare. svarge svargaṃ gatānāṃ tu vīryād bhavati vīryavān. tatra te hy upayuñjanti hy agnihotrasya yat phalam. samānarūpā devānāṃ tiṣṭhanty ābhūtasaṃplavam. vṛthāgninā ca ye ke cid dahyante hy agnihotriṇaḥ. na te 'gnihotriṇāṃ lokaṃ manasāpi vrajanti vai. vīraghnās te durācārāḥ sudaridrā narādhamāḥ. vikalā vyādhitāś cāpi jāyante śūdrayoniṣu. tasmād aproṣitair nityam agnihotraṃ dvijātibhiḥ. hotavyaṃ vidhivad rājann ūrdhvam icchanti ye gatim. ātmavat tatra mantavyam agnihotraṃ yudhiṣṭhira. na tyājyaṃ kṣaṇam apy etad gṛhītavyaṃ dvijātibhiḥ. vṛddhatve 'py agnihotraṃ vai gṛhṇanti vidhivad dvijāḥ. śūdrānnād viratā dāntāḥ saṃyatendriyabuddhayaḥ. pañcayajñaparā nityaṃ krodhalobhavivarjitāḥ. dvikālam atithīṃś caiva pūjayanti ca bhaktitaḥ. te 'pi sūryodayaprakhyair vimānair vāyuvegibhiḥ. mama loke pramodante dṛṣṭvā māṃ ca yudhiṣṭhira. manvantaraṃ ca tatraikaṃ moditvā dvijasattamāḥ. iha mānuṣyake loke jāyante dvijasattamāḥ. bālāhitāgnayo ye ca śūdrānnād viratāḥ sadā. krodhalobhavinirmuktāḥ prātaḥsnānaparāyaṇāḥ. yathoktam agnihotraṃ vai juhvate vijitendriyāḥ. ātitheyāḥ sadā saumyā dvikālaṃ matparāyaṇāḥ. te yānty apunarāvṛttiṃ bhittvā cādityamaṇḍalam. mama lokaṃ sapatnīkā yānaiḥ sūryodayaprabhaiḥ. tatra bālārkasaṃkāśāḥ kāmagāḥ kāmarūpiṇaḥ. aiśvaryaguṇasaṃpannāḥ krīḍanti ca yathāsukham. ity eṣā hy āhitāgnīnāṃ vibhūtiḥ pāṇḍunandana. ye ca devaśrutiṃ ke cin nindamānā hy abuddhayaḥ. pramāṇaṃ na ca kurvanti te yānti hy akṣayaṃ tamaḥ. pramāṇam itihāsaṃ ca vedān kurvanti ye dvijāḥ. yudhiṣṭhira uvāca. te yānty amarasāyujyaṃ nityam āstikyabuddhayaḥ. cakrāyudha namas te 'stu deveśa garuḍadhvaja. cāndrāyaṇavidhiṃ puṇyam ākhyāhi bhagavan mama. bhagavān uvāca. śṛṇu pāṇḍava tattvena sarvapāpapraṇāśanam. pāpino yena śudhyanti tat te vakṣyāmi sarvaśaḥ. brāhmaṇaḥ kṣatriyo vāpi vaiśyo vā caritavrataḥ. yathāvat kartukāmo yas tasyeyaṃ prathamā kriyā. śodhayet tu śarīraṃ svaṃ pañcagavyena yantritaḥ. śarīraṃ kakṣapakṣāntaṃ tataḥ kurvīta pāvanam. śuddhavāsāḥ śucir bhūtvā mauñjīṃ badhnīta mekhalām. pālāśadaṇḍam ādāya brahmacārivrate sthitaḥ. kṛtopavāsaḥ pūrvaṃ tu śuklapratipadi dvijaḥ. nadīsaṃgamatīrtheṣu śucau deśe gṛhe 'pi vā. gomayenopalipte 'tha sthaṇḍile 'gniṃ nidhāpayet. āghārāv ājyabhāgau ca praṇavaṃ vyāhṛtīs tathā. vāruṇaiś cāpi pañcaiva hutvā sarvān yathākramam. satyāya viṣṇave ceti brahmarṣibhyo 'tha brahmaṇe. viśvebhyaś caiva devebhyaḥ prajāpataya eva ca. ṣaṭkṛtvo juhuyāt paścāt prāyaścittāhutiṃ dvijaḥ. tataḥ samāpayed agniṃ śāntiṃ kṛtvātha pauṣṭikam. praṇamyāgniṃ ca somaṃ ca bhasma dhṛtvā tathātmani. nadīṃ gatvā viviktātmā somāya varuṇāya ca. ādityāya namaskṛtvā tataḥ snāyāt samāhitaḥ. uttīryodakam ācamya tv āsīnaḥ pūrvatomukhaḥ. prāṇāyāmaṃ tataḥ kṛtvā pavitrair abhiṣecanam. ācāntas tv abhivīkṣeta cordhvabāhur divākaram. kṛtāñjalipuṭaḥ paścāt kuryāc caiva pradakṣiṇam. nārāyaṇaṃ vā rudraṃ vā brahmāṇam atha vāpi vā. vāruṇaṃ mantrasūktaṃ vā prāgbhojanam athāpi vā. vīraghnam ṛṣabhaṃ vāpi tathā cāpy aghamarṣaṇam. gāyatrīṃ mama vā devīṃ sāvitrīṃ vā japet tataḥ. tataś cāṣṭādaśaṃ vāpi sahasram atha vāparam. tato madhyāhnakāle vai pāyasaṃ yāvakaṃ hi vā. pācayitvā prayatnena prayataḥ susamāhitaḥ. pātraṃ tu susamādāya sauvarṇaṃ rājataṃ tu vā. tāmraṃ vā mṛnmayaṃ vāpi audumbaram athāpi vā. vṛkṣāṇāṃ yājñiyānāṃ tu parṇair ārdrair akutsitaiḥ. puṭakena tu guptena cared bhaikṣaṃ samāhitaḥ. brāhmaṇānāṃ gṛhāṇāṃ tu saptānāṃ nāparaṃ vrajet. godohamātraṃ tiṣṭhet tu vāgyataḥ saṃyatendriyaḥ. na hasec ca na vīkṣec ca nābhibhāṣeta vā striyam. dṛṣṭvā mūtraṃ purīṣaṃ ca caṇḍālaṃ vā rajasvalām. patitaṃ ca tathā śvānam ādityam avalokayet. yo hi pādukam āruhya sarvadā pracared dvijaḥ. taṃ dṛṣṭvā pāpakarmāṇam ādityam avalokayet. tatas tv āvasathaṃ prāpto bhikṣāṃ nikṣipya bhūtale. prakṣālya pādāv ā jānvor hastāv ākūrparaṃ punaḥ. ācamya vāriṇā tena vahniṃ viprāṃś ca pūjayet. pañca saptātha vā kuryād bhāgān bhaikṣasya tasya vai. teṣām anyatamaṃ piṇḍam ādityāya nivedayet. brahmaṇe cāgnaye caiva somāya varuṇāya ca. viśvebhyaś caiva devebhyo dadyād annaṃ yathākramam. avaśiṣṭam athaikaṃ tu vaktramātraṃ prakalpayet. aṅgulyagre sthitaṃ piṇḍaṃ gāyatryā cābhimantrayet. aṅgulībhis tribhiḥ piṇḍaṃ prāśnīyāt prāṅmukhaḥ śuciḥ. yathā ca vardhate somo hrasate ca yathā punaḥ. tathā piṇḍāś ca vardhante hasante ca dine dine. trikālaṃ snānam asyoktaṃ dvikālam atha vā sakṛt. brahmacārī sadā vāpi na ca vastraṃ prapīḍayet. sthāne na divasaṃ tiṣṭhed rātrau vīrāsanaṃ vrajet. bhavet sthaṇḍilaśāyī vāpy atha vā vṛkṣamūlikaḥ. valkalaṃ yadi vā kṣaumaṃ śāṇaṃ kārpāsakaṃ tu vā. ācchādanaṃ bhavet tasya vastrārthaṃ pāṇḍunandana. evaṃ cāndrāyaṇe pūrṇe māsasyānte prayatnavān. brāhmaṇān bhojayed bhaktyā dadyāc caiva ca dakṣiṇām. cāndrāyaṇena cīrṇena yat kṛtaṃ tena duṣkṛtam. tat sarvaṃ tatkṣaṇād eva bhasmībhavati kāṣṭhavat. brahmahatyātha gohatyā suvarṇastainyam eva ca. bhrūṇahatyā surāpānaṃ guror dāravyatikramaḥ. evam anyāni pāpāni pātakīyāni yāni ca. cāndrāyaṇena naśyanti vāyunā pāṃsavo yathā. anirdaśāyā goḥ kṣīram auṣṭram āvikam eva ca. mṛtasūtakayoś cānnaṃ bhuktvā cāndrāyaṇaṃ caret. upapātakinaś cānnaṃ patitānnaṃ tathaiva ca. śūdrasyoccheṣaṇaṃ caiva bhuktvā cāndrāyaṇaṃ caret. ākāśasthaṃ tu hastastham āsanasthaṃ tathaiva ca. parahastasthitaṃ caiva bhuktvā cāndrāyaṇaṃ caret. athāgredidhiṣor annaṃ didhiṣūpapates tathā. parivettus tathā cānnaṃ parivittānnam eva ca. kuṇḍānnaṃ golakānnaṃ ca devalānnaṃ tathaiva ca. tathā purohitasyānnaṃ bhuktvā cāndrāyaṇaṃ caret. surāsavaṃ viṣaṃ sarpir lākṣā lavaṇam eva ca. tailaṃ cāpi ca vikrīṇan dvijaś cāndrāyaṇaṃ caret. ekoddiṣṭaṃ tu yo bhuṅkte dinamadhyagato 'pi yaḥ. bhinnabhāṇḍe tu yo bhuṅkte dvijaś cāndrāyaṇaṃ caret. yo bhuṅkte 'nupanītena yo bhuṅkte ca striyā saha. yo bhuṅkte kanyayā sārdhaṃ dvijaś cāndrāyaṇaṃ caret. ucchiṣṭaṃ sthāpayed vipro yo mohād bhojanāntare. dadyād vā yadi saṃmohād dvijaś cāndrāyaṇaṃ caret. tumbakośātakaṃ caiva palaṇḍuṃ gṛñjanaṃ tathā. chattrākaṃ laghunaṃ caiva bhuktvā cāndrāyaṇaṃ caret. tathā paryuṣitaṃ cānnaṃ pakvaṃ paragṛhāgatam. vipakvaṃ ca tathā māṃsaṃ bhuktvā cāndrāyaṇaṃ caret. udakyayā śunā vāpi caṇḍālair vā dvijottamaḥ. dṛṣṭam annaṃ tu bhuñjāno dvijaś cāndrāyaṇaṃ caret. etat purā viśuddhyartham ṛṣibhiś caritaṃ vratam. pāvanaṃ sarvapāpānāṃ puṇyaṃ pāṇḍava coditam. etena vasavo rudrāś cādityāś ca divaṃ gatāḥ. etad ādyaṃ paraṃ guhyaṃ pavitraṃ pāvanaṃ smṛtam. yathoktam etad yaḥ kuryād dvijaḥ pāpapraṇāśanam. vaiśaṃpāyana uvāca. sa divaṃ yāti pūtātmā nirmalādityasaṃnibhaḥ. keśavenaivam ukte tu cāndrāyaṇavidhikrame. yudhiṣṭhira uvāca. apṛcchat punar anyāṃś ca dharmān dharmātmajo nṛpa. sarvabhūtapate śrīman sarvabhūtanamaskṛta. sarvabhūtahitaṃ dharmaṃ sarvajña kathayasva me. bhagavān uvāca. yad daridrajanasyāpi svargyaṃ sukhakaraṃ bhavet. sarvapāpapraśamanaṃ tac chṛṇuṣva yudhiṣṭhira. kārttikādyās tu ye māsā dvādaśaiva prakīrtitāḥ. teṣv ekabhuktaniyamaḥ sarveṣām ucyate mayā. kārttike yas tu vai māse nandāyāṃ saṃyatendriyaḥ. ekabhuktena madbhakto māsam ekaṃ tu vartate. jalaṃ vā na piben māse nāntaraṃ bhojanāt param. ādityarūpaṃ māṃ nityam arcayan susamāhitaḥ. vratānte bhojayed viprān dakṣiṇāṃ saṃpradāya ca. krodhalobhavinirmuktas tasya puṇyaphalaṃ śṛṇu. vidhivat kapilādāne yat puṇyaṃ samudāhṛtam. tat puṇyaṃ samanuprāpya sūryaloke mahīyate. tataś cāpi cyutaḥ kālāt puruṣeṣūpajāyate. mārgaśīrṣaṃ tu yo māsam ekabhuktena vartate. kāmaṃ krodhaṃ ca lobhaṃ ca parityajya yathāvidhi. snātvā cādityarūpaṃ mām arcayen niyatendriyaḥ. japann eva tu gāyatrīṃ māmikāṃ vāg yataḥ śuciḥ. māse parisamāpte tu bhojayitvā dvijāñ śucīn. tān arcayati madbhaktyā tasya puṇyaphalaṃ śṛṇu. agnihotre kṛte puṇyam āhitāgnes tu yad bhavet. tat puṇyaphalam āsādya yānenāmbaraśobhinā. saptarṣiloke carati yathākāmaṃ yathāsukham. tataś cāpi cyutaḥ kālād dharivarṣeṣu jāyate. tatra prakāmaṃ krīḍitvā rājā paścād bhaviṣyati. pauṣamāsaṃ kṣaped evam ekabhuktena yo naraḥ. arcayann eva māṃ nityaṃ madgatenāntarātmanā. ahiṃsāsatyasahitaḥ krodhaharṣavivarjitaḥ. evaṃ yuktasya rājendra śṛṇu yat phalam uttamam. viprātithyasahasreṣu yat puṇyaṃ samudāhṛtam. tat puṇyaṃ samanuprāpya śakraloke mahīyate. avakīrṇas tataḥ kālād ilāvarṣeṣu jāyate. tatra sthitvā ciraṃ kālam asmin vipro bhaviṣyati. māghamāsaṃ tathā yas tu vartate caikabhuktataḥ. madarcanaparo bhūtvā ḍambhakrodhavivarjitaḥ. māmikām api gāyitrīṃ saṃdhyāyāṃ tu japed budhaḥ. dattvā tu dakṣiṇām ante bhojayitvā dvijān api. namaskaroti tān bhaktyā madgatenāntarātmanā. trikālaṃ snānayuktasya tasya puṇyaphalaṃ śṛṇu. nīlakaṇṭhaprayuktena yānenāmbaraśobhinā. pitṛlokaṃ vrajec chrīmān sevyamāno 'psarogaṇaiḥ. tatra prakāmaṃ krīḍitvā bhadrāśveṣūpajāyate. tataś cyutaś caturvedī vipro bhavati bhūtale. yaḥ kṣapet phālgunaṃ māsam ekabhukto jitendriyaḥ. namo brahmaṇyadevāyety etan mantraṃ japet sadā. pāyasaṃ bhojayed viprān vratānte saṃyatendriyaḥ. madarcanaparo 'krodhas tasya puṇyaphalaṃ śṛṇu. vimānaṃ sārasair yuktam ārūḍhaḥ kāmagāmi ca. nakṣatraloke ramate nakṣatrasadṛśākṛtiḥ. tataś cāpi cyutaḥ kālāt ketumāleṣu jāyate. tatra prakāmaṃ krīḍitvā mānuṣeṣu munir bhavet. caitramāsaṃ tu yo rājann ekabhuktena vartate. brahmacārī tu madbhaktyā tasya puṇyaphalaṃ śṛṇu. yad agnihotriṇaḥ puṇyaṃ yathoktaṃ vratacāriṇaḥ. tat puṇyaphalam āsādya candraloke mahīyate. tato 'vatīrṇo jāyeta varṣe ramaṇake punaḥ. bhuktvā kāmāṃs tatas tasminn iha rājā bhaviṣyati. vaiśākhaṃ yas tu vai māsam ekabhuktena vartate. dvijam agrāsane kṛtvā bhuñjan bhūmau ca vāgyataḥ. namo brahmaṇyadevāyety arcayitvā divākaram. vratānte bhojayed viprāṃs tasya puṇyaphalaṃ śṛṇu. phalaṃ yad vidhivat proktam agniṣṭomātirātrayoḥ. tat puṇyaṃ phalam āsādya devaloke mahīyate. tato haimavate varṣe jāyate kālaparyayāt. tatra prakāmaṃ krīḍitvā vipraḥ paścād bhaviṣyati. jyeṣṭhamāsaṃ tu yo rājann ekabhuktena vartate. vipram agrāsane kṛtvā bhūmau bhuñjan yathāvidhi. namo brahmaṇyadevāyety arcayan māṃ samāhitaḥ. ḍambhānṛtavinirmuktas tasya puṇyaphalaṃ śṛṇu. cīrṇe cāndrāyaṇe samyag yat puṇyaṃ samudāhṛtam. tat puṇyaphalam āsādya devaloke mahīyate. athottarakuruṣv eva jāyate nirgatas tataḥ. tataś cāpi cyutaḥ kālād iha loke dvijo bhavet. āṣāḍhamāsaṃ yo rājann ekabhuktena vartate. brahmacārī jitakrodho madarcanaparāyaṇaḥ. vipram agrāsane kṛtvā bhūmau bhuñjan jitendriyaḥ. kṛtvā triṣavaṇaṃ snānam aṣṭākṣaravidhānataḥ. vratānte bhojayed viprān pāyasena yudhiṣṭhira. guḍodanena vā rājaṃs tasya puṇyaphalaṃ śṛṇu. kapilāśatadānasya yat puṇyaṃ pāṇḍunandana. tat puṇyaphalam āsādya devaloke mahīyate. tato 'vatīrṇaḥ kāle tu śākadvīpe prajāyate. tataś cāpi cyutaḥ kālād iha vipro bhaviṣyati. śrāvaṇaṃ yaḥ kṣapen māsam ekabhuktena vartate. namo brahmaṇyadevāyety uktvā mām arcayet sadā. vipram agrāsane kṛtvā bhūmau bhuñjan yathāvidhi. pāyasenārcayed viprāñ jitakrodho jitendriyaḥ. lobhamohavinirmuktas tasya puṇyaphalaṃ śṛṇu. kapilādānasya yat puṇyaṃ vidhidattasya pāṇḍava. tat puṇyaṃ samanuprāpya śakraloke mahīyate. tataś cāpi cyutaḥ kālāt kuśadvīpe prajāyate. tatra prakāmaṃ krīḍitvā vipro bhavati mānuṣe. yas tu bhādrapadaṃ māsam ekabhuktena vartate. brahmacārī jitakrodhaḥ satyasaṃdho jitendriyaḥ. vipram agrāsane kṛtvā pākabhedavivarjitaḥ. namo brahmaṇyadevāyety uktvāsya caraṇau spṛśet. tilān vāpi ghṛtaṃ vāpi vratānte dakṣiṇāṃ dadat. madbhaktasya naraśreṣṭha tasya puṇyaphalaṃ śṛṇu. yat phalaṃ vidhivat proktaṃ rājasūyāśvamedhayoḥ. tat puṇyaphalam āsādya śakraloke mahīyate. tataś cāpi cyutaḥ kālāj jāyate dhanadālaye. tatra prakāmaṃ krīḍitvā rājā bhavati mānuṣe. yaś cāpy āśvayujaṃ māsam ekabhuktena vartate. madgāyatrīṃ japed bhaktyā madgatenāntarātmanā. dvisaṃdhyaṃ vā trisaṃdhyaṃ vā śatam aṣṭottaraṃ tu vā. vipram agrāsane kṛtvā saṃyatendriyamānasaḥ. vratānte bhojayed viprāṃs tasya puṇyaphalaṃ śṛṇu. aśvamedhasya yat puṇyaṃ vidhivat pāṇḍunandana. tat puṇyaphalam āsādya mama loke mahīyate. tataś cāpi cyutaḥ kālāc chvetadvīpe prajāyate. yudhiṣṭhira uvāca. tatra bhuktvā mahābhogān atra vipraparo bhavet. evaṃ saṃvatsaraṃ pūrṇam ekabhuktena yaḥ kṣipet. bhagavān uvāca. tasya puṇyaphalaṃ yad vai tan mamācakṣva keśava. śṛṇu pāṇḍava satyaṃ me vacanaṃ puṇyam uttamam. yad akṛtvātha vā kṛtvā naraḥ pāpaiḥ pramucyate. ekabhuktena varteta naraḥ saṃvatsaraṃ tu yaḥ. brahmacārī hy adhaḥśāyī jitakrodho jitendriyaḥ. śuciḥ snānarato vyagraḥ satyavāg anasūyakaḥ. arcayann eva māṃ nityaṃ madgatenāntarātmanā. saṃdhyayos tu japen nityaṃ madgāyatrīṃ samāhitaḥ. namo brahmaṇyadevāyety asakṛn māṃ praṇamya ca. vipram agrāsane kṛtvā yāvakaṃ bhaikṣam eva ca. bhuktvā tu vāgyato bhūmāv ācāntasya dvijanmanaḥ. namo 'stu vāsudevāyety uktvā tu caraṇau spṛśet. māse māse samāpte tu bhojayitvā dvijāñ śucīn. saṃvatsare tataḥ pūrṇe dadyāt tu vratadakṣiṇām. navanītamayīṃ gāṃ vā tiladhenum athāpi vā. viprahastacyutais toyaiḥ sahiraṇyaiḥ samukṣitaḥ. tasya puṇyaphalaṃ rājan kathyamānaṃ mayā śṛṇu. daśajanmakṛtaṃ pāpaṃ jñānato 'jñānato 'pi vā. yudhiṣṭhira uvāca. tad vinaśyati tasyāśu nātra kāryā vicāraṇā. sarveṣām upavāsānāṃ yac chreyaḥ sumahat phalam. bhagavān uvāca. yac ca niḥśreyasaṃ loke tad bhavān vaktum arhati. śṛṇu rājan yathāpūrvaṃ yathā gītaṃ tu nārade. tathā te kathayiṣyāmi madbhaktāya yudhiṣṭhira. yas tu bhaktyā śucir bhūtvā pañcamyāṃ me narādhipa. upavāsavrataṃ kuryāt trikālaṃ cārcayaṃs tu mām. yudhiṣṭhira uvāca. sarvakratuphalaṃ labdhvā mama loke mahīyate. bhagavan devadeveśa pañcamī nāma kā tava. bhagavān uvāca. tām ahaṃ śrotum icchāmi kathayasva mamācyuta. parvadvayaṃ ca dvādaśyāṃ śravaṇaṃ ca narādhipa. tat pañcamīti vikhyātā matpriyā ca viśeṣataḥ. tasmāt tu brāhmaṇaśreṣṭhair manniveśitabuddhibhiḥ. upavāsas tu kartavyo matpriyārthaṃ yudhiṣṭhira. dvādaśyām eva vā kuryād upavāsam aśaknuvan. tenāhaṃ paramāṃ prītiṃ yāsyāmi narapuṃgava. ahorātreṇa dvādaśyāṃ mārgaśīrṣe tu keśavam. upoṣya pūjayed yo māṃ so 'śvamedhaphalaṃ labhet. dvādaśyāṃ puṣyamāse tu nāmnā nārāyaṇaṃ tu mām. upoṣya pūjayed yo māṃ vājapeyaphalaṃ labhet. dvādaśyāṃ māghamāse tu mām upoṣya tu mādhavam. pūjayed yaḥ samāpnoti rājasūyaphalaṃ labhet. dvādaśyāṃ phālgune māsi govindākhyam upoṣya mām. arcayed yaḥ samāpnoti hy atirātraphalaṃ nṛpa. dvādaśyāṃ māsi caitre tu māṃ viṣṇuṃ samupoṣya yaḥ. pūjayaṃs tad avāpnoti pauṇḍarīkasya yat phalam. dvādaśyāṃ māsi vaiśākhe madhusūdanasaṃjñitam. upoṣya pūjayed yo māṃ so 'gniṣṭomasya pāṇḍava. dvādaśyāṃ jyeṣṭhamāse tu mām upoṣya trivikramam. arcayed yaḥ samāpnoti gavāṃ medhaphalaṃ nṛpa. āṣāḍhe vāmanākhyaṃ māṃ dvādaśyāṃ samupoṣya ca. naramedhasya sa phalaṃ prāpnoti bharatarṣabha. dvādaśyāṃ śrāvaṇe māsi śrīdharākhyam upoṣya mām. pūjayed yaḥ samāpnoti pañcayajñaphalaṃ nṛpa. māse bhādrapade yo māṃ hṛṣīkeśākhyam arcayet. upoṣya sa samāpnoti sautrāmaṇiphalaṃ nṛpa. dvādaśyām āśvayuṅmāse padmanābham upoṣya mām. arcayed yaḥ samāpnoti gosahasraphalaṃ nṛpa. dvādaśyāṃ kārttike māsi māṃ dāmodarasaṃjñitam. upoṣya pūjayed yas tu sarvakratuphalaṃ labhet. kevalenopavāsena dvādaśyāṃ pāṇḍunandana. yat phalaṃ pūrvam uddiṣṭaṃ tasyārdhaṃ labhate phalam. śravaṇe 'py evam evaṃ māṃ yo 'rcayed bhaktimān naraḥ. mama sālokyam āpnoti nātra kāryā vicāraṇā. māse māse samabhyarcya kramaśo mām atandritaḥ. pūrṇe saṃvatsare kuryāt punaḥ saṃvatsarārcanam. evaṃ dvādaśavarṣaṃ yo madbhakto matparāyaṇaḥ. avighnam arcayānas tu mama sālokyam āpnuyāt. arcayet prītimān yo māṃ dvādaśyāṃ vedasaṃhitām. sa pūrvoktaphalaṃ rājaṃl labhate nātra saṃśayaḥ. gandhaṃ puṣpaṃ phalaṃ toyaṃ patraṃ vā phalam eva vā. dvādaśyāṃ mama yo dadyāt tato nānyo 'sti matpriyaḥ. etena vidhinā sarve devāḥ śakrapurogamāḥ. vaiśaṃpāyana uvāca. madbhaktā naraśārdūla svargabhogāṃs tu bhuñjate. evaṃ vadati deveśe keśave pāṇḍunandanaḥ. yudhiṣṭhira uvāca. kṛtāñjaliḥ stotram idaṃ bhaktyā dharmātmajo 'bravīt. sarvalokeśa deveśa hṛṣīkeśa namo 'stu te. sahasraśirase tubhyaṃ sahasrākṣa namo namaḥ. trayīmaya trayīnātha trayīstuta namo namaḥ. yajñātman yajñasaṃbhūta yajñanātha namo namaḥ. caturmūrte caturbāho caturvyūha namo namaḥ. lokātmaṃl lokakṛn nātha lokāvāsa namo namaḥ. sṛṣṭisaṃhārakartre te narasiṃha namo namaḥ. bhaktapriya namas te 'stu bhaktavatsala te namaḥ. brahmāvāsa namas te 'stu brahmanātha namo namaḥ. rudrarūpa namas te 'stu rudrakarmaratāya te. pañcayajña namas te 'stu sarvayajña namo namaḥ. kṛṣṇapriya namas te 'stu kṛṣṇa nātha namo namaḥ. yogāvāsa namas te 'stu yoganātha namo namaḥ. hayavaktra namas te 'stu cakrapāṇe namo namaḥ. pañcabhūta namas te 'stu pañcāyudha namo namaḥ. vaiśaṃpāyana uvāca. bhaktigadgadayā vācā stuvaty evaṃ yudhiṣṭhire. gṛhītvā keśavo haste prītātmā taṃ nyavārayat. nivārya ca punar vācā bhaktinamraṃ yudhiṣṭhiram. vaktum evaṃ naraśreṣṭhaṃ dharmaputraṃ pracakrame. bhagavān uvāca. anyavat kim idaṃ rājan māṃ stauṣi narapuṃgava. yudhiṣṭhira uvāca. tiṣṭha pṛccha yathāpūrvaṃ dharmān eva yudhiṣṭhira. bhagavaṃs tvatprasādāt tu smṛtvā smṛtvā punaḥ punaḥ. na śāntir asti deveśa nṛtyatīva ca me manaḥ. idaṃ ca mama saṃpraśnaṃ vaktum arhasi mādhava. bhagavān uvāca. kṛṣṇapakṣeṣu dvādaśyāṃ pūjanīyaḥ kathaṃ bhavān. śṛṇu rājan yathātattvaṃ tat sarvaṃ kathayāmi te. phalaṃ tu kṛṣṇadvādaśyām arcanāyāṃ phalaṃ mama. ekādaśyām upoṣyātha dvādaśyām arcayet tu mām. viprān api yathālābhaṃ bhojayed bhaktimān naraḥ. sa gacched dakṣiṇāmūrtiṃ māṃ vā nātra vicāraṇā. vaiśaṃpāyana uvāca. candrasālokyam atha vā grahanakṣatrapūjitaḥ. keśavenaivam ākhyāte dharmaputraḥ punaḥ prabhum. papraccha dānakālasya viśeṣaṃ ca vidhiṃ nṛpa. yudhiṣṭhira uvāca. deva kiṃ phalam ākhyātaṃ dānasya viṣuveṣu ca. bhagavān uvāca. sūryendūpaplave caiva datte dāne ca yat phalam. śṛṇuṣva rājan viṣuve somārkagrahaṇeṣu ca. vyatīpāte 'yane caiva dānaṃ syād akṣayaṃ nṛpa. rājan nayanayor madhye viṣuvaṃ saṃpracakṣate. samarātraṃ dine tatra saṃdhyāyāṃ viṣuve nṛpa. brahmāhaṃ śaṃkaraś cāpi tiṣṭhāmaḥ sahitāḥ sakṛt. kriyākaraṇakāryāṇām ekībhāvatvakāraṇāt. asmākam ekībhūtānāṃ niṣphalaṃ tat paraṃ padam. tan muhūrtaṃ paraṃ puṇyaṃ rājan viṣuvasaṃjñitam. tad evādyākṣaraṃ brahma paraṃ brahmeti kīrtitam. tasmin muhūrte sarve 'pi cintayantaḥ paraṃ padam. devāś ca pitaro rudrā vasavaś cāśvinau tathā. sādhyā viśve ca gandharvāḥ siddhā brahmarṣayas tathā. sūryādayo grahāś caiva sāgarāḥ saritas tathā. maruto 'psaraso nāgā yakṣarākṣasaguhyakāḥ. ete cānye ca rājendra viṣuve saṃyatendriyāḥ. sopavāsāḥ prayatnena bhavanti dhyānatatparāḥ. annaṃ gāvas tilān bhūmiṃ kanyādānaṃ tathaiva ca. gṛham ācchādanaṃ dhānyaṃ vāhanaṃ śayanaṃ tathā. yac cānyac ca mayā proktaṃ tat prayaccha yudhiṣṭhira. dīyate viṣuveṣv evaṃ śrotriyebhyo viśeṣataḥ. tasya dānasya kaunteya kṣayo naivopapadyate. vardhate 'har ahaḥ puṇyaṃ tad dānaṃ koṭisaṃmitam. viṣuve snapanaṃ yas tu mama kuryād dharasya vā. arcanaṃ ca yathānyāyaṃ tasya puṇyaphalaṃ śṛṇu. daśajanmakṛtaṃ pāpaṃ tasya sadyo vinaśyati. daśānām aśvamedhānām iṣṭānāṃ labhate phalam. vimānaṃ divyam ārūḍhaḥ kāmarūpī yathāsukham. sa yāti māmakaṃ lokaṃ rudralokam athāpi vā. tatrasthair devagandharvair gīyamāno yathāsukham. divyavarṣasahasrāṇi koṭim ekaṃ tu modate. tataś cāpi cyutaḥ kālād iha loke dvijottamaḥ. caturṇām api vedānāṃ pārago brahmavid bhavet. candrasūryagrahe vāpi mama vā śaṃkarasya vā. gāyatrīṃ māmikāṃ vāpi japed yaḥ śaṃkarasya vā. śaṅkhatūryaninādaiś ca kāṃsyaghaṇṭāsvanair api. kārayet tu dhvaniṃ bhaktyā tasya puṇyaphalaṃ śṛṇu. gāndharvair homajapyaiś ca śabdair utkṛṣṭanādibhiḥ. durbalo 'pi bhaved rāhuḥ somaś ca balavān bhavet. sūryendūpaplave caiva śrotriyebhyaḥ pradīyate. tat sahasrasamaṃ bhūtvā dātāram upatiṣṭhati. mahāpātakayukto 'pi yady api syān naro nṛpa. nirlepas tatkṣaṇād eva tena dānena jāyate. candrasūryaprakāśena vimānena virājatā. yāti somapuraṃ ramyaṃ sevyamāno 'psarogaṇaiḥ. yāvad ṛkṣāṇi tiṣṭhanti gagane śaśinā saha. tāvat kālaṃ sa rājendra somaloke mahīyate. tataś cāpi cyutaḥ kālād iha loke yudhiṣṭhira. yudhiṣṭhira uvāca. vedavedāṅgavid vipraḥ koṭīdhanapatir bhavet. bhagavaṃs tava gāyatrī budhyate tu kathaṃ nṛbhiḥ. kiṃ vā tasyāḥ phalaṃ deva mamācakṣva sureśvara. bhagavān uvāca. dvādaśyāṃ viṣuve caiva candrasūryagrahe tathā. ayane śravaṇe caiva vyatīpāte tathaiva ca. aśvatthadarśane caiva tathā maddarśane 'pi ca. japtvā tu mama gāyatrīm atha vāṣṭākṣaraṃ nṛpa. yudhiṣṭhira uvāca. ārjitaṃ duṣkṛtaṃ tasya nāśayen nātra saṃśayaḥ. aśvatthadarśanaṃ caiva kiṃ tvaddarśanasaṃmitam. etat kathaya deveśa paraṃ kautūhalaṃ hi me. bhagavān uvāca. aham aśvattharūpeṇa pālayāmi jagattrayam. aśvattho na sthito yatra nāhaṃ tatra pratiṣṭhitaḥ. yatrāhaṃ saṃsthito rājann aśvatthaś cāpi tatra vai. yas tv enam arcayed bhaktyā sa māṃ sākṣāt samarcati. yas tv enaṃ praharet kopān mām eva praharet tu saḥ. tasmāt pradakṣiṇaṃ kuryān na chindyād enam anvaham. vratasya pāraṇaṃ tīrtham ārjavaṃ tīrtham ucyate. devaśuśrūṣaṇaṃ tīrthaṃ guruśuśrūṣaṇaṃ tathā. guruśuśrūṣaṇaṃ tīrthaṃ tīrthajñānasya dhāraṇam. narāṇāṃ poṣaṇaṃ tīrthaṃ gārhasthyaṃ tīrtham ucyate. ātitheyaṃ paraṃ tīrtham atithis tīrtham ucyate. brahmacaryaṃ paraṃ tīrthaṃ tretāgnis tīrtham ucyate. mūlaṃ dharmaṃ tu vijñāya manas tatrāvadhāryatām. gaccha tīrthāni kaunteya dharmo dharmeṇa vardhate. dvividhaṃ tīrtham ity āhuḥ sthāvaraṃ jaṅgamaṃ tathā. sthāvarāj jaṅgamaṃ śreṣṭhaṃ tato jñānaparigrahaḥ. karmaṇāpi viśuddhasya puruṣasyeha bhārata. hṛdaye sarvatīrthāni tīrthabhūtaḥ sa ucyate. gurutīrthaṃ paraṃ jñānam atas tīrthaṃ na vidyate. jñānatīrthaṃ paraṃ tīrthaṃ brahmatīrthaṃ sanātanam. kṣamā tu paramaṃ tīrthaṃ sarvatīrtheṣu pāṇḍava. kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām. mānito 'mānito vāpi pūjito 'pūjito 'pi vā. ākṛṣṭas tarjito vāpi kṣamāvāṃs tīrtham ucyate. kṣamā damaḥ kṣamā dānaṃ kṣamā yajñaḥ kṣamā tapaḥ. kṣamāhiṃsā kṣamā dharmaḥ kṣamā cendriyanigrahaḥ. kṣamā dayā kṣamā yajñaḥ kṣamayaitad dhṛtaṃ jagat. kṣamāvān prāpnuyāt svargaṃ kṣamāvān prāpnuyād yaśaḥ. kṣamāvān prāpnuyān mokṣaṃ tasmāt sā tīrtham ucyate. ātmā nadī bhāratapuṇyatīrtham. ātmā tīrthaṃ sarvatīrthapradhānam. ātmā tu yajñaḥ satataṃ manyate vai. svargo mokṣaḥ sarvam ātmany adhīnam. ācāranairmalyam upāgatena. satyaprasannakṣamaśītalena. jñānāmbunā snāti ca yo hi nityaṃ. yudhiṣṭhira uvāca. kiṃ tasya bhūyaḥ salilena kṛtyam. bhagavan sarvapāpaghnaṃ prāyaścittam aduṣkaram. bhagavān uvāca. tvadbhaktasya suraśreṣṭha mama tvaṃ vaktum arhasi. rahasyam idam atyartham aśrāvyaṃ pāpakarmaṇām. adhārmikāṇām aśrāvyaṃ prāyaścittaṃ bravīmi te. pāvanaṃ brāhmaṇaṃ dṛṣṭvā madgatenāntarātmanā. namo brahmaṇyadevāyety abhivādanam ācaret. pradakṣiṇaṃ ca triḥ kuryāt punar aṣṭākṣareṇa tu. tena tuṣṭo naraśreṣṭha tat pāpaṃ kṣapayāmy aham. yatra kṛṣṭāṃ varāhasya mṛttikāṃ śirasā vahan. prāṇāyāmaśataṃ kṛtvā naraḥ pāpaiḥ pramucyate. dakṣiṇāvartaśaṅkhād vā kapilāśṛṅgato 'pi vā. prāksrotasaṃ nadīṃ gatvā mamāyatanasaṃnidhau. salilena tu yaḥ snāyāt sakṛd eva ravigrahe. tasya yat saṃcitaṃ pāpaṃ tatkṣaṇād eva naśyati. mastakān niḥsṛtais toyaiḥ kapilāyā yudhiṣṭhira. gomūtreṇāpi yaḥ snāyād rohiṇyā mama vā dine. viprapādacyutair vāpi toyaiḥ pāpaṃ praṇaśyati. namasyed yas tu madbhaktyā śiṃśumāraṃ prajāpatim. caturdaśāṅgasaṃyuktaṃ tasya pāpaṃ praṇaśyati. tataś caturdaśāṅgāni śṛṇu tasya narādhipa. śiro dharmo hanur brahmā pucchāv uttaradakṣiṇau. hṛdayaṃ tu bhaved viṣṇur hastau syātāṃ tathāśvinau. agnir madhyaṃ bhaved rājaṃl liṅgaṃ saṃvatsaraṃ bhavet. mitrāvaruṇakau pādau pucchamūlaṃ hutāśanaḥ. tataḥ paścād bhaved indras tataḥ paścāt prajāpatiḥ. abhayaṃ ca tataḥ paścāt sa eva dhruvasaṃjñitaḥ. etāny aṅgāni sarvāṇi śiṃśumāraprajāpateḥ. pibet tu pañcagavyaṃ yaḥ paurṇamāsyām upoṣya tu. tasya naśyati tat sarvaṃ yat pāpaṃ pūrvasaṃcitam. tathaiva brahmakūrcaṃ tu samantraṃ tu pṛthak pṛthak. māsi māsi pibed yas tu tasya pāpaṃ praṇaśyati. pāpaṃ ca brahmakūrcaṃ ca śṛṇu mantraṃ ca bhārata. pālāśaṃ padmapatraṃ vā tāmraṃ vātha hiraṇmayam. sādayitvā tu gṛhṇīyāt tat tu pātram udāhṛtam. gāyatryā gṛhya gomūtraṃ gandhadvāreti gomayam. āpyāyasveti ca kṣīraṃ dadhikrāvṇeti vai dadhi. tejo 'si śukram ity ājyaṃ devasyeti kuśodakam. āpo hi ṣṭheti saṃgṛhya yavacūrṇaṃ yathāvidhi. brahmaṇe ca yathā hutvā samiddhe ca hutāśane. āloḍya praṇavenaiva nirmathya praṇavena tu. uddhṛtya praṇavenaiva pibet tu praṇavena tu. mahatāpi sa pāpena tvacevāhir vimucyate. bhadraṃ na iti yaḥ pādaṃ paṭhed ṛksaṃhitāṃ yathā. antarjale vāthāditye tasya pāpaṃ praṇaśyati. mama sūktaṃ japed yas tu nityaṃ madgatamānasaḥ. yudhiṣṭhira uvāca. na pāpena tu lipyeta padmapatram ivāmbhasā. kīdṛśā brāhmaṇāḥ puṇyā bhāvaśuddhāḥ sureśvara. bhagavān uvāca. yat karma saphalaṃ neti kathayasva mamācyuta. śṛṇu pāṇḍava tat sarvaṃ brāhmaṇānāṃ yathākramam. saphalaṃ niṣphalaṃ caiva teṣāṃ karma bravīmi te. tridaṇḍadhāraṇaṃ maunaṃ jaṭādhāraṇamuṇḍanam. valkalājinasaṃvāso vratacaryābhiṣecanam. agnihotraṃ vane vāsaḥ svādhyāyaṃ dānasatkriyā. sarvāṇy etāni vai mithyā yadi bhāvo na nirmalaḥ. agnihotraṃ vṛthā rājan vṛthā vedās tathaiva ca. śīlena devās tuṣyanti śrutayas tatra kāraṇam. kṣāntaṃ dāntaṃ jitakrodhaṃ jitātmānaṃ jitendriyam. tam agryaṃ brāhmaṇaṃ manye śeṣāḥ śūdrā iti smṛtāḥ. agnihotravrataparān svādhyāyaniratāñ śucīn. upavāsaratān dāntāṃs tān devā brāhmaṇān viduḥ. na jātiḥ pūjyate rājan guṇāḥ kalyāṇakāraṇāḥ. caṇḍālam api vṛttasthaṃ taṃ devā brāhmaṇaṃ viduḥ. manaḥśaucaṃ karmaśaucaṃ kulaśaucaṃ ca bhārata. śarīraśaucaṃ vākśaucaṃ śaucaṃ pañcavidhaṃ smṛtam. pañcasv eteṣu śauceṣu hṛdi śaucaṃ viśiṣyate. hṛdayasya tu śaucena svargaṃ gacchanti mānavāḥ. agnihotraparibhraṣṭaḥ prasaktaḥ krayavikraye. varṇasaṃkarakartā ca brāhmaṇo vṛṣalaiḥ samaḥ. yasya vedaśrutir naṣṭā karṣakaś cāpi yo dvijaḥ. vikarmasevī kaunteya sa vai vṛṣala ucyate. vṛṣo hi dharmo vijñeyas tasya yaḥ kurute layam. vṛṣalaṃ taṃ vidur devā nikṛṣṭaṃ śvapacād api. stutibhir brahmapūtābhir yaḥ śūdraṃ stauti mānavaḥ. na ca māṃ stauti pāpātmā sa mām ākrośayed bhṛśam. śvadṛtau tu yathā kṣīraṃ brahma vai vṛṣale tathā. duṣṭatām eti tat sarvaṃ śunā līḍhaṃ havir yathā. aṅgāni vedāś catvāro mīmāṃsā nyāyavistaraḥ. dharmaśāstraṃ purāṇaṃ ca vidyā hy etāś caturdaśa. yāny uktāni mayā samyag vidyāsthānāni bhārata. utpannāni pavitrāṇi pāvanārthaṃ tathaiva ca. tasmāt tāni na śūdrasya spraṣṭavyāni yudhiṣṭhira. sarvaṃ tac chūdrasaṃspṛṣṭam apavitraṃ na saṃśayaḥ. loke trīṇy apavitrāṇi pañcāmedhyāni bhārata. śvā ca śūdraḥ śvapākaś cety apavitrāṇi pāṇḍava. devalaḥ kukkuṭo yūpa udakyā vṛṣalīpatiḥ. pañcaite syur amedhyāś ca spraṣṭavyā na kathaṃ cana. spṛṣṭvaitān aṣṭa vai vipraḥ sacelo jalam āviśet. madbhaktāñ śūdrasāmānyān avamanyanti ye narāḥ. narakeṣv eva tiṣṭhanti varṣakoṭiṃ narādhamāḥ. caṇḍālam api madbhaktaṃ nāvamanyeta buddhimān. avamatya patanty eva raurave narake narāḥ. mama bhaktasya bhakteṣu prītir abhyadhikā nṛpa. tasmān madbhaktabhaktāś ca pūjanīyā viśeṣataḥ. kīṭapakṣimṛgāṇāṃ ca mayi saṃnyastacetasām. urdhvām eva gatiṃ viddhi kiṃ punar jñānināṃ nṛṇām. patraṃ vāpy atha vā puṣpaṃ phalaṃ vā jalam eva vā. dadāti mama śūdro 'pi śirasā dhārayāmi tat. viprān evārcayed bhaktyā śūdraḥ prāyeṇa matpriyaḥ. teṣāṃ tenaiva rūpeṇa pūjāṃ gṛhṇāmi bhārata. vedoktenaiva mārgeṇa sarvabhūtahṛdi sthitam. mām arcayanti te viprā matsāyujyaṃ vrajanti te. madbhaktānāṃ hitāyaiva prādurbhāvaḥ kṛto mayā. prādurbhāvākṛtiḥ kā cid arcanīyā yudhiṣṭhira. āsām anyatamāṃ mūrtiṃ yo madbhaktyā samarcati. tenaiva parituṣṭo 'haṃ bhaviṣyāmi na saṃśayaḥ. mṛdā ca maṇiratnaiś ca tāmreṇa rajatena vā. kṛtvā pratikṛtiṃ kuryād arcanāṃ kāñcanena vā. puṇyaṃ daśaguṇaṃ vidyād eteṣām uttarottaram. jayakāmo 'rcayed rājā vidyākāmo dvijottamaḥ. vaiśyo vā dhanakāmas tu śūdraḥ puṇyaphalapriyaḥ. sarvakāmāḥ striyo vāpi sarvān kāmān avāpnuyuḥ. yudhiṣṭhira uvāca. kīdṛśānāṃ tu śūdrāṇāṃ nānugṛhṇāsi cārcanam. bhagavān uvāca. udvegas tava kasmāt tu tan me brūhi sureśvara. avratenāpy abhaktena spṛṣṭāṃ śūdreṇa cārcanām. tāṃ varjayāmi yatnena śvapākavihitām iva. nanv ahaṃ śaṃkaraś cāpi gāvo viprās tathaiva ca. aśvattho mama rūpāṇi satyam etad yudhiṣṭhira. etat trayaṃ hi madbhakto nāvamanyeta karhi cit. avamānitam etat tu dahaty āsaptamaṃ kulam. aśvattho brāhmaṇā gāvo manmayās tārayanti ha. yudhiṣṭhira uvāca. tasmād etat prayatnena trayaṃ pūjaya pāṇḍava. brāhmaṇenaiva dehena śūdratvaṃ katham āpnuyāt. bhagavān uvāca. brahma vā naśyati kathaṃ vaktuṃ deva tvam arhasi. kūpasnānaṃ tu yo vipraḥ kuryād dvādaśavārṣikam. sa tenaiva śarīreṇa śūdratvaṃ yāty asaṃśayam. yas tu rājāśrayeṇaiva jīved dvīdaśavārṣikam. sa śūdratvaṃ vrajed vipro vedānāṃ pārago 'pi san. pattane nagare vāpi yo dvādaśasamā vaset. sa śūdratvaṃ vased vipro nātra kāryā vicāraṇā. utpādayati yaḥ putraṃ śūdrāyāṃ kāmato dvijaḥ. tasya kāyagataṃ brahma sadya eva vinaśyati. madyapī strīmukhaṃ mohād āsvādayati yo naraḥ. tasya kāyagataṃ brahma sadya eva vinaśyati. yaḥ somalatikāṃ vipraḥ kevalaṃ bhakṣayed vṛthā. tasya kāyagataṃ brahma sadya eva vinaśyati. maithunaṃ kurute yas tu jihvāyāṃ brāhmaṇo nṛpa. tasya kāyagataṃ brahma sadya eva vinaśyati. vipratvaṃ durlabhaṃ prāpya durmārgair evamādibhiḥ. vināśayanti ye tat tu tāñ śocāmi yudhiṣṭhira. tasmāt sarvaprayatnena matpriyo yo yudhiṣṭhira. jātibhraṃśakaraṃ karma na kuryād īdṛśaṃ dvijaḥ. yudhiṣṭhira uvāca. deśāntaragate vipre saṃyukte kāladharmaṇā. bhagavān uvāca. śarīranāśe saṃprāpte kathaṃ pretavikalpanā. śrūyatām āhitāgnes tu tathā bhūtasya saṃskriyā. pālāśavṛntaiḥ pratimā kartavyā kalpacoditā. trīṇi ṣaṣṭiśatāny āhur asthīny asya narādhipa. teṣāṃ vikalpanā kāryā yathāśāstraviniścayam. aśītyardhaṃ śirasi ca grīvāyāṃ daśa eva ca. bāhvoś cāpi śataṃ dadyād aṅgulīṣu punar daśa. urasi triṃśataṃ dadyāj jaṭhare cāpi viṃśatim. vṛṣaṇe dvādaśārdhaṃ tu śiśne cāṣṭārdham eva ca. dadyāt tu śatam ūrvos tu ṣaṣṭhyardhaṃ jānujaṅghayoḥ. daśa dadyāc caraṇayor eṣā pretasya niṣkṛtiḥ. yudhiṣṭhira uvāca. viśeṣatīrthaṃ sarveṣām aśaktānām anugrahāt. bhagavān uvāca. bhaktānāṃ tāraṇārthaṃ vai vaktum arhasi dharmataḥ. pravaraṃ sarvatīrthānāṃ satyaṃ gāyanti sāmagāḥ. satyasya vacanaṃ tīrtham ahiṃsā tīrtham ucyate. tapas tīrthaṃ dayā tīrthaṃ śīlaṃ tīrthaṃ yudhiṣṭhira. alpasaṃtoṣaṇaṃ tīrthaṃ nārī tīrthaṃ pativratā. saṃtuṣṭo brāhmaṇas tīrthaṃ jñānaṃ vā tīrtham ucyate. madbhaktaḥ satataṃ tīrthaṃ śaṃkarasya viśeṣataḥ. yatayas tīrtham ity eva vidvāṃsas tīrtham ucyate. śaraṇyaḥ puruṣas tīrtham annadas tīrtham ucyate. trailokye 'smin nirudvigno na bibhemi kutaś cana. na divā yadi vā rātrāv udvegaḥ śūdralaṅghanāt. na bhayaṃ devadaityebhyo rakṣobhyaś caiva me nṛpa. śūdravaktrāc cyutaṃ brahma bhayaṃ tu mama suvrata. tasmāt sapraṇavaṃ śūdro mannāmāpi na kīrtayet. praṇavaṃ hi paraṃ brahma nityaṃ brahmavido viduḥ. dvijaśuśrūṣaṇaṃ dharmaṃ śūdrāṇāṃ bhaktito mayi. tena gacchanti te svargaṃ cintayanto hi māṃ sadā. dvijaśuśrūṣayā śūdraḥ paraṃ śreyo 'dhigacchati. dvijaśuśrūṣaṇād anyan nāsti śūdrasya niṣkṛtiḥ. rāgo dveṣaś ca mohaś ca pāruṣyaṃ ca nṛśaṃsatā. śāṭhyaṃ ca dīrghavairitvam atimānam anārjavam. anṛtaṃ cāpavādaś ca paiśunyam atilobhatā. hiṃsā steyaṃ mṛṣāvādo vañcanā roṣalobhatā. abuddhitā ca nāstikyaṃ bhayam ālasyam eva ca. aśaucaṃ cākṛtajñatvaṃ ḍambhatā stambha eva ca. nikṛtiś cāpy avijñānaṃ jātake śūdram āviśet. dṛṣṭvā pitāmahaḥ śūdram abhibhūtaṃ tu tāmasaiḥ. dvijaśuśrūṣaṇaṃ dharmaṃ śūdrāṇāṃ tu prayuktavān. naśyanti tāmasā bhāvāḥ śūdrasya dvijabhaktitaḥ. patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati. tad ahaṃ bhaktyupahṛtaṃ mūrdhnā gṛhṇāmi śūdrataḥ. antyajo vāpi yaḥ kaś cit sarvapāpasamanvitaḥ. yadi māṃ satataṃ dhyāyet sarvapāpaiḥ pramucyate. vidyāvinayasaṃpannā brāhmaṇā vedapāragāḥ. mayi bhaktiṃ na kurvanti caṇḍālasadṛśā hi te. vṛthā dattaṃ vṛthā japtaṃ vṛthā ceṣṭaṃ vṛthā hutam. vṛthātithyaṃ ca tat tasya yo na bhakto mama dvijaḥ. yat kṛtaṃ ca hutaṃ cāpi yad iṣṭaṃ dattam eva ca. abhaktimat kṛtaṃ sarvaṃ rākṣasā eva bhuñjate. sthāvare jaṅgame vāpi sarvabhūteṣu pāṇḍava. samatvena yadā kuryān madbhakto mitraśatruṣu. ānṛśaṃsyam ahiṃsā ca dayā satyam athārjavam. adrohaś caiva bhūtānāṃ madbhaktānāṃ vrataṃ nṛpa. nama ity eva yo brūyān madbhaktaḥ śraddhayānvitaḥ. tasyākṣayo bhavel lokaḥ śvapākasyāpi pāṇḍava. kiṃ punar ye yajante māṃ yājakā vidhipūrvakam. madbhaktā madgataprāṇāḥ kathayantaś ca māṃ sadā. bahuvarṣasahasrāṇi tapas tapyati yo naraḥ. nāsau padam avāpnoti madbhaktair yad avāpyate. mām eva tasmād rājendra dhyāhi nityam atandritaḥ. avāpsyasi tataḥ siddhiṃ drakṣyase paramaṃ padam. apārthakaṃ prabhāṣante śūdrā bhāgavatā iti. na śūdrā bhagavadbhaktā viprā bhāgavatāḥ smṛtāḥ. dvādaśākṣaratattvajñaś caturvyūhavibhāgavit. acchidraḥ pañcakālajñaḥ sa vai bhāgavataḥ smṛtaḥ. ṛgvedenaiva māṃ hotā yajuṣādhvaryur eva ca. sāmavedena codgātā puṇyenābhiṣṭuvanti mām. atharvaśirasā caiva nityam ātharvaṇā dvijāḥ. stuvanti satataṃ ye māṃ te 'pi bhāgavatāḥ smṛtāḥ. vedādhīnāḥ sadā yajñā yajñādhīnās tu devatāḥ. devatā brāhmaṇādhīnās tasmād viprās tu devatāḥ. anāśrityocchrayaṃ nāsti mukhyam āśrayam āśrayet. rudraṃ samāśritā devā rudro brāhmaṇam āśritaḥ. brahmā mām āśrito rājan nāhaṃ kaṃ cid upāśritaḥ. mamāśrayo na kaś cit tu sarveṣām āśrayo hy aham. evam etan mayā proktaṃ rahasyam idam uttamam. dharmapriyasya te rājan nityam evaṃ samācara. idaṃ pavitram ākhyānaṃ puṇyaṃ vedena saṃmitam. yaḥ paṭhen māmakaṃ dharmam ahany ahani pāṇḍava. dharmo vivardhate tasya buddhiś cāpi prasīdati. pāpakṣayam upaity eva kalyāṇaṃ ca vivardhate. etat puṇyaṃ pavitraṃ ca pāpanāśanam uttamam. śrotavyaṃ śraddhayā yuktaiḥ śrotriyaiś ca viśeṣataḥ. śrāvayed yas tv idaṃ bhaktyā prayato 'tha śṛṇoti vā. sa gacchen mama sāyujyaṃ nātra kāryā vicāraṇā. yaś cedaṃ śrāvayec chrāddhe madbhakto matparāyaṇaḥ. vaiśaṃpāyana uvāca. pitaras tasya tṛpyanti yāvadābhūtasaṃplavam. śrutvā bhāgavatān dharmān sākṣād viṣṇor jagadguroḥ. prahṛṣṭamanaso bhūtvā cintayanto 'dbhutāḥ kathāḥ. ṛṣayaḥ pāṇḍavāś caiva praṇemus taṃ janārdanam. pūjayām āsa govindaṃ dharmaputraḥ punaḥ punaḥ. devā brahmarṣayaḥ siddhā gandharvāpsarasas tathā. bhūtā yakṣā grahāś caiva guhyakā bhujagās tathā. vālakhilyā mahātmāno yoginas tattvadarśinaḥ. tathā bhāgavatāś cāpi pañcakālam upāsakāḥ. kautūhalasamāyuktā bhagavan bhaktim āgatāḥ. śrutvā tu paramaṃ puṇyaṃ vaiṣṇavaṃ dharmaśāsanam. vimuktapāpāḥ pūtās te saṃvṛttās tatkṣaṇena tu. praṇamya śirasā viṣṇuṃ pratinandya ca tāṃ kathām. draṣṭāro dvārakāyāṃ vai vayaṃ sarve jagadgurum. iti prahṛṣṭamanaso yayur devagaṇaiḥ saha. sarve ṛṣigaṇā rājan yayuḥ svaṃ svaṃ niveśanam. gateṣu teṣu sarveṣu keśavaḥ keśihā tadā. sasmāra dārukaṃ rājan sa ca sātyakinā saha. samīpastho 'bhavat sūto yāhi deveti cābravīt. tato viṣaṇṇavadanāḥ pāṇḍavāḥ puruṣottamam. añjaliṃ mūrdhni saṃdhāya netrair aśrupariplutaiḥ. pibantaḥ satataṃ kṛṣṇaṃ nocur ārtatarās tadā. kṛṣṇo 'pi bhagavān devaḥ pṛthām āmantrya cārtavat. dhṛtarāṣṭraṃ ca gāndhārīṃ viduraṃ draupadīṃ tathā. kṛṣṇadvaipāyanaṃ vyāsam ṛṣīn anyāṃś ca mantriṇaḥ. subhadrām ātmajayutām uttarāṃ spṛśya pāṇinā. nirgatya veśmanas tasmād āruroha mahāratham. vājibhiḥ sainyasugrīvameghapuṣpabalāhakaiḥ. yuktaṃ ca dhvajabhūtena patagendreṇa dhīmatā. anvāruroha cāpy enaṃ premṇā rājā yudhiṣṭhiraḥ. apāsya cāśu yantāraṃ dārukaṃ sūtasattamam. abhīśūn pratijagrāha svayaṃ kurupatis tadā. upāruhyārjunaś cāpi cāmaravyajanaṃ śubham. rukmadaṇḍaṃ bṛhan mūrdhni dudhāvābhipradakṣiṇam. chattraṃ śataśalākaṃ ca divyamālyopaśobhitam. vaiḍūryamaṇidaṇḍaṃ ca cāmīkaravibhūṣitam. dadhāra tarasā bhīmaḥ chattraṃ tac chārṅgadhanvinaḥ. bhīmasenārjunau cāpi yamau cāpy arisūdanau. pṛṣṭhato 'nuyayuḥ kṛṣṇaṃ mā śabda iti harṣitāḥ. triyojane vyatīte tu pariṣvajya ca pāṇḍavān. visṛjya kṛṣṇas tān sarvān praṇatān dvārakāṃ yayau. tathā praṇamya govindaṃ tadā prabhṛti pāṇḍavāḥ. kapilādyāni dānāni dadur dharmaparāyaṇāḥ. madhusūdanavākyāni smṛtvā smṛtvā punaḥ punaḥ. manasā pūjayām āsur hṛdayasthāni pāṇḍavāḥ. yudhiṣṭhiras tu dharmātmā hṛdi kṛtvā janārdanam. tadbhaktas tanmanā yuktas tadyājī tatparo 'bhavat. evam etat purāvṛttaṃ vaiṣṇavaṃ dharmaśāsanam. mayā te kathitaṃ rājan pavitraṃ pāpanāśanam. tac chṛṇuṣva mahārāja viṣṇuproktaṃ kurūdvaha. tena gacchasi nānyena tad viṣṇoḥ paramaṃ padam.