श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा। सोमक्षयश् च मांसं च यद् आरण्यं युधिष्ठिर। मुहूर्तानां त्रयं पूर्वम् अह्नः प्रातर् इति स्मृतम्। जपध्यानादिभिस् तस्मिन् विप्रैः कार्यं शुभव्रतम्। संगवाख्यं त्रिभागं तु मध्याह्नस् त्रिमुहूर्तकः। लौकिकं संगवे ऽर्धं च स्नानादि ह्य् अथ मध्यमे। चतुर्थम् अपराह्णं तु त्रिमुहूर्तं तु पित्र्यकम्। सायाह्नस् त्रिमुहूर्तं च मध्यमं कविभिः स्मृतम्। चतुर्थे त्व् अपराह्णाख्ये श्राद्धं कुर्यात् सदा नृप। प्रागुदीचीमुखा विप्रा विश्वेदेवाश् च दक्षिणाः। श्रावितेषु सुतृप्तेषु पिण्डं दद्यात् सदक्षिणम्।
śrāddhasya brāhmaṇaḥ kālaḥ prāptaṃ dadhi ghṛtaṃ tathā. somakṣayaś ca māṃsaṃ ca yad āraṇyaṃ yudhiṣṭhira. muhūrtānāṃ trayaṃ pūrvam ahnaḥ prātar iti smṛtam. japadhyānādibhis tasmin vipraiḥ kāryaṃ śubhavratam. saṃgavākhyaṃ tribhāgaṃ tu madhyāhnas trimuhūrtakaḥ. laukikaṃ saṃgave 'rdhaṃ ca snānādi hy atha madhyame. caturtham aparāhṇaṃ tu trimuhūrtaṃ tu pitryakam. sāyāhnas trimuhūrtaṃ ca madhyamaṃ kavibhiḥ smṛtam. caturthe tv aparāhṇākhye śrāddhaṃ kuryāt sadā nṛpa. prāgudīcīmukhā viprā viśvedevāś ca dakṣiṇāḥ. śrāviteṣu sutṛpteṣu piṇḍaṃ dadyāt sadakṣiṇam.