प्रीणितश् चापि भवति महतो ऽर्थान् अवाप्य च। करोति पुण्यं तत्रापि जाग्रन्न् इव च पश्यति। महोष्मान्तर्गतश् चापि गर्भत्वं समुपेयिवान्। दश मासान् वसन् कुक्षौ नैषो ऽन्नम् इव जीर्यते।
prīṇitaś cāpi bhavati mahato 'rthān avāpya ca. karoti puṇyaṃ tatrāpi jāgrann iva ca paśyati. mahoṣmāntargataś cāpi garbhatvaṃ samupeyivān. daśa māsān vasan kukṣau naiṣo 'nnam iva jīryate.