गन्धर्वश् चित्रसेनश् च परिवारगणैर् युतः। नागाः सिद्धाश् च मुनयो देवदेवः प्रजापतिः। आजगाम च देवेशो ब्रह्मा वेदमयो ऽव्ययः। विष्णुः सहस्रशीर्षश् च देवो ऽचिन्त्यः समागमत्।
gandharvaś citrasenaś ca parivāragaṇair yutaḥ. nāgāḥ siddhāś ca munayo devadevaḥ prajāpatiḥ. ājagāma ca deveśo brahmā vedamayo 'vyayaḥ. viṣṇuḥ sahasraśīrṣaś ca devo 'cintyaḥ samāgamat.