तस्य पक्षाग्रविक्षेपैः क्लमं व्यपनयत् खगः। पूजां चाप्य् अकरोद् धीमान् भोजनं चाप्य् अकल्पयत्। निष्पत्रः शयने तस्मिन् पर्यतप्यत दुष्टधीः। ततस् तौ संविदं कृत्वा खगेन्द्रद्विजसत्तमौ। न्यषीदतां महाराज न्यग्रोधे विपुले तथा। गौतमश् चिन्तयाम् आस रात्रौ तस्य समीपतः।
tasya pakṣāgravikṣepaiḥ klamaṃ vyapanayat khagaḥ. pūjāṃ cāpy akarod dhīmān bhojanaṃ cāpy akalpayat. niṣpatraḥ śayane tasmin paryatapyata duṣṭadhīḥ. tatas tau saṃvidaṃ kṛtvā khagendradvijasattamau. nyaṣīdatāṃ mahārāja nyagrodhe vipule tathā. gautamaś cintayām āsa rātrau tasya samīpataḥ.