स प्रजाभिः परित्यक्तश् चकार कुशलं महत्। अतिवेलं तपस् तेपे दह्यमानः स मन्युना। ब्रह्महत्यापनोदार्थम् अपृच्छद् ब्राह्मणान् बहून्। पर्यटन् पृथिवीं कृत्स्नां देशे देशे नराधिपः।
sa prajābhiḥ parityaktaś cakāra kuśalaṃ mahat. ativelaṃ tapas tepe dahyamānaḥ sa manyunā. brahmahatyāpanodārtham apṛcchad brāhmaṇān bahūn. paryaṭan pṛthivīṃ kṛtsnāṃ deśe deśe narādhipaḥ.