वैशंपायन उवाच। ततः संजीवनीं विद्यां प्रयुज्य कचम् आह्वयत्। आहूतः प्रादुरभवत् कचो ऽरिष्टो ऽथ विद्यया। कस्माच् चिरायितो ऽसीति पृष्टस् ताम् आह भार्गवीम्। कचः। समिधश् च कुशादीनि काष्ठभारं च भामिनि। गृहीत्वा श्रमभारार्तो वटवृक्षं समाश्रितः। गावश् च सहिताः सर्वा वृक्षच्छायाम् उपाश्रिताः। असुरास् तत्र मां दृष्ट्वा कस् त्वम् इत्य् अभ्यचोदयन्। बृहस्पतिसुतश् चाहं कच इत्य् अभिविश्रुतः। इत्य् उक्तमात्रे मां हत्वा पेशीकृत्वा तु दानवाः। दत्त्वा शालावृकेभ्यस् तु सुखं जग्मुः स्वम् आलयम्। आहूतो विद्यया भद्रे भार्गवेण महात्मना। त्वत्समीपम् इहायातः कथं चित् समजीवितः। हतो ऽहम् इति चाचख्यौ पृष्टो ब्राह्मणकन्यया। भित्त्वा भित्त्वा शरीराणि वृकाणां स विनिष्पतत्।
vaiśaṃpāyana uvāca. tataḥ saṃjīvanīṃ vidyāṃ prayujya kacam āhvayat. āhūtaḥ prādurabhavat kaco 'riṣṭo 'tha vidyayā. kasmāc cirāyito 'sīti pṛṣṭas tām āha bhārgavīm. kacaḥ. samidhaś ca kuśādīni kāṣṭhabhāraṃ ca bhāmini. gṛhītvā śramabhārārto vaṭavṛkṣaṃ samāśritaḥ. gāvaś ca sahitāḥ sarvā vṛkṣacchāyām upāśritāḥ. asurās tatra māṃ dṛṣṭvā kas tvam ity abhyacodayan. bṛhaspatisutaś cāhaṃ kaca ity abhiviśrutaḥ. ity uktamātre māṃ hatvā peśīkṛtvā tu dānavāḥ. dattvā śālāvṛkebhyas tu sukhaṃ jagmuḥ svam ālayam. āhūto vidyayā bhadre bhārgaveṇa mahātmanā. tvatsamīpam ihāyātaḥ kathaṃ cit samajīvitaḥ. hato 'ham iti cācakhyau pṛṣṭo brāhmaṇakanyayā. bhittvā bhittvā śarīrāṇi vṛkāṇāṃ sa viniṣpatat.