तत्र भैक्षं समाजह्रुर् ब्राह्मीं वृत्तिं समाश्रिताः। तांश् च प्राप्तांस् तदा वीराञ् जज्ञिरे न नराः क्व चित्। यज्ञसेनस् तु पाञ्चालो भीष्मद्रोणकृतागसम्। ज्ञात्वात्मानं तदारेभे त्राणायात्मक्रियां क्षमाम्। अवाप्य धृष्टद्युम्नं हि न स द्रोणम् अचिन्तयत्। सुतवैरप्रसङ्गाच् च भीष्माद् भयम् अचिन्तयत्। कन्यादानात् तु शरणं सो ऽमन्यत महीपतिः। जामातुर् बलसंयोगान् मेने ह बलवत्तरम्।
tatra bhaikṣaṃ samājahrur brāhmīṃ vṛttiṃ samāśritāḥ. tāṃś ca prāptāṃs tadā vīrāñ jajñire na narāḥ kva cit. yajñasenas tu pāñcālo bhīṣmadroṇakṛtāgasam. jñātvātmānaṃ tadārebhe trāṇāyātmakriyāṃ kṣamām. avāpya dhṛṣṭadyumnaṃ hi na sa droṇam acintayat. sutavairaprasaṅgāc ca bhīṣmād bhayam acintayat. kanyādānāt tu śaraṇaṃ so 'manyata mahīpatiḥ. jāmātur balasaṃyogān mene ha balavattaram.