वेदविच् चैव वाग्मी च धौम्यः श्रीमान् द्विजोत्तमः। तेजसा चैव बुद्ध्या च रूपेण यशसा श्रिया। मन्त्रैश् च विविधैर् धौम्यस् तुल्य आसीद् बृहस्पतेः। स चापि विप्रस् तान् मेने स्वभावाभ्यधिकान् भुवि।
vedavic caiva vāgmī ca dhaumyaḥ śrīmān dvijottamaḥ. tejasā caiva buddhyā ca rūpeṇa yaśasā śriyā. mantraiś ca vividhair dhaumyas tulya āsīd bṛhaspateḥ. sa cāpi vipras tān mene svabhāvābhyadhikān bhuvi.