यदा त्व् अमन्यत नृपो जातकौतूहला इति। उवाचैनान् अथ तदा पाण्डवान् अम्बिकासुतः। अधीतानि च शास्त्राणि युष्माभिर् इह कृत्स्नशः। अस्त्राणि च तथा द्रोणाद् गौतमाच् च शरद्वतः। सो ऽहम् एवंगते तात चिन्तयामि समन्ततः। रक्षणे व्यवहारे च राज्यस्य सततं हिताः।
yadā tv amanyata nṛpo jātakautūhalā iti. uvācainān atha tadā pāṇḍavān ambikāsutaḥ. adhītāni ca śāstrāṇi yuṣmābhir iha kṛtsnaśaḥ. astrāṇi ca tathā droṇād gautamāc ca śaradvataḥ. so 'ham evaṃgate tāta cintayāmi samantataḥ. rakṣaṇe vyavahāre ca rājyasya satataṃ hitāḥ.